२३

वीरशैवानन्दचन्द्रिकायां वादकाण्डे त्रयोविंशतितमं प्रकरणम् ॥

स्वामिन् श्रीतोण्टदाचार्य चक्रवर्तिन् गुरूत्तम ।
आरब्धं भृङ्गिणा पूर्वं नीलकण्ठमतं ततः ॥
तद्दूषणं शीलिनोक्तं निगमागमवर्त्मना ।
त्वदास्यकमलाच्छृत्वा सानन्दहृदयोऽभवम् ॥
पुनस्ताभ्यां किमारब्धं श्रोतुमिच्छास्ति मे हृदि ।
करुणावारिधे मह्यं निरूपय महामते ॥
श्रीमद्बसवभूपाल भूपालकुलनायक ।
भवतो बुद्धिकौशल्यं गुरोरप्यतिदुर्लभम् ॥
तयोर्वादात्मकत्वेन बोद्धव्यं यत्तु तानहम् ।
तत्तेऽद्य सम्प्रवक्ष्यामि श्रूयतां सावधानतः ॥
मतं श्रीशाङ्कराद्वैतमनेकश्रुतिसम्मतम् ।
महर्षिगणसंसेव्यं प्रसिद्धं परमुक्तिदम् ॥

[[४३३]]

किञ्च शैवं तत्पुराणस्मृतिधर्मसमन्वितम् ।
कथन्तु दूषणं कर्तुं समर्थोऽसि महीतले ॥
मते तस्मिन् मयाऽऽरब्धे तव सत्यं पलायनम् ।
तथापि मास्तु ते भीतिरित्युक्त्वाऽभयदङ्करम् ॥
ददामि शीर्षे ते शीलिन्नित्युक्ते भृङ्गिणा तदा ।
समस्तमतसिद्धान्तगजकण्ठीरवेण च ॥
शीलवच्छिवभक्ताग्रगण्येनोक्तं तदुत्तरम् ।
भृङ्गिन् बुध्यानुगुण्येन भण्यते कुमते त्वया ॥
वदाद्य तव विक्रान्तिं द्रष्टुमास्थीयतेऽधुना ।
पश्य मे भणतिं सम्यग्यदि सामर्थ्यमस्ति चेत् ॥
त्वदुक्तिखण्डनं यावत्तावत्त्वं भाषसे मुदा ।
वद तन्मतसिद्धान्तं शृणु तत्र च दूषणम् ॥

“अथातो ब्रह्मजिज्ञासा” अथ शब्द आनन्तर्यार्थकः ।
अथ साधनचतुष्टयसम्पत्त्यनन्तरम्, अतः साधनसम्पत्तेर्वृत्तत्वात्, ब्रह्मजिज्ञासा ब्रह्मविषयकविचारः कर्तव्यः ।
साधनचतुष्ट्यञ्च नित्यानित्यवस्तुविवेकः, इहामुत्रफलभोगविरागः, शमादिसम्पत्तिः, मुमुक्षा च ।
विचारो नाम श्रवणमननात्मकक्रियाविशेषः ।
श्रवणं विदितपदपदार्थसङ्गतिकस्य गुरुमुखात्सोपबृंहणश्रुतिशिरो वाक्यार्थज्ञानजननानुकूलो व्यापारः ।
मननं तस्यैव श्रुतस्यार्थस्य सोपपत्तिकसूत्रभाष्यवार्तिकचिन्तितस्यार्थस्याद्वैतरूपस्य यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधिक्रमापादितधार् आवाहिकज्ञानम् ।
तज्जन्याखण्डाकारवृत्तिः साक्षात्कारोऽज्ञाननिवृत्तिरूपस्वरूपमुक्तिसाधनम् ।
ऐहिकफलं पशुपुत्रमित्रकलत्रगृहक्षेत्रारामधनकनकवाहनकौशेयादि, आमुष्मिकममरत्वतत्त्ववित्त्वादि,

[[४३४]]

