प्रथमः परिच्छेदः
श्रीनाथः सोममूर्तिर्जयति परशिवस्त्र्यम्बकस्ताररूपः
स्वच्छश्रीब्रह्मरन्ध्रस्थितसितजलप्रोद्यदब्जत्रिकोणे ।
इच्छाज्ञानक्रियाख्ये त्रिविधलिपिमये हक्षलार्णाग्रपार्श्वे
कृत्स्नार्णौन्मुख्यबिन्दौ चिदचिदुदयकृद्दृक्क्रियाङ्घ्रिद्वयाढ्यः ॥
अनेकविधसिद्धान्तशिखामणिमनामयम् ।
श्रीवीरशैवसिद्धान्तमेकोत्तरशतस्थलम् ॥
रेणुकागस्त्यसंवादं निगमागमविश्रुतम् ।
प्रदीपयति गुप्तार्थमुद्धृत्य शिवयोगिराट् ॥
शिवस्तुतिः
अत्र कलिकालप्रवेशानन्तरं लोकहितार्थं रेणुकगणेश्वर इति प्रसिद्धो
रेवणसिद्धेश्वरः कुम्भसम्भवाय वीरशैवशास्त्रमुपदिष्टवान् ।
तदनन्तरं
रेवणसिद्धेश्वरदृष्टिगर्भसम्भूतसिद्धरामेश्वरसम्प्रदायप्रसिद्धः
सकलनिगमागमपरागः शिवयोगीश्वर इत्यभिधानवान् कश्चिन्माहेश्वरः
तद्रेणुकागस्त्यसंवादं निर्विघ्नेन स्वशिष्यान् बोधयितुं स्वमनसि
कृतसकलसिद्धान्तश्रेष्ठनिगमागमैक्यगर्भीकारलक्षणस्वेष्टदेवता-
नमस्काररूपमङ्गलं शिष्यशिक्षार्थं सप्तभिः श्लोकैर्निबध्नाति-
[[२]]
त्रैलोक्यसम्पदालेख्यसमुल्लेखनभित्तये ।
सच्चिदानन्दरूपाय शिवाय ब्रह्मणे नमः ॥ १ ॥
जगद्रूपमायिकसम्पच्चित्रसमुल्लेखनाधारभित्तिरूपाय
सच्चिदानन्दस्वरूपाय जीवविलक्षणाय ब्रह्मणे वेदान्तप्रतिपाद्याय
शिवाय शिवसिद्धान्तप्रसिद्धपरमशिवाय नम इत्यर्थः ॥ १ ॥
ब्रह्मेति व्यपदेशस्य विषयं यं प्रचक्षते ।
वेदान्तिनो जगन्मूलं तं नमामि परं शिवम् ॥ २ ॥
ब्रह्मेति व्यपदेशस्य परब्रह्मेति शब्दस्य वेदान्तिनो यं परमात्मानं
विषयमर्थं प्रचक्षते तं जगत्कारणं परशिवं
शिवसिद्धान्तप्रसिद्धपरमशिवं नमामीत्यर्थः ॥ २ ॥
यस्योर्मिबुद्बुदाभासः षट्त्रिंशत्तत्त्वसञ्चयः ।
निर्मलं शिवनामानं तं वन्दे चिन्महोदधिम् ॥ ३ ॥
शिवादिक्षित्यन्तषट्त्रिंशत्तत्त्वसमूहो यस्य परशिवाख्यचित्समुद्रस्य
ऊर्मिबुद्बुदाभासो घृतकाठिन्यन्यानेनैकदेशे तरङ्गादिवदाभाति
निर्मलं मलत्रयरहितं शिवनामानं तं चिन्महोदधिं वन्दे
नमस्करोमीत्यर्थः ॥ ३ ॥
यद्बासा भासते विश्वं यत्सुखेनानुमोदते ।
नमस्तस्मै गुणातीतविभवाय परात्मने ॥ ४ ॥
तस्य भासा सर्वमिदं विभाति [कठोपनिषद् २।५।१५।] इति श्रुतेर्विश्वं यस्य
परब्रह्मणः प्रकाशेन प्रकाशते अस्यैवानन्दस्यान्यानि भूतानि
