११ सप्त-विध-प्रसङ्गः

एकादशः परिच्छेदः

प्रसादिस्थलम्

अथ प्रसादिस्थलम्

अगत्स्य उवाच

उक्तो माहेश्वरः साक्षाल्लिङ्गनिष्ठादिधर्मवान् ।
कथमेष प्रसादीति कथ्यते गणनायक ॥ १ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ १ ॥

रेणुक उवाच

लिङ्गनिष्ठादिभावेन ध्वस्तपापनिबन्धनः ।
मनःप्रसादयोगेन प्रसादीत्येष कथ्यते ॥ २ ॥

उक्तलिङ्गनिष्ठादिस्थलपरिज्ञानतदाचरणतो ध्वस्तपापसमूह एष
माहेश्वरो मनोनैर्मल्यसम्बन्धेन प्रसादीत्युच्यत इत्यर्थः ॥ २ ॥

मरितोण्डदार्यः

अथैतत्स्थलं कीदृशं कीदृग्विधमित्यत्राह-

प्रसादिस्थलमित्येतदस्य माहात्म्यबोधकम् ।
अन्तरस्थलभेदेन सप्तधा परिकीर्तितम् ॥ ३ ॥

एतत्प्रसादिस्थलमस्य भक्तमाहेश्वरस्थलोक्तसदाचारसमूहस्य
महत्त्वबोधकमवान्तरस्थलभेदेन सप्तविधमिति परिकीर्तितमित्यर्थः ॥ ३ ॥

[[२०५]]

अथ तत्कथमित्यत्रोद्दिशति-

प्रसादिस्थलमादौ तु गुरुमाहात्म्यकं ततः ।
ततो लिङ्गप्रशंसा च ततो जङ्गमगौरवम् ॥ ४ ॥

ततो भक्तस्य माहात्म्यं ततः शरणकीर्तनम् ।
शिवप्रसादमाहात्म्यमिति सप्तप्रकारकम् ॥ ५ ॥

शरणकीर्तनं तन्महत्त्वकीर्तनमित्यर्थः । एवं सप्तप्रकारकमित्युत्तरम् ॥
४-५ ॥

मरितोण्डदार्यः

अथोद्दिष्टानां स्थलानां क्रमाल्लक्षणमुच्यत इत्यत्राह-

क्रमाल्लक्षणमेतेषां कथयामि महामुने ।

मरितोण्डदार्यः

स्पष्टम् ॥

अथ-

चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् ।
प्रसन्नात्माऽऽत्मनि स्थित्वा सुखमक्षयमश्नुते ॥ [मैत्रेयी उप० १।६]

इति मैत्रेयश्रुत्यनुसारेण शिवप्रसादजायमानमनःप्रसन्नतां
द्वादशसूत्रैः प्रतिपादयति-

नैर्मल्यं मनसो लिङ्गं प्रसाद इति कथ्यते ।
शिवस्य लिङ्गरूपस्य प्रसादादेव सिद्ध्यति ॥ ६ ॥

मनसश्चित्तस्य नैर्मल्यं लिङ्गं निर्मलत्वचिह्नं प्रसाद इति कथ्यत
इत्यर्थः । एष मनोनिर्मलत्वरूपप्रसादो लिङ्गरूपस्य शिवस्य प्रसादात्
सिद्ध्यतीत्यर्थः ॥ ६ ॥

[[२०६]]

मरितोण्डदार्यः

ननु कोऽयं चित्तनैर्मल्यलक्षणप्रसादकारणीभूतशिवप्रसाद इत्यत्राह-

शिवप्रसादं यद्द्रव्यं शिवाय विनिवेदितम् ।
निर्माल्यं तत्तु शैवानां मनोनैर्मल्यकारणम् ॥ ७ ॥

शिवाय विनिवेदितं समर्पितं यद् द्रव्यं तत् शिवप्रसादः तन्निर्माल्यं तु
विशेषशैवानां वीरशैवानां मनोनैर्मल्यकारणं भवतीत्यर्थः ॥ ७ ॥

मरितोण्डदार्यः

अथैवंरूपशिवप्रसादस्वीकारवान् प्रसादीत्याह-

मनःप्रसादसिद्ध्यर्थं निर्मलज्ञानकारणम् ।
शिवप्रसादं स्वीकुर्वन् प्रसादीत्येष कथ्यते ॥ ८ ॥

ज्ञानकारणं शिवज्ञानकारणं शिवप्रसादं निर्माल्यं
शिवलिङ्गप्रसादरूपशिवनिर्माल्यं मनःप्रसादसिद्ध्यर्थं
चित्तनैर्मल्यसिद्ध्यर्थं स्वीकुर्वन् एष वीरमाहेश्वरः प्रसादीति कथ्यत
इत्यर्थः ॥ ८ ॥

तस्मात्-आहारशुद्ध्या (शुद्धौ) तत्त्वशुद्धिः [छा० उ० ७।२६।२] इति
छान्दोग्यश्रुतेः शुद्धशिवनिर्माल्यभक्षणेन सकलतत्त्वशुद्धिद्वारा
मनोनैर्मल्यं लभते भक्त इत्याह-

अन्नशुद्ध्या हि सर्वेषां तत्त्वशुद्धिरुदाहृता ।
विशुद्धमन्नजातं हि यच्छिवाय समर्पितम् ॥ ९ ॥

तदेवं सर्वकालं तु भुञ्जानो लिङ्गतत्परः ।
मनःप्रसादमतुलं लभते ज्ञानकारणम् ॥ १० ॥

अन्नशुद्ध्या सर्वेषां प्राणिनां
तत्त्वशुद्धिर्देहाक्षभुवनप्रपञ्चशुद्धिरिति शास्त्रज्ञैरुदाहृता ।
यच्छिवाय समर्पितमन्नजातं शुद्धं तदन्नजातमेव लिङ्गतत्परः सन्
सदाकालं भुञ्जानः प्रसादी अतुलं शिवज्ञानकारणं मनःप्रसादं
मनोनैर्मल्यं लभत इत्यर्थः ॥ ९-१० ॥

[[२०७]]

तस्मादात्मभोगार्थं नियमितं सद् यद्यद् द्रव्यं प्राप्तं भवति
तत्सर्वं यद्यदात्महितं वस्तु——- शिवार्पितम् इति
शिवरहस्यवचनानुसारेण शिवाय समर्प्य भुञ्जीयादित्याह-

आत्मभोगाय नियतं यद्यद् द्रव्यं समाहितम् ।
तत्तत् समर्प्य देवाय भुञ्जीतात्मविशुद्धये ॥ ११ ॥

आत्मभोगाय नियमितं सत् समाहितं सम्पादितं तत्तत् शिवलिङ्गदेवाय
समर्प्यात्मविशुद्धये चित्तशुद्ध्यर्थं भुञ्जीयादित्यर्थः ॥ ११ ॥

अथास्य महत्त्वं प्रतिपादयति-

नित्यसिद्धेन देवेन भिषजा जन्मरोगिणाम् ।
यद्यत् प्रसादितं भुक्त्वा तत्तज्जन्मरसायनम् ॥ १२ ॥

जन्मरोगिणां भवरोगिणां भिषजा वैद्येन नित्यसिद्धेन शिवलिङ्गे
निरन्तरसिद्धेन देवेन परमेश्वरेण यद् द्रव्यं भुक्त्वा प्रसादितं
प्रसादीकृतम् तत्तद् जन्मरसायनं संसारव्याधिरसायनमित्यर्थः ॥ १२ ॥

मरितोण्डदार्यः

अथ ऐहिकारोग्यादिकारणं चेत्याह-

आरोग्यकारणं पुंसामन्तःकरणशुद्धिदम् ।
तापत्रयमहारोगसमुद्धरणभेषजम् ॥ १३ ॥

विद्यावैशद्यकरणं विनिपातविघातनम् ।
द्वारं ज्ञानावतारस्य मोहोच्छेदस्य कारणम् ॥ १४ ॥

वैराग्यसम्पदो मूलं महानन्दप्रवर्धनम् ।

[[२०८]]

दुर्लभं पापचित्तानां सुलभं शुद्धकर्मणाम् ॥ १५ ॥

आदृतं ब्रह्मविष्ण्वाद्यैर्वसिष्ठाद्यैश्च तापसैः ।
शिवस्वीकृतमन्नाद्यं स्वीकार्यं सिद्धिकाङ्क्षिभिः ॥ १६ ॥

अत्र पुनस्तदित्यनुवर्तते । तत्प्रसादद्रव्यं पुंसामारोग्यकारणं सद्
अन्तःकरणशुद्धिदम्
आध्यात्मिकादितापत्रयलक्षणमहारोगोन्मूलनौषधम्
विद्याविशेषसिद्धिकारणम् विनिपातः कृत्रिमदोषस्तस्य घातकम्
शिवज्ञानावतारस्य द्वारम् अज्ञानोच्छेदकारणम् वैराग्यसम्पदो
मूलकारणम् नित्यानन्दप्रकाशकम् पापिष्ठानां दुर्लभं
पुण्यात्मनां सुलभं ब्रह्मादिदेवैर्वसिष्ठादिमुनिभिः प्रीतिविषयीकृतम् ।
एवंरूपं शिवस्वीकृतमन्नाद्यं शिवलिङ्गस्वीकृतान्नादिप्रसादद्रव्यं
सिद्धिकाङ्क्षिभिरिह परत्र भोगमोक्षलक्षणसिद्धिकाङ्क्षिभिः प्रसादिभिः
स्वीकार्यमित्यर्थः ॥ १३-१६ ॥

मरितोण्डदार्यः

अथैतत्प्रसादस्वीकारेण सर्वपापक्षयश्च भवतीत्याह-

पत्रं पुष्पं फलं तोयं [तुलनीय-

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ (भ० गी० ९।२६)]

यच्छिवाय निवेदितम् ।
तत्तत्स्वीकारयोगेन सर्वपापक्षयो भवेत् ॥ १७ ॥

यद् यद् द्रव्यमित्यर्थः । शिष्टं स्पष्टम् ॥ १७ ॥

[[२०९]]

अथ शिवलिङ्गप्रसादवदेव श्रीगुरुशिवयोगिनोरपि प्रसादः स्वीकार्य इत्युक्त्वा
प्रसादिस्थलं समापयति-

यथा शिवप्रसादान्नं स्वीकार्यं लिङ्गतत्परैः ।
तथा गुरोः प्रसादान्नं तथैव शिवयोगिनाम् ॥ १८ ॥

लिङ्गनिष्ठैः प्रसादिभिर्यथा प्रसादान्नं स्वीकार्यम् तथा
श्रीगुरुशिवयोगिनां चान्नप्रसादोऽपि स्वीकार्य इत्यर्थः ॥ १८ ॥

इति प्रसादिस्थलम्

गुरुमाहात्म्यस्थलम्

अथ गुरुमाहात्म्यस्थलम्

अथ प्रसादनिष्ठेन ज्ञातव्यं गुरुमाहात्म्यस्थलं निरूपयति-

गुरुरेवात्र सर्वेषां कारणं सिद्धिकर्मणाम् ।
गुरुरूपो महादेवो यतः साक्षादुपस्थितः ॥ १९ ॥

अत्र लोके भोगमोक्षलक्षणसकलसिद्धिकर्मणां गुरुरेव कारणम् न
गुरोरधिकं न गुरोरधिकम् इति शिवरहस्यवचनात् । यतः परमेश्वर एव
साक्षाद् गुरुरूपः सन् उपस्थितस्तिष्ठतीत्यर्थः ॥ १९ ॥

मरितोण्डदार्यः

ननु निष्कलः शिवः किमर्थं सकलगुरुरूपेण प्रकाशत इत्यत्राह-

निष्कलो हि महादेवो नित्यज्ञानमहोदधिः ।
सकलो गुरुरूपेण सर्वानुग्राहको भवेत् ॥ २० ॥

नित्यज्ञानार्णवपरमेश्वरो निष्कलोऽपि निरवयवोऽपि गुरुरूपेण सकलः सन्
करचरणादिविशिष्टः सन् सर्वानुग्राहको भवेत् लोकानुग्रहार्थं
भातीत्यर्थः ॥ २० ॥

मरितोण्डदार्यः

तस्माद् गुरुशिवयोर्भेदो नास्तीत्याह-

[[२१०]]

यः शिवः स गुरुर्ज्ञेयो यो गुरुः स शिवः स्मृतः ।
न तयोरन्तरं कुर्याद् ज्ञानावाप्तौ महामतिः ॥ २१ ॥

गुरोर्मोक्षकारणीभूतज्ञानप्रदत्वेन शिवभिन्नत्वात् अन्यथा
ज्ञानानुदयप्रसङ्गात् । तदर्थं सूक्ष्मदृक् तयोरन्तरं भेदं न
कुर्यादित्यर्थः ॥ २१ ॥

यथाहं सर्वलोकानां गुरुरम्बिकया सह इत्यागमोक्तेः शिवसदृशं
श्रीगुरुं प्राकृतैः सदृशमनुक्त्वा पूजयेदित्याह-

हस्तपादादिसाम्येन नेतरैः सदृशं वदेत् ।
आचार्यं ज्ञानदं शुद्धं शिवरूपतया स्थितम् ॥ २२ ॥

शुद्धं निर्मलान्तःकरणं शिवज्ञानप्रकाशकम् उमामहेश्वररूपेण
स्थितं श्रीगुरुं हस्तपादादिसाम्येन प्राकृतैः सदृशं सन्तं न वदेत् ॥ २२

मरितोण्डदार्यः

तेन किं भवतीत्यत्राह-

आचार्यस्यावमानेन श्रेयः प्राप्तिर्विहन्यते ।
तस्मान्निःश्रेयसप्राप्त्यै पूजयेत् तं समाहितः ॥ २३ ॥

आचार्यस्यावमानेन प्राकृतजनसमोक्त्या
भोगमोक्षलक्षणश्रेयःप्राप्तिर्विहन्यते । तस्माद् निःश्रेयसप्राप्त्यै
भोगमोक्षावाप्त्यै समाहित एकाग्रचित्तः सन् तं श्रीगुरुं पूजयेदित्यर्थः ॥
२३ ॥

अथ-यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ [श्वे० उ० ६।२३] इति
श्वेताश्वतरश्रुत्यर्थं प्रकटयन् गुरुमहत्त्वस्थलं समापयति-

[[२११]]

गुरुभक्तिविहीनस्य शिवभक्तिर्न जायते ।
ततः शिवे यथा भक्तिस्तथा भक्तिर्गुरावपि ॥ २४ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ २४ ॥

इति गुरुमहत्त्वस्थलम्

लिङ्गमाहात्म्यस्थलम्

अथ लिङ्गमाहात्म्यस्थलम्

अथ गुरुकृपाप्रकाश्यलिङ्गमहत्त्वस्थलं निरूपयति-

गुरुमाहात्म्ययोगेन निजज्ञानातिरेकतः ।
लिङ्गस्यापि च माहात्म्यं सर्वोत्कृष्टं विभाव्यते ॥ २५ ॥

गुरुमाहात्म्यज्ञानयोगेन निजज्ञानाधिक्याद् लिङ्गस्य शिवलिङ्गस्य
माहात्म्यमपि सर्वोत्कृष्टं सद् विभाव्यते विज्ञायत इत्यर्थः ॥ २५ ॥

(लिङ्गमाहात्म्यस्थल वर्णन)-

ननु लिङ्गज्ञानव्यतिरेकेण तन्माहात्म्यज्ञानासम्भवाद् लिङ्गस्वरूपं
केन ज्ञापितमित्यत्राह-

शिवस्य बोधलिङ्गं यद् गुरुबोधितचेतसा ।
तदेव लिङ्गं विज्ञेयं शाङ्करं सर्वकारणम् ॥ २६ ॥

शिवस्य यद्बोधलिङ्गं चिन्मयलिङ्गमस्ति तच्छाङ्करं लिङ्गं
सर्वकारणं विष्ण्वादिसर्वविश्वकारणं सद् गुरुबोधितचेतसैव विज्ञेयं
ज्ञातुं योग्यम् गुरुणैव ज्ञापितमित्यर्थः ॥ २६ ॥

मरितोण्डदार्यः

अथ तत्कीदृशमित्यत्राह-

परं पवित्रममलं लिङ्गं ब्रह्म सनातनम् ।
शिवाभिधानं चिन्मात्रं सदानन्दं निरङ्कुशम् ॥ २७ ॥

[[२१२]]

कारणं सर्वलोकानां वेदानामपि कारणम् ।
पूरणं सर्वतत्त्वस्य तारणं जन्मवारिधेः ॥ २८ ॥

ज्योतिर्मयमनिर्देश्यं योगिनामात्मनि स्थितम् ।
कथं विज्ञायते लोके महागुरुदयां विना ॥ २९ ॥

अत्र सर्वतत्त्वस्य पूरणमित्यनेन शिखण्ड्यण्डरसन्यायेन स्वात्मैकरसेन
परिपूर्णविश्वमयत्वमुक्तम् । योगिनां शिवयोगिभिरनिर्देश्यं सद् आत्मनि
निजस्वरूपे स्थितम् । ज्योतिर्मयं स्थाणुवज्ज्वलति लिङ्गमदृश्यम् इति
याज्ञवल्क्यश्रुतेः स्वातिरिक्तमानान्तरागम्यत्वेन स्वयमेव भासमानं
परशिवाख्यपरब्रह्ममहालिङ्गम् । तज्ज्ञानं सद्गुरोर्ज्ञेयं नान्यथा
शास्त्रकोटिभिः इति शिवरहस्यवचनमप्यस्तीति लोके महागुरुदयां विना
कथं केन प्रकारेण विज्ञायते? केनापि प्रकारेण ज्ञातुमशक्यमित्यर्थः ।
शिष्टं स्पष्टम् ॥ २७-२९ ॥

नन्वस्मदादीनां गुरुदयाव्यतिरेकेण विज्ञातुमशक्यत्वेऽपि ब्रह्मादीनां
सर्वज्ञत्वेन तदपेक्षा नास्तीति कथमुक्तार्थसिद्धिरित्यत्र-वराहो
विष्णुर्निममज्ज भूमौ ब्रह्मोत्पपात दिवमाशु गृध्र इति
लिङ्गसूत्रो(क्ता)भिप्रायेणोक्तार्थं स्थापयति-

ब्रह्मणा विष्णुना पूर्वं यल्लिङ्गं ज्योतिरात्मकम् ।
अपरिच्छेद्यमभवत् केन वा परिचोद्यते ॥ ३० ॥

ज्योतिरात्मकं ज्योतिर्मयं लल्लिङ्गं ब्रह्मणा विष्णुना च
पूर्वमपरिच्छेद्यं ज्ञातुमयोग्यमभवत् तन्महाशिवलिङ्गं केन वा
परिचोद्यते? केन विज्ञायत इत्यर्थः ॥ ३० ॥

मरितोण्डदार्यः

ननु ब्रह्माद्यगम्यं लिङ्गं कीदृशमित्यत्राह-

बहुनात्र किमुक्तेन लिङ्गं ब्रह्म सनातनम् ।
योगिनो यत्र लीयन्ते मुक्तपाशनिबन्धनाः ॥ ३१ ॥

[[२१३]]

अत्र बहुभाषणेन किम्? विश्वलयगमनकारणं नित्यं ब्रह्मैव लिङ्गं
यत्र परब्रह्मात्मनि शिवलिङ्गे सनकादियोगिनो मुक्तपाशनिबन्धना
विसृष्टाविद्यादिपञ्चक्लेशपाशबन्धनाः सन्तो लीयन्ते तादात्म्यं भजन्त
इत्यर्थः ॥ ३१ ॥

मरितोण्डदार्यः

ननु ब्रह्मैव लिङ्गं चेत् किमस्य पीठमित्यत्राह-

पीठिका परमा शक्तिर्लिङ्गं साक्षात् परः शिवः ।
शिवशक्तिसमायोगं विश्वं लिङ्गं तदुच्यते ॥ ३२ ॥

क्रियाशक्त्यात्मकं पीठं ज्ञानशक्त्यात्मनः प्रभोः [शि० आ०] इति
शिवागमवचनात् परमा शक्तिः सर्वोत्कृष्टा क्रियाशक्तिः पीठम्
साक्षात्परः शिवश्चिद्रूपपरमेश्वर एव लिङ्गम् । शिवशक्तिसमायोगं
शिवशक्तिसम्बन्धवत्तल्लिङ्गं विश्वम्

न वज्रचक्राङ्कसरोरुहाङ्कं लिङ्गाङ्कितं पश्य जगद्भगाङ्कम् [पु०]

ज्ञानकर्मेन्द्रियैर्विश्वं चित्क्रियालिङ्गरूपकम् [पु०]
इति पुराणोक्तेः सर्वजगद्रूपमित्युच्यत इत्यर्थः ॥ ३२ ॥

अथैवंरूपं लिङ्गं ब्रह्मादयः सम्पूज्य महदैश्वर्यं प्राप्तवन्त
इत्याह-

ब्रह्मादयः सुराः सर्वे मुनयः शौनकादयः ।
शिवलिङ्गार्चनादेव स्वं स्वं पदमवाप्नुयुः ॥ ३३ ॥

अत्र-तव श्रियै मरुतोऽमर्जयन्त रुद्र यत्ते जनिमं चारुचित्रम् । पदं
यद्विष्णोरुपमं निधायि ॥ [ऋ० वे० ५।३।३] इति ऋग्वेदश्रुतिः । अयमर्थः-भो रुद्र
मरुतो ब्रह्मादयो देवाः श्रियै विष्णोः पदं स्थानं वैकुण्ठादिकम्
उपमं दृष्टान्तं निधायि मनसि निधाय चारु मनोहरं चित्रं विचित्रं
जनिमम् आविर्भावस्थानं लिङ्गम् अमर्जयन्त अर्चितवन्त इत्यर्थः ।
वैकुण्ठादिस्थानं महदैश्वर्यं च विष्णुः शिवलिङ्गपूजामहिम्ना
लब्धवानिति दृष्टान्तीकृत्य ब्रह्मादयो देवाः सर्वेऽपि शिवलिङ्गं श्रियै
पूजितवन्त इति यावत् ॥ ३३ ॥

[[२१४]]

ननु शिवस्यापि विश्वाधिकत्वादिमहदैश्वर्यं कस्यचिदुपासनया
समागतं किमित्यत्राह-

विश्वाधिपत्वमीशस्य लिङ्गमूर्तेः स्वभावजम् ।
अनन्यदेवसादृश्यं श्रुतिराह सनातनी ॥ ३४ ॥

विश्वाधिपो रुद्रो महर्षिः । हिरण्यगर्भं जनयामास पूर्वम् [श्वे० उ० ३।४]
न तत्समश्चाप्यधिकश्च दृश्यते [श्वे० उ० ६।८] इति
श्वेताश्वतरश्रुतेर्लिङ्गमूर्तेरीशस्य परमेश्वरस्य अनन्यदेवसादृश्यं
विश्वाधिपत्वं चराचरप्रपञ्चनियामकत्वं स्वभावजं स्वतः सिद्धमिति
सनातनी श्रुतिराहेत्यर्थः ॥ ३४ ॥

इति लिङ्गमहत्त्वस्थलम्

जङ्गममाहात्म्यस्थलम्

अथ जङ्गममाहात्म्यस्थलम्

अथ गुरुलिङ्गमहत्त्वात् संवेद्यं जङ्गमस्थलं प्रकाशयति-

गुरुशिष्यसमारूढलिङ्गमाहात्म्यसम्पदः ।
सर्वं चिद्रूपविज्ञानाज्जङ्गमाधिक्यमुच्यते ॥ ३५ ॥

आचार्यः पूर्वरूपमन्तेवास्युत्तररूपं विद्यासन्धिः [तै० उ० १।११।१] इति
श्रुतेर्गुरुशिष्यमध्यगतशिवलिङ्गमहत्त्वसम्पदः सर्वं विश्वप्रपञ्चं
चिद्रूपविज्ञानात् चित्क्रियारूपत्वेन विज्ञानाद् जङ्गमाधिक्यमुच्यते
गुरुशिष्ययोरिष्टप्राणभावेषु तादात्म्यभावनया
समारूढलिङ्गमहत्त्वसम्पत्त्या सर्वं विश्वं शिवशक्त्यात्मकमिति
विज्ञानमेव जङ्गमाधिक्यमित्यर्थः ॥ ३५ ॥

मरितोण्डदार्यः

अथ के ते जङ्गमा इत्यत्राह-

जानन्त्यतिशयाद् ये तु शिवं विश्वप्रकाशकम् ।

[[२१५]]

स्वस्वरूपतया ते तु जङ्गमा इति कीर्तिताः ॥ ३६ ॥

तस्य भासा सर्वमिदं विभाति [श्वे० उ० ६।१४] इति श्रुतेर्ये विश्वप्रकाशकं
स्वकीयचित्क्रियाशक्तिभ्यां प्रपञ्चप्रकाशं शिवमतिशयेन
सर्वासर्वशब्दार्थयोर्मायाकार्यकोटिप्रविष्टत्वेनाऽसनातनत्वाद्
एतज्जीवनभूतज्ञत्वकर्तृत्वयोः सनातनत्वात् अन्यथा
स्वविषयकज्ञानशून्यत्वेन स्फटिकादिप्रकाशवज्जडत्वप्रसङ्गात्
तयोर्जीवेश्वरसाधारणीभूतास्मद्रूपात्मतत्त्वनिजस्वभावत्वात् स्वयं
तदनतिरिक्त इति दृढतरनिश्चयेन स्वस्वरूपतया जानन्ति ते जङ्गमा इत्यर्थः ॥
३६ ॥

अथ शिवयोगित्वेन प्रसिद्धजङ्गममहत्त्वं पञ्चभिः सूत्रैः प्रतिपादयति-

ये पश्यन्ति जगज्जालं चिद्रूपं शिवयोगतः ।
निर्धूतमलसंस्पर्शास्ते स्मृताः शिवयोगिनः ॥ ३७ ॥

ये जङ्गमा देवा विश्वं शिवयोगतो विश्वस्य शिवसम्बन्धाभावे
चिद्बाह्यत्वेन सङ्कल्पतापत्तेः शिवसम्बन्धोऽङ्गीकरणीय एव । स च
संयोगरूपो न भवति तस्य क्रियापूर्वत्वेन भिन्नदेशस्थितयोरेवोपपद्यत इति
ब्रह्मबाह्यदेशाभावेन तादात्म्यरूप एवेत्युपपादितत्वाच्चिद्रूपं
चित्क्रियास्वरूपमिति पश्यन्ति जानन्ति ते निर्धूतमलसंस्पर्शा
निर्गताणवादिमलसम्बन्धिनः शिवयोगिन इति स्मृता इत्यर्थः ॥ ३७ ॥

घोरसंसारतिमिरपरिध्वंसनकारणम् ।
येषामस्ति शिवज्ञानं ते मताः शिवयोगिनः ॥ ३८ ॥

भयङ्करसंसारान्धकारनिवारकं शिवाधिक्यज्ञानं येषामस्ति ते
शिवयोगिन इति मताः स्मृता इत्यर्थः ॥ ३८ ॥

मरितोण्डदार्यः

अथ ते कीदृशाः कथं तिष्ठन्तीत्यत्राह-

[[२१६]]

जितकामा जितक्रोधा मोहग्रन्थिविभेदिनः ।
समलोष्टाश्मकनकाः साधवः शिवयोगिनः ॥ ३९ ॥

समाः शत्रौ च मित्रे च साक्षात्कृतशिवात्मकाः ।
निस्पृहा निरहङ्कारा वर्तन्ते शिवयोगिनः ॥ ४० ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ३९-४० ॥

एवमुक्तलक्षणज्ञानसम्पन्नाः साक्षाच्छिवा एवेत्याह-

दुर्लभं हि शिवज्ञानं दुर्लभं शिवचिन्तनम् ।
येषामेतद् द्वयं चास्ति ते हि साक्षाच्छिवात्मकाः ॥ ४१ ॥

शिवज्ञानं शिवाधिक्यज्ञानं शिवचिन्तनम् उक्तयुक्तिभिः स्वयमेव शिव इति
मननं च दुर्लभम् । एतद् द्वयं येषामस्ति ते साक्षाच्छिवरूपा इत्यर्थः ॥
४१ ॥

मरितोण्डदार्यः

अथ पुनस्तेषां महत्त्वं श्लोकद्वयेनाह-

पादाग्ररेणवो यत्र पतन्ति शिवयोगिनाम् ।
तदेव सदनं पुण्यं पावनं गृहमेधिनाम् ॥ ४२ ॥

सर्वसिद्धिकरं पुंसां दर्शनं शिवयोगिनाम् ।
स्पर्शनं पापशमनं पूजनं मुक्तिसाधनम् ॥ ४३ ॥

शिवयोगिनां जङ्गमदेवानामित्यर्थः । गृहमेधिनां
गृहस्थानामित्यर्थः । पुण्यं पुण्यक्षेत्रमित्यर्थः । पावनं पवित्रम् ।
शिष्टं स्पष्टम् ॥ ४२-४३ ॥

मरितोण्डदार्यः

अथैवं तादृशशिवयोगिनां सम्पर्कात् सर्वेप्सितार्थसिद्धिरित्याह-

महतां शिवतात्पर्यवेदिनामनुमोदिनाम् ।

[[२१७]]

किं वा फलं न सिद्ध्येत सम्पर्काच्छिवयोगिनाम् ॥ ४४ ॥

शिवरहस्याभिप्रायवेदिनां शिवसुखानुमोदिनां महतां
सत्पुरुषाणां शिवयोगिनां जङ्गमदेवानां सम्पर्कात् किं वा फलं न
सिद्ध्येत्? सर्वं सिद्ध्येदित्यर्थः ॥ ४४ ॥

इति जङ्गममहत्त्वस्थलम्

भक्तमाहात्म्यस्थलम्

अथ भक्तमाहात्म्यस्थलम्

अथ गुरुलिङ्गजङ्गममहत्त्वलम्पटस्य भक्तस्य महत्त्वं द्वादशसूत्रैः
प्रतिपादयति-

गुरोर्लिङ्गस्य माहात्म्यकथनाच्छिवयोगिनाम् ।
सिद्धं भक्तस्य माहात्म्यं तथाप्येष प्रशस्यते ॥ ४५ ॥

गुरुलिङ्गजङ्गमेष्वेवंविधमाहात्म्यज्ञानपूर्वकं भक्तेः
क्रियमाणत्वेन भक्तमाहात्म्यं सिद्धमिति । तथैवायं शास्त्रे प्रशस्यते
उत्कर्षेण भण्यत इत्यर्थः ॥ ४५ ॥

