वीरशैवानन्दचन्द्रिकायां वादकाण्डे चतुर्विंशतितमं प्रकरणम् ॥
देशिकेन्द्र त्वया प्रोक्तमधुना भृङ्गिणेरितम् ।
अद्वैतमतसिद्धान्तं तद्दूषणमतः परम् ॥
शीलिना कथितं सर्वं निगमागमयुक्तिभिः ।
समाकर्ण्य प्रहृष्टोऽहमभवं करुणाभरात् ॥
ततः परं हि सञ्जातं संवादं भृङ्गिशीलिनोः ।
श्रोतुमिच्छास्ति मच्चित्ते निरूपय महामते ॥
शृणु भूप वदाम्यद्य भृङ्गी शीलिनमब्रीत् ।
शीलिन्मतानि सर्वाणि विख्यातानि महीतले ॥
अवैदिकानि यानीह वैदिकान्यपि यानि तु ।
कथितानि मया तानि खण्डितानि त्वयाऽधुना ॥
सर्वोत्कृष्टं मतं किंवा जिज्ञासति मनो मम ।
कथय त्वं तदाचारे वर्तेय विनयान्वितः ॥
[[४४२]]
इति भृङ्ग्युक्तिमाकर्ण्य शीली भृङ्गिणमब्रवीत् ।
भृङ्गिन्नाकर्णयाद्य त्वं वच्मि सर्वोत्तरं मतम् ॥
वीरशैवमतं लोके सर्वोत्कृष्टतमं क्षितौ ।
सर्वेषामपि देवानां यथा सर्वोत्तमः शिवः ॥
वीरशैवसर्वोत्कृष्टत्वं प्रतिपाद्यते- अवैदिकलोकायतार्हतसौगतवैदिकगौतमीयकाणादकापिलपातञ्जलजैमिनीय् अवैयासिकविशुद्धाद्वैतमाध्वरामानुजीयादितत्तन्मतनिरसनपुरस्सरं निजलिङ्गाङ्गसामरस्यरूपविशिष्टाद्वैतमतनिष्ठ एकोत्तरशतप्रभेदभिन्नषट्स्थलज्ञानसम्पन्नस्त्रिविधवीरशैवदीक्षास ंयुक्तोऽष्टावरणपञ्चाचारपरायणो वीरशैवः सर्वोत्तमः ॥
तथाहि पारमेश्वरतन्त्रे-
विभूतिर्यस्य भालेऽस्ति कण्ठे लिङ्गं मदात्मकम् ।
रुद्राक्षधारणं देहे सोऽहं देवि न संशयः ॥
इति ॥
शाङ्करसंहितायाम्-
यो हस्तपीठे निजमिष्टलिङ्गम्- विन्यस्य तल्लीनमनःप्रचारः ।
बाह्यक्रियासङ्कुलनिस्पृहात्मा- सम्पूजयत्यङ्ग स वीरशैवः ॥
इति ॥
ननु त्रिविधलिङ्गाष्टविधसमर्पणैकमानसानां वीरशैवानां सर्वोत्कृष्टत्वं न सम्भवति, तदनुगुणानां युक्तिप्रमाणानामभावात् ।
तथाहि- लोके तावद्ब्रह्मसृष्टौ वर्णाश्चत्वारो ब्राह्मणादयः, तदाश्रमाश्चत्वारः श्रुत्यागमपुराणेतिहासप्रसिद्धाः ।
तत्र न ब्राह्मणेष्वेषामन्तर्भावः गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणोपनिष्क्रमणान्नप्रा" सनचौलोपनयनवेदप्राजापत्यसौम्याग्नेयवैश्वदेवात्म-
[[४४३]]
कव्रतचतुष्टयसमावर्तनविवाहपञ्चमहायज्ञौपासनस्थालीपाकवैश्वद् एवसर्पबलीशानबल्यष्टकमासश्राद्धाख्यसप्तपाकयज्ञाग्न्याधानाग्निह् ओत्रदर्शपौर्णमासपशुबन्धचातुर्मास्याग्रायणेष्टिसौत्रामण्याख्यसप्त हविर्यज्ञाग्निष्टोमात्यग्निष्टोमोक्थ्यषोडश्यतिरात्राऽऽप्तोर्यामवाजपेयाह्व् अयाः सप्तसंस्थाभिधानाः ।
ब्राह्मणानां शरीरस्य चत्वारिंशत्संस्काराणामष्टात्मगुणानां दयाक्षान्त्यनसूयाशौचानायासमङ्गलाकार्पण्यास्पृहाख्यानां यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहोञ्छशिलादिरूपासाधारणजीवि कानि यमानाञ्च ब्राह्मणधर्मतया श्रुतिस्मृतिपुराणेतिहासेषु प्रतिपादनात्, एतेषाञ्च वीरशैवैरनुष्टीयमानत्वाभावात्, ब्राह्मणेष्विवाङ्गिरोभृग्वत्रिविश्वामित्रकाश्यपवशिष्ठागस्त्याह्वयर्षिव् अंशोत्पत्तिसूचकानां गोत्रप्रवराणामभावात्, आपस्तम्बबोधायनभरद्वाजसत्याषाढवैखानसाग्निवेश्यप्रणीततैत्तिरि इययजुःशाखावलम्बिविप्रव्यवस्थाग्राह्यषट्सूत्राणाम्, ऋक्शाखावलम्ब्य् आश्वलायनसूत्रस्य, कुथुमसामशाखावलम्बिद्राध्यायनसूत्रस्य, तलवकारशाखावलम्बिग्राह्यजैमिनिसूत्रस्य, यजुः प्रथमवाजसनेयशाखावलम्बिमात्रग्राह्यकात्यायनसूत्रादीनां मान्यतमानां सम्बन्धाभावाच्च ॥
न क्षत्रियवैश्ययोः, यजनाध्ययनप्रदानसहितपूर्वोक्तसंस्कारगोत्रसूत्रशाखानामभावात् ॥
न शूद्रेष्वन्तर्भावः, त्रैवर्णिकशुश्रूषादास्योच्छिष्टभोजनतद्द्रव्योपजीवनामन्त्रकश्राद्धप् अञ्चमहायज्ञकरणवर्णविशेषदास्यकृतसूतकानुष्ठानादीनां शूद्रधर्माणामभावात् ॥
न सङ्कीर्णेषु, मूर्धावसिक्ताम्बष्ठपारशवादिसमाख्यादीनामभावात् ।
तस्मान्न वर्णेष्वन्तर्भावः वर्णधर्मप्रतिपादकश्रुतिस्मृतिपुराणाध्ययनाध्यापनक्रमस्य वीरशैवेष्वदर्शनात् ॥
“जन्मना जायते शूद्रः कर्मणा जायते द्विजः ।” इत्यादिवचनपर्यालोचनया जन्ममात्रं मनुष्यमात्रस्यास्याविशिष्टम्, उपनयनादिमुख्यसंस्काराभावे ब्राह्मणादिकुलोत्पन्नस्यापि पातित्यश्रवणात् ।
तत एव वेदविद्याश्रवणेऽपि नाधिकारः, “अथाहास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रे परिपूरणमुदाहारणे जिह्वाच्छेदो धारणे शरीरभेद आसनशयनवाक्पथिषु समप्रेप्सु-
[[४४४]]
र्दण्ड्य” इति गौतमीयधर्मसूत्रेऽभिधानात् ।
नच निषादस्थपतिन्यायेनोपनयनाद्यभावेऽपि वेदविद्याश्रवणाधिकार इति वाच्यम्, ङिषादस्थपतिं याजये"दिति विधिप्राप्तोऽयं याजमानमन्त्रश्रवणाधिकारः प्रकृते तादृशविधेरभावात् ।
नापि पत्न्या एवोपनयनाभावेऽपि वेदवाक्यश्रवणेऽधिकारः, “पत्नीं वाचयती"ति विधिवाक्यवद्वाचनविषयकविध्यनुपलम्भात् ।
किञ्च “ज्योतिष्टोमेन स्वर्गकामो यजेते"त्यादिना विशेषेणश्रूयमाणविधिवाक्यावगतकर्तृत्वस्य पत्न्याः सिद्धत्वात्, “धर्मे चार्थे च कामे च नातिचरितव्ये"ति श्रुतिवाक्येनापि कर्तृत्वस्य नियमनात्पत्न्या इव प्रकृते श्रुतिस्मृत्योरनुपलम्भात् ।
न चोपनयनं वेदाध्ययनार्थं कल्प्यतामिति वाच्यम्, अष्टमे वर्षे ब्राह्मणमुपनयेत्, एकादशे क्षत्रियं द्वादशे वैश्यमिति त्रैवर्णिकानामेवोपनयनविधानात् ।
अध्ययनस्याक्षरग्रहणरूपस्यार्थज्ञानद्वारकतदुक्तानुष्ठानपर्यवस अयित्वात् ।
वीरशैवेषु वेदोदीरितकर्मानुष्ठानादर्शनाच्च ।
नच लिङ्गधारणादिकं वैदिकं कर्मास्तीति वाच्यम्, तद्धारणप्रतिपादकमन्त्रब्राह्मणयोरदर्शनात् ।
अन्यथा त्रैवर्णिकानन्तर्गतानामपि वेदविद्यायामधिकारः स्यात् ।
तस्माद्वीरशैवमतमवैदिकं तन्मार्गावलम्बिनो वीरशैवा अप्यवैदिकास्ततस्तेषां श्रैष्ठ्यं नोपपद्यते ।
नच “अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसङ्घजुष्ट” मित्यत्याश्रमोपनिषदि श्रवणाद्वीरशैवानामत्याश्रमित्वमिति वाच्यम्, आश्रम एषामस्तीत्याश्रमिणः, आश्रमिणोऽतिक्रान्ता अत्याश्रमिण इति प्राकृतानामाश्रमाणां कञ्चित्कालमनुष्ठायानन्तरमतिक्रमस्यापेक्षितत्वेन वीरशैवानामाश्रमित्वाभावेनात्याश्रमित्वस्याप्युपपादनासम्भवात् ।
प्रत्युत श्रुतिस्मृतिपुराणेतिहाससिद्धाननुष्ठानसूतकाचरणादिविरुद्धानुष्ठा नवीरशैवदीक्षानुवर्तनस्यापि तेषु दृष्टत्वात् ।
तस्माद्ब्रह्मक्षत्रविशामुत्तरमुत्तरं कनीयांसस्तेभ्यः शूद्राः कनीयांसस्तेभ्यः सङ्करा इति व्यवस्थायाः सप्रमाणत्वेन वीरशैवानां श्रैष्ठ्यं स्वान्तरङ्गमात्र-
[[४४५]]
परितोषकरं न प्रमाणानुरुद्धमिति पूर्वपक्षः ॥
अत्रोत्तरमभिधीयते- वीरशैवानां नोत्कर्षः, युक्तिप्रमाणानामभावादिति ।
तत्र किमुत्कर्षे युक्तिनामभावः, प्रमाणानामभावः, किमुभयेषामभावो वा ? नाद्यः- प्रमाणासहकृते युक्तिमात्रस्य धनिकत्वप्रभुत्वादिलौकिकोत्कर्षसाधनत्वेऽप्यलौकिकोत्कर्षे प्रमाणसहकृतयुक्तेरेव तन्त्रत्वात् ॥
न द्वितीयः- प्रमाणमात्रस्य पूर्वोत्तरमीमांसान्यायसहकृतस्योत्कर्षसाधनत्वानङ्गीकारात् ।
यथा “आदित्यो यूपो, यजमानः प्रस्तरः, अग्निर्वै ब्राह्मणः, अपशवो वा अन्ये गो अश्वेभ्यः” इत्यादौ प्रमाणमात्रेण न्यायरहितेनार्थसिद्धेरभावात् ।
न तृतीयः- युक्तिसहकृतानां बहूनां प्रमाणानां परमाप्तपरमेश्वरप्रणीतानां सत्त्वात् ।
तथाहि शङ्करसंहितायामुपरिभागे-
क्रिमिकीटपतङ्गेभ्यः पशवः प्रज्ञयाऽधिकाः ।
पशुभ्योऽपि नराः श्रेष्ठास्तेषु श्रेष्ठा द्विजातयः ॥
द्विजातिष्वधिका विप्रा विप्रेषु क्रतुबुद्धयः ।
क्रतुबुद्धिषु कर्तारस्तेभ्यः सन्यासिनोऽधिकाः ॥
तेषु विज्ञानिनः श्रेष्ठास्तेषु शङ्करपूजकाः ।
तेषु श्रेष्ठा महाभाग मम लिङ्गाङ्गसङ्गिनः ॥
लिङ्गाङ्गसङ्गिष्वधिकः षट्स्थलज्ञानवान् भवेत् ।
तस्मादप्यधिको नास्ति त्रिषु लोकेषु सर्वदा ॥
स वन्द्यः सर्वदा पूज्यः संसारविजिगीषुभिः ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथाह्यहम् ॥
इति ॥
नन्विदमनुपपन्नम्, “प्रज्ञयाऽधिका” इत्यारभ्य ज्ञानतारतम्येनोत्कर्षापकर्षप्रतिपादनपराणि वचनानि पूर्वपक्षारम्भदशायां वीरशैवमात्रोद्देशेन वर्णान्तर्गतत्वानन्तर्गतत्वपर्यालोचनयोत्कर्षापकर्षमात्रप्रतिपादनात् ।
शाङ्करसंहितावचनानां द्विजातय इत्यारभ्योत्तरो-
[[४४६]]
त्तरोत्कर्षप्रतिपादनस्य त्रैवर्णिकविषयत्वेन योजनया तेषु धर्मतारतम्येनोत्कर्षप्रतिपादनेऽपि वीरशैवधर्ममात्रे प्राशस्त्यं पर्यवस्यतीति वीरशैवधर्मस्यापि त्रैवर्णिकविषयस्योत्कर्षापादने प्रमाणानां तात्पर्यावधारणौचित्याद्वीरशैवजातीयानां कस्मिन्वर्णेऽन्तर्भाव इत्याशङ्कायामुदाहृतवचनानामनुपयोगात् ।
अन्यथा न वर्णेष्वन्तर्भाव इत्युपपादितग्रन्थविरोधादिति चेन्न, त्रैवर्णिकानन्तर्भावेऽपि त्रैवर्णिकाभ्यधिकाप्राकृतब्राह्मण्यप्रतिपादकागमतदनुगुणश्रुत्यादीन् आं बहूनां सत्वात् ।
तथाहि सुप्रभेदागमे-
अस्ति सच्चित्सुखाकारमलक्षणपदास्पदम् ।
निर्विकल्पं निराकारं निरस्ताशेषदूषणम् ॥
इत्युपक्रम्य त्रिमूर्त्युत्तीर्णं परमशिवतत्त्वमभिधाय, शिवाभिधं परं ब्रह्म जगन्निर्मातुमिच्छया ।
स्वरूपमाददे किञ्चित्सुखस्फूर्तिविजृम्भितम् ॥
इत्यादिना लीलासमासादितधर्मधर्मिभावमुपवर्ण्य धर्मसम्बन्धात्सिसृक्षायाम् “दिव्यमप्राकृतं नित्यं नीलकण्ठं त्रिलोचनं चन्द्रार्धशेखरं शुद्धं शुद्धस्फटिकसन्निभम्” इत्यादिना गुणमूर्तिभिरुपास्यं स्वरूपमभिधाय, तस्मिन्नप्राकृतगुणाधारत्वेन नित्यमङ्गलस्वरूपत्वेन समस्तलोकनिर्माणसमवायस्वरूपिणीं तद्भिन्नशक्तिमुपपाद्य तत्साहाय्येन “यो देवानां प्रथमः पुरस्ताद्विश्वाधिको रुद्रो महर्षि” रित्यादिश्रुतिसमधिगम्य हिरण्यगर्भोत्पत्तिमुक्त्वा, “यो ब्रह्माणं विदधाति पूर्वं यो वेदांश्च प्रहिणोति तस्मै” इत्यादिश्रुतिप्रतिपन्नं समस्तवेदविद्योपदेशं विधाय ततस्तस्मिन् हिरण्यगर्भे जगत्सिसृक्षायां मायावरणेन सृष्टिविषयकं ज्ञानमुक्त्वा त्रियम्बकं प्रति समस्तजगन्निर्माणोपायं प्रार्थितवता तेन हिरण्यगर्भेण त्वयैव सृष्टिः कार्या तां दृष्ट्वा तत्साजात्येनाहमपि सृजामीति प्रार्थितः शम्भुरित्युक्त्वा ॥
[[४४७]]
ससर्जात्मसमप्रख्यान् सर्वज्ञान् सर्वशक्तिकान् ।
प्रबोधपरमानन्दपरिवाहितमानसान् ॥
प्रमथान् विश्वनिर्माणप्रलयादिविधिक्षमान् ।
सृष्ट्वा प्रमथवर्गेषु वर्णाश्रमपरिक्रमान् ॥
अप्राकृतसदाचारानुपादिशदथ प्रभुः ।
तस्मात्तद्गोत्रजास्सर्वे शिवभक्त्या धृतव्रताः ॥
इति साक्षादेव शम्भोः प्रमथोत्पत्तिस्तेभ्यो वीरशैवानामुत्पत्तिप्रतिपादनेन त्रैवर्णिकेभ्यः प्रथममुत्पन्नत्वात्परमुत्कर्षः प्रतीयते ॥
ननु वीरशैवानामप्राकृताष्टावरणपञ्चाचारस्थापनैकाग्रहृदयः श्रीमत्परमेश्वरानुज्ञातनन्दीश्वरापरावतारः श्रीबसवेश्वरः प्राकृतधर्मानुबद्धश्रद्धब्राह्मणकुलोत्पन्नमादाम्बामाधवाख्ययोः पुत्रत्वमुररीकृत्याविर्बभूव ततस्तत्राष्टवर्षपर्यन्तं मातृपितृगृहे चोषित्वा पश्चाद्वीरशैवधर्मानाचचारेति बसवेश्वरपुराणादिप्रबन्धेषु श्रुतत्वेन तस्य प्राकृताचारेष्वेवाभिनिवेशो दृष्ट इति कथं तदीयानामप्राकृताचारत्वमिति चेन्न, श्रीपरमेश्वरापरावतारस्य नन्दीश्वरस्य देव्यपेक्षया परमान्तरङ्गस्याधिगतसार्वज्ञ्यस्य प्रमथनायकस्य “भवद्भवनदेहलीबहुलतण्डुदण्डाहतित्रुटन्मुकुटकोटिभिर्मघवदादिभ् इर्भूयते ।
भजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसम्पदः प्रमथनाथ नाथामहे ॥” इति प्रोक्तसर्वहरिविधिप्रमुखगीर्वाणगन्धर्वसिद्धविद्याधरकिन्नरकिम्पुरुषन् इग्रहानुग्रहकारणत्वेन देदीप्यमानस्य “भो भो दिक्पतयः प्रयात पुरतः खं मुञ्चताम्भोमुचः पातालं व्रज मेदिनीं प्रविशत क्षोणीतलं पन्नगाः ब्रह्मन्नुन्नय दूरमात्मभवनं नाथस्य नो नृत्यतः शम्भोः सङ्कटमेतदित्यवतु नः प्रोत्सारणं नन्दिनः” इत्यादिना सकलप्रपञ्चमन्यथाकर्तृमनितरसाधारणचातुर्यधुरीणस्य नन्दीश्वरस्य “महीसुरः कश्चन माधवाख्यो महीतले मां प्रति पुत्रकाङ्क्षी ।
तपस्यति त्वद्वृतमस्य पत्नी तनोति च त्वद्गतचित्तवृत्तिः ॥
पुत्रत्वमासाद्य तयोः
[[४४८]]
पृथिव्यां श्रीवीरमाहेश्वर तत्र दार्ढ्यम् ।
विधेहि विद्वन् विविधैर्विहारैः पुत्रस्य पाषण्डपथःप्रवृत्तान् ॥
इति बसवेश्वरपुराणोक्तश्लोकरीत्या, “यदा यदा हि धर्मस्य हानिश्शैवस्य जायते ।
तदा तदावतारोऽयं गणेशानां महीतल” इति शङ्करसंहितावचनाच्च, लोकानुग्रहार्थं वीरशैवमतोद्दिधीर्षया पररूपेण कृतलीलावतारस्य बसवेश्वरस्य देवतात्वेनोत्पत्तौ जातिनियमादरणे विशेष्यापेक्षाभावात् ।
तथैव तद्यथा अद्वैतस्थापकभगवच्छङ्कराचार्याणाम् “शङ्करः शङ्करः साक्षाद्व्यासो नारायणःस्मृत” इति, चतुर्भिस्सह शिष्यैस्तु शङ्करोऽवतरिष्यती"ति भविष्यत्पुराणोक्त्या च श्रीपरमेश्वराभेदं प्राप्तवतां निषिद्धकेरलदेशे उत्पत्तिश्रवणस्य प्रसिद्धत्वात् ।
एवमेव पतञ्जलिरप्यादिशेषो गोणिकाख्यायां ब्राह्मण्यां योगपादादिविद्याप्रवर्तनेन लोकानुग्रहार्थं सप्तवर्षककुमाररूपेणाञ्जलौ पतन् पतञ्जलिनाम्नाऽवततारेति चिदम्बरमाहात्ये श्रूयते ।
अत एव वज्रसूच्यां “ऋष्यशृङ्गो मृग्यां कौशिकः कुशात् गौतमः शशपृष्ठे जाम्बूको जम्बुक्यां वशिष्ठ उर्वश्यां वाल्मीकिर्वल्मीकाद्व्यासः कैवर्तकन्यायामगस्त्यः कलशे जातः” इति श्रुतत्वात् विश्वामित्रः क्षत्रियो नारदो दासीपुत्र इत्यादिश्रवणात्, एवमेव देवानां लोकानुग्रहार्थाय विष्ण्वादीनां स्वापेक्षया हीनजातावुत्पन्नत्वेऽपि दोषाभावश्रवणाच्च ।
प्रकृतेऽपि निरधिकरणदीक्षावतां श्रीसाम्बशिवेन प्रमथानां तद्वंशीयानां बसवेश्वरस्य च निकृष्टकुलोत्पन्नत्वेऽपि जात्यादिदोषप्रसक्तिर्नास्ति, तस्माद्बसवेश्वरस्य परमेश्वरावतारस्य लोकानुग्रहार्थं यत्र कुत्रापि जनेः सम्भवेप्यप्राकृतब्रह्मकुलोत्पन्नानां वीरशैवानामतिवर्णाश्रमिणां नैतादृशशङ्काकलङ्कलेशोऽपीति सर्वमनुकूलम् ॥
ब्राह्मणाद्युत्पत्तिस्तु पुरुषसूक्तेऽभिहिता- “ब्राह्मणोऽस्य मुखमासीत् ।
बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः ।
पद्भ्यां शूद्रोऽजायते"ति विराट्पुरुषाद्यथा तथोत्पत्तिश्रवणात्तदुपदिष्टश्रुतिस्मृतीतिहासप्रसिद्धवर्णाश्रमानुवर् तनतदतिक्रमणद्वारकात्याश्रमादि-
[[४४९]]
धर्माणां प्रतिपादनात्तेषां ब्राह्मणानां तदुदीरितधर्मानुवर्तनञ्च वीरशैवानामप्राकृतब्राह्मणत्वेन तत्सृष्टपरमेश्वरताल्वोष्ठपुटव्यापारादितः स्वतः प्रमाणभूतकामिकादिवातुलान्तदिव्यागमोक्तधर्मानुवर्तनन्तु स्वानुष्ठेयधर्मोपपादकागमाविरुद्धांश इति विवेकः ॥
ननु वेदविद्यायाः परमाभ्यर्हितत्वेन तदुक्ताग्निष्टोमादिक्रमस्य धर्मसङ्घस्य श त्रिर्भिर्वेदैर्विधीयत” इत्यापस्तम्बीयसामान्यसूत्रेऽभिधानादागमेषु तदभावेऽपि ब्राह्मणैः प्राधान्येनानुष्ठेयस्तदविरुद्धागमोक्तालयोत्सवप्रतिष्ठादिधर्माश्च तथेति चेन्न, तेषां भिन्न विषयत्वात् ।
वीरशैवानुष्ठेयपञ्चाचाराष्टावरणक्रमस्य पिण्डादिज्ञानशून्यान्तैकोत्तरशतस्थलक्रमस्य यावद्धर्मसङ्घस्यागमेषु प्राधान्येनानुष्ठेयत्ववर्णनात्तेषां वीरशैवधर्माणां विशकलिततया तत्र तत्र श्रुतिषु प्रतिपादनात्, यत्र येषामाचाराणां क्रमोऽभिधीयते तेषां तदध्ययनादिकं प्राधान्येन; तदितरप्रमाणानुवर्तनन्तु स्वस्वाचाराविरोधेनेति सिद्धम् ॥
यत्तु गर्भाधानादिसंस्कारराहित्येन तदन्तर्गतप्राजापत्यादिवेदव्रतराहित्यमित्याद्युपवर्णितं तदसत्, अप्राकृतनिर्माणवैचित्र्यप्रतिपादनेनाप्राकृतसृष्ट्यन्तर्गतानां तदनपेक्षणात् ।
तथाच सिद्धान्तशिखामणौ-
विशुद्धाः प्राकृताश्चेति द्विविधा मानुषाः स्मृताः ।
शिवसंस्कारिणः शुद्धाः प्राकृता इतरे मताः ॥
वर्णाश्रमादिधर्माणां व्यवस्था हि द्विधा मता ।
एका शिवेन निर्दिष्टा ब्रह्मणा कथिता परा ॥
शिवोक्तधर्मनिष्ठा तु शिवाश्रमनिषेविणाम् ।
शिवसंस्कारहीनानां धर्मः पैतामहः स्मृतः ॥
इति प्राकृताप्राकृतविभागो दर्शितः ॥
[[४५०]]
यदपि गोत्रसूत्राद्यभावोपवर्णनं तदप्यापातरमणीयम् ।
तथाहि- रेणुकदारुकघण्टाकर्णगजकर्णानां प्रमथनायकानां सदाशिवमुखोद्भूतानां गोत्रप्रवर्तकानां चतुर्णां सत्वात् ।
एतेन न वेदविद्याध्ययनेऽधिकार इत्यादिगर्भस्रावेणैव निरस्तम् ।
अप्राकृतत्वेनैव ब्राह्मणेभ्योऽपि वैशिष्ट्यप्रतिपादनात् ।
यद्यप्यत्याश्रमित्वं नेति तदप्यविचारितरमणीयम् ।
हराश्रमानुवर्तनस्य सत्वात्परिपाकदशायां तदतिक्रमस्यापि सम्भवात्, “अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् ।
नराणां क्षीणपापानां शिवे भक्तिः प्रजायत” इत्यादिना जन्मान्तरीयाश्रमानुवर्तनतदतिक्रमयोरपि सम्भवाच्च ॥
ननु प्रमथानां नित्यमुक्तानां कथं वंशप्रवर्तकत्वमिति चेन्न, अगस्त्यवशिष्ठादीनामिव लोकानुग्रहार्थं वीरशैवसम्प्रदायप्रवर्तनार्थं च वंशप्रवर्तनसम्भवात् ।
नच वंशप्रवृत्तेः स्त्रीमूलकत्वात्प्रमथानां रागद्वेषाद्यसम्भवेन नित्यमुक्तत्वेन कर्मानुष्ठानापेक्षाया अभावाच्च स्त्रीपरिग्रहाभावात्कथं वंशोत्पत्तिरिति वाच्यं, नित्यमुक्तानामपि दहरविद्याप्रकरणे “अथ यदि स्त्रीलोककामो भवती"त्यादिना सर्वस्वातन्त्र्यप्रदर्शनार्थं दारपरिग्रहप्रदर्शनात्प्रकृते प्रमथानामपि सर्वस्वातन्त्र्यप्रदर्शनार्थं गोत्रप्रवर्तकानां चतुर्णां वीरशैवसमयप्रवर्तकानां रेणुकादीनां दारपरिग्रहसम्भवात् ।
नच प्रमथानां दारपरिग्रहः क्वापि न श्रूयत इति शङ्कनीयम् ।
नन्दिकेश्वरस्य सुयशा नाम पत्नीति पुराणेषु श्रवणात् ।
अस्मिन्नर्थे मन्त्रा अपि वर्तन्ते ।
सप्तवाकयजान्तर्भूते ईशानबलौ चतुश्चत्वारिंशद्बलिप्रक्षेपप्रकरणे “ग्रहपोपस्पृशो ग्रहपाय स्वाहा ।
ग्रहप्युपस्पृशो ग्रहप्यै स्वाहा ।
द्वारापोपस्पृशो द्वारापाय स्वाहा ।
द्वाराप्युपस्पृशो द्वाराप्यै स्वाहा ।” इत्यत्र द्वारापो नाम नन्दीशस्तस्य स्त्री द्वारापी “पुंयोगादाख्याया"मिति “नीप् ।
तस्याः सुयशादेवीति नाम पुराणेषु प्रसिद्धमितीशानबलिप्रयोगविवरणे विलेखनात् ।
तथाच गोत्रप्रवर्तकानां रेणुकाद्याचार्याणां दारपरिग्रहेण सन्ततिपरम्परायाः सम्भवादेव
[[४५१]]
वीरशैवानां ते गोत्रप्रवर्तकाः ।
नच गोत्रप्रवर्तकानां तेषां मध्ये केषाञ्चिद्दारपरिग्रहश्रवणेऽपि केषाञ्चिद्दारपरिग्रहे प्रमाणाभवाद्गोत्रप्रवृत्तिनिर्वाहः कथमुपपद्यत इति वाच्यं, पुत्रपौत्रादिसन्ततिपरम्पराया गोत्रप्रापकत्ववत्, शिष्यप्रशिष्यप्रवाहस्यापि गोत्रसम्बन्धसम्पादकत्वसम्भवात् ।