मात्रामुपजीवन्ति [वृ० उ० ४।३।३२ ।] इति श्रुतेः यत्परब्रह्मसुखेनानुमोदते
तस्मै मायिकसत्त्वरजस्तमोगुणातीतविभवाय परमात्मने शिवाय नम
इत्यर्थः ॥ ४ ॥
[[३]]
सदाशिवमुखाशेषतत्त्वोन्मेषविधायिने ।
निष्कलङ्कस्वभावाय नमः शान्ताय शम्भवे ॥ ५ ॥
मयूराण्डरसन्यायेन [यथा मयूरनाम्नः पक्षिणोऽस्य रसे
नानाविधरागवद्वर्हमयंशरीरं प्रच्छन्नं भवति कालक्रमेण
बहिराविर्भवति तथैव शिवस्य विश्वोत्तीर्णतादशायां सर्वं
वैचित्र्यमयं जगत् परमशिवे प्रच्छन्नं सत् तिष्ठति कालक्रमेण
चाविर्भवति ।] स्वविमर्शशक्तिसामरस्यापन्नसदाशिवादिभूम्यन्त-
षट्त्रिंशत्तत्त्वविकासकारिणे विश्वदोषरहितस्वरूपाय सुखभोक्त्रे
सुखधात्रे शम्भवे नम इत्यर्थः ॥ ५ ॥
स्वेच्छाविग्रहयुक्ताय स्वेच्छावर्तनवर्तिने ।
स्वेच्छाकृतत्रिलोकाय नमः साम्बाय शम्भवे ॥ ६ ॥
स्थिरेभिरङ्गैः पुरुरूप उग्रः इति श्रुतेर्भक्तानुग्रहार्थं
स्वेच्छाकल्पितदिव्यमङ्गलविग्रहयुक्ताय स्वच्छन्दचारिणे
स्वेच्छाशक्तिनिर्मितलोकत्रयाय पार्वतीपतये परशिवाय नम इत्यर्थः ॥ ६ ॥
यत्र विश्राम्यतीशत्वं स्वाभाविकमनुत्तमम् ।
नमस्तस्मै महेशाय महादेवाय शूलिने ॥ ७ ॥
यत्र वेदागमप्रसिद्धपरब्रह्माख्यपरशिवे अनुत्तमं विश्वतः श्रेष्ठं
स्वाभाविकममायीयमीशत्वमुमामहेश्वरत्वं विश्राम्यति
घृतकाठिन्यवन्मूर्त्तिः सच्चिदानन्दलक्षणा ।
शिवाभिधेन सैवास्ति शिव एव हि सा सदा ॥
इति सूतगीतोक्तेस्तादात्म्यं भजते तस्मै महेश्वराय तमीश्वराणां
परमं महेश्वरम् इति श्रुतेर्ब्रह्मादिकारणेश्वराय महादेवाय
अपरिमितप्रकाशरूपाय शूलिने इच्छाज्ञानक्रियाशक्तिमयत्रिशूलिने
परमशिवाय नम इत्यर्थः । अनेनायं सिद्धान्तो
निर्विशेषब्रह्माद्वैतलक्षण इत्यनुसन्धेयः ।
एवंविधश्लोकसप्तकप्रतिपादितं वस्तु तत्परं ब्रह्म स एकः स एको रुद्रः स
ईशानः स भगवान् स महेश्वरः स महादेवः [अथ० उ० २।३।] इत्यथर्वशिर-
उपनिषदुक्तप्रकारेणैकमेवेति शिवाद्वैतशास्त्रप्रवीणैरवगन्तव्यम् ॥ ७ ॥
[[४]]
शक्तिस्तुतिः
एवं वेदागमसम्मत्या सप्तभिः श्लोकैः शिवं नमस्कृत्य तथैव
वेदागमादिप्रसिद्धनित्यसमवेतशिवशक्तिं पञ्चभिः श्लोकैः प्रस्तौति-
यामाहुः सर्वलोकानां प्रकृतिंशास्त्रपारगाः ।