अथ के भक्ता इत्यत्र-यद्धि मनसा ध्यायति तद्वाचा वदति तत्कर्मणा करोति इति
श्रुत्यर्थानुसारेण भक्तस्वरूपमाह-

ये भजन्ति महादेवं परमात्मानमव्ययम् ।
कर्मणा मनसा वाचा ते भक्ता इति कीर्तिताः ॥ ४६ ॥

हस्ताभ्यामर्चनारूपकायिकक्रियया शिवमूर्तिध्यानरूपमानसक्रियया
स्तुतिरूपवाचिकक्रियया च ये परमात्मानं लिङ्गरूपिणं महादेवं
भजन्ति ते भक्ता इत्यर्थः ॥ ४६ ॥

मरितोण्डदार्यः

शिवभक्तेर्जातिभेदोऽस्ति किमित्यत्राह-

[[२१८]]

दुर्लभा हि शिवे भक्तिः संसारभयतारिणी ।
सा यत्र वर्तते साक्षात् स भक्तः परिगीयते ॥ ४७ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ४७ ॥

तस्माज्जननमरणपरिपीडितानां जनानां शिवभक्तिव्यतिरेकेण केनापि
सत्कर्मणा प्रयोजनं नास्तीत्याह-

किं वेदैः किं ततः शास्त्रैः किं यज्ञैः किं तपोव्रतैः ।
नास्ति चेच्छाङ्करी भक्तिर्देहिनां जन्मरोगिणाम् ॥ ४८ ॥

शास्त्रैः वेदार्थानुगैः शिवागमसूत्रपुराणादिभिरित्यर्थः । शिष्टं
स्पष्टम् ॥ ४८ ॥

अथ शिवभक्तिव्यतिरेकेण विधीयमानं सत्कर्म विफलं विपरीतफलं चेति
दृष्टान्तपूर्वकमाह-

शिवभक्तिविहीनस्य सुकृतं चापि निष्फलम् ।
विपरीतफलं च स्याद् दक्षस्यापि महाध्वरे ॥ ४९ ॥

स्यात् अभवदित्यर्थः ॥ ४९ ॥

मरितोण्डदार्यः

[[२१९]] अथ शिवभक्त्या दुष्कर्मापि सत्कर्म भवेदिति दृष्टान्तपूर्वकमाह-

अत्यन्तपापकर्माऽपि शिवभक्त्या विशुद्ध्यति ।
चण्डो यथा पुरा भक्त्या पितृहाऽपि शिवोऽभवत् ॥ ५० ॥

शिवः शिवगणाधीश इत्यर्थः । शिष्टं स्पष्टम् ॥ ५० ॥

मरितोण्डदार्यः

नन्वेवं चेत् शिवभक्तानां पुण्यपापसम्बन्धोऽस्ति वा न वेत्यत्राह-

सुकृतं दुष्कृतं चापि शिवभक्तस्य नास्ति हि ।
शिवभक्तिविहीनानां कर्मपाशनिबन्धनम् ॥ ५१ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ५१ ॥

तत्कथमित्यत्र दृष्टान्तपूर्वकं सूत्रद्वयेनाह-

शिवाश्रितानां जन्तूनां कर्मणा नास्ति सङ्गमः ।
वाजिनां दिननाथस्य कथं तिमिरजं भयम् ॥ ५२ ॥

दिननाथस्य रवेर्वाजिनामश्वानां यथान्धकारप्रयुक्तभीर्नास्ति तथा
शिवभक्तानां कर्मणा पुण्यपापमयेन कर्मणा सङ्गमः सम्बन्धो
नास्तीत्यर्थः ॥ ५२ ॥

निरोद्धुं न क्षमं कर्म शिवभक्तान् विशृङ्खलान् ।
कथं मत्तगजान् रुन्धेच्छृङ्खला बिसतन्तुजा ॥ ५३ ॥

शिवदीक्षयाऽऽणवादिमलत्रयस्य निवृत्तत्वेन विशृङ्खलान् शिवभक्तान्
कर्म निरोद्धुं न क्षमं न समर्थम् । तत्र दृष्टान्तः-मृणालतन्तुनिर्मिता
शृङ्खला यथा मत्तगजं न रुन्धेत् तथेत्यर्थः ॥ ५३ ॥

[[२२०]]

मरितोण्डदार्यः

तस्माच्छिवभक्त एव पूज्य इत्याह-

ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा शूद्र एव वा ।
अन्त्यजो वा शिवे भक्तः शिववन्मान्य एव सः ॥ ५४ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ५४ ॥

ननु शूद्रादीनां ब्राह्मणाद्यपेक्षया निकृष्टत्वात् कथं तेषां
तत्समानत्वमित्यत्राह-

शिवभक्तिसमावेशे क्व जातिपरिकल्पना ।
इन्धनेष्वग्निदग्धेषु को वा भेदः प्रकीर्त्यते ॥ ५५ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ५५ ॥

तस्माच्छिवभक्ता एव गणेश्वरा इत्युक्त्वा भक्तमाहात्म्यं समापयति-

शुद्धा नियमसंयुक्ताः शिवार्पितफलागमाः ।
अर्चयन्ति शिवं लोके विज्ञेयास्ते गणेश्वराः ॥ ५६ ॥

ये शुद्धा दीक्षया परिपूता नियमसम्पन्नाः शिवव्रतिनः
शिवार्पितफलागमाः तदर्पितपुण्यपापफलागमाः सन्तो लोके
शिवलिङ्गमर्चयन्ति ते नाशिवस्य शिवोपास्ति (र्घटते कल्पकोटिभि) नारुद्रो
रुद्रमर्चयेत् इत्यादिवचनैर्गणेश्वरा इति रुद्रा इति विज्ञेया इत्यर्थः ॥ ५६ ॥

इति भक्तमाहात्म्यस्थलम्

शरणमहत्त्वस्थलम्

अथ शरणमहत्त्वस्थलम्

अथ गुरुलिङ्गादिमत्त्वं ज्ञात्वा शिव एक एव रक्षक इति प्रपद्यमानस्य

[[२२१]]

शरणस्य महत्त्वं प्रतिपादयति-

गुरुलिङ्गादिमाहात्म्यबोधान्वेषणसङ्गतः ।
सर्वात्मा शिवापत्तिः शरणस्थानमुच्यते ॥ ५७ ॥