तत्रोभयत्रानभिलाषो वैराग्यम् ।
शमो नाम अन्तरिन्द्रियनिग्रहः ।
दमो नाम बहिरिन्द्रियनिग्रहः ।
मुमुक्षा मोक्षेच्छा ।
एतादृशसाधनचतुष्टयसम्पत्तिस्तुरीयाश्रम एव भवतीति तुरीयाश्रमिणामेव मुख्याधिकारो ब्रह्मविद्यायाम्, गृहस्थानां तु नित्यनैमित्तिककर्माधिकारित्वाद्ब्रह्मविद्यायामापाततोऽधिकारः ।
अत एव शन्यस्य श्रवणं कुर्या"दिति वचनमिति भगवत्पादमतम् ।
केचित्तु “कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।” इति वचनेनातुरसन्न्यासविधानात्सन्यासस्य प्रयाजादिवददृष्टद्वाराऽङ्गत्वमिति गृहस्थानामपि ब्रह्मविद्यायामधिकारित्वमस्तीत्याहुः ॥
ब्रह्म किंलक्षणकमित्यपेक्षायाम् “जन्माद्यस्य यत” इति सूत्रेण ब्रह्मणो लक्षणमुच्यते ।
जगज्जन्मादिकारणत्वमितीदं तटस्थलक्षणम् ।
स्वरूपलक्षणन्तु सच्चिदानन्दत्वम् ।
ननु तटस्तलक्षणं स्वरूपलक्षणमिति कोऽयं भेदः क्रियते ? एकरूपेण लक्षणस्यावश्यं वक्तव्यत्वादितिचेन्न, जीवब्रह्मभेदस्य बहुस्मृतिविरोधात्तस्य समन्वयसूत्रे निराकरिष्यमाणत्वेन, तथैव “तदनन्यत्वमारम्भणशब्दादिभ्य” इति सूत्रेण जगतोऽनिचर्वनीयत्वस्य वक्ष्यमाणत्वाच्च, जगतो मिथ्यात्वेन तद्घटितलक्षणस्यापि व्यावहारिकमात्रस्य तात्त्विकत्वाभावाद्ब्रह्मणो लक्षितत्वापत्या स्वरूपलक्षणं भिन्नत्वेनाभिहितम् ।
तच्च ब्रह्म किम्प्रमाणकभित्याकाङ्क्षायाम् शास्त्रयोनित्वा"दिति सूत्रेण शास्त्रप्रमाणकत्वं ब्रह्मणः, न तु प्रत्यक्षादिप्रमाणकत्वम् ।
तत्रापि ब्रह्मणोऽतीन्द्रियत्वेनाकाशवदप्रत्यक्षत्वात् ।
अत एव व्याप्तिप्रत्यक्षाभावेनावृत्तिकत्वेन च तद्व्याप्यलिङ्गाभावेन निर्गुणत्वेन च सामान्यतोऽनुमानं परिशेष्यानुमानञ्च न सम्भवति ।
तस्माच्छ्रुतिरेव प्रमाणमिति वक्तव्यम् ।
तथाच श्रुतिः- ङावेदविन्मनुते तं बृहन्तम् ।
तन्त्वौपनिषदं पुरुषं पृच्छामी"ति ॥
ननु कथं ब्रह्मणः शास्त्रयोनित्वम्, कर्मकाण्डश्रुतीनां ब्रह्मपरत्वाभावात् ।
नच तन्त्वौपनिषदं पुरुषं पृच्छामीति श्रुतिपर्यालोचनया

[[४३५]]

ब्रह्मणः कर्मकाण्डश्रुतिविषयत्वाभावेऽप्युपनिषत्प्रमाणकत्वेन शास्त्रयोनित्वमिति वाच्यम्, सम्पदुपासनाप्रतीकोपासनाऽहङ्ग्रहोपासनाश्रुतीनामद्वैतब्रह्मप्रतिपाद कत्वाभावेन शास्त्रयोनित्वं दुष्करमेव ब्रह्मण इति शङ्कायाम् “तत्तु समन्वया"दिति सूत्रेणाद्वैतब्रह्मणि वेदान्ताभिधेयत्वं निर्णीयते ।
अत्रायमाशयः- तत्तु शास्त्रयोनित्वन्तु, तुशब्दः पूर्वपक्षनिवृत्तिद्योतनार्थः, समन्वयात्सम्यगनुगतत्वात् ।
सम्यगनुगतत्वं ब्रह्मणि श्रुतीनामुपक्रमोपसंहारैकवाक्यतया क्वचिदनन्यसाधारणलिङ्गेनाभ्यासेन च ।
तत्त्वमस्यादिश्रुतीनाम् “उततमादेशमप्राक्ष्यः, येनाश्रुतं श्रुतं भवति, अमतं मतमविज्ञातं विज्ञात"मिति प्रश्नानुसारेण प्रतिवचनस्य वक्तुमुचितत्वात्प्रश्नस्य ब्रह्मविज्ञानेन सर्वविज्ञानात्मकस्याभेदं विनाऽनुपपद्यमानत्वादुपसंहारे तत्त्वमसीति वाक्ये अद्वैतमेव मुख्यवृत्त्याऽभिधीयत इति निश्चीयते ।
अन्यथा पूर्वोत्तरसन्दर्भयोर्वैयधिकरण्यं स्यात् ॥
अत एव पूर्वतन्त्रे द्वितीयाध्याये “पौर्णमासीवदुपांशुयाजःस्यात्” इत्यधिकरणे “विष्णुरुपांशुयष्टव्योऽजामित्वाय, प्रजापतिरुपांशुयष्टव्योऽजामित्वायाग्नीषोमावुपांशुयष्टव्योऽजामित्वा येत्यादिवाक्यानां तव्यप्रत्यययुक्तानामेकवाक्यत्वलोभेनानुवादकत्वमङ्गीकृत्योपक्रमस्थोपा।
म्शुयाजमन्तरा यजतीति वाक्यस्य वर्तमानापदेशस्यापि विधायकत्वमङ्गीकृतम् ।
अत एव प्रथमाध्याये नामधेयपेटिकायाम् “पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्यं समाम्नाये” इत्यधिकरणे “वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते” इत्यारभ्य श्रुतानाम् “यदष्टाकपालो भवती"त्यादिवाक्यानामुपक्रमस्थवैश्वानरवाक्यैकवाक्यतार्थमर्थवाद त्वमङ्गीकृतम् ।
तन्न्यायेनात्रापि पूर्वोत्तरयोरेकवाक्यतासिद्धयेऽभेदोऽङ्गीक्रियते ।
एवमेव “आनन्दमयोऽभ्यासादि"त्युत्तराधिकरणे “ब्रह्म पुच्छं प्रतिष्ठे” त्यद्वैतं ब्रह्मैव “असन्नेव स भवति, असद्ब्रह्मेति वेद चेत्, अस्ति ब्रह्मेति चेद्वेद, स एको ब्रह्मण आनन्दः, अधीहि भगवो ब्रह्मेति, तपसा

[[४३६]]

ब्रह्म विजिज्ञासस्व, तपो ब्रह्मेति, अन्नं ब्रह्मेति व्यजानात्, प्राणो ब्रह्मेति व्यजानात्, मनो ब्रह्मेति व्यजानात्, विज्ञानं ब्रह्मेति व्यजानात्, आनन्दा ब्रह्मेति व्यजानात्” इति पुनः पुनश्चाभ्यासात्प्रतिपाद्यते ।
“यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति” इति द्वैतविज्ञानस्य ब्रह्माभ्यासमध्येऽनर्थहेतुत्वमपि श्रूयते ।
एवमेवाकाशस्तल्लिङ्गादित्यधिकरणे “अस्य लोकस्य का गतिः ।
आकाश इति होवाचे"त्यत्राकाशशब्दस्य भूताकाशपरत्वे श एष परो वरीयानुद्गीथः ।
स एषोऽनन्त” इति श्रूयमाणमनन्ततादिकमनितरसाधारणं लिङ्गम् ।
एवमेव सर्वासामुपनिषदामद्वैते ब्रह्मण्यैव समन्वय आप्रथमाध्यायसमाप्तिप्रतिपाद्यते ।
केषाञ्चिदुपनिषद्वाक्यानामद्वैतब्रह्मप्रतिपत्तये मन्दानुग्रहार्थमहङ्ग्रहोपासनाप्रतिपादकत्वमास्थीयते ।
तद्यथा “एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेशः” इत्यादिषु ।
तस्माद्वेदान्तानामद्वैते ब्रह्मणि समन्वयः ॥
ननु “भेदव्यपदेशाच्चान्यः ।
भेदव्यपदेशाच्च ।
शारीरश्चोभयेऽपि हि भेदेनाधीयते ।
अनुपपत्तेस्तु न शारीरः ।
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ।” इत्यादिषु स्पष्टमेव जीवेश्वरयोः सूत्रकारेण भेदः प्रतिपाद्यते ।
तस्माद्भेदस्यैव सूत्रकारतात्पर्यविषयत्वमिति चेन्न “तदनन्यत्वमारम्भणशब्दादिभ्यः ।
अत एव चोपमा सूर्यकादिवत् ।
यथा च तक्षोभयथा ।
मायामात्रन्तु कार्त्स्नेन ।
अनभिव्यक्तस्वरूपत्वात् ।” इत्यादिसूत्रेषु स्पष्टमेवानन्यत्वशब्देन, उपमा सूर्यकदृष्टान्तेन जीवस्यान्तःकरणप्रतिबिम्बताभिधानेन जीवेश्वरयोरद्वैतस्य सिद्धत्वेन भेदो न सूत्रकारतात्पर्यविषयीभूत एवेत्यद्वैतस्यैव सिद्धिः ॥
यदुच्यते भगवत्पादैस्तदीयैर्वाङ्मुखाद्वितीयैरद्वैतवादिभिः ब्रह्माद्वितीयम्, जगदन्यत्सर्वं मिथ्या; मिथ्याशब्दश्चानिर्वचनीयार्थकोऽस्मिन् शास्त्रे विवक्षितः, नत्वसदर्थः ।
अनिर्वचनीयत्वञ्च

