२२

वीरशैवानन्दचन्द्रिकायां वादकाण्डे द्वाविंशतितमं प्रकरणम् ॥

श्रीगुरो षट्स्थलज्ञानसम्पत्तिसमुदञ्चित ।
शैवानां हि पुराणानां तामसत्वं निराकृतम् ॥
अधुना शीलिना सम्यगित्युक्तं वचनं त्वया ।
श्रुत्वा सन्तुष्टचित्तोऽहं किमारब्धं पुनर्मुदा ॥
भृङ्गिणा शीलिना चाथ किमुत्तरितमद्य मे ।
श्रोतुमिच्छास्ति हृदये दयया वद साम्प्रतम् ॥
बसवेन्द्र महीपाल बुद्धिस्ते सूक्ष्मदर्शिनी ।
यद्वक्तव्यं तयोर्वाक्यं तद्ब्रवीमि शृणु क्रमात् ॥
शीलवद्वर्य भवता पुराणानां सयुक्तिकम् ।
तामसत्वनिरासाय यन्मानं कथितं मुदा ॥
नैव तेनेष्टसिद्धिस्ते श्रीकण्ठाचार्यसम्मतम् ।
मतमस्ति महच्छैवं मया तेनैव साध्यते ॥

[[४२५]]

पश्यामस्तव सामर्थ्यं गर्वं मा वह पूर्ववत् ।
इति भृङ्गिवचः श्रुत्वा हसन् सोऽप्यवदत्पुनः ॥
कुर्वतोऽम्भोनिधेः पानं तटाकसरितां कियत् ।
त्वयोक्तस्य मतस्यास्य खण्डनं क्रियते मया ॥

“अथातो ब्रह्मजिज्ञासा” अथशब्द आनन्तर्यार्थकः, अथ वेदाध्ययनानन्तरम्, वेदाध्ययनस्य प्रकृतोपयोगित्वात्, अतो वेदाध्ययनस्य वृत्तत्वाद्ब्रह्मविचारः कर्तव्यः ।
धर्मविचारस्य ब्रह्मविचारोपयोगित्वाद्ब्रह्मविचारस्य तदनन्तरमारम्भः ।
ननु “ऋतं सत्यं परं ब्रह्म ।
ततः परं ब्रह्म परं बृहन्तम् ।
यथा निकायं सर्वभूतेषु गूढं विश्वस्यैकं परिवेष्टितारम् ।
ईशं तं ज्ञात्वा अमृता भवन्ति ।
सम्पश्यन्ब्रह्मपरमं याति नान्येन हेतुना” इत्यादिवचनैः प्रकरणोपोद्वलितैः शिवे परब्रह्मत्वस्य स्पष्टत्वात् किं विचारयितव्यमिति चेन्न, जीवो ब्रह्मेति केचिद्वदन्ति, केचिन्नारायणादयो ब्रह्मेति, तन्निराकरणार्थं ब्रह्मविचारारम्भः ॥
ननु “अथातो धर्मजिज्ञासे"ति सूत्रेण धर्मविचारोपयोगित्वस्य वेदाध्ययनेऽभिदानात्तेनैवान्यविचारोपयोगित्वस्यापि दत्तोत्तरत्वात्पुनरथातो ब्रह्मजिज्ञासेति किमर्थमभिधीयत इति चेन्न, पृथगुच्यते ब्रह्मविचारः कर्तव्य इति ।
तत्प्रतिज्ञयैवैतत्प्रतिज्ञाकृतप्राया तर्हि पुनः प्रतिज्ञा किमर्था ? “अथातः शेषलक्षणम्, अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासे” तिवद्विषयान्तरारम्भार्थं प्रतिज्ञा वाच्या ।
कथमथातः शेषलक्षणमितिवद्विषयान्तरप्रतिज्ञेत्युच्यत इति वाच्यं, पूर्वोत्तरमीमांसयोरेकत्वान्न भेदः ।
अथवैकशास्त्रत्वाद्विषयान्तरारम्भ इति युक्तो वादः ॥
“जन्माद्यस्य यतः” जगज्जन्मादिकारणत्वं ब्रह्मणो लक्षणम्, तच्च साम्बशिवे सम्भवति ।
शोमः पवते जनिता मतीनां जनितेन्द्रस्य जनिता बृहस्पतेर्जनितोत विष्णोः ।” इति श्रुत्या, “यो

[[४२६]]

देवानां प्रभवश्चोद्भवश्च विश्वाधिको रुद्रो महर्षिः ।
हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु” इति श्रुतिद्वयेन सर्वस्रष्टृविरिञ्चिसर्वपालकविष्णुकारणत्वप्रतिपादनात् सर्वकारणत्वं सिद्धमेव ।
शूक्ष्मातिसूक्ष्मं सलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम्" इति साक्षाद्विश्वस्रष्टृत्वं प्रतिपाद्यते; तस्मादपि साम्बशिवस्य जगत्कारणत्वं सिद्धमेव ।
नच “सोमः पवत” इति मन्त्रस्य सोमलतापरत्वात् कथं शिवपरत्वमुच्यत इति वाच्यम्, अथर्वशिखायाम् “ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्त” इति स्पष्टं श्रुत्यर्थम्प्रत्यभिज्ञाया निह्नोतुमशक्यत्वेन तस्या विष्ण्वादिकारणत्वनिर्णये साधकत्वात्सर्वकारणत्वसिद्धिः ॥
तच्च सदाशिवाख्यं ब्रह्म न जीवाभिन्नम्, “पृथगात्मानं प्रेरितारञ्च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ।
ज्ञाज्ञौ द्बावजावीशानीशौ ।
अनन्तश्चात्मा विश्वरूपो ह्यकर्ता ।
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति ।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ।
ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्थे ।
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च तृणाचिकेताः ।
अजोह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः” इत्यादिश्रुतिभिर्जीवपरमात्मनोः स्पष्टं भेदस्य प्रतीयमानत्वात्कथमभेदः सिध्येत् ।
नच तत्त्वमस्यादिश्रुतिभिरभेदः सिध्यतीति वाच्यम्, शर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।
सर्वव्यापी स भगवांस्तस्मात्सर्वगतः शिवः ।
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।
यो देवोऽग्नौ योऽप्सु यो विश्वं भुवनमाविवेश ।
य ओषधीषु यो वनस्पतिषु तस्मै देवाय नमो नमः ॥
यो रुद्रोऽग्नौ योऽप्सु य ओषधीषु यो रुद्रो विश्वाभुवनानि विवेश तस्मै रुद्राय नमोऽस्तु ॥
विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् ।
सम्बाहुभ्यां धमति सम्पतत्त्रैर्द्यावाभूमी

[[४२७]]

जनयन् देव एकः" इत्यादिश्रुतिपर्यालोचनया शिवस्य सर्वशरीरित्वेन स्फुