१३ शरणस्य-चतुःस्थल-प्रसङ्गः

त्रयोदशः परिच्छेदः

शरणस्थलम्

अथ शरणस्थलम्

अथागस्त्यप्रश्नः । अगस्त्य उवाचेति-

माहेश्वरः प्रसादीति प्राणलिङ्गीति बोधितः ।
कथमेष समादिष्टः पुनः शरणसञ्ज्ञकः ॥ १ ॥

मरितोण्डदार्यः

माहेश्वरः प्रसादीति बोधितः । प्राणलिङ्ग्येव पुनः कथं केन
प्रकारेण शरणाभिधानवानित्यर्थः ॥ १ ॥

अस्य प्रश्नस्योत्तरं निरूपयति रेणुक उवाचेति-

अङ्गलिङ्गी ज्ञानरूपः सती ज्ञेयः शिवः पतिः ।
यत्सौख्यं तत्समावेशे तद्वान् शरणनामवान् ॥ २ ॥

मरितोण्डदार्यः

ज्ञानरूपः शिवज्ञानमेव स्वरूपं यस्य स तादृशः
शिवज्ञानवानित्यर्थः । अङ्गलिङ्गी अङ्गलिङ्गसामरस्यवान् प्राणलिङ्गी सतीति
ज्ञेयः । शिवः शिवलिङ्गमेव पतिः पतिरिति ज्ञेयः । तत्समावेशे
तयोरङ्गलिङ्गरूपयोः स्त्रीपुरुषयोः समानसमरसरूपयोगे यत्सौख्यं
यथा स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् [वृ० उ० ४।३।२१] इति
बृहदारण्यकश्रुतिप्रसिद्धं यत्सौख्यमस्ति तद्वान् तादृशसौख्यवान्
शरणनामवानित्यर्थः ॥ २ ॥

[[२४७]]

मरितोण्डदार्यः

अथ अस्यापि स्थलभेदोऽस्ति किमित्यत्राह-

स्थलमेतत्समाख्यातं चतुर्धा धर्मभेदतः ।
आदौ शरणमाख्यातं ततस्तामसवर्जनम् ॥ ३ ॥

ततो निर्देशमुद्दिष्टं शीलसम्पादनं ततः ।
क्रमाल्लक्षणमेतेषां कथयामि निशाम्यताम् ॥ ४ ॥

मरितोण्डदार्यः

एतत्स्थलं शरणस्थलं धर्मभेदत आचारभेदात् चतुर्धा
चतुर्विधमिति समाख्यातम् । आदौ शरणस्थलम् तदनन्तरं
तामसनिरसनस्थलम् ततो निर्देशस्थलम् अथ शीलसम्पादनस्थलम्
उद्दिष्टमुपदिष्टम् । एषां चतुर्णां लक्षणं क्रमाद् वदिष्यामि
श्रूयतामित्यर्थः ॥ ३-४ ॥

सती चाहं पतिर्लिङ्गं हृदियुक्तः स्वयं प्रभुः ।
प्रापञ्चिकसुखं नास्ति शरणस्थलमुत्तमम् ॥

इति शङ्करसंहितावचनानुसारेण शरणस्थलं निरूपयति-

सतीव रमणे यस्तु शिवे शक्तिं विभावयन् ।
तदन्यविमुखः सोऽयं ज्ञातः शरणनामवान् ॥ ५ ॥

मरितोण्डदार्यः

रमणे प्राणकान्तविषये सतीव पतिव्रता स्त्रीव यस्तु शिवे
शिवलिङ्गविषये स्वात्मानं शक्तिं स्त्रियं भावयन् तदन्यविमुखः
शिवलिङ्गादन्यत्र देवतान्तरे तिर्यङ्मुखः सन् अस्ति सोऽयं शरणवान्
शरणस्थलवानिति ज्ञातो ज्ञातुं योग्य इत्यर्थः ॥ ५ ॥