गुरुलिङ्गशिवयोगिशिवभक्तमहत्त्वज्ञानान्वेषणसम्बन्धात् सर्वात्मना
नानाप्रकारेणापि शिवापत्तिः शिव एक एव रक्षक इति प्रपन्नता
शरणस्थानमित्युच्यत इत्यर्थः ॥ ५७ ॥

अथ तदेव विशदयति-

ब्रह्मादिविबुधान् सर्वान् मत्वा प्राकृतवैभवान् ।
प्रपद्यते शिवंयत्तुं शरणं तदुदाहृतम् ॥ ५८ ॥

शिव एको ध्येयः शिवङ्करः सर्वमन्यत् परित्यज्य इति श्रुतेः प्राकृतवैभवान्
प्रकृतिजन्यसम्पत्तिमतो ब्रह्मविष्ण्वादिदेवान् मुक्त्वा त्यक्त्वा शिवं यत्
प्रपद्यते प्रपन्नत्वेनाश्रयते तत् शरणं शरणस्थलमित्युदाहृतं
कथितमित्यर्थः ॥ ५८ ॥

अथ शरणागतस्य स्वरूपं विशदयति-

शरण्यः सर्वभूतानां शङ्करः शशिशेखरः ।
सर्वात्मना प्रपन्नस्तं शरणागत उच्यते ॥ ५९ ॥

शशिशेखरः शङ्करः परमेश्वरः सर्वभूतानां सकलप्राणिनां
शरण्यो रक्षणे समर्थ इति तं सर्वात्मना सर्वप्रकारेण प्रपन्नो
रक्षिष्यतीति प्रपन्नः शरणागतः इत्युच्यत इत्यर्थः ॥ ५९ ॥

अथ शरणार्थिस्वरूपं कथयति-

विमुक्तभोगलालस्यो देवतान्तरनिस्पृहः ।
शिवमभ्यर्थयन् मोक्षं शरणार्थीति गीयते ॥ ६० ॥

[[२२२]]

विमुक्तभोगलम्पटत्ववान् ब्रह्मविष्ण्वादिपदव्यां विरक्तः सन् शिवं प्रति
मोक्षमभ्यर्थयन् शरणार्थीति गीयते कथ्यत इत्यर्थः ॥ ६० ॥

मरितोण्डदार्यः

एवं शिवं प्रपन्नानां किमपि सत्कर्म मास्त्वित्याह-

ये प्रपन्ना महादेवं मनोवाक्कायकर्मभिः ।
तेषां तु कर्मजातेन किं वा देवतादितर्पणैः ॥ ६१ ॥

ये महादेवं शिवं मनोवाक्कायकर्मभिः ध्यानस्तुतिपूजाकर्मभी
रक्षेति (रक्षिष्यतीति) प्रपन्नानां तेषां कर्मजातेन
यज्ञादिकर्मसमूहेन देवप्रभृतितर्पणेन च किं वा? किमपि प्रयोजनं
नास्तीत्यर्थः ॥ ६१ ॥

कुत इत्यत्र तदर्थं सूत्रद्वयेन प्रतिपादयति-

सर्वेषामपि यज्ञानां क्षयः स्वर्गः फलायते ।
अक्षयं फलमाप्नोति प्रपन्नः परमेश्वरम् ॥ ६२ ॥

अक्षयं फलं मोक्षमित्यर्थः । शिष्टं स्पष्टम् ॥ ६२ ॥

मरितोण्डदार्यः

पापिनां कथमित्यत्राह-

प्रपन्नपारिजातस्य भवस्य परमात्मनः ।
प्रपत्त्या किं न जायेत पापिनामपि देहिनाम् ॥ ६३ ॥

शरणागतकल्पद्रुमस्य परमात्मनः शिवस्य प्रपत्त्या रक्षकत्वेन
प्रपत्त्या पापिनां प्राणिनामपि किं न जायेत सर्वं भवेदित्यर्थः ॥ ६३ ॥

[[२२३]]

मरितोण्डदार्यः

तस्मात् शिवप्रपन्ना एव श्रेष्ठा इत्याह-

प्रपन्नानां महादेवं परिपक्वान्तरात्मनाम् ।
जन्मैव जन्म नान्येषां वृथा जननसङ्गिनाम् ॥ ६४ ॥

महादेवं प्रपद्य परिपक्वान्तःकरणानां पुंसां जन्मैव जन्मफलम्
वृथा जननभाजामप्रपन्नानां जन्म न जन्मैव न वृथेत्यर्थः ॥ ६४ ॥

अथ तदेव विशदयति-

दुर्लभं मानुषं प्राप्य जननं ज्ञानसाधनम् ।
ये न जानन्ति देवेशं तेषामात्मा निरर्थकः ॥ ६५ ॥

दुर्लभं मानुषं जननं जन्म प्राप्य
ज्ञानसाधनमात्मज्ञानप्रदं देवेशं परशिवं ये न जानन्ति
तेषामात्मा जीवो निरर्थकः अप्रयोजक इत्यर्थः ॥ ६५ ॥

अथ कुलं पवित्रं जननी कृतार्था इति सूतसंहितानुसारेण शरणमहत्त्वं
प्रकाश्य तत्स्थलं समापयति-

तत्कुलं हि सदा शुद्धं सफलं तस्य जीवितम् ।
यस्य चित्तं शिवे साक्षाद् विलीनमबहिर्मुखम् ॥ ६६ ॥

यस्य चित्तं सदा साक्षाच्छिवलिङ्गे अबहिर्मुखं बहिर्मुखं यथा न
भवति तथा विलीनं विशेषेण लयं गतम् तत्कुलं शुद्धं तस्य जीवितं
जीवनं सफलमित्यर्थः ॥ ६६ ॥

इति शरणमहत्त्वस्थलम्

प्रसादमहत्त्वस्थलम्

अथ प्रसादमहत्त्वस्थलम्

अथ पूर्वोक्तगुरुलिङ्गादिमहत्त्वानुभवस्थितेः शिवप्रसादलभ्यत्वात्
तत्प्रसादमहत्त्वं कथयति-

[[२२४]]

गुरुलिङ्गादिमाहात्म्यविशेषानुभवस्थितिः ।
यस्माच्छिवप्रसादात् स्यात्तदस्य महिमोच्यते ॥ ६७ ॥

गुरुलिङ्गजङ्गमशिवभक्तशिवशरणमहत्त्वविशेषानुभवस्थितिर्यस्मात्
कारणात् शिवप्रसादात् स्यात् तस्मात् कारणाद् अस्य शिवप्रसादस्य महिमा
महत्त्वम् उच्यते कथ्यत इत्यर्थः ॥ ६७ ॥

ननु शिवप्रसादः कथं
गुरुलिङ्गादिमहत्त्वविशेषानुभवस्थितिहेतुरित्यत्राह-

सदा लिङ्गैकनिष्ठानां गुरुपूजानुषङ्गिणाम् ।
प्रपन्नानां विशुद्धानां प्रसीदति महेश्वरः ॥ ६८ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ६८ ॥

स च शिवप्रसादः कीदृशस्तेन किं भवतीत्यत्राह-

प्रसादोऽपि महेशस्य दुर्लभः परिकीर्त्यते ।
घोरसंसारसन्तापनिवृत्तिर्येन जायते ॥ ६९ ॥

इतरेषामलिङ्गिनां दुर्लभः । तेन शिवप्रसादेन
भयङ्करसांसारिकतापत्रयनिवृत्तिर्जायत इत्यर्थः ॥ ६९ ॥

ननु-तमेवं (तं) वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन
तपसाऽनाशकेन [वृ० उ० ४।२२] इति श्रुतेर्यज्ञादीनां
विज्ञानसाधनत्वश्रवणात् तेनैव सांसारिकदुःखनिवृत्तेः किं
महेश्वरप्रसादेनेत्यत्राह-

यज्ञास्तपांसि मन्त्राणां जपश्चिन्ता प्रबोधनम् ।
प्रसादार्थं महेशस्य कीर्तितानि न संशयः ॥ ७० ॥

अत्र चिन्ता ध्यानम् प्रबोधनं शिवाधिक्यज्ञानम् । शिष्टं स्पष्टम् ॥ ७० ॥

[[२२५]]

मरितोण्डदार्यः

ननु मोक्षस्य भक्तिमूलकत्वात् किं प्रसादेनेत्यत्राह-

प्रसादमूला सर्वेषां भक्तिव्यभिचारिणी ।
शिवप्रसादहीनस्य भक्तिश्चापि न सिद्ध्यति ॥ ७१ ॥

सर्वेषां समस्तजनानाम् अव्यभिचारिणी अनन्यगामिनी भक्तिः प्रसादमूला
शिवप्रसादशून्यस्य भक्तिरेव न सिद्ध्यतीत्यर्थः ॥ ७१ ॥

तस्मात्-

गर्भस्थो जायमानो वा जातो वा ब्राह्मणोऽथवा ।
अन्त्यजो वापि मुच्येत प्रसादे सति शाङ्करे ॥ ७२ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ७२ ॥

अथ ब्रह्मादयोऽपि शिवप्रसादेनैव नित्यसिद्धा इत्याह-

ब्रह्माद्या विबुधाः सर्वे स्वस्वस्थाननिवासिनः ।
नित्यसिद्धा भवन्त्येव प्रसादात् पारमेश्वरात् ॥ ७३ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ७३ ॥

ननु सर्वशिवात्मकज्ञानेनैव सांसारिकदुःखनिवृत्तेः किं
प्रसादेनेत्यत्र-

भोक्ता भोग्यं प्रेरयिता भोगोपकरणानि च ।
सर्वं शिवमयं भाति प्रसादात् पारमेश्वरात् ॥

मरितोण्डदार्यः

इति सूतसंहितावचनानुसारेणाह-

प्रसादे शाम्भवे सिद्धे परमानन्दकारणे ।
सर्वं शिवमयं विश्वं दृश्यते नात्र संशयः ॥ ७४ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ७४ ॥

[[२२६]]

अथ शिवप्रसादमहत्त्वं पुनः सूत्रद्वयेन कथयति-

संसारचक्रनिर्वाहनिमित्तं कर्म केवलम् ।
प्रसादेन विना शम्भोर्न कस्यापि निवर्तते ॥ ७५ ॥

संसारचक्रनिर्वाहकारणं कर्मैव तद् यज्ञादिना न नश्यति तस्यापि
कर्मरूपत्वेन पुनः परिपोषकत्वात् । तस्मात् कस्यापि शिवप्रसादेन विना
कर्म न नश्यतीति भावः ॥ ७५ ॥

बहुनात्र किमुक्तेन नास्ति नास्ति जगत्त्रये ।
समानमधिकं चापि प्रसादस्य महेशितुः ॥ ७६ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ७६ ॥

शिवप्रसादे सति योगभाजि
सर्वं शिवैकात्मतया विभाति ।
स्वकर्ममुक्तः शिवभावितात्मा
स प्राणलिङ्गीति निगद्यतेऽसौ ॥ ७७ ॥

इति श्रीमत्षट्स्थलब्रह्मिणा शिवयोगिनाम्ना रेणुकाचार्येण प्रणीते
सिद्धान्तशिखामणौ प्रसादिनः सप्तविधस्थलप्रसङ्गो नामैकादशः
परिच्छेदः ॥ ११ ॥

योगभाजि स्वरूपहानिवृद्धिव्यतिरेकेण सजातीयसमरसशिवयोगवति
शिवप्रसादे सति सिद्धे सति सर्वं विश्वं कृत्स्नं जगत् शिवैकात्मतया
शिवाभेदेन विभाति । तस्मात् शिवभावितात्मा शिवाभेदेन
भावितस्वरूपवान् सोऽसौ प्रसादी स्वकर्ममुक्तः कर्मणोऽपि शिवमयत्वेन
स्वस्वरूपतयाऽप्रतिबन्धकत्वात् स्वकर्मपाशविनिर्मुक्तः सन् प्राणलिङ्गीति
निगद्यते कथ्यत इत्यर्थः ॥ ७७ ॥

[[२२७]]

इति श्रीमत्पदवाक्यप्रमाणपारावारधुरीणश्रीमरितोण्टदार्येण
विरचितायां तत्त्वप्रदीपिकाख्यायां सिद्धान्तशिखामणिव्याख्यायां
प्रसादिनः सप्तविधप्रसङ्गो नामैकादशः परिच्छेदः ॥ ११ ॥