[[४३७]]

कार्यस्य कारणात्पृथक्, सदसत्त्वेन निर्वक्तुमयोग्यत्वम् ।
शुक्तिरजतञ्च स्वोपादानकारणाच्छुक्तितो विवर्तरूपात्तदज्ञानात्परिणामितश्च पृथक् सदसत्वेन निर्वक्तुमशक्यम्, एवं जगदपि स्वोपादानाद्विवर्तरूपाद्ब्रह्मणो मायातश्च तदज्ञानस्वभावात्परिणामतश्चानिर्वाच्यम् ॥
तर्हि जगतः शुक्तिरजतवदुपादेयत्वं न स्यादित्याक्षेपे सति सत्तात्रयमङ्गीक्रियतेऽस्माभिः- शुक्तिरजतादिकं प्रातिभासिकं जगद् व्यावहारिकं ब्रह्म पारमार्थिकम् ।
तथाच जगतः शुक्तिरजतवदनिर्वचनीयत्वे समानेऽपि व्यावहारिकत्वं नामाधिकमपि प्रविष्टम्, तावता न मिथ्यात्वहानिः ।
तत्र च ङेह नानास्ति किञ्चन ।
अथात आदेशो नेति नेति, वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्य” मित्यादिश्रुतिः प्रमाणमिति भवतु नामैतद्ब्रह्माद्वितीयमिति जगदुपादानमिति च; तदंशेनास्माकं वीरमाहेश्वराणामद्वैतवादिनां भवतां भगवत्पादीयानाञ्च विवादः ।
तदन्यत्सर्वं नास्माकीनमानसोल्लासविकासं जनयितुमलं भवति ।
तथाहि- परिणाम्युपादानं विवर्तोपादानमित्युपादानद्वयकल्पने किं प्रमाणम् ? न तावत्सूत्रं, अस्मदनुकूलतयैव सूत्रस्य मानत्वात्, “आत्मकृतेः परिणामात्” इति ।
श्रुतावपि वाचारम्भणं विकारो नामधेयमिति परिणामवादानुकूल्यस्यैव विद्यमानत्वात् ।
“कटकमुकुटकर्णिकादिभेदैः कनकमभेदमपीष्यते यथैकम् ।
सुरपशुमनुजातिकल्पनाभि"रित्यादिस्मृत्या च स्वर्णकुण्डलन्यायस्य प्रतीयमानत्वात् ।
किञ्च युष्मन्मते उपादानद्वयकल्पनम्, अस्मन्मते तु एकोपादानकल्पनमिति लाघवसहकृतमस्मच्छ्रुतिस्मृतिवाक्यजातम् ।
अपिच प्रातिभासिकसत्तेत्यतिरिक्तसत्ता किमत्राङ्गीक्रियते ? सत्ताद्वयं युष्माकमस्माकञ्च पर्याप्तत्वात् ।
तथाहि- जगद्ब्रह्मव्यतिरिक्तं नास्त्येव, ब्रह्मैव परमार्थसत् ।
जगत्तु व्यावहारिकमपि परमार्थसन्न भवति तद्यथा मृद्घटो मृदपेक्षया; घटेन जलमाहर, घटः स च्छिद्रो जातः, घटं पश्य, घटो नष्ट इत्यादिव्यवहारे

[[४३८]]