तां धर्मचारिणीं शम्भोः प्रणमामि परां शिवाम् ॥ ८ ॥
वेदागमादिशास्त्रपारङ्गताः शिवज्ञानिनो यां परशिवसमवेतशक्तिं
सर्वलोकानां प्रकृतिं
मूलकारणीभूतज्ञानक्रियासामरस्यात्मिकामाहुः तां
शम्भोर्धर्मचारिणीं धर्मस्वरूपां परां सर्वोत्कृष्टां शिवां
भवानीं प्रणमामीत्यर्थः ॥ ८ ॥
यया महेश्वरः शम्भुर्नामरूपादिसंयुतः ।
तस्यै मायास्वरूपायै नमः परमशक्तये ॥ ९ ॥
यया स्वसमवेतशक्त्या महेश्वरो ब्रह्मादिसर्वकारणेश्वरः शम्भुः
शिवः सक्तो यया शम्भुर्भुक्तौ मुक्तौ च पशुगणस्यास्य इति
तत्त्वप्रकाशवाक्यानुसारेण नामरूप्रक्रियाविशिष्टो [आस्ति भाति प्रियं
नाम रूपं चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं
जगद्रूपमथ द्वयम् ॥ (पञ्चदशी)] जीवानां भुक्तिमुक्तिप्रदः स्यात् तस्यै
मायास्वरूपायै मायां तु प्रकृतिं विन्द्यान्मायिनं तु महेश्वरम् [श्वे०
उ० ४।१०] इति श्रुतेः प्रतिस्फुरणगत्या
जगदुपादानकारणीभूतसत्त्वरजस्तमोगुणात्ममायाख्यमूलप्रकृत्यै
परमशक्त्यै परमशिवसमवेतनित्यशक्त्यै नम इत्यर्थः ॥ ९ ॥
[[५]]
शिवाद्यादिसमुत्पन्नशान्त्यतीतपरोत्तराम् ।
मातरं तां समस्तानां वन्दे शिवकरीं शिवाम् ॥ १० ॥
शिवात् परशिवादाद्यादिपटगतशुक्लत्ववत् पूर्वं
समुत्पन्ननिवृत्तिप्रतिष्ठाविद्या
शान्तिशान्त्यतीतकलापरकुण्डलिनीशक्त्यपेक्षया उत्तरां श्रेष्ठां
समस्तानां मातरं शिवकरीं मङ्गलकरीं तां शिवां
सर्वमङ्गलां नमामीत्यर्थः ॥ १० ॥
इच्छाज्ञानादिरूपेण या शम्भोर्विश्वभाविनी ।
वन्दे तां परमानन्दप्रबोधलहरीं शिवाम् ॥ ११ ॥
शम्भोः परमेश्वरस्य या समवेतशक्तिः इच्छाज्ञानादिरूपेण
परास्य शक्तिर्विमला वितर्का स्वाभाविकी रुद्रसमानधर्मिणी ।
ज्ञानक्रियेच्छादिसहस्ररूपा तन्मे मनः शिवसङ्कल्पमस्तु ॥ [शि० सं०]
इति श्रुतेरिच्छादिरूपेण विश्वभाविनी विश्वप्रकाशिनी तां
परमानन्दप्रबोधलहरीं चिदानन्दोल्बणां शिवां वन्दे इत्यर्थः ॥ ११ ॥
अमृतार्थं प्रपन्नानां या सुविद्याप्रदायिनी ।
अहर्निशमहं वन्दे तामीशानमनोरमाम् ॥ १२ ॥
अमृतार्थं मुक्त्यर्थं प्रपन्नानां शरणागतानां या
शिवसमवेतशक्तिः सुविद्याप्रदायिनी वेदान्तवाक्यजा विद्या इति
सूतसंहितोक्तेस्तत्त्वमस्यादिवेदान्तमहावाक्यप्रकाशितशिवजीवैक्यविद्या-
प्रदायिनी तां शिवप्राणकान्तामहर्निशं वन्दे नमस्करोमीत्यर्थः ।
अनन्या स्याच्छिवा सैव वस्तुतो मूर्तिरैश्वरी इति
पौष्करवचनादेतत्पञ्चसूत्रप्रतिपादितां शक्तिं शिवाभेदेनैव
परामृशेदिति ॥ १२ ॥
[[६]]
ग्रन्थकारवंशवर्णनम्
एवं सङ्ग्रहेण पार्वतीपरमेश्वरौ नमस्कृत्वाऽनन्तरमष्टभिः श्लोकैः
शिवयोगिवंशानुगताचार्यान् प्रकटयति-
कश्चिदाचारसिद्धानामग्रणीः शिवयोगिनाम् ।
शिवयोगीति विख्यातः शिवज्ञानमहोदधिः ॥ १३ ॥
शिवयोगिनां मध्ये अग्रणीः श्रेष्ठः शिवज्ञानमहोदधिः शिवज्ञानस्य
समुद्रः कश्चिद्रेवणसिद्धेश्वरदृष्टिगर्भसम्भूतसिद्धरामेश्वरः
आचारसिद्धानां सदाचारसम्पन्नानां वंशे शिवयोगीति विख्यातः
आसीदित्यर्थः ॥ १३ ॥
शिवभक्तिसुधासिन्धुजृम्भणामलचन्द्रिका ।
भारती यस्य विदधे प्रायः कुवलयोत्सवम् ॥ १४ ॥
यस्य शिवयोगीति प्रसिद्धस्य सिद्धरामेश्वरस्य भारती वाक्
शिवभक्तिसुधासमुद्रवर्धनस्यामलचन्द्रिकाप्राया आधिक्येन
कुवलयोत्सवं भूमण्डलाख्यनीलोत्पलस्योत्सवं विदधे कृतवतीत्यर्थ ॥ १४
॥
तदेव विवृणोति-
तस्य वंशे समुत्पन्नो मुक्तामणिरिवामलः ।
मुद्ददेवाभिधाचार्यो मूर्धन्यः शिवयोगिनाम् ॥ १५ ॥
तस्य सिद्धरामेश्वरस्य वंशे शिववेदिनां शिवज्ञानिनां मध्ये
मूर्धन्यः श्रेष्ठो मुद्ददेवाख्याचार्यो निर्मलमुक्तामणिरिव समुत्पन्नः
उद्भूतवानित्यर्थः ॥ १५ ॥
मुद्दानात् सर्वजन्तूनां प्रणतानां प्रबोधतः ।
मुद्ददेवेति विख्याता समाख्या यस्य विश्रुता ॥ १६ ॥
[[७]]
सर्वप्राणिनां सन्तोषदानात् प्रणतानां प्रबोधनाद् मुद्ददेवेति
यस्यान्वर्थरूढिभ्यां विख्याता समाख्या विश्रुता लोकप्रसिद्धेत्यर्थः ॥
१६ ॥
तस्यासीन्नन्दनः शान्तः सिद्धनाथाभिधः शुचिः ।
शिवसिद्धान्तनिर्णेता शिवाचार्यः शिवात्मकः ॥ १७ ॥
तस्य मुद्ददेवस्य शुचिः पवित्रः शान्तः रागद्वेषरहितः शिवात्मकः
शिवस्वरूपः शिवसिद्धान्तनिर्णेता
त्रिपदार्थचतुष्पादयुक्तशिवागमार्थनिर्णायकः शिवाचार्यः
शिवसमयस्थापनाचार्यः सिद्धनाथाभिधः
सिद्धरामेश्वराभिधासंयुक्तः सिद्धनाथाचार्याख्यो नन्दनः कुमार
आसीदभवदित्यर्थः ॥ १७ ॥
वीरशैवशिखारत्नं विशिष्टाचारसम्पदम् ।
शिवज्ञानमहासिन्धुं यं प्रशंसन्ति देशिकाः ॥ १८ ॥
विशिष्टाचारसम्पदं सदाचारसम्पन्नं शिवज्ञानमहासिन्धुं यं
सिद्धनाथाचार्यं देशिका आचार्या वीरशैवशिखारत्नं वीरशैवानां
शिरोमणिं श्रेष्ठं सन्तं प्रशंसन्ति कथयन्तीत्यर्थः ॥ १८ ॥
यस्याचार्यकुलाज्जाता सतामाचारमातृका ।
शिवभक्तिः स्थिरा यस्मिन् जज्ञे विगतविप्लवा ॥ १९ ॥
सतां सत्पुरुषाणाम् आचारमातृका यस्य सिद्धनाथाचार्यस्य
आचार्यकुलाद् आचार्यवंशाद् जाता । विगतविप्लवा विगतदोषा
शिवभक्तिरष्टविधा यस्मिन् स्थिरा जज्ञे जातेत्यर्थः ॥ १९ ॥
तस्य वीरशिवाचार्यशिखारत्नस्य नन्दनः ।
अभवच्छिवयोगीति सिन्धोरिव सुधाकरः ॥ २० ॥
वीरशैवशिखामणेस्तस्य सिद्धनाथाचार्यस्य नन्दनः कुमारः सिन्धोः
समुद्रस्य सुधाकर इव शिवयोगीति आसीत् प्रसिद्धो जात इत्यर्थः ॥ २० ॥
[[८]]
अथैतच्छास्त्रसङ्ग्रहकर्ताऽयं शिवयोगी द्वादशसूत्रैः
स्वनामप्रशंसापूर्वकं शास्त्रावतारक्रमं निरूपयति-
चिदानन्दपराकाशशिवानुभवयोगतः ।
शिवयोगीति नामोक्तिर्यस्य याथार्थ्ययोगिनी ॥ २१ ॥
यस्य आचार्यस्य सत्यं ज्ञानमनन्तं ब्रह्म [तै० उ० २।१।१] आकाशशरीरं
ब्रह्म [तै० उ० १।६।२] इत्यादिश्रुतेश्चिदानन्दपराकाशरूपशिवानुभवयोगात्
शिवयोगीति नामोक्तिर्याथार्थ्ययोगिनी यथार्थेन संयुक्ता भवतीत्यर्थः ॥ २१
॥
शिवागमपरिज्ञानपरिपाकसुगन्धिना ।
यदीयकीर्तिपुष्पेण वासितं हरितां मुखम् ॥ २२ ॥
उक्तलक्षणशिवागमपरिज्ञानपरिपाकसुगन्धिना यदीयकीर्तिपुष्पेण
यस्याचार्यस्य कीर्तिकुसुमेन हरितां दिशां मुखं वासितं
पोषितमित्यर्थः ॥ २२ ॥
येन रक्षावती जाता शिवभक्तिः सनातनी ।
बुद्धादिप्रतिसिद्धान्तमहाध्वान्तांशुमालिना ॥ २३ ॥
बौद्धादिशिवसमयप्रतिकूलसिद्धान्तान्धकारचण्डकिरणेन येनाचार्येण
सनातनी शिवभक्ती रक्षावती जाता रक्षिताऽभूदित्यर्थः ॥ २३ ॥
स महावीरशैवानां धर्ममार्गप्रवर्तकः ।
शिवतत्त्वपरिज्ञानचन्द्रिकावृतचन्द्रमाः ॥ २४ ॥
[[९]]
शिवतत्त्वज्ञानरूपचन्द्रिकावृतचन्द्रमाः स शिवयोगी महावीरशैवानां
धर्ममार्गप्रवर्तकः तदीयाचारमार्ग एव वर्तनवानित्यर्थः ॥ २४ ॥
आलोक्य शैवतन्त्राणि कामिकाद्यानि सादरम् ।
वातुलान्तानि शैवानि पुराणान्यखिलानि तु ॥ २५ ॥
कामिकादिवातुलान्तशैवतन्त्राणि शैवान्यखिलानि पुराणानि च प्रीतियुक्तं
यथा भवति तथा आलोक्य ॥ २५ ॥
वेदमार्गाविरोधेन विशिष्टाचारसिद्धये ।
असन्मार्गनिरासाय प्रमोदाय विवेकिनाम् ॥ २६ ॥
वैदिकमार्गाविरोधेन सदाचारसिद्धये
दुर्जनजैनबौद्धादिशास्त्रमार्गनिरासाय वेदागमविवेकिनां सन्तोषाय ॥
२६ ॥
सर्वस्वं वीरशैवानां सकलार्थप्रकाशनम् ।
अस्पृष्टमखिलैर्दोषैरादृतं शुद्धमानसैः ॥ २७ ॥
वीरशैवानां सर्वस्वं समस्तार्थप्रकाशकं समस्तदोषैरसंस्पृष्टं
शुद्धमानसैर्निगमागमज्ञानिभिरादृतं सन्तोषितम् ॥ २७ ॥
तेष्वागमेषु सर्वेषु पुराणेष्वखिलेषु च ।
पुरा देवेन कथितं देव्यैतन्नन्दनाय च ॥ २८ ॥
पूर्वोक्तागमपुराणेषु शिवेन देव्यै तन्नन्दनाय षण्मुखायानुगृह्य
कथितम् ॥ २८ ॥
[[१०]]
तत्सम्प्रदायसिद्धेन रेणुकेन महात्मना ।
गणेश्वरेण कथितमगस्त्याय पुनः क्षितौ ॥ २९ ॥
तत्सम्प्रदायसिद्धेन महात्मना रेणुकगणाधीश्वरेण पुनः
क्षितावगस्त्याय कथितम् ॥ २९ ॥
वीरशैवमहातन्त्रमेकोत्तरशतस्थलम् ।
अनुग्रहाय लोकानामभ्यधात् सुधियां वरः ॥ ३० ॥
एकोत्तरशतस्थलं पिण्डादिज्ञानशून्यान्तैरेकोत्तरशतस्थलं
वीरशैवसिद्धान्तं लोकानामनुग्रहाय निर्मलज्ञानिनां मध्ये
श्रेष्ठः शिवयोगिनाम्ना प्रख्याताचार्यः अभ्यधात् सङ्ग्रहेण
प्रकटितवानित्यर्थः ॥ ३० ॥
सर्वेषां शैवतन्त्राणामुत्तरत्वान्निरुत्तरम् ।
नाम्ना प्रतीयते लोके यत्सिद्धान्तशिखामणिः ॥ ३१ ॥
यद्वीरशैवतन्त्रं सर्वेषां शैवतन्त्राणामुत्तरत्वाद् निरुत्तरं
स्वस्मादुत्तरहितं सत् सिद्धान्तशिखामणिरिति नाम्ना लोके प्रतीयते
प्रतिभातीत्यर्थः ॥ ३१ ॥
अनुगतसकलार्थे शैवतन्त्रैः समस्तैः
प्रकटितशिवबोधाद्वैतभावप्रसादे ।
विदधतु मतिमस्मिन् वीरशैवा विशिष्टाः
पशुपतिमतसारे पण्डितश्लाघनीये ॥ ३२ ॥
इति श्रीसिद्धान्तशिखामणौ प्रथम परिच्छेदः ॥ १ ॥
[[११]]
समस्तैर्वीरशैवतन्त्रैरनुगतसमस्तरहस्यार्थे
प्रकटितशिवाद्वैतज्ञानसमरसभावप्रसन्नतायुक्ते शिवसिद्धान्तसारे
विद्वद्भिः स्तूयमानेऽस्मिन् सिद्धान्तशिखामणौ विशिष्टाः श्रेष्ठा
वीरशैवा वीरशैवाचार्या मतिं विदधतु कुर्वन्त्वित्यर्थः ॥ ३२ ॥
इति श्रीमत्पदवाक्यप्रमाणपारावारधुरीणश्रीमरितोण्टदार्येण
विरचितायां तत्त्वप्रदीपिकाख्यायां सिद्धान्तशिखामणिव्याख्यायाम्
अनुक्रमवर्णन अनुक्रमवर्णन नामकः प्रथमः परिच्छेदः ॥ १ ॥