अत एव क्षत्रियस्य स्वयं ब्राह्मणवशंसम्भवत्वाभावेन कर्मण्यधिकाराभावे प्राप्ते सति “पुरोहितस्य प्रवरेण राजा प्रवरं प्रवृणीत” इत्यापस्तम्बसूत्रवचनेन शिष्याणां क्षत्रियाणां याजकतया गुरुभूतब्राह्मणगोत्रवत्वश्रवणात् ।
किञ्च-
रेणुको रेवणो रुद्रो मुनिर्नीलो महेश्वरः ।
घण्टासिद्धश्च सारङ्गो वृद्धोऽगस्त्यगुरुर्गुरुः ॥
त्रिशिखोऽष्टजटः पञ्चवर्णकः सिद्धशासनः ।
इत्यादयो महाभागा महापूरुषसम्भवाः ॥
इत्यादिना रेणुकाचार्यशिष्यपरम्परावर्णनानन्तरं,
दारुको मरुलोऽमायश्चालवाण्डो महातपाः ।
ज्योतिर्मतिगुरुश्चिक्को व्याघ्रक्वन्थो बृहद्वधः ॥
नारकन्थः पत्स्यकन्थो मुक्तकन्थो महामुनिः ।
एकादशशिखो योगी मल्लिकार्जुननामवान् ॥
इत्यादिना दारुकगोत्रसम्प्रदायोऽभिहितः ॥
घण्टाकर्णस्तथैकश्च रामो मुण्डी गुहेश्वरः ।
सुतारस्तारको मुक्ता नूपुरश्च पुराणकः ॥
इत्यादयो घण्टाकर्णगोत्रजा अभिहिताः ॥
गजकर्णो त्रिरङ्गुष्ठो मञ्चणः सङ्गमोऽव्ययः ।
कल्याणपण्डितः केशी माधवः श्रीपतिः प्रभुः ॥
मल्लिकार्जुन इत्याद्या वामदेवमुखोद्गताः ।
[[४५२]]
इत्यादिना गजकर्णवंशोऽभिहितः ॥
तस्मात् रेणुकादीनां यथासम्भवमुत्पाद्योत्पादकभावो गुरुशिष्यभावश्च यथासम्भवं मूलागमेषु स्पष्टमभिहितः ।
एतच्च क्रियाकाण्डे स्पष्टमभिहितम् ।
तस्मादप्राकृतब्राह्मणानां वीरशैवानां गोत्रादिसद्भावात्सर्वोत्तरत्वं सिद्धम् ॥
यत्तु वीरशैवानामत्याश्रमित्वं न सम्भवति, अत्याश्रमशब्दे अतिशब्दस्यातिक्रमणार्थकतया आश्रमधर्मानुष्ठानानन्तरभाविज्ञानविशेषलभ्यधर्मविशेषवत्ववर् णनौचित्यादिति तन्न श्वति पूजाया” मिति व्याकरणसूत्रेण, “तु हि च स्म ह वै पादपूरणे पूजने स्वति” इत्यव्ययवर्गे चातिशब्दस्य श्रैष्ठ्यार्थकतया श्रूयमाणत्वात्प्रकृते अतिक्रमणार्थकत्वासम्भवेऽपि प्रकर्षार्थकत्वसम्भवात् ।
तथाच अतिशयितः आश्रमः अत्याश्रमः, स एषामस्तीत्यत्याश्रमिणः ।
अथवा आश्रम एषां सन्तीत्याश्रमिणः अतिशयिता आश्रमिणः अत्याश्रमिणः इत्यर्थवर्णनयाऽत्याश्रमित्वस्य वीरशैवेषु सम्भवात्, पङ्कजादिशब्दवद्योगरूढ्या वीरशैवानुष्ठीयमानधर्मविशेषेऽत्याश्रमशब्दः प्रवर्तते, अतिशयितत्वन्त्वप्राकृतप्रमथसृष्टिपूर्वकमहेश्वरोपदिष्टत्वात् ।
तथाच आगमवचनानि-
अतिवर्णाश्रमी प्रोक्तो गुरुस्सर्वाधिकारिणाम् ।
अन्येषां स भवेच्छ्रेष्ठो यथाहं पुरुषोत्तमः ॥
अतिवर्णाश्रमी साक्षाद्गुरूणां गुरुरुच्यते ।
पञ्चाक्षरी पराविद्या शिवज्योतिरवाप्तये ॥
ओङ्कारः प्रणवः सूक्ष्मो विद्यानां बीजमुत्तमम् ।
तत्त्वादशेषतत्त्वानि प्रणवेन विशोधयेत् ॥
सितेनोद्धूलयेद्देहमग्निरित्यादिमन्त्रकैः ।
विचिन्तयेत्स्वात्मनि शम्भुमीशं शिवं परं शान्तमुमासहायम् ।
[[४५३]]
भस्माङ्गमाविष्कृतसर्वदीप्ति- मत्याश्रमाचारमिमं वदन्ति ॥
लिङ्गं शिवो भवेत्क्षेत्रमङ्गसंयोग आश्रयः ।
तस्माल्लिङ्गाङ्गसंयुक्तः सोऽपि चात्याश्रमी भवेत् ॥
एतद्वेदशिरोनिष्ठः प्राह पाशुपतं मुने ।
एतच्छिरोव्रतं प्राहुः केचिदत्याश्रमं बुधाः ।
केचिन्महाव्रतं प्राहुः केचिच्छाम्भवमैश्वरम् ॥
इति वचनेनाग्निरित्यादिमन्त्राभिमन्त्रितभस्मोद्धूलनत्रिपुण्ड्रधारणरुद्राक्ष धारणपूर्वकप्रणवसमभिव्याहृतपञ्चाक्षरीमन्त्ररत्नजपसहितपरशि वध्यानानुस्यूतपूजाविशेषविशिष्टो लिङ्गाङ्गसम्बन्धोऽत्याश्रमस्तद्वानत्याश्रमीति ।
एतद्व्रतस्यैव पाशुपतमिति, शिरोव्रतमिति, अत्याश्रम इति, महाव्रतमिति, शाम्भवमिति, ऐश्वरमिति चोपनिषत्सु प्रतिपादनाद्वीरशैवानामेवात्याश्रमित्वं, तेषामेव सर्वोत्कृष्टत्वं सिद्धम् ॥
नन्वतिशयित आश्रमोऽत्याश्रमः, अतिशयिता आश्रमिणोऽत्याश्रमिण इति समासेऽतिशब्दार्थस्य प्राशस्त्यस्य धर्मे धर्मिणि वाऽन्वये सति प्रशस्ताश्रमित्वसम्पादनार्थमाश्रमधर्मा यावन्तोऽनुष्ठेयाः ।
ते च वेदसिद्धाश्चत्वारिंशत्संस्कारादयश्च ।
तेषां क्रमश्च श्रुतिस्मृतिकल्पसूत्राद्यवगम्यः ।
तेषां वीरशैवेष्वदर्शनादत्याश्रमित्वं सुतरां नोपपद्यत इति चेन्न, “अतिवर्णाश्रमाचाराः सम्भवन्त्यूर्ध्ववक्त्रतः ।
ते वै साक्षान्महादेवा मोदन्ते ह्यागमेषु चे"ति क्रियासारोक्तागमवचनपर्यालोचनया परमेश्वरोर्ध्ववक्त्रसम्भूतत्वे सत्यागममोदनस्यात्याश्रमधर्मत्वप्रतिपादनागमेषु च पञ्चाचाराष्टावरणषट्स्थलतत्त्वप्रतिपादनात्साकल्येन तदनुवर्तनोर्ध्ववक्त्रसम्भवयोरन्यत्रब्राह्मणा- दावदर्शनाद्वीरशैवजातीयमात्रे तेषां यथायोगं यथाविधि सम्यगनुष्ठानदर्शनात्तेषामेवात्याश्रमित्वं तानेवाधिकृत्य
[[४५४]]
मन्त्रोपनिषदपि प्रवृत्ता ।
किञ्च “पञ्चास्यपञ्चममुखाद्यतो जातास्ततोऽधिकाः ।
पञ्चमाः सर्ववर्णेभ्यो मद्भक्ता मत्प्रियाः सदे"ति कामिकागमवचनेन पूर्वोक्तवचनसहकृतेनेशानमुखादुत्पन्नानामत एव पञ्चममुखोत्पत्त्या पञ्चमसञ्ज्ञकानां सर्ववर्णोत्तीर्णानामप्राकृतब्राह्मणादिधर्मनिरततया परिदृश्यमानानां वीरशैवानां सर्वोत्तमत्वं निर्विवादम् ॥
ते च सामान्यविशेषनिराभारभेदभिन्नाः, श्रवणकीर्तनपादसेवनार्चनवन्दनदास्यसख्यात्मनिवेदनाख्यनवविधभक् तियुक्ताः कृच्छ्र चान्द्रायणादिव्यतिरिक्तं तत्स्थानीयशिवार्थनिर्मितशरीरसंशोषणं तपः ।
अग्निष्टोमादिव्यतिरिक्तं तत्स्थानापन्नशिवार्चनानुकूलव्यापारः कर्तव्यं कर्म ।
यागादिकर्मप्रतिपादकवेदभिन्नप्रणवपञ्चाक्षरीश्रीरुद्रादिशिवैकविष यकमन्त्राभ्यासो जपः ।
अन्यदेवतास्वरूपचिन्तनव्यतिरिक्तं शिवैकविषयधारावाहिकानुसन्धानं ध्यानम् ।
इतरशास्त्रप्रतिपाद्यार्थविवेचनव्यतिरिक्तं कामिकाद्यागममुख्यप्रतिपाद्यषट्स्थलतत्त्वबोध एव ज्ञानम् ।
एतादृशपञ्चप्रकारशिवभजनमेव पञ्चमहायज्ञाः, तन्निष्ठाः, हृदयाकाशभासमानप्राणलिङ्गाभिधानचित्सूर्यविषयकमानसानुसन्धा नमेव सन्ध्यावन्दनम्, तद्वन्तः, प्राणलिङ्गात्मकान्तर्ज्योतिरधिकरणमनःकरणकशब्दादिविषयाख्यहविः समर्पणमेव होमः, तच्छालीनः, सत्यक्षमादयाशौचनियममार्दवतपस्त्यागब्रह्मचर्यसन्तुष्ट्यार्जवाख्यैक् आदशधर्माः, तदासक्ताः, भक्तेषु कामः, अधर्मनिरतेषु क्रोधः, शिवार्चनायां लोभः, शिवे मोहो भक्तेतरेषु मदः शिवभक्तमार्गविमुखेषु मात्सर्यमित्यरिषड्वर्गस्य विषयभेदेन विनियोगसम्पादकाः, गुरुलिङ्गजङ्गमार्थं पचनं पतिव्रतायाः पत्युर्लिङ्गधारकदासीदासादिसङ्ग्रहो लिङ्गमुद्राङ्कितगृहमध्यवासस्तदङ्कितक्षत्रधान्योपजीवनं शिवभक्तेभ्यः कनकरजतवस्त्रभूषणादिनां प्रदानं भस्मस्पर्शनपूर्वकप्रतिग्रहपरिशुद्धद्रव्येण गुरुलिङ्गजङ्गमार्चनं दासत्ववीरदासत्वभृ-
[[४५५]]
त्यत्ववीरभृत्यत्वसमयस्थत्वकलावस्थित्वरूपषड्विधसज्जनत्वं गुरौ शिवाभिन्नत्वेन ज्ञानं स्वेष्टलिङ्गे मनोलयो जङ्गमे आनन्दानुभवः एकादशविधप्रसादपरिज्ञानं भक्तिनिर्वहणं चेति षड्विधं व्रतमाचरन्तो, लिङ्गाचारसदाचारभृत्याचारशिवाचारगणाचारसमयाचाराश्चेति षड्व् इधाचाराः, तद्युक्ताः, अक्रोधसत्यवचनक्षमाभविभक्तविभेदनानुग्रहसत्पात्रद्रव्यार्पणरूपष ड्विधशीलवन्तः, अक्रोधगुरुशुश्रूषाशौचाहारलाघवाप्रमादा इति पञ्चविधनियमाः, गुरुप्रसादलिङ्गप्रसादजङ्गमप्रसादप्रसादिप्रसादाप्यायनप्रसादसमयप्र् असादज्ञानेन्द्रियरहितप्रसादान्तःकरणरहितप्रसादसद्भावप्रसादसम्मत् अप्रसादज्ञानप्रसादभेदेनैकादशविधप्रसादाः, गुरुपादोदकलिङ्गोदकमज्जनोदकस्पर्शनोदकावधानोदकसत्योदकादिभेदेन दशविधपादोदकानि सेवमानाः, परतत्त्वरूपमहालिङ्गैक्यानुसन्धानरूपं ज्ञानं भूतिः, तत्र महालिङ्गे मनोमज्जनं विजातीयप्रत्ययतिरस्कारपूर्वकसजातीयप्रत्ययप्रवाहीकरणरूपं स्नानं, सत्त्वरजस्तमोगुणजनितकार्यासंस्पर्शस्त्रिपुण्ड्रधारणं, एवमन्तस्नानोद्धूलनधारणनिष्ठाः, बाह्यानि तु कल्पोपकल्पानुकल्परूपक्रियाभेदजन्यभूतिभसितभस्मक्षाररक्षानामधेय् अपञ्चकविशिष्टविभूतिस्नानोद्धूलनधारणानि नियमादाचरन्तः, मनोबुद्ध्यहङ्कारचित्तश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायुपस्थ रूपाणां चतुर्दशाक्षाणामाचारादिलिङ्गमुखानां संशयनिश्चयगर्वस्मरणशब्दस्पर्शरूपरसगन्धवचनादानगमनविसर्ग अनन्दसञ्ज्ञकचतुर्दशविषयाणां तत्तलिङ्गप्रसादानुभवसम्पादनार्थं तल्लिङ्गरूपतया धारणं चतुर्दशमुखरुद्राक्षधारणमान्तरं, बाह्यन्तु सूर्यचन्द्राग्निरूपपरमेश्वरत्रिनेत्रसम्भूताष्टत्रिंशद्भेदभिन्नरुद्राक् षाणां विधिवद्धारणं तन्वानाः, नमःशब्दप्रतिपाद्याङ्गशिवशब्दप्रतिपाद्यलिङ्गयोरयशब्दप्रतिपाद्यैक्य अनुसन्धानं पञ्चाक्षरीजप आन्तरः, बाह्यस्तु दुष्करगणनाकारादिक्षकारान्तमातृकामालास्थानापन्नसुकरगणनरुद्र अक्षमणिमालाकिरणपूर्वकोमानसोपांशुवाचकविधया पञ्चा-
[[४५६]]
क्षरीमन्त्रजपः, एवमुभयमाचरन्तः, त्रैकालिकाबाध्यत्वं सत्त्वं तदेव गुरुः, प्रकाशान्तरनिरपेक्षतया सर्वप्रकाशकत्वं चित्त्वं तदेव लिङ्गम्, वैषयिकानन्दतारतम्यविश्रान्तिभूम्यखण्डानन्द एव जङ्गम आन्तरः, बाह्यस्तु पञ्चमुद्रान्वितो जङ्गमः, प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वं नित्यत्वं तदेवान्तरः प्रसादः, बाह्यस्तु गुरुलिङ्गचरभक्तशेषरूपः शुद्धसिद्धप्रसिद्धाख्यः प्रसादः, सर्वमूर्तसंयोगित्वरूपपरिपूर्णत्वमेवान्तरं पादोदकं, बाह्यन्तु लिङ्गोदकपादोदकप्रसादोदकभेदेन त्रिविधं, एतादृशमानसानुसन्धानसंवलिताचरणीयधर्माचरणैकतानहृदयः, वेधामन्त्रक्रियारूपदीक्षात्रयेण स्वात्मगुरुलिङ्गजङ्गमानामैक्ययोगानुसन्धानलक्षणं योगाङ्गमिति, तदर्पितप्रसादस्य परमोपादेयत्वेन स्वीकारसुखपरिणमनलक्षणं भोगाङ्गमिति, गुरुलिङ्गजङ्गमेष्ववञ्चनया परित्यजनीयतनुमनोधनत्वरूपं त्यागाङ्गमित्येवं स्थूलसूक्ष्मकारणशरीराणां त्यागाङ्गभोगाङ्गयोगाङ्गतां सम्पाद्य, एषु गुरुणा दत्तं दृक्कलाग्राह्यं सकलमधोवृत्तखण्डिकावृत्तगोमुखनालगोलकात्मकषडवयवयुक्तं स्वसम्बन्धपूर्वकालिकभाव्यनेकजन्महेतुभूतसञ्चितकर्मरूपानिष्टपरिह अरद्वारा महालिङ्गैक्यरूपेष्टप्रापकत्वादिष्टशब्दितं लिङ्गं त्यागाङ्गशब्दिते स्थूलशरीरे षडन्यतमस्थाने सावधानं धृत्वा बाह्यैः षोडशोपचारैः सम्पूजनं बाह्यं कुम्भकशब्दितप्राणवायुनिरोधजनितकशेरुकादण्डान्तरस्थैकविंशतिग्र न्थिभेदनपूर्वककुण्डलिन्यूर्ध्वमुखीकरणद्वारा हृदयस्थितानाहतपद्माष्टदलव्यतिरिक्तचतुर्दलमध्यस्थकर्णिकान्तस्थित अङ्गुष्ठपरिमाणविद्रुमप्रभप्राणशक्तिविशिष्टचित्स्वरूपमेव प्राणलिङ्गं मनोग्राह्यं सकलनिष्कलात्मकं क्षमात्मकाभिषेकसलिलजडाजडविवेकरूपवस्त्रसत्यवचनाभिधाभरणै हिकामुष्मिकविषयभोगास्स्थैर्यज्ञानपूर्वकेच्छानिवृत्त्याख्यवैराग्यात्मक् अपुष्पमाल्यविषयान्तरवैमुख्यपूर्वकमनोलयरूपसमाध्यात्मकगन्धाहमित् यभिमानराहित्यरूपनिरहङ्काराख्याक्षतदृढविश्वासरूपश्रद्धानाम कधूपमूलाज्ञाननिवर्तकाखण्डाकारज्ञानात्मकदीपभ्रान्तिमूलप्रपञ् चज्ञानरा-
[[४५७]]
हित्यरूपनैवेद्यलौकिकविषयशब्दव्यवहारनिवृत्तिनियमरूपमौनाह्वयघण् टानादगन्धादिविषयार्पणरूपताम्बूलसंसारिकस्त्रीपुत्रादिविषयमहत्त् आराहित्यप्रदक्षिणसर्वप्रपञ्चतदात्मतावधारणात्मिकबुद्धिनमस्काररू पैर्भावकल्पितैः षोडशसङ्ख्याकैरदूषितैरान्तरैरुपचारैः पूजनमान्तरं प्राणलिङ्गपूजनं, योगाङ्गे निर्गुणे निराकारे अत एव निष्कले परात्परे तृप्तिरूपे मनोलयद्वारा स्वतादात्म्येनावस्थानं निरञ्जनार्चनमेवंविधलिङ्गत्रयोपासनातत्पराः ॥
इत्थं च पूर्वोक्तलिङ्गत्रयं मूलप्रणवप्रकाशैकविग्रहं परशिवतत्त्वं करणान्तरनिरपेक्षतया भासमानत्वात्स्वप्रकाशं, कारणान्तरनिरपेक्षतया कुर्वाणत्वात्स्वतन्त्रं, अधिकरणान्तरनिरपेक्षतया वर्तमानत्वात्सर्वाधिकरणं सच्चिदानन्दलक्षणं परशिवतत्त्वं पूज्यपूजकभावलीलापन्नं सत्तरङ्गोत्पत्तेः प्राग्लहरीविशिष्टः समुद्र इव क्षुब्धं सदीषच्चलं भवति ।
ततोऽन्योन्यसमरसीभूतस्वतन्त्रस्वप्रकाशशान्तयोर्न्यूनाधिकभावाभ्यां द्वैविध्यं प्राप्नोति ।
तत्राधिकभावापन्नं स्वतन्त्रस्वप्रकाशतायां प्रतिस्फुरणगत्या प्रविष्टमूलप्रणवरूपशिवचैतन्यमेव लिङ्गतत्त्वं भवति ।
न्यूनीभूतस्वप्रकाशतायां तथैव प्रविष्टशिवचैतन्यमेवाङ्गतत्त्वं भवति ।