अथ बहुदृष्टान्तपूर्वकं शिवलिङ्गासक्त एव शरण इत्युपपादयति-

परिज्ञाते शिवे साक्षात् को वान्यमभिकाङ्क्षति ।
निधाने महति प्राप्ते कः काचं याचतेऽन्यतः ॥ ६ ॥

[[२४८]]

मरितोण्डदार्यः

शिवे परमशिवे साक्षात् प्रसिद्धश्रुत्यादिप्रमाणैः परिज्ञाते
ब्रह्मादिभ्यो महानिति ज्ञाते सति को वान्यं काङ्क्षति न काङ्क्षतीत्यर्थः ।
यथा महति निधाने प्राप्ते सति अन्यतः अन्यस्मात् काचं काचमणिं को
याचते? न कोऽपि इत्यर्थः तथा शिवादन्यत्र देवतान्तरे विमुखः शरण
इत्यर्थः ॥ ६ ॥

शिवानन्दं समासाद्य को वान्यमुपतिष्ठते ।
गङ्गामृतं परित्यज्य कः काङ्क्षेन्मृगतृष्णिकाम् ॥ ७ ॥

मरितोण्डदार्यः

शिवानन्दं शिवलिङ्गसुखं समासाद्य प्राप्य को देवतान्तरम्
उपतिष्ठते आश्रयति नाश्रयतीत्यर्थः । गङ्गोदकं परित्यज्य को
मृगतृष्णिकां मरीचिकाजलं काङ्क्षेद् इच्छेत् तथा शिवादन्यत्र विमुखः
शरण इत्यर्थः ॥ ७ ॥

संसारतिमिरच्छेदे विना शङ्करभास्करम् ।
प्रभवन्ति कथं देवाः खद्योता इव देहिनाम् ॥ ८ ॥

मरितोण्डदार्यः

खद्योता अल्पप्रकाशिनः प्राणिविशेषाः यथान्धकारनिवारणे
समर्था न भवन्ति भास्करः समर्थो भवति तथा संसारतिमिरच्छेदे
शङ्करभास्करं विना ब्रह्मादयो देवाः समर्था न भवन्तीति
शिवादन्यत्र विमुखः शरण इत्यर्थः ॥ ८ ॥

संसारार्तः शिवं यायाद् ब्रह्माद्यैः किं फलं सुरैः ।
चकोरस्तृषितः पश्येच्चन्द्रं किं तारका अपि ॥ ९ ॥

मरितोण्डदार्यः

तृषितः पिपासार्दितचकोरः चन्द्रं यथा पश्येत् तारका न पश्येत् तथा
संसारेण श्रमितो ब्रह्माद्यैः किं फलमिति शिवमेवाश्रयेत् ।
तादृशचकोरवदन्यत्र विमुखः शिवशरण इत्यर्थः ॥ ९ ॥

[[२४९]]

शिव एव समस्तानां शरण्यः शरणार्थिनाम् ।
संसारोरगदष्टानां सर्वज्ञः सर्वदोषहा ॥ १० ॥

शिवज्ञाने समुत्पन्ने परानन्दः प्रकाशते ।
तदासक्तमना योगी नान्यत्र रमते सुधीः ॥ ११ ॥

मरितोण्डदार्यः

संसारसर्पदष्टानां समस्तानां शरणार्थिनां सर्वज्ञः
सर्वदोषघ्नः शिव एव रक्षक इति शिवमाहात्म्यज्ञाने समुत्पन्ने सति
परमानन्दाविर्भावो जायते । तदासक्तचित्तः शिवयोगी अन्यत्र देवतान्तरे न
रमत इत्यर्थः ॥ १०-११ ॥

अथोक्तार्थमुपसंहरन् शरणस्थलं समापयति-

तस्मात् सर्वप्रयत्नेन शङ्करं शरणं गतः ।
तदनन्तसुखं प्राप्य मोदते नान्यचिन्तया ॥ १२ ॥

मरितोण्डदार्यः

तस्मात् कारणात् सर्वप्रयत्नेन मनोवाक्कायकर्मणा शिवं शरणं
गतो रक्षणविचक्षण इति ज्ञात्वा प्रपन्नः तदनन्तसुखं प्राप्य
तस्माच्छिवाद् अनन्तसुखं लब्ध्वा मोदते अन्यचिन्तया देवतान्तरचिन्तया न
मोदत इत्यर्थः ॥ १२ ॥

इति शरणस्थलम्

तामसनिरसनस्थलम्

अथ तामसनिरसनस्थलम्

अथ शरणेन विधीयमानतामसनिराकरणस्थलं निरूपयति-

शिवासक्तपरानन्दमोदिना गुरुणा यतः ।
निरस्यन्ते तमोभावाः स तामसनिरासकः ॥ १३ ॥

[[२५०]]

मरितोण्डदार्यः

शिवासक्तः सन् परानन्दानुमोदिना गुरुणा श्रेष्ठेन शरणेन
तमोभावास्तमोविकारा यतः कारणाद् निरस्यन्ते निवार्यन्ते ततः तस्मात् स
तामसनिरासको भवेदित्यर्थः ॥ १३ ॥

ननु तमोभावाः किमर्थं निराकरणीया इत्यत्राह-

यस्य ज्ञानं तमोमिश्रं न तस्य गतिरिष्यते ।
सत्त्वं हि ज्ञानयोगस्य नैर्मल्यं विदुरुत्तमाः ॥ १४ ॥

मरितोण्डदार्यः

नैर्मल्यं निर्मलसाधनं सदित्यर्थः । शिष्टं स्पष्टम् । तस्मात्
तमोविकारा निराकरणीया इति भावः ॥ १४ ॥

अथ-

सत्त्वात् सुखं च ज्ञानं च वैराग्यं सौख्यमेव च ।
दुःखप्रवृत्तिरागौ च लौहित्यं रजसो भवेत् ॥
मोहो भ्रान्तिस्तथालस्यं कार्ष्ण्यं च तमसो भवेत् ॥

इति सूतसंहितावचनानुसारेण गुणत्रययुक्तान् प्रकाशयति-

शमो दमो विवेकश्च वैराग्यं पूर्णभावना ।
क्षान्तिः कारुण्यसम्पत्तिः श्रद्धा सत्यसमुद्भवा ॥ १५ ॥

शिवभक्तिः परो धर्मः शिवज्ञानस्य बान्धवाः ।
एतैर्युक्तो महायोगी सात्त्विकः परिकीर्तितः ॥ १६ ॥

मरितोण्डदार्यः

शमः क्षान्तिः (मनसो निग्रहो वा) दमो बाह्येन्द्रियनिग्रहः विवेको
नित्यानित्यवस्तुविचारः वैराग्यं विषयविरक्तिः पूर्णभावना
अखण्डध्यानम् क्षान्तिः (= तितिक्षा) क्षमा कारुण्यसम्पत्तिः भूतदया
सत्यसमुद्भवा यथार्थवस्तुसम्भवा श्रद्धा विश्वासः शिवभक्तिः परो
धर्म उत्कृष्टशिवाचारः शिवज्ञानस्य बान्धवा एते शिवज्ञानस्य
सम्बन्धिनः । एतैर्दशगुणैर्युक्तो महायोगी सात्त्विक इति सत्त्वगुणयुक्त इति
प्रकीर्तितः ॥ १५-१६ ॥

[[२५१]]

मरितोण्डदार्यः

नन्वेतैर्गुणैर्युक्तस्य महायोगिनः कदाचिद् व कामक्रोधादयः
सम्भवन्ति किमित्यत्राह-

कामक्रोधमहामोहमदमात्सर्यवारणाः ।
शिवज्ञानमृगेन्द्रस्य कथं तिष्ठन्ति सन्निधौ ॥ १७ ॥

मरितोण्डदार्यः

शिवज्ञानस्य मत्तमनोगजनिग्रहकरत्वेन सिंहरूपत्वात् तस्य
सन्निधौ कामक्रोधादिगजस्थितेरवकाशो नास्तीत्यर्थः ॥ १७ ॥

अथ रजोगुणयुक्तं प्रदर्शयति-

यत्र कुत्रापि वा द्वेष्टि प्रपञ्चे शिवरूपिणि ।
शिवद्वेषी स विज्ञेयो रजसाविष्टमानसः ॥ १८ ॥

मरितोण्डदार्यः

यो रजसाविष्टमानसो रजोगुणकार्यभूतकामक्रोधाद्यावृतचित्तः सन्
शिवरूपिणि प्रपञ्चे यत्र क्वापि द्वेष्टि स शिवद्वेषी राजस इति शेषः विज्ञेयो
ज्ञातुं योग्य इत्यर्थः ॥ १८ ॥

अथ तमोगुणयुक्तं लक्षयति-

यो द्वेष्टि सकलान् लोकान् यो वाऽहङ्कुरुते सदा ।
योऽसत्यभावनायुक्तः स तामस इति स्मृतः ॥ १९ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ १९ ॥

अथायं तमोगुणः शिवशरणानां नास्तीति श्लोकद्वयेनोक्त्वा
तामसनिरसनस्थलं समापयति-

तमोमूला हि सञ्जाता रागद्वेषादिपादपाः ।

[[२५२]]

शिवज्ञानकुठारेण छेद्यन्ते हि निरन्तरम् ॥ २० ॥

मरितोण्डदार्यः

तमोगुणरूपमूलवन्तः सन्तः सञ्जाता रागद्वेषादिपादपाः
कामक्रोधादिराजसवृक्षाः शिवज्ञानकुठारेण
सात्त्विकशिवज्ञानरूपपरशुना सदा छेद्यन्ते हि प्रसिद्धम् ॥ २० ॥

ननु तमोमूलकत्वेन सञ्जातरागद्वेषादिपादपानां
शिवज्ञानकुठारेण छेदनमस्तु एतत्कारणीभूततमोगुणनिवृत्तिः केन
भवेत् तद्विना तदङ्कुरनिवृत्तिर्न सम्भवतीत्यत्राह-

शिवज्ञाने समुत्पन्ने सहस्रादित्यसन्निभे ।
कुतस्तमोविकाराः स्युर्महतां शिवयोगिनाम् ॥ २१ ॥

मरितोण्डदार्यः

सहस्रादित्यसङ्काशे शिवज्ञाने समुत्पन्ने सति महतां
महापुरुषाणां शिवयोगिनां शिवशरणानां तमोविकाराः तमोङ्कुराः
कुतः स्युः कस्मात् कारणाद् भवेयुः? कारणीभूतस्य तमसो मूलनाशादिति
भावः ॥ २१ ॥

इति तामसनिरसनस्थलम्

निर्देशस्थलम्

अथ निर्देशस्थलम्

अथ तामसनिराकरणेन भासमाननिर्देशस्थलं निरूपयति-

निराकृत्य तमोभागं संसारस्य प्रवर्तकम् ।
निर्दिश्यते तु यज्ज्ञानं स निर्देश इति स्मृतः ॥ २२ ॥

मरितोण्डदार्यः

संसारप्रवृत्तेर्मूलकारणं तमोभागं निराकृत्य यद् ज्ञानं
निर्दिश्यते उपदिश्यते स तद् ज्ञानं निर्देश इति निर्देशस्थलमिति स्मृतः
स्मृतमित्यर्थः ॥ २२ ॥

अथ तज्ज्ञानं केनोपदिश्यत इत्यत्र गुरुरेवेति तन्महत्त्वं बहुधा
प्रकाशयति-

गुरुरेव परं तत्त्वं प्रकाशयति देहिनाम् ।

[[२५३]]

को वा सूर्यं विना लोके तमसो विनिवर्तकः ॥ २३ ॥

मरितोण्डदार्यः

(यथा) लोके सूर्यं विना तमोनिराकरणद्वारा पदार्थप्रकाशको
(कोऽप्यन्यो) नास्ति तथा गुरुं विना तमोनिराकरणद्वारा परतत्त्वप्रकाशको
(कोऽपि) नास्तीत्यर्थः ॥ २३ ॥

पुनर्दृष्टान्तमाह-

अन्तरेण गुरुं सिद्धं कथं संसारनिष्कृतिः ।
निदानज्ञं विना वैद्यं किं वा रोगो निवर्तते ॥ २४ ॥

मरितोण्डदार्यः

सिद्धं गुरुमन्तरेण ज्ञानसिद्धगुरुं विनेत्यर्थः संसारनिष्कृतिः
भवरोगनिवृत्तिः कथं स्यात् कथं भवेत्? तत्र दृष्टान्तः-निदानम्
एतद्धेतुकस्यास्य रोगस्येदमौषधमिति रोगज्ञानपूर्वकचिकित्साभिज्ञं
वैद्यं विना रोगो निवर्तते किं वा? न निवर्तत इत्यर्थः । यथा
निदानज्ञानसहितेन वैद्येन विना रोगो न निवर्तते तथा
ज्ञानसिद्धगुरुव्यतिरेकेण संसारनिवृत्तिर्न सम्भवतीति तात्पर्यम् ॥ २४ ॥

नन्वयं गुरुः कथं ज्ञायत इत्यत्राह-

अज्ञानमलिनं चित्तदर्पणं यो विशोधयेत् ।
प्रज्ञाविभूतियोगेन तमाहुर्गुरुसत्तमम् ॥ २५ ॥

मरितोण्डदार्यः

अज्ञानमलिनं चित्तदर्पणं यः प्रज्ञाविभूतियोगेन प्रज्ञानं
ब्रह्मा [ऐ० उ० ३।५।३] इति श्रुतिप्रसिद्धशिवज्ञानविभूतिसम्बन्धेन शोधयेद्
निर्मलं कुर्यात् तं गुरुसत्तमं गुरुश्रेष्ठं सन्तम् आहुरित्यर्थः ॥ २५ ॥

अथ तादृशगुरुकटाक्षात् सकलसिद्धिर्भवतीत्याह-

अपरोक्षिततत्त्वस्य जीवन्मुक्तस्वभाविनः ।

[[२५४]]

गुरोः कटाक्षे संसिद्धे को वा लोकषु दुर्लभः ॥ २६ ॥

मरितोण्डदार्यः

अपरोक्षिततत्त्वस्य स्वस्वरूपेण साक्षात्कृतशिवतत्त्ववतो
जीवन्मुक्तस्वभाविनः-

विकल्परहितं ज्ञानं निषेधरहिता क्रिया ।
अलोकरञ्जकं रूपं जीवन्मुक्तस्य लक्षणम् ॥

मरितोण्डदार्यः

इति वासिष्ठवचनाद् जीवन्मुक्तस्वरूपवतो गुरोः सद्गुरोः कटाक्षे
कृपारसपूरितापाङ्गे संसिद्धे सति लोकेषु को वा दुर्लभः न कोऽप्यलभ्य
इत्यर्थः । भोगमोक्षलक्षणसकलसिद्धिर्भवतीति भावः ॥ २६ ॥

नन्वेतादृशगुरवः सन्ति किमित्यत्र-

गुरवो बहवः सन्ति शिष्यवित्तापहारकाः ।
शिष्यहृत्तापहारस्तु गुरुरेकोऽपि दुर्लभः ॥

मरितोण्डदार्यः

इति शिवरहस्यवचनानुसारेणाह-

कैवल्यकल्पतरवो गुरवः करुणालयाः ।
दुर्लभा हि जगत्यस्मिन् शिवाद्वैतपरायणाः ॥ २७ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ २७ ॥

तस्माच्छिवलिङ्गतत्परः श्रीगुरुः प्राकृतगुरुभ्यः श्रेष्ठ इति वदन्
निर्देशस्थलं समापयति-

क्षीराब्धिरिव सिन्धूनां सुमेरुरिव भूभृताम् ।
ग्रहाणामिव तिग्मांशुर्मणीनामिव कौस्तुभः ॥ २८ ॥

द्रुमाणामिव भद्रश्रीर्देवानामिव शङ्करः ।
गुरुः शिवः परः श्लाघ्यो गुरूणां प्राकृतात्मनाम् ॥ २९ ॥

भद्रश्रीर्मलयज इत्यर्थः । शिष्टं स्पष्टम् ॥ २८-२९ ॥

[[२५५]]

इति निर्देशस्थलम्

शीलसम्पादनस्थलम्

अथ शीलसम्पादनस्थलम्

मरितोण्डदार्यः

अथ श्रीगुरुनिर्देश्यज्ञानयोगात् शिवतत्त्वस्य जिज्ञासा शीलमित्युक्त्वा
शीलवतः स्वरूपं सप्तभिः सूत्रैः प्रतिपादयति-

जिज्ञासा शिवतत्त्वस्य शीलमित्युच्यते बुधैः ।
निर्देश्ययोगादार्याणां तद्वान् शीलीति कथ्यते ॥ ३० ॥

मरितोण्डदार्यः

आचार्याणां पूर्वोक्तलक्षणवदाचार्यैर्निर्देश्ययोगाद्
उपदेश्यज्ञानयोगात् शिवतत्त्वस्य जिज्ञासा ज्ञातुमिच्छा शीलमिति बुधैः
ज्ञानिभिरुच्यते तद्वान् तादृशजिज्ञासालक्षणशीलवान् शीलीति कथ्यत
इत्यर्थः ॥ ३० ॥

अथ निष्कर्षमाह-

प्रपन्नार्तिहरे देवे परमात्मनि शङ्करे ।
भावस्य स्थिरतायोगः शीलमित्युच्यते बुधैः ॥ ३१ ॥

मरितोण्डदार्यः

पालयस्वेति शरणागतानां क्लेशहरे परब्रह्मस्वरूपशिवे
चित्तस्थिरीकरणं शीलमिति बुधैः शिवशास्त्रज्ञैः कथ्यत इत्यर्थः ॥ ३१ ॥

अथ प्रकारान्तरेण तल्लक्षणमाह-

शीलं शिवैकविज्ञानं शिवध्यानैकतानता ।
शिवप्राप्तिसमुत्कण्ठा तद्योगी शीलवान् स्मृतः ॥ ३२ ॥

मरितोण्डदार्यः

शिवे विज्ञानं शिव एव विशेषज्ञानं शिवध्यानैकतानता
शिवध्यान एव अनन्यवृत्तित्वं शीलमित्युच्यते । तद्योगी शीलविशिष्टः
शिवज्ञानसमुत्कण्ठातः शिवाभिगमनलालस्यात् शीलवानिति स्मृत इत्यर्थः
॥ ३२ ॥

[[२५६]]

मरितोण्डदार्यः

इममर्थमेव स्फुटीकृत्याह-

शिवादन्यत्र विज्ञाने वैमुख्यं यस्य सुस्थिरम् ।
तदासक्तमनोवृत्तिस्तमाहुः शीलभाजनम् ॥ ३३ ॥

मरितोण्डदार्यः

शिवात् शिवलिङ्गाद् अन्यत्र विज्ञाने देवतान्तरविशेषज्ञाने
वैमुख्यं विमुखत्वं यस्य शरणस्य सुस्थिर दृढम् यस्य मनोवृत्तिः
मनोव्यापारः तदासक्ता शिवलिङ्ग एव लम्पटा तं शीलभाजनं
शीलभजकं सन्तम् आहुः ॥ ३३ ॥

अत्र दृष्टान्तमाह-

पतिव्रताया यच्छीलं पतिरागात् प्रशस्यते ।
तथा शिवानुरागेण सुशीलोऽभक्त उच्यते ॥ ३४ ॥

मरितोण्डदार्यः

पतिव्रताया यच्छीलं पातिव्रत्यं पतिरागात् पुरुषप्रीतिवशात्
प्रशस्यते तथा शिवानुरागेण शिवोपरि प्रीत्या अभक्तः अवियुक्तः शरणः
सुशीलः शोभनशीलवानित्यर्थः । शरणलिङ्गयोः सतीपतिभावस्योक्तत्वात्
पतिव्रतादृष्टान्त कथितः ॥ ३४ ॥

अथेममर्थमेव विशदयति-

पतिं विना यथा स्त्रीणां सेवाऽन्यस्य तु गर्हणा ।
शिवं विना तथान्येषां सेवा निन्द्या कृतात्मनाम् ॥ ३५ ॥

मरितोण्डदार्यः

स्त्रीणां पतिं विना प्राणकान्तं विना अन्यस्य परपुरुषस्य सेवा
यथा गर्हणा निन्दिता तथा कृतात्मनां कृतकृत्यानां शिवशरणानां
शिवं विना शिवलिङ्गं विना अन्येषा विष्ण्वादिदेवानां सेवा निन्द्या
भवतीत्यर्थः ॥ ३५ ॥

[[२५७]]

मरितोण्डदार्यः

अथोक्तार्थं सङ्गृह्याह-

बहुनात्र किमुक्तेन शिवज्ञानैकनिष्ठता ।
शीलमित्युच्यते सद्भिः शीलवांस्तत्परो मतः ॥ ३६ ॥

मरितोण्डदार्यः

अत्र शीलविषये बहुभाषणेन किम् शिवज्ञानैकनिष्ठता
श्रीगुरुनिर्दिष्टशिवज्ञान एकस्मिन्नेव निष्ठा शीलमिति सत्पुरुषैरुच्यते ।
तत्परस्तच्छीलासक्तः शीलवानिति मतः सम्मत इत्यर्थः ॥ ३६ ॥

अथैवंविधशीलवान् शरण एव शिवलिङ्गैक्य इति शरणस्थलं
समापयति-

शिवात्मबोधैकरतः स्थिराशयः
शिवं प्रपन्नो जगतामधीशम् ।
शिवैकनिष्ठाहितशीलभूषणः
शिवैक्यवानेष हि कथ्यते बुधैः ॥ ३७ ॥

इति श्रीमत्षट्स्थलब्रह्मिण शिवयोगिनाम्ना रेणुकाचार्येण विरचिते
सिद्धान्तशिखामणौ शरणस्य चतुःस्थलप्रसङ्गो नाम त्रयोदशः
परिच्छेदः ॥ १३ ॥

मरितोण्डदार्यः

शिवात्मबोधैकरतो लिङ्गाङ्गज्ञानैकनिष्ठः सन् जगतामधीशं
शिवं प्रपन्नो रक्षेति शरणं गतः स्थिराशयः
शिवशरणयोर्दृढीभूतसतीपतिभावयुक्तचित्तः
शिवैकनिष्ठाहितशीलभूषणः शिवलिङ्गैकनिष्ठाकृतिशीलालङ्कारवानेष
शरणः शिवैक्यवानिति बुधैः शिवशास्त्रप्रवीणैः कथ्यते हि
प्रसिद्धमित्यर्थः ॥ ३७ ॥

इति श्रीमत्पदवाक्यप्रमाणपारावारधुरीणश्रीमरितोण्टदार्येण
विरचितायां तत्त्वप्रदीपिकाख्यायां सिद्धान्तशिखामणिव्याख्यायां
शरणस्यचतुःस्थलप्रसङ्गनामा त्रयोदशः परिच्छेदः ॥ १३ ॥