सत्यपि घटापेक्षया मृद एव पारमार्थिकत्वात् ।
मृदो घटान्वये सत्यपि घटस्य यावत्यां मृद्यन्वयो नास्ति शरावेऽभावात् ।
तस्माद्युष्माकमस्माकञ्च सत्ताद्वयमेव पर्याप्तमिति शेषं युक्तिक्षममेव न भवति ।
यदुक्तं जगदनिर्वचनीयमिति तत्रापि युक्तिं न पश्यामः, भेदेन स्वर्णापेक्षया कुण्डलं कर्णिका ललन्तिकेति निर्वक्तुं शक्यत्वात् ।
नच तथापि स्वर्णापेक्षया कुण्डलादीनां सत्वेन निर्वक्तुं शक्यत्वमस्तीति वाच्यं, सत्कुण्डलं सद्ग्रैवेयकमिति सत्ताप्रतीतेरपि भेदेन जायमानत्वात् ।
नच तथापि तत्र मृद एव सत्ता प्रतीयते न तद्व्यतिरिक्ता तर्हि सती मृदिति प्रतीतिः स्यात्, नतु कुण्डलादिकं सदिति तर्हि त्वमद्वैतवादी कथं भवसि ।
भेदेन स्वर्णात्कुण्डलमस्तीति जानन्नप्यद्वैतं वदसि खल्विति चेत्तर्हि वदामो रहस्यं सावधानं शृणु, भेदो द्विविधः- अन्योन्याभावात्मक एकः, अपरस्तु वैभागिकः ।
तत्र जगद्ब्रह्मणोरन्यमाध्ववत्पूर्वं भेदं न वदामः किन्तु द्वितीयं वैभागिकं जगद्ब्रह्मणोच्च वैभागिको भेद एव वर्तत इति कृत्वा नाद्वैतहानिः ।
तथाहि कुण्डलं स्वर्णादिविभक्ततयैव वर्तते ।
यदि नास्तीत्युच्यते तर्हि ग्रैवेयकेऽपि कुण्डलमिति प्रतीतिः स्यात्, स्वर्णस्य कुण्डल इव तत्रापि विद्यमानत्वात् ।
अतः किं वक्तव्यम्, कश्चिद्भेदोऽप्यस्ति स्वर्णकुण्डलयोः ।
स एव भेदो व्यावहारिक इति त्वयाप्युच्यते ।
ननु तवापि ममोपादानद्वयाद्भेदद्वयमङ्गीकर्तव्यमासीत्, तत्र द्वित्वकल्पनागौरवं तवाप्यनिवार्यमिति चेन्न ।
मत्कल्पनावत् त्वत्कल्पनायाः सर्वसम्मतत्वाभावेनासङ्ग्राह्यत्वात् ।
तथापि तार्किकैरपि मृदो घटं प्रत्युपादानत्वमङ्गीक्रियते, न शुक्तिरजते विवर्तोपादानम्, तथाऽन्योन्याभायोऽप्यङ्गीक्रियते, तैरपि विभागोऽप्यङ्गीक्रियत इत्यस्मन्मतं सर्वं सम्प्रत्युपपन्नम् ।
नच तथापि विभागस्यान्योन्याभावत्वं परैर्नाङ्गीक्रियत इति भवत्कल्पनाया न सर्वसम्मतत्वमिति वाच्यम् ।
विभागधर्मिणि परैरङ्गीकृते भेदत्वमात्रमस्माभिः कल्प्यते वीरशैवैः, अद्वैतवादिभिर्युष्माभिस्तु परासम्प्रतिपन्नः शुक्तिरजतयोः

[[४३९]]

कायकारणभावस्तत्र च रजतं प्रति शुक्तेरुपादानभावश्च स्वीकृत इति परासम्मतकल्पनाद्वयमासीद्भवताम् ।
प्रातिभासिकत्वकल्पनञ्च सर्वासम्मतमेवेति मत्कल्पनैव ज्यायसी ॥
ननु जडस्य प्रपञ्चस्य शिवाद्वैताङ्गीकारे ब्रह्मवज्जगतश्चैतन्यं स्यात्, जडाजडमिति विभागोऽपि न स्यात्, सर्वस्य चेतनब्रह्मपरिणामत्वादिति चेन्न, इच्छाशक्तिवशेन चेतनाचेतनरूपेण ब्रह्मणः परिणामसम्भवात्, तथाच माया किमर्थमङ्गीक्रियताम् ॥
यदुक्तं चेतनपरिणामरूपत्वे जगतश्चेतनत्वं स्यादिति तदपि सूत्रकारैरेव “दृश्यते तु” इत्यत्र परिहृतमेव ।
इत्थं खलु तत्सूत्रार्थः- गोमयादचेतनाच्चेतनवृश्चिकजन्म दृश्यते लोके ।
अतोऽचेतनस्य जगतश्चेतनसृष्टिर्न दोषावहेति ।
नातः कोऽप्यस्मिन्मतेऽनुपपत्त्यवकाशः ॥
ननु परिणामवादाङ्गीकारे “कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा” इत्यादिदोषप्रसङ्गः, लोके तथा दृष्टत्वात् ।
क्षीरं हि दध्यात्मना परिणमत्सर्वस्वात्मादिनाशेनैव तत्तादात्म्यमापन्नम् ।
अतः परिणामवादोऽनुपपन्न इति चेन्न, उभयव्यपदेशात्त्वहिकुण्डलव"दिति सूत्रेण, “अश्मादिवच्च तदनुपपत्ति"रिति सूत्रेण च, परिणामवादस्यैव सूत्रकारतात्पर्यभूतत्वात् ।
अत एवाहिकुण्डलन्यायः सूत्रेऽभिहितः, क्षीरदधिन्यायापेक्षया पूर्वपक्षश्च कृतः ॥
अथेच्छाशक्तिवशेन जडाजडरूपेण चिन्तामणिवत्कल्पवृक्षवत्कृत्स्नप्रसक्तिं विनैव परिणामः सम्भवति ॥
ननु चिन्तामणिदृष्टान्तो भवतामिच्छाशक्तिवादिनां न सङ्गच्छते तत्रेच्छाशक्त्यभावादिति चेन्न, सर्वत्राखण्डाकारवृत्तेः प्राक्परमेश्वरेच्छाया नियामकत्वेन त्वयाप्यङ्गीकृतत्वेन देवानां भक्तानां तदिच्छां विना जडस्य तथाविधविभूतिकारित्वासम्भवात् ।
चेतनप्रेरणां विना जडमात्रस्पन्दनस्यासम्भावितत्वेनासम्भावितस्थले सर्वत्र तदिच्छयैव निर्वाहस्य वक्तुमुचितत्वात् ।
अत एव परमेश्वरस्य सर्वान्तर्यामित्वमन्तर्यामिब्राह्मणेऽभ्यधायि ॥

[[४४०]]

ननु परमेश्वरस्यैव सर्वान्तर्यामित्वे तदिच्छायाः सर्वकार्यनियाकत्वे च विधिनिषेधप्रतिपादकशास्त्रवैय्यर्थं स्यादिति चेन्न, वृष्टिवत्सर्वसस्ये सर्वकार्ये परमेश्वरेच्छा नियामिका; सामान्यतस्तत्तद्बीजानां तत्तदङ्करोत्पत्ताविव तत्तज्जीवसुखदुःखानुभवे तत्तत्कर्म च कारणमिति न वैषम्यनैर्घृण्यविधिनिषेधप्रतिपादकशास्त्रवैय्यर्थ्यादिदोष इति परिणामवादे सर्वं शोभनतरमेव ॥

इति श्रीमद्-अनादि-निरञ्जन-जङ्गमापरावतार-
तोण्टद-सिद्धेश्वर-प्रसादासादित-
शाम्भवागमाम्बोधि-मथन-जनित-
निरुत्तरैकोत्तरशत-स्थल-भेद-भिन्न-षट्-स्थल–
तत्त्वबोध-सुधास्वादानन्द-सन्दोह-प्रदायकाचार्यवर्य-
श्रीमरितोण्टदार्य-विरचिते
यडव-मुरारि-कोटे-कोलाहलैकाङ्गि-वीर-
वैरि-सप्ताङ्ग-हरण-पश्चिम-समुद्राधीश्वर-
विशुद्ध-वैदिकाद्वैत-सिद्धान्त-प्रतिष्ठापनाचार्य-
केलदि-सदाशिव-राय-नायक-वंश-दुग्धार्णव-चन्द्र-
वीर-भद्र-धरणीन्द्र-धर्म्म-पत्नी-मल्लाम्बा-हृदयानन्द-
बसव-वसुधा-सङ्क्रन्दनोपदेशे
वीरशैवानन्द-चन्द्रिकायां वादकाण्डे अद्वैतमतनिरूपणतन्निराकरणप्रकारो नाम त्रयोविंशतितमं प्रकरणम् ॥

[[४४१]]