तत्र लिङ्गतत्त्वं तु तदेव सच्चिदानन्दप्रतिफलनकलनात्मकं भावलिङ्गं प्राणलिङ्गमिष्टलिङ्गमिति त्रिविधं भवति ।
पुनरिदं लिङ्गत्रयं प्रत्येकं द्विविधं भवति ।
तत्र भावलिङ्गं हि महालिङ्गं प्रसादलिङ्गमिति द्विविधं भवति ।
प्राणलिङ्गं तु जङ्गमलिङ्गं शिवलिङ्गमिति द्विविधम् ।
इष्टलिङ्गं च गुरुलिङ्गमाचारलिङ्गमिति द्विविधं भवति ।
एवं लिङ्गस्थलं षड्विधं भवति ।
स्वतन्त्रस्वप्रकाशताशक्तिरेव क्रमादेषु लिङ्गेषु सूक्ष्मकार्यकारणप्रपञ्चोपादान- कारणीभूतचिच्छक्त्यपरपर्यायप्रणवरूपशान्त्यतीतोत्तराख्यकलेति, आनन्दरूपपराशक्त्यपरपर्याययकारमयशान्त्यतीतकलेति, औन्मुख्यलक्षणादिशक्त्यपरपर्यायवाकाररूपशान्तिकलेति, सूक्ष्मक्रियालक्षणेच्छाशक्त्यपरपर्यायशिकाररूपविद्याकलेति, बहिर्मुखज्ञा-
[[४५८]]
नशक्त्यपरपर्यायमकारमयप्रतिष्ठाकलेति, स्थूलोद्यमक्रियाशक्त्यपरपर्यायनकाररूपनिवृत्तिकलेति, षड्रूपतां भजति ।
एवं च महालिङ्गं तावत्सर्वपदार्थानुसन्धानलक्षणहृदयरूपत्वाद्विशुद्धानुसन्धातृरू पगोप्यमुखमित्युच्यते ।
प्रसादादिलिङ्गपञ्चकन्तु क्रमेण शब्दादि प्रतिनियतपदार्थानुसन्धातृरूपेशानतत्पुरुषाघोरवामदेवसद्योजाताख्य् अप्रकटपञ्चमुखमित्युच्यते ।
एवंविधलिङ्गतत्त्वस्य सागरतरङ्गन्यायेनाभेदपर्यवसायिभेदप्रतीतिलक्षणशुद्धानुसन्धातृ रूपत्वेनानुग्रहहेतुत्वादुपास्यत्वसू ।
एवमङ्गतत्त्वञ्च योगाङ्गं भोगाङ्गं त्यागाङ्गमिति त्रिविधम् ।
इदमपि प्रत्येकं द्विविधम् ।
योगाङ्गन्त्वैक्यं शरणमिति द्विधा भिद्यते ।
भोगाङ्गन्तु प्राणलिङ्गिप्रसादीति ।
त्यागाङ्गन्तु महेश्वरभक्तलक्षणमिति ।
एवं षड्विधाङ्गप्रकाशानां न्यूनीभावमापन्ना सा शक्तिरेव समरसभक्तिरित्यानन्दभक्तिरित्यनुभवभक्तिरित्यवधानभक्तिरिति नैष्टिकीभक्तिरिति श्रद्धाभक्तिरिति षड्विधभक्तिरूपतां, भावज्ञानमनोबुध्यहङ्कारचित्तलक्षणान्तःकरणषट्कातां, श्रोत्रादिज्ञानेन्द्रियरूपतां, शब्दादितद्विषयतृप्तिलक्षणषट्पदार्थतां, तद्वाचकषडक्षरीरूपतां, क्रियासाधनीभूतवागादिकर्मेन्द्रियरूपतां, सूक्ष्मरूपा- काशादिभूतपञ्चकसमष्टिरूपतां, सद्भावसुज्ञानसुमनोनिरहङ्कारसुबुद्धिसुचित्ताख्यषड्विधहस्तरूपतां, च प्राप्याङ्गतत्त्वं भवति ।
एवंविधाङ्गतत्त्वस्य महेश्वरीयलीलाशक्तिपरिकल्पितसङ्कुचितचिदादिशक्तिस्वभावत्वेऽपि सूक्ष्मरूपमानसव्योमाद्युपाधिसंवलितत्वेनोर्ध्वसृष्टिरूपविभागनिबन्ध् अनभेदप्रदानलक्षणशुद्धविद्याप्रमातृरूपत्वादुपासकत्वमुच्यते ।
एवं च लिङ्गतत्त्वस्य शरणतत्त्वमङ्गं, शरणस्य लिङ्गं प्राणः ।
अनयोर्बीजवृक्षन्यायेनान्योन्यसामरस्यमेव ॥
एवं शरण एव लिङ्गं, लिङ्गमेव शरण इति ।
एवंविधशरणस्य स्वविमर्शगुरुकटाक्षसम्प्राप्तस्वात्मप्रत्यभिज्ञानशालित्वात्, एतन्मन एव प्रणवरूपमहालिङ्गं बाह्येन्द्रियलक्षणश्रोत्राद्येकैकेन्द्रियविषयशब्दादिसकलपदार्थाग्रहण साधनत्वेनान्तर्मुखत्वात्, नादसुनादमहानादरूपदेशिकवाक्यशास्त्रस्य
[[४५९]]
विवक्षाध्यवसायोक्तिरूपपश्यन्त्यादिक्रमेणानुग्रहात्मकप्रसादहेतुत्वात्, शब्दग्रहणसाधनं श्रोत्रमेव यकाररूपप्रसादलिङ्गम् ।
चरजङ्गमयोः पर्यायत्वात्तस्य त्वक् सर्वाङ्गं व्याप्तासती तत्र शीतादिस्पर्शज्ञानसाधनत्वाद्वाकारमयजङ्गमलिङ्गम् ।
महाप्रकाश एव नेत्रगोलकं प्रविष्टं सत्सकलरूपपदार्थप्रकाशनसाधनत्वान्नेत्रमेव शिकारमयशिवलिङ्गम् ।
गुरोर्मन्त्रमूर्तित्वात्, षडक्षरीमन्त्र एव मधुरादिषड्रसरूपतां प्राप्त इति तादृशमन्त्रोच्चारणरसास्वादनसाधनत्वाज्जिह्वैव मकारमयगुरुलिङ्गम् ।
ईडापिङ्गलाख्यनाडीद्वारा प्राणवायुसञ्चाराश्रयत्वात्सत्कर्माचरणहेतुभूतदेहशुद्धिरूपरेचनाद् इक्रमोत्पन्नप्राणायामाचरणाच्च घ्राणमेव नकारमयमाचारलिङ्गमिति भण्यते ।
एवं लिङ्गलक्षणमवगन्तव्यम् ।
अथ गुरुलिङ्गजङ्गमानामैक्यधिया भस्मरुद्राक्षादिशिवलाञ्छनेषु शिवशरणेषु च प्रीतिलक्षणभक्तिमानेव भक्तः ।
शिव एव श्रीगुरुलिङ्गजङ्गमात्मक इति निष्ठावानेव महेश्वरः ।
गुरुलिङ्गजङ्गमपादोदकप्रसादभूतिरुद्राक्षमन्त्रलक्षणान्तर्गताद्यपञ् चविधवर्तनपञ्चाचारेषु विस्मृतिशून्यत्वेन सावधानभक्तिमानेव प्रसादी ।
व्याध्यादौ सम्प्राप्तेऽपि पादोदकप्रसादव्यतिरेकेण लिङ्गार्पितौषधं चाहं न स्वीकरोमीति पादोदकप्रसादस्वीकारनियमनिष्ठो लिङ्गमेव प्राणः प्राण एव लिङ्गमित्यनुसन्धानवानेव प्राणलिङ्गो ।
तादृशप्राणलिङ्गमेव पतिः स्वयमेव सतीति सतीपतिभावमापन्नः सत्याः सत्यन्तरं नास्तीत्यन्यसतीसङ्गं परित्यज्य स्वचिच्छक्तिसम्मेलनानन्दभरितः सन्निवृत्तिमार्गमवलम्ब्य भक्तिज्ञानवैराग्यसम्पन्न एव शरण इत्युच्यते ॥
एवंविधसतीपतिभावनिवृत्या विषयान्तरभासनरहितः सन्विकल्पवैमुख्येन सर्वं शिवात्मकमिति विमृशन् शिखिकर्पूरयोगवदन्तर्मुखमहालिङ्गैकलोलीभूत एवैक्य इत्यङ्गस्थलं विमर्शनीयम् ॥
एवं षड्विधाचारभेदेन भिन्नानामाचारादिषड्विधलिङ्गानां च सम्बन्धो विमर्शनीयः ।
अस्मिन्नर्थे शङ्करसंहितावचनानि-
[[४६०]]
आचारलिङ्गं घ्राणाख्यं भक्तस्थलसमाश्रयम् ।
निवृत्तिकलयोपेतं गन्धग्रहणसाधनम् ॥
गुरुलिङ्गं च जिह्वाख्यं महेशस्थलसंश्रयम् ।
विद्याकलासमायुक्तं रूपग्रहणसाधनम् ॥
त्वगाख्यं जङ्गमं लिङ्गं प्राणलिङ्गिस्थलाश्रयम् ।
शान्त्याख्यकलया युक्तं स्पर्शग्रहणसाधनम् ॥
प्रसादलिङ्गं श्रोत्राख्यं शरणस्थलसंश्रयम् ।
शान्त्यातीतकलोपेतं शब्दग्रहणसाधनम् ॥
मानसन्तु महालिङ्गमैक्यस्थलसमाश्रयम् ।
शान्त्यतीतोत्तरोपेतं सर्वग्रहणसाधनम् ॥
इति ॥
अत्र मानसादीनां करणरूपत्वेऽपि घ्रातृत्वादिग्रहणचेतनधर्मस्य घ्रेयादिपदार्थस्वीकारसाधनत्वेन तदेकनिष्ठत्वाल्लिङ्गरूपत्वव्यपदेशः ।
भक्तादिलक्षणन्तु स्कान्दे शङ्करसंहितायाम्-
सदाचारः शिवे भक्तिर्लिङ्गे जङ्गम एकधीः ।
लाञ्छने शरणे शक्तिर्भक्तस्थलमनुत्तमम् ॥
परस्त्रियं परार्थं च वर्जयेद्भावशुद्धिमान् ।
लिङ्गनिष्ठानियुक्तात्मा माहेश्वरमहास्थलम् ॥
लिङ्गार्पितपदार्थस्य सुखं भुक्त्वा समाहितः ।
अनर्पितविवर्जी च प्रसादस्थलमुत्तमम् ॥
वायौ प्राणात्मके लिङ्गं लिङ्गे प्राणः समाहितः ।
सुखदुःखद्वयं नास्ति प्राणलिङ्गिस्थलं भवेत् ॥
[[४६१]]
पतिर्लिङ्गं सती चाहमिति यक्तः स्वयं प्रभुः ।
प्रापञ्चिकसुखं नास्ति शरणस्थलमुत्तमम् ॥
षडूर्मयो न षड् भावा नास्ति चाष्टविधार्चनम् ।
निर्भावो निजलिङ्गैक्यः शिखिकर्पूरयोगवत् ॥
इति ॥
एवं चात्राङ्गस्थलस्य लिङ्गस्थलान्तर्गतत्वात्, शान्त्यतीतोत्तराख्यकलोपेतमहासादाख्यमहालिङ्गतत्त्वमेकं, शिष्टपञ्चलिङ्गगतकलापञ्चकं शिवसादाख्यामूर्तसादाख्यकर्तृसादाख्यरूपसादाख्यपञ्चकं मिलित्वा लिङ्गतत्त्वान्येकादशेति सङ्क्षेपः ॥
एवं सति निष्कलघनलिङ्गतत्त्वस्य महालिङ्गं मानसाख्यान्तर्मुखं, प्रसादलिङ्गपञ्चकम्बाह्यमुखपञ्चकम् ।
सादाख्यपञ्चकन्त्वीशानाद्यपरपर्यायनामधेयमिति तात्पर्यम् ।
अथ पुनस्तस्य महेशितुः स्थूलपञ्चनिर्माणलीलायामाचारलिङ्गनिष्क्रियाशक्त्यपरपर्याया निवृतिकलावशादहङ्कारादिभूम्यन्तत्रयोविंशतितत्त्वमूलकारणीभूतस् अत्त्वरजस्तमोगुणात्मकप्रकृत्यपरपर्यायमायातत्त्वमुत्पन्नं भवति ।
तत्र सात्विकादिप्रविष्टचैतन्यमेव रुद्रविष्णुब्रह्माख्यया व्यवह्रियते ।
क्रमेण वह्निसूर्यसोमाश्चैतदन्तर्गताः ।
ब्रह्मक्षत्रियवैश्यशूद्राख्याश्चत्वारो भेदाश्च ।
“चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागश” इति गीतोक्तेः ।
कथं गुणत्रयाद्वर्णचतुष्टयोत्पत्तिरिति नाशङ्कनीयं, “विश्वाधिको रुद्रो महर्षिः, पुरुषो वै रुद्रः सन्महो नमो नम” इति श्रुतेः ।
सत्त्वगुणप्रविष्टचैतन्यरूपमहर्षिरुद्रांशीभूतब्रह्मोत्पत्तिः सत्त्वगुणात् ।
रजोगुणाख्यमिश्रितत्वात्तद्गत- सत्त्वांशस्तु वैष्णवराजन्योत्पत्तिः ।
तद्गततमोऽंशेन ब्रह्मांशीभूतवैश्योत्पत्तिः ।
तमोगुणादिन्द्रांशीभूतशूद्रोत्पत्तिः ।
अन्ये देवाः सङ्कराः ।
उक्तञ्च पराशरोपपुराणे- शङ्कराः सर्वदेवाः स्युर्वृषलश्च पुरन्दरः ।
पितामहस्तु वैश्यः स्यात् क्षत्रियः परमो हरिः ॥
ब्राह्मणो भगवान् रुद्रः सर्वेषामुत्तमोत्तमः ।
ब्रह्मभूतस्य रुद्रस्य ब्राह्मण्यं नैव हेतुजमिति ॥
[[४६२]]
ननु पुराणेषु सर्वत्र विष्णुः सात्त्विको रुद्रस्तामस इति श्रूयमाणत्वात्कथमुक्तसिद्धिरिति चेन्न, विष्णुरुद्रयोः सात्त्विकत्वतामसत्वोक्तेः पालनसंहारोपाधिकत्वात् ।
स्वभावतस्तु विष्णुस्तामसः, रुद्रः सात्त्विक एव ।
तदुक्तं भागवते-
सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तै- र्युक्तः परः पुरुष एक इहास्य धत्ते ।
स्थित्यादये हरिविरिञ्चिहरेति सञ्ज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः ॥
न ते गिरिञाखिललोकपाल- विरिञ्चिवैकुण्ठसुरेन्द्रगम्यम् ।
ज्योतिः परं यत्र रजस्तमश्च सत्त्वं न यद्ब्रह्म निरस्तभेदम् ॥
इति ॥
अत्र प्रथमश्लोके यथासङ्ख्यालङ्कारेण विष्णोः सात्विकत्वं रुद्रस्य तामसत्वं च पालनाद्युपाधिकृतं स्पष्टमेव प्रतीयते ।
कालकूटविषोल्बणप्रस्तावे रुद्रं प्रति “न ते गिरित्रे"ति ब्रह्मप्रोक्तवचनक्रमेण वैकुण्ठस्य तमोगुणत्वं सुरेन्द्रापरपर्यायरुद्रस्य सात्त्विकत्वञ्च स्वाभाविकं प्रतीयते ।
शुक्लवर्णत्वाद्रुद्रस्य कृष्णवर्णत्वाद्विष्णोरिति ।
अस्मिन्नर्थे स्कन्दपुराणे-
शौक्ल्यं सत्त्वगुणाज्जातं रागो जातो रजोगुणात् ।
कार्ष्ण्यं तमोगुणाज्जातमिति विन्द्यात्समासतः ॥
यस्य मायागतं सत्त्वं शरीरं स्यात्तमोगुणः ।
संहाराय त्रिमूर्तीनां स रुद्रः स्यान्न चापरः ॥
तथा यस्य तमः साक्षाच्छरीरं सात्त्विको गुणः ।
पालनाय त्रिमूर्तीनां स विष्णुः स्यान्न चापरः ॥
इति ॥
[[४६३]]
अत्र ब्रह्मादिकीटान्ताः सकलास्त्रिमलिनः ।
विष्णुः प्रलयाकलः कलाशून्यत्वात्सदाऽज्ञानी, संहाराय मायैकमली ।
ऊर्ध्वकोटिगतत्यागाङ्गप्रकाशस्तु कर्मैकमलवासनाविशिष्टत्वान्मन्त्रः ।
भोगाङ्गभासस्तु कार्ममलवासनाक्षयौन्मुख्यरूपत्वान्मन्त्रेश्वरः ।
योगाङ्गप्रतिभासस्तु प्राप्तकार्ममलवासनाक्षयरूपत्वान्मन्त्रमहेश्वर इति भण्यते ।
एवमेते षड्विधप्रमातारः ।
निष्कलघनलिङ्गप्रकाशस्त्वनुत्पन्नमलोल्लासपूर्णाहंस्फुरण इति विवेकः ॥
अत्रान्योन्याभावलक्षणभेदप्रपञ्चरूपमायाकार्यकोटिप्रविष्टमङ्गतत्त् वं पञ्चविंशतिसङ्ख्याकमिति बोध्यम् ।
अत्रान्तःकरणत्रयं ज्ञानेन्द्रियपञ्चकं च सत्त्वकार्यम्, कर्मेन्द्रियपञ्चकं राजसम्, तन्मात्रपञ्चकं भूतपञ्चकं च तामसमित्यवगन्तव्यम् ॥
अत्र “बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यत” इति भगवदुक्तेरनेकजन्मार्जितशिवपूजादिसत्कर्ममहिम्नेहजन्मनि गुरुकटाक्षवशादेवंविधषट्स्थलब्रह्मज्ञानं कश्चिदेव लब्ध्वा मुक्तो भवतीति सिद्धम् ॥
अथोक्तलक्षणषट्स्थलब्रह्मविच्छरणस्य गोप्यादिसद्योजातान्तषण्मुखमुदितज्योतिर्बिन्द्वर्धचन्द्रकुण्डलदण्डतारक अकारषडक्षराण्येव षड्भूतानि भूत्वाऽङ्गतामभजन्निति तदङ्गे षट्प्रणवरूपेष्टलिङ्गं सुस्थिरमास्ते ।
तत्पीठे ह्याचारलिङ्गं, खण्डिकावरणे गुरुलिङ्गं, वर्तुले शिवलिङ्गं, गोमुखे जङ्गमलिङ्गं, योनिस्थाने प्रसादलिङ्गं, गोलके महालिङ्गमित्येवं षड्विधानां लिङ्गानां तत्तत्स्थानेषु प्रकाशमानत्वात्, तत्र भक्तस्तावदाचारलिङ्गस्य क्रियाशक्तियुक्तस्य श्रद्धाभक्त्या सुचित्तहस्ते गन्धपदार्थं धृत्वा नकारमन्त्रमनुस्मरन् घ्राणेन्द्रियमुखे समर्प्य तत्प्रसादभोगी भूत्वा परिणामो भवति ।
माहेश्वरो हि गुरुलिङ्गस्य ज्ञानशक्तियुक्तस्य निष्ठाभक्त्या सुबुद्धिहस्ते रसपदार्थं धृत्वा मकारमन्त्रमनुस्मरन् रसनेन्द्रियमुखेन समर्प्य तत्प्रसादं स्वीकृत्य परिणामी भवति ॥
प्रसादी तु शिवलिङ्गस्येच्छाशक्तियुक्तस्य सावधानभक्त्या निरहङ्कारहस्तेन रूपपदार्थं परिगृह्य शिकारमन्त्रमनुस्मरन्नेत्रेन्द्रियमुखेन
[[४६४]]
समर्प्य तत्प्रसादभोगी भूत्वा परिणामी भवति ॥
प्राणलिङ्गीत्वादिशक्तियुक्तजङ्गमलिङ्गस्यानुभवभक्त्या सुमनोहस्तेन स्पर्शपदार्थं धृत्वा वाकारमनुस्मरंस्त्वगिन्द्रियमुखे समर्प्य तत्प्रसादभोगी भूत्वा परिणामी भवति ॥
शरणस्तु पराशक्तियुक्तप्रसादलिङ्गस्यानन्दभक्त्या सुज्ञानहस्तेन शब्दपदार्थं धृत्वा यकारमन्त्रमनुस्मरन् श्रोत्रेन्द्रियमुखे समर्प्य तत्प्रसादं भुक्त्वा परिणामी भवति ॥
ऐक्यस्तु चिच्छक्तियुक्तमहालिङ्गस्य समरसभक्त्या सद्भावहस्तेन तृप्तिपदार्थं धृत्वा प्रणवमन्त्रमनुस्मरन्मनोमुखे समर्प्य तत्प्रसादतृप्तः सन्परिणामी भवति ॥
अनेनैव क्रमेण मिश्रार्पणं विधिं वर्णयामः- आचारलिङ्गाय भोज्यमन्नादिकं, गुरुलिङ्गाय पेयं क्षीरादिकं, शिवलिङ्गाय भक्ष्यमपूपवटकादिकं, जङ्गमलिङ्गाय चोष्यं मुद्गाढकयुषादिकं, प्रसादलिङ्गाय लेह्यं रसायनादिकमेतत्सर्वं महालिङ्गाय समर्प्य तत्प्रसादोपभोगी परिणामी भवति ॥
अथ मिश्रार्पणम्- आचारलिङ्गान्तर्गताचारलिङ्गाय मूलकन्दादिगन्धसमर्पणम्, आचारलिङ्गान्तर्गतगुरुलिङ्गाय वृक्षवल्कलादिगन्धसमर्पणम्, आचारलिङ्गान्तर्गतचरलिङ्गाय कुड्मलादिसुगन्धसमर्पणम्, आचारलिङ्गान्तर्गतप्रसादलिङ्गाय फलादिगन्धसमर्पणं कृत्वा तत्प्रसादोपभोगी सन् परिणामि भवति ।
गुरुलिङ्गान्तर्गताचारलिङ्गाय मधुररसं, गुरुलिङ्गान्तर्गतगुरुलिङ्गाय कषायरसं, गुरुलिङ्गान्तर्गतशिवलिङ्गाय कटुरसं, गुरुलिङ्गान्तर्गतचरलिङ्गायाम्लरसं, गुरुलिङ्गान्तर्गतप्रसादलिङ्गाय तिक्तरसं, गुरुलिङ्गान्तर्गतमहालिङ्गाय लवणरसं समर्प्य तत्प्रसादसेवी भूत्वा सुखी भवति ।
शिवलिङ्गान्तर्गताचारलिङ्गाय पीतरूपं, शिवलिङ्गान्तर्गतगुरुलिङ्गाय श्वेतरूपं, शिवलिङ्गान्तर्गतशिवलिङ्गाय हरितरूपं, शिवलिङ्गान्तर्गतचरलिङ्गाय रक्तरूपं, शिवलिङ्गान्तर्गतप्रसादलिङ्गाय नीलरूपं, शिवलिङ्गान्तर्गतमहालिङ्गायैतत्सर्वं समर्प्य तत्प्रसादं निषेव्य सुखी भवति ॥
जङ्गमलिङ्गान्तर्गताचारलिङ्गाय कठिनस्पर्शं, चरलिङ्गान्तर्गतगुरुलिङ्गाय
[[४६५]]
मृदुस्पर्शं, चरलिङ्गान्तर्गतशिवलिङ्गायोष्णस्पर्शं, चरलिङ्गान्तर्गतजङ्गमलिङ्गाय शीतस्पर्शं, चरलिङ्गान्तर्गतप्रसादलिङ्गाय मिश्रस्पर्शं, चरलिङ्गार्गतमहालिङ्गाय तत्सर्वं समर्प्य तत्प्रसादोपभोगी सन् सुखी भवति ॥
प्रसादलिङ्गान्तर्गताचारलिङ्गाय तालादिजन्यनादं, प्रसादलिङ्गान्तर्गतगुरुलिङ्गाय तन्त्रीजन्यनादं, प्रसादलिङ्गान्तर्गतशिवलिङ्गाय लगुडताडनजन्यं भेर्यादिनादं, प्रसादलिङ्गान्तर्गतजङ्गमलिङ्गाय वेण्वादिजन्यनादं, प्रसादलिङ्गान्तर्गत प्रसादलिङ्गाय गीतादिनादं, प्रसादलिङ्गान्तर्गतमहालिङ्गायैतत्सर्वं नादं समर्प्य तत्प्रसादोपभोगी सन्नानन्दी भवति ॥
महालिङ्गान्तर्गताचारलिङ्गाय गन्धतृप्तिं, महालिङ्गान्तर्गतशिवलिङ्गाय रूपतृप्तिं, महालिङ्गान्तर्गतजङ्गमलिङ्गाय स्पर्शतृप्तिं, महालिङ्गान्तर्गतप्रसादलिङ्गाय शब्दतृप्तिं, महालिङ्गान्तर्गतमहालिङ्गाय सर्वतृप्तिं समर्प्य तत्प्रसादोपभोगी सन्प्रमोदमानो भवति ॥
आचारलिङ्गायेन्द्रियार्थसंयोगकालम्, गुरुलिङ्गाय विषयज्ञानकालम्, शिवलिङ्गाय विषयनिश्चयरूपज्ञानकालम्, जङ्गमलिङ्गाय विषयनिश्चयजन्यसन्तोषकालम्, प्रसादलिङ्गाय निश्चितवस्तुप्राप्तिकालम्, महालिङ्गाय निश्चितवस्तुप्राप्त्यनन्तर- सुखानुभवकालं समर्प्य लिङ्गभोगोपभोगी सन्परमानन्दभरितो भवति ॥
एवं समर्पितवतः शरणस्य ज्ञप्तेर्ब्रह्मणि लीनत्वात्तद्वाचकषडक्षरमन्त्रमयत्वं भवति ॥
“ओङ्कारो वदनं देवि नमःकारौ भुजद्वयम् ।
शिकारो देहमध्यं स्याद्वायकारौ पदद्वयम् ॥
पीठपादादिजान्वन्तमानाभेर्मध्यमीरितम् ।
हृदयान्तं वर्तुलं स्यात्कण्ठान्तं गोमुखं तथा ॥
भ्रूमध्यान्तं लिङ्गकण्ठो मस्तको लिङ्गमस्तकः ॥” इति वचनात्तच्छरीरस्यापि मन्त्रलिङ्गरूपत्वादाचरणीयं किमपि नास्त्येव ।
सचैवं महाघनलिङ्गैक्यलोलीभूतः सन्नखण्डामर्षपरिबृंहितः सन्नास्ते ।
तदेवंविधषट्स्थलज्ञानवानेव सर्वोत्कृष्टः ।
अयमेवार्थः “कृमिकीटपतङ्गेभ्य” इत्यादिसूतसंहितावचननिकुरुम्बलेखने प्रागेव स्पष्टमुक्तः ।
[[४६६]]
ततः स एव मुक्तः, स एव सर्ववन्द्यः, स एव सर्वोत्तरः, स एव दर्शनस्पर्शनव्यवहारादिभिः सर्वैः प्रपत्तव्यश्च ॥
अस्मिन्नर्थे प्रमाणानि क्रियाकाण्डोपान्त्यप्रकरणे द्रष्टव्यानि बुद्धिशालिभिरिति सर्वं समञ्जसम् ॥
श्रीमद्गुरो तव मुखाम्बुजनिस्सृताभि- र्वाग्भिः समस्तमतखण्डनमण्डनानि ।
वादात्मना विरचितानि सयुक्तिकानि तानि श्रुतानि खलु भृङ्गिसुशीलिनोश्च ॥
श्रीवीरशैवमहिमाढ्यमतप्रकर्षं सम्यक्समस्तनिगमागमसारभूतम् ।
श्रुत्वा प्रमोदमयदुग्धपयोधिवीची- दोलासिकासुखमनुत्तरमन्वभूवम् ॥
ख्याता च लोके बसवक्षितीन्द्र ज्ञाने क्षमायां च शिवार्चनेऽपि ।
गम्भीरतायां प्रतिपादनेऽपि धैर्ये प्रतापे तव कीर्तिरास्ते ॥
दुग्धाब्धिर्धवलांशुकत्वमयते कट्याञ्च वक्षस्थले स्वर्गङ्गाशुचिकञ्चुकत्वमलिके पाटीरबिन्दुस्थितिम् ।
आकाशश्चिकुरश्रियं तमभितस्ताराः प्रसूनोपमां व्याप्ताया हरिदन्तरेषु बसवक्ष्मापालकीर्तिस्त्रियाः ॥
चञ्चत्काञ्चनकुड्मले चरणयोर्गुल्फद्वये हेमजाः किङ्किण्यः कटिसीम्नि काञ्चिघटिता क्षुद्रा च घण्टावली ।
[[४६७]]
कण्ठे स्वर्णमणिस्रजः कनकजौ पाण्योर्लसत्कदुन्कौ ब्रह्माण्डानि विभान्ति धीरबसवक्ष्मापालकीर्तिस्त्रियाः ॥
लिङ्गं स्फाटिकमुज्वलं हि बसवक्षोणीन्द्र ते सद्यशो- बिम्बं वारिधरोऽभिषेककलशस्तारा प्रसूनस्रजः ।
दीपौ सूर्यसुधाकरौ च गगनं धूपः समस्तं जग न्नैवेद्यं विदुषां मुहुः स्तुतिमयी घण्टाध्वनिर्भारती ॥
इति श्रीमद्-अनादि-निरञ्जन-जङ्गमापरावतार-
तोण्टद-सिद्धेश्वर-प्रसादासादित-
शाम्भवागमाम्बोधि-मथन-जनित-
निरुत्तरैकोत्तरशत-स्थल-भेद-भिन्न-षट्-स्थल–
तत्त्वबोध-सुधास्वादानन्द-सन्दोह-प्रदायकाचार्यवर्य-
श्रीमरितोण्टदार्य-विरचिते
यडव-मुरारि-कोटे-कोलाहलैकाङ्गि-वीर-
वैरि-सप्ताङ्ग-हरण-पश्चिम-समुद्राधीश्वर-
विशुद्ध-वैदिकाद्वैत-सिद्धान्त-प्रतिष्ठापनाचार्य-
केलदि-सदाशिव-राय-नायक-वंश-दुग्धार्णव-चन्द्र-
वीर-भद्र-धरणीन्द्र-धर्म्म-पत्नी-मल्लाम्बा-हृदयानन्द-
बसव-वसुधा-सङ्क्रन्दनोपदेशे
वीरशैवानन्द-चन्द्रिकायां वादकाण्डे वीरशैवमतोत्कर्षतन्निष्ठशिवभक्तोत्कर्षनिरूपणं नाम चतुर्विंशतितमं प्रकरणम् ॥
॥
वादकाण्डः समाप्तः ॥