०३ भूर्-लोकावतरणम्

तृतीयः परिच्छेदः

अथात्र शिवयोगिनो रेणुकस्य भूलोकावतरणप्रसङ्गकथनार्थं
प्रथममष्टभिः श्लोकैः कैलासवर्णनं करोति-

कदाचिदथ कैलासे कलधौतशिलामये ।
गन्धर्ववामनयनाक्रीडामौक्तिकदर्पणे ॥ १ ॥

अथ रेणुकावतरणानन्तरं कदाचिद् रजतमयपाषाणप्रदेशे
गन्धर्ववनिताक्रीडाया मौक्तिकदर्पणे ॥ १ ॥

मन्दारवकुलाशोकमाकन्दप्रायभूरुहे ।
मल्लीमरन्दनिष्यन्दपानपीनमधुव्रते ॥ २ ॥

मन्दारमाकन्दादिनानावृक्षवति
मल्लिकाकुसुममकरन्दस्रवणपानपरिपुष्टभ्रमरे ॥ २ ॥

कुङ्कुमस्तबकामोदकूलङ्कषहरिन्मुखे ।
कलकण्ठकुलालापकन्दलद्रागबन्धुरे ॥ ३ ॥

कुङ्कुमकुसुमगुच्छामोदभरितकूलस्पृशन्नदीपप्रवाहवति
कोकिलसमूहरवबाहुल्योद्भवपञ्चमस्वरमनोहरे ॥ ३ ॥

[[२३]]

किन्नरीगीतमाधुर्यपरिवाहितगह्वरे ।
सानन्दवरयोगीन्द्रवृन्दालङ्कृतकन्दरे ॥ ४ ॥

किन्नरस्त्रीगीतमाधुर्यप्रवाहितगुहाप्रदेशे
सानन्दगणेशमुख्यशिवयोगिसमूहालङ्कृतप्रदेशभागवति ॥ ४ ॥

हेमारविन्दकलिकासुगन्धिरसमानसे ।
शातकुम्भमयस्तम्भशतोत्तुङ्गविराजिते ॥ ५ ॥

हेमारविन्दकलिकामोदरसभरितमानसरोवरे
स्वर्णमयस्तम्भशतौन्नत्यप्रकाशमाने ॥ ५ ॥

माणिक्यदीपकलिकामरीचिद्योतितान्तरे ।
द्वारतोरणसंरूढशङ्खपद्मनिधिद्वये ॥ ६ ॥

मणिप्रदीपकलिकाकारशिखामयूखप्रकाशितान्तःपुरे
द्वारतोरणस्तम्भसंलग्नशङ्खपद्मनिधिद्वये ॥ ६ ॥

मुक्तातारकितोदारवितानाम्बरमण्डिते ।
स्पर्शलक्षितवैडूर्यमयभित्तिपरम्परे ॥ ७ ॥

मुक्तामणिरचितनक्षत्रवन्महावितानपटालङ्कृते
स्पर्शवेद्युपलक्षितवैडूर्यरत्नमयभित्तिश्रेणिमति ॥ ७ ॥

[[२४]]

सञ्चरत्प्रमथश्रेणीपदवाचालनूपुरे ।
प्रवालवलभीशृङ्गशृङ्गारमणिमण्डपे ॥ ८ ॥

सञ्चरत्प्रमथपादप्रदेशकूजत्कटके
प्रवालवलभीमुख्यशृङ्गारमणिमण्डपे ॥ ८ ॥

सिंहासनमध्यस्थितं परमेश्वरं पञ्चदशभिः श्लोकैर्वर्णयति-

वन्दारुदेवमुकुटमन्दाररसवासितम् ।
रत्नसिंहासनं दिव्यमध्यस्तं परमेश्वरम् ॥ ९ ॥

नमनशीलत्रयस्त्रिंशत्कोटिदेवतामुकुटकल्पप्रसूनरसमनोहरं
नवरत्नमयसिंहासनं तन्मण्टपमध्ये भाति ॥ ९ ॥

तमास्थानगतं देवं सर्वलोकमहेश्वरम् ।
त्रय्यन्तकमलारण्यविहारकलहंसकम् ॥ १० ॥

तत्र विद्यमानः परमेश्वरः कीदृश इत्यत्राह - देवमित्यादिना ।
क्रीडाशीलः सर्वलोकेशो वेदान्तमयकमलसमूहविहारराजहंसः ॥ १० ॥

उदारगुणमोङ्कारशुक्तिकापुटमौक्तिकम् ।
सर्वमङ्गलसौभाग्यसमुदायनिकेतनम् ॥ ११ ॥

त्यागशील ओङ्कारशुक्तिकापुटमौक्तिकः
सर्वमङ्गलसौभाग्यसमूहस्थानभूतः ॥ ११ ॥

[[२५]]

संसारविषमूर्च्छालुजीवसञ्जीवनौषधम् ।
नित्यप्रकाशनैर्मल्यकैवल्यसुरपादपम् ॥ १२ ॥

संसारविषमूर्च्छितजीवसञ्जीवनौषधः स्वप्रकाशेनैव निर्मलः
परमुक्तिप्रदानकल्पद्रुमः ॥ १२ ॥

अनन्तपरमानन्दमकरन्दमधुव्रतम् ।
आत्मशक्तिलतापुष्यत्त्रिलोकीपुष्पकोरकम् ॥ १३ ॥

अपारपरमानन्दरसास्वादनमधुव्रतः
स्वसमवेतशक्तिकल्पलतापुष्यल्लोकत्रयकुसुमकोरकः ॥ १३ ॥

ब्रह्माण्डकुण्डिकाषण्डपिण्डीकरणपण्डितम् ।
समस्तदेवताचक्रचक्रवर्तिपदे स्थितम् ॥ १४ ॥

ब्रह्माण्डसमूहलोलीकरणप्रवीणो
नारायणादिसकलदेवतासमूहचक्रवर्ती ॥ १४ ॥

चन्द्रबिम्बायुतच्छायादायादद्युतिविग्रहम् ।
माणिक्यमुकुटज्योतिर्मञ्जरीपिञ्जराम्बरम् ॥ १५ ॥

चन्द्रायुतप्रभास्पर्धमानतेजा
मुकुटगतनवरत्नज्योतिर्मञ्जरीविचित्राम्बरः ॥ १५ ॥

[[२६]]

चूडालं सोमकलया सुकुमारबिसाभया ।
कल्याणपुष्पकलिकाकर्णपूरमनोहरम् ॥ १६ ॥

कोमलकन्दाभसोमकलाशिरोभूषणः
परममङ्गलसुमकुड्मलकर्णाभरणमनोहरः ॥ १६ ॥

मुक्तावलयसम्बद्धमुण्डमालाविराजितम् ।
पर्याप्तचन्द्रसौन्दर्यपरिपन्थिमुखश्रियम् ॥ १७ ॥

मुक्ताप्रकरवलितमुण्डमालाविराजितः
पूर्णचन्द्रसौन्दर्यपरिपन्थिमुखश्रीः ॥ १७ ॥

प्रातःसम्फुल्लकमलपरियायत्रिलोचनम् ।
मन्दस्मितमितालापमधुराधरपल्लवम् ॥ १८ ॥

प्रातः प्रफुल्लकमलपर्यायत्रिलोचनः
मन्दस्मितपरिमितवचोविलासमनोहराधरपल्लवः ॥ १८ ॥

गण्डमण्डलपर्यन्तक्रीडन्मकरकुण्डलम् ।
कालिम्ना कालकूटस्य कण्ठनाले कलङ्कितम् ॥ १९ ॥

कपोलाभोगपर्यन्तचलनमकरकुण्डलः कालकूटकालिम्ना
कलङ्कितकण्ठनालः ॥ १९ ॥

मणिकङ्कणकेयूरमरीचिकरपल्लवैः ।
चतुर्भिः संविराजन्तं बाहुमन्दारशाखिभिः ॥ २० ॥

मणिमयकङ्कणकेयूरप्रकाशमानकरपल्लवचतुष्कः
बाहुकल्पद्रुमभासमानः ॥ २० ॥

[[२७]]

गौरीपयोधराश्लेषकृतार्थभुजमध्यमम् ।
सुवर्णब्रह्मसूत्राङ्कं सूक्ष्मकौशेयवाससम् ॥ २१ ॥

उमापयोधरालिङ्गनकृतार्थवक्षःस्थलः कनकमयब्रह्मसूत्राङ्कितः
अतिसूक्ष्मदुकूलाम्बरः ॥ २१ ॥

नाभिस्थानावलम्बिन्या नवमौक्तिकमालया ।
गङ्गयेव कृताश्लेषं मौलिभागावतीर्णया ॥ २२ ॥

नाभिपर्यन्तगतनवमौक्तिकमालया मस्तकावतीर्णया गङ्गयेव
कृतालिङ्गिनः ॥ २२ ॥

पदेन मणिमञ्जीरप्रभापल्लवितश्रिया ।
चन्द्रवत्स्फाटिकं पीठं समावृत्य स्थित पुरः ॥ २३ ॥

मणिमयनूपुरप्रकाशपल्लवितश्रिया पादेन सिंहासनस्य
पुरतश्चन्द्रकान्तमयफलकमावृत्य वर्तमान इत्यर्थः ॥ २३ ॥

एवं महेश्वरं वर्णयित्वाऽथ तद्वामाङ्कसंस्थितां भवानीं
त्रयोदश सूत्रैर्वर्णयति-

वामपार्श्वनिवासिन्या मङ्गलप्रियवेषया ।
समस्तलोकनिर्माणसमवायस्वरूपया ॥ २४ ॥

तद्वामपार्श्ववर्तिनी माङ्गल्येनासेचनकरूपवती
सकललोकसृष्टावुपादानकारणीभूता ॥ २४ ॥

[[२८]]

इच्छाज्ञानक्रियारूपबहुशक्तिविलासया ।
विद्यातत्त्वप्रकाशिन्या विनाभावविहीनया ॥ २५ ॥

इच्छाज्ञानक्रियादिबहुशक्तिविलासवती आत्मविद्याप्रकाशिनी
शिवेनाविनाभूता ॥ २५ ॥

संसारविषकान्तारदाहदावाग्निलेखया ।
धम्मिल्लमल्लिकामोदझङ्कुर्वद्भृङ्गमालया ॥ २६ ॥

संसारविषविपिनदाहदावाग्निराजिः
धम्मिल्लमल्लिकामोदझङ्कुर्वदलिमालिका ॥ २६ ॥

सम्पूर्णचन्द्रसौभाग्यसंवादिमुखपद्मया ।
नासामौक्तिकलावण्यनाशीरस्मितशोभया ॥ २७ ॥

पूर्णचन्द्रकान्तिविवदन्मुखपङ्कजा
नासामौक्तिकलावण्यबाहुल्यच्छुरितमन्दस्मितकान्तिमती ॥ २७ ॥

मणिताटङ्करङ्गान्तर्वलितापाङ्गलीलया ।
नेत्रद्वितयसौन्दर्यनिन्दितेन्दीवरत्विषा ॥ २८ ॥

रत्नखचितताटङ्करङ्गमण्टपमध्यलास्यमानापाङ्गलीला
नयनद्वयसौन्दर्यनिन्दितेन्दीवरश्रीः ॥ २८ ॥

[[२९]]

कुसुमायुधकोदण्डकुटिलभ्रूविलासया ।
बन्धूककुसुमच्छायाबन्धुभूताऽधरश्रिया ॥ २९ ॥

मारकार्मुककुटिलभ्रूलताविलासवती
बन्धूककुसुमकान्तिबन्धुराधरश्रीः ॥ २९ ॥

कण्ठनालजितानङ्गकम्बुबिब्बोकसम्पदा ।
बाहुद्वितयसौभाग्यवञ्चितोत्पलमालया ॥ ३० ॥

कण्ठनालजितानङ्गजयशङ्खनिनादवती
बाहुद्वितयसौभाग्यन्यक्कृतोत्पलमालिका ॥ ३० ॥

स्थिरयौवनलावण्यशृङ्गारितशरीरया ।
अत्यन्तकठिनोत्तुङ्गपीवरस्तनभारया ॥ ३१ ॥

स्थिरयौवनलावण्यालङ्कृतकलेवरा अत्यन्तकठिनोत्तुङ्गस्तनभारवती ॥ ३१ ॥

मृणालवल्लरीतन्तुबन्धुभूतावलग्नया ।
शृङ्गारतटिनीतुङ्गपुलिनश्रोणिभारया ॥ ३२ ॥

कमलनालतन्तुनिभातिसूक्ष्ममध्यप्रदेशा
शृङ्गारतरङ्गिणीतुङ्गपुलिनश्रोणिभारविराजिता ॥ ३२ ॥

कुसुम्भकुसुमच्छायाकोमलाम्बरशोभया ।

[[३०]]

शृङ्गारोद्यानसंरम्भरम्भास्तम्भोरुकाण्डया ॥ ३३ ॥

कुसुम्भकुसुमकान्तिमत्कोमलाम्बरशोभमाना
शृङ्गारोद्यानसम्भ्रमरम्भास्तम्भायमानोरुकाण्डा ॥ ३३ ॥

चूतप्रवालसुषमासुकुमारपदाब्जया ।
स्थिरमङ्गलशृङ्गारभूषणालङ्कृताङ्गया ॥ ३४ ॥

चूतपल्लवमनोहरसुकुमारपदाब्जा स्थिरमाङ्गल्यभूषणालङ्कृताङ्गी ॥
३४ ॥

हारनूपुरकेयूरचमत्कृतशरीरया ।
चक्षुरानन्दलतया सौभाग्यकुलविद्यया ॥ ३५ ॥

मुक्ताहारमञ्जीरकेयूरचमत्कृतशरीरिणी नयनानन्दलतिका सौभाग्यस्य
कुलविद्यारूपिणी ॥ ३५ ॥

उमया सममासीनं लोकजालकुटुम्बया ।
अपूर्वरूपमभजन् परिवाराः समन्ततः ॥ ३६ ॥

लोकसमूहकुटुम्बिनी एवंरूपयोमया दिव्यकन्यकया सह दिव्यसिंहासने
समासीनमपूर्वरूपं परमेश्वरं
समन्तान्नारायणादित्रयस्त्रिंशत्कोटिदेवता अभजन्नित्यर्थः ॥ ३६ ॥

एवं पार्वतीपरमेश्वरौ वर्णयित्वाग्रे
विंशतिसूत्रैस्ताभिर्देवताभिर्विधीयमानां सेवां वर्णयति-

[[३१]]

पुण्डरीकाकृतिं स्वच्छं पूर्णचन्द्रसहोदरम् ।
दधौ तस्य महालक्ष्मीः सितमातपवारणम् ॥ ३७ ॥

श्वेतकमलवन्निर्मलं पूर्णचन्द्रसहोदरं श्वेतच्छत्रं
महालक्ष्मीस्तस्य परमेश्वरस्य धृतवतीत्यर्थः ॥ ३७ ॥

तन्त्रीझङ्कारशालिन्या सङ्गीतामृतविद्यया ।
उपतस्थे महादेवमुपान्ते च सरस्वती ॥ ३८ ॥

कूजन्नवरत्नमयकङ्कणसमूहयुक्तहस्तेनोपनिषद्भास्वरमण्डल-
तन्त्रीझङ्कारशोभमानसङ्गीतरसविद्यया सरस्वती समीपे महादेवं
सेवितवतीत्यर्थः ॥ ३८ ॥

झणत्कङ्कणजातेन हस्तेनोपनिषद्वधूः ।
ओङ्कारतालवृन्तेन वीजयामास शङ्करम् ॥ ३९ ॥

कूजन्नवरत्नमयकङ्कणसमूहयुक्तहस्तेनोपनिषद्वधूः ओङ्कारव्यजनेन
शिवं वीजयामासेत्यर्थः ॥ ३९ ॥

चलच्चामरिकाहस्ता झङ्कुर्वन्मणिकङ्कणाः ।
आसेवन्त तमीशानमभितो दिव्यकन्यकाः ॥ ४० ॥

दिव्यकन्यका इन्द्राणीप्रभृतिदेवस्त्रिय इत्यर्थः । स्पष्टमन्यत् ॥ ४० ॥

चामराणां विलोलानां मध्ये तन्मुखमण्डलम् ।
रराज राजहंसानां भ्रमतामिव पङ्कजम् ॥ ४१ ॥

विलोलानां चामराणां मध्ये शिवस्य मुखमण्डलं भ्रमतां
राजहंसानां मध्ये कमलमिव रराजेत्यर्थः ॥ ४१ ॥

[[३२]]

मन्त्रेण तमसेवन्त वेदाः साङ्गविभूतयः ।
भक्त्या चूडामणिं कान्तं वहन्त इव मौलिभिः ॥ ४२ ॥

साङ्गविभूतयः शिक्षाद्यङ्गविशिष्टा ऋगादिवेदपुरुषा
उपनिषद्भागरूपमस्तकैस्तं परमेश्वरं कान्तं चूडारत्नमिव
वहन्तः सन्तः प्रणवमन्त्रेण भक्त्या असेवन्तेत्यर्थः ॥ ४२ ॥

तदीयायुधधारिण्यस्तत्समानविभूषणाः ।
अङ्गभूताः स्त्रियः काश्चिदासेवन्त तमीश्वरम् ॥ ४३ ॥

वेदपुरुषायुधधारिण्यस्तत्समानविभूषणा अङ्गदेवतास्तं
शिवमासेवन्तेत्यर्थः ॥ ४३ ॥

आप्ताधिकारिणः केचिदनन्तप्रमुखा अपि ।
अष्टौ विद्येश्वरा देवमभजन्त समन्ततः ॥ ४४ ॥

परमाप्ताधिकारिणः केचिदनन्तसूक्ष्मशिवोत्तमैकनेत्रैकरुद्र-
त्रिमूर्तिश्रीकण्ठशिखण्डिसञ्ज्ञका अष्टविद्येश्वराः
परमेश्वरमभितोऽसेवन्त इत्यर्थः ॥ ४४ ॥

ततो नन्दी महाकालश्चण्डो भृङ्गी रिटिस्ततः ।
घण्टाकर्णः पुष्पदन्तः कपाली वीरभद्रकः ॥ ४५ ॥

एवमाद्या महाभागा महाबलपराक्रमाः ।

[[३३]]

निरङ्कुशमहासत्त्वा भेजिरे तं महेश्वरम् ॥ ४६ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ४५-४६ ॥

अथ प्रमथगणान् पञ्चभिः सूत्रैर्वर्णयति-

अणिमादिकमैश्वर्यं येषां सिद्धेरपोहनम् ।
ब्रह्मादयः सुरा येषामाज्ञालङ्घनभीरवः ॥ ४७ ॥

अणिमाद्यष्टैश्वर्यं येषां प्रमथगणानां सिद्धेः सकाशात्तुच्छम्
ब्रह्मादयः सुरा येषाम् आज्ञालङ्घने भयशीला इत्यर्थः ॥ ४७ ॥

मोक्षलक्ष्मीपरिष्वङ्गमुदिता येऽन्तरात्मना ।
येषामीषत्करं विश्वसर्गसंहारकल्पनम् ॥ ४८ ॥

अन्तर्मुखीभूतबुद्ध्या मोक्षलक्ष्म्यालिङ्गने मुदिताः येषां
विश्वसृष्ट्यादिकल्पनमीषत्करं तुच्छमित्यर्थः ॥ ४८ ॥

ज्ञानशक्तिः परा येषां सर्ववस्तुप्रकाशिनी । [ज्ञानशक्तिर्महेशस्य
तपत्यादित्यविग्रहा । (स्व० तं०)]
आनन्दकणिका येषां हरिब्रह्मादिसम्पदः ॥ ४९ ॥

येषां ज्ञानशक्तिः सर्ववस्तुप्रकाशिनी वरा श्रेष्ठा ब्रह्मादीनां
सम्पदो येषाम् आनन्दकणिकाः लेशा इत्यर्थः ॥ ४९ ॥

[[३४]]

आकाङ्क्षन्ते पदं येषां योगिनो योगतत्पराः ।
काङ्क्षणीयफलो येषां सङ्कल्पः कल्पपादपः ॥ ५० ॥

शिवयोगतत्परा योगिनो येषां पदं काङ्क्षन्ते अपेक्षन्ते येषां सङ्कल्पः
कामितार्थफलयुतकल्पपादप इत्यर्थः ॥ ५० ॥

कर्मकालादिकार्पण्यचिन्ता येषां न विद्यते ।
येषां विक्रमसन्नाहा मृत्योरपि च मृत्यवः ॥ ५१ ॥

ते सारूप्यपदं प्राप्ताः प्रमथा भेजिरे शिवम् ॥

सञ्चितादिकर्मभूतादिकालकामप्रभृत्युद्भूतकार्पण्यचिन्ता येषां न
विद्यते येषां पराक्रमप्रसङ्गा मृत्योरपि मृत्यवः सारूप्यपदं
प्राप्तास्ते प्रमथा हरं भेजिरे । भज सेवायामिति धातुः ॥ ५१ ॥

ब्रह्मोपेन्द्रमहेन्द्राद्या विश्वतन्त्राधिकारिणम् ।
आयुधालङ्कृतप्रान्ताः परितस्तं सिषेविरे ॥ ५२ ॥

ब्रह्मविष्णुरुद्रेन्द्रप्रभृतित्रयस्त्रिंशत्कोटिदेवाः
स्वकीयायुधालङ्कृतश्रेणियुग्माः विश्वसृष्टावधिकारवन्तं तं शिवं
परितः सिषेविर इत्यर्थः ॥ ५२ ॥

आदित्या वसवो रुद्रा यक्षगन्धर्वकिन्नराः ।
दानवा रक्षसा दैत्याः सिद्धा विद्याधरोरगाः ।
अभजन्त महादेवमपरिच्छिन्नसैनिकाः ॥ ५३ ॥

[[३५]]

आदित्या द्वादशादित्याः अष्टौ वसवः एकादश रुद्राः कुबेरप्रभृतियक्षाः
हाहाप्रभृतिगन्धर्वाः अश्वमुखादिकिन्नराः बाणादिदानवाः
रावणादिराक्षसाः तारकादिदैत्याः आदिनाथादिसिद्धाः
मणिभद्रादिविद्याधराः शेषाद्युरगाः अविच्छिन्नसैनिकाः सन्तो
महादेवमभजन्त इत्यर्थः ॥ ५३ ॥

वसिष्ठो वामदेवश्च पुलस्त्यागस्त्यशौनकाः ।
दधीचिर्गौतमश्चैव सानन्दशुकनारदाः ॥ ५४ ॥

उपमन्युभृगुव्यासपाराशरमरीचयः ।
इत्याद्या मुनयः सर्वे नीलकण्ठं सिषेविरे ॥ ५५ ॥

पार्श्वस्थपरिवाराणां विमलाङ्गेषु बिम्बितः ।
सर्वान्तर्गतमात्मानं स रेजे दर्शयन्निव ॥ ५६ ॥

अथ परमेश्वरस्य राजव्यापारं दशभिः सूत्रैः प्रदर्शयति-

क्षणं स शम्भुर्देवानां कार्यभागं निरूपयन् ।
क्षणं गन्धर्वराजानां [राजाहःसखिभ्यष्टच् इति सूत्रेण
समासान्ताद्राजन् शब्दात् टच् प्रत्ययः ।] गानविद्यां विभावयन् ॥ ५७ ॥

ब्रह्मविष्णवादिभिर्देवैः क्षणमालापमाचरन् ।
क्षणं देवमृगाक्षीणां लालयन्नृत्यविभ्रमम् ॥ ५८ ॥

[[३६]]

व्यासादीनां क्षणं कुर्वन् वेदोच्चारेषु गौरवम् ।
विदधानः क्षणं देव्या मुखे बिम्बाधरे दृशः [तुलनीय - उमामुखे
बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि । कु० सं०] ॥ ५९ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ५९ ॥

हास्यनृत्यं क्षणं पश्यन् भृङ्गिणा परिकल्पितम् ।
नन्दिना वेत्रहस्तेन सर्वतन्त्राधिकारिणा ॥ ६० ॥

अमुञ्चता सदा पार्श्वमात्माभिप्रायवेदिना ।
चोदितां वासयन् कांश्चिद्विसृजन् भ्रूविलासतः ।
सम्भावयंस्तथा चान्यानन्यानपि नियामयन् ॥ ६१ ॥

भ्रूसञ्ज्ञया कांश्चिद्विसृजन् प्रेषयंस्तथान्यान् सम्भावयन् प्रियोक्तिं
वदन्नन्यान्नियामयन् शिक्षयन् । शिष्टं स्पष्टम् ॥ ६०-६१ ॥

समस्तभुवनाधीशमौलिलालितशासनः ।
अकुण्ठशक्तिरव्याजलावण्यललिताकृतिः ॥ ६२ ॥

समस्तभुवनाधीशः
ब्रह्ममस्तकस्थापितसमस्तज्ञानशक्तिमानप्रतिहतशक्तिः
निजलावण्यमनोहराकृतिरित्यर्थः ॥ ६२ ॥

स्थिरयौवनसौरभ्यशृङ्गारितकलेवरः ।
आत्मशक्त्यमृतास्वादरसोल्लासितमानसः ॥ ६३ ॥

वृद्धिक्षयरहितयौवनोद्रेकशृङ्गारितकलेवरः
स्वसमवेतशक्तिलक्षणपरमानन्दरसास्वादनोज्जृम्भितान्तरङ्गः ॥ ६३ ॥

[[३७]]

स्वाभाविकमहैश्वर्यविश्रामपरमावधिः ।
निष्कलङ्कमहासत्त्वनिर्मितानेकविग्रहः ॥ ६४ ॥

स्वाभाविकेति । अनौपाधिकसर्वज्ञतादि [सर्वज्ञता तृप्तिरनादिबोधः
स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्विधिज्ञा आहुः
षडङ्गानि महेश्वरस्य ॥ (वायु पु०)] महैश्वर्यविश्रान्तिपर्यन्तभूमिः
अकलङ्कमहाशक्तिनिर्मितानेकदिव्यमङ्गलमूर्तिमान् ॥ ६४ ॥

अखण्डारातिदोर्दण्डकण्डूखण्डनपण्डितः ।
चिन्तामणिः प्रपन्नानां श्रीकण्ठः परमेश्वरः ॥ ६५ ॥

अपरिमितसज्जनारातिबाहुदण्डकण्डूखण्डनविचक्षणः अत एव निर्मलान्तः
करणानामिष्टार्थप्रदः श्रीकण्ठः परमेश्वरोऽराजत इति शेषः ॥ ६५ ॥

एवं शिवस्य वैभवं वर्णयित्वाग्रे सूत्रैकादशकेन रेणुकगणेशस्य
शिवभक्तिमहत्त्वं सूचयति -

सभान्तरगतं तन्त्रं रेणुकं गणनायकम् ।
प्रसादं सुलभं दातुं ताम्बूलं स तमाह्वयत् ॥ ६६ ॥

स शिवः सभामध्यगतं तन्त्रं मुख्यम् अथवा प्रसिद्धं तं रेणुकं
प्रति सुलभं ताम्बूलप्रसादं दातुं शिरसा आह्वयत् आकारितवानित्यर्थः ॥
६६ ॥

शम्भोराह्वानसन्तोषसम्भ्रमेणैव दारुकम् ।
उल्लङ्घ्य पार्श्वमगमल्लोकनाथस्य रेणुकः ॥ ६७ ॥

[[३८]]

पार्श्वं वामभागमित्यर्थः ॥ ६७ ॥

तमालोक्य विभुस्तत्र समुल्लङ्घितदारुकम् ।
माहात्म्यं निजभक्तानां द्योतयन्निदमब्रबीत् ॥ ६८ ॥

विभुः स्वतन्त्र इत्यर्थः । स्पष्टमन्यत् ॥ ६८ ॥

रे रे रेणुक दुर्बुद्धे कथमेष त्वयाऽधुना ।
उल्लङ्घितः सभामध्ये मम भक्तो हि दारुकः ॥ ६९ ॥

लङ्घनं मम भक्तानां परमानर्थकारणम् ।
आयुः श्रियं कुलं कीर्त्तिं निहन्ति हि शरीरिणाम् ॥ ७० ॥

हि प्रसिद्धमित्यर्थः ॥ ७० ॥

मम भक्तमवज्ञाय मार्कण्डेयं पुरा यमः ।
मत्पादताडनादासीत् स्मरणीयकलेवरः ॥ ७१ ॥

विनष्टकलेवरत्वात् स्मरणीयकलेवर आसीदित्यर्थः । स्पष्टमन्यत् ॥ ७१ ॥

भृगोश्च शङ्कुकर्णस्य मम भक्तिमतोस्तयोः ।
कृत्वानिष्टमभूद् विष्णुर्विकेशा दशयोनिभाक् ॥ ७२ ॥

विकेशः शिरःपूर्वभागोत्पादितकेशवानित्यर्थः ॥ ७२ ॥

[[३९]]

मद्भक्तेन दधीचेन कृत्वा युद्धं जनार्दनः ।
भग्नचक्रायुधः पूर्वं पराभवमुपागमत् ॥ ७३ ॥

कृताश्वमेधो दक्षोऽपि मद्भक्तांश्च गणेश्वरान् ।
अवमत्य सभामध्ये मेषवक्त्रोऽभवत् पुरा ॥ ७४ ॥

अवमत्य उदास्येत्यर्थः ॥ ७४ ॥

श्वेतस्य मम भक्तस्य दुरतिक्रमतेजसः ।
औदासीन्येन कालोऽपि मया दग्धः पुराऽभवत् ॥ ७५ ॥

दुरतिक्रमतेजसः अनिन्दिततेजस इत्यर्थः ॥ ७५ ॥

एवमन्येऽपि बहवो मद्भक्तानामतिक्रमात् ।
परिभूता हताश्चासन् भक्ता मे दुरतिक्रमाः ॥ ७६ ॥

एवं भक्तमाहात्म्यं वर्णयित्वा तदुल्लङ्घनदोषस्य फलं निर्दिशति-

अविचारेण मद्भक्तो लङ्घितो दारुकस्त्वया ।
एष त्वं रेणुकानेन जन्मवान् भव भूतले ॥ ७७ ॥

एष दारुक इति सम्बन्धः ॥ ७७ ॥

अथ रेणुको जन्मनि भीतः सन् पञ्चभिः सूत्रैः शिवं विज्ञापयति-

[[४०]]

इत्युक्तः परमेशेन भक्तमाहात्म्यशंसिना ।
प्रार्थयामास देवेशं प्रणिपत्य स रेणुकः ॥ ७८ ॥

इत्युक्तो लोकहितार्थमित्युक्तो भवदाह्वानसम्भ्रान्त्या मया अज्ञानादयं
लङ्घितः मां पाहीति प्रार्थयामासेत्यर्थः ॥ ७८ ॥

मानुषीं योनिमासाद्य महादुःखविवर्धिनीम् ।
[तुलनीय - सति मूले तद्विपाको जात्यायुर्भोगाः । (पा० यो० सू०]
जात्यायुर्भोगवैषम्यहेतुकर्मोपपादिनीम् ॥ ७९ ॥

समस्तदेवकैङ्कर्यकार्पण्यप्रसवस्थलीम् ।
महातापत्रयोपेतां वर्णाश्रमनियन्त्रिताम् ॥
विहाय त्वत्पदाम्भोजसेवां किं वा वसाम्यहम् ॥ ८० ॥

त्वत्पदाम्बुजसेवां विहाय एवंरूपमानुषीं योनिमासाद्य स्थातुं
योग्यः किमहमित्यर्थः ॥ ७९-८० ॥

यथा मे मानुषो भावो न भवेत् क्षितिमण्डले ।
तथा प्रसादं देवेश विधेहि करुणानिधे ॥ ८१ ॥

एवं प्रार्थितवन्तं रेणुकं स्वात्मत्वेन निश्चित्याभयं दत्वा षड्भिः
सूत्रैः प्रयोजनं दर्शयति-

इति सम्प्रार्थितो देवो रेणुकेन महेश्वरः ।
मा भैषीर्मम भक्तानां कुतो भीतिरिहेष्यति ॥ ८२ ॥

[[४१]]

श्रीशैलस्योत्तरे भागे त्रिलिङ्गविषये शुभे ।
कोल्लिपाक्यभिधानोऽस्ति कोऽपि ग्रामो महत्तरः ॥ ८३ ॥

त्रिलिङ्गविषये आन्ध्रदेशे कोल्लिपाक्याख्यमहाग्रामोऽस्ति ॥ ८३ ॥

सोमेश्वराभिधानस्य तत्र वासवतो मम ।
अस्पृशन् मानुषं भावं लिङ्गात् प्रादुर्भविष्यसि ॥ ८४ ॥

तत्र वासवतः सोमेश्वराभिधानस्य मम लिङ्गाद् मानुषं
भावमस्पृशन् प्रादुर्भविष्यसीत्यर्थः ॥ ८४ ॥

मदीयलिङ्गसम्भूतं मद्भक्तपरिपालकम् ।
विस्मिता मानुषाःसर्वे त्वां भजन्तु मदाज्ञया ॥ ८५ ॥

मदद्वैतपरं शास्त्रं वेदवेदान्तसम्मतम् ।
स्थापयिष्यसि भूर्लोके सर्वेषां हितकारकम् ॥ ८६ ॥

मम प्रतापमतुलं मद्भक्तानां विशेषतः ।
प्रकाशय महीभागे वेदमार्गानुसारतः ॥ ८७ ॥

अथ सङ्ग्रहकर्तुः शिवयोगिनो वाक्यम्-

इत्युक्त्वा परमेश्वरः स भगवान् भद्रासनादुत्थितो
ब्रह्मोपेन्द्रमुखान् विसृज्य विबुधान् भ्रूसञ्ज्ञया केवलम् ।
पार्वत्या सहितो गणैरभिमतैः प्राप स्वमन्तःपुरं
क्षोणीभागमवातरत् पशुपतेराज्ञावशाद् रेणुकः ॥ ८८ ॥

[[४२]]

इति श्रीसिद्धान्तशिखामणौ रेणुकस्य भूर्लोकावगतिर्नाम तृतीयः
परिच्छेदः ॥ ३ ॥

अभिमतैः अत्याप्तैः नन्द्यादिभिः । स्वकमन्तःपुरं भगवान् प्राप । अथ
रेणुको ब्रह्माधिपतेः शिवस्य आज्ञावशाद् भूभागं प्राप्तवानित्यर्थः
॥ ८८ ॥

इति श्रीमत्पदवाक्यप्रमाणपारावारधुरीणश्रीमरितोण्टदार्येण
विरचितायां तत्त्वप्रदीपिकाख्यायां सिद्धान्तशिखामणिव्याख्यायां
रेणुकस्य भूर्लोकावतरणन्नाम तृतीयः परिच्छेदः ॥ ३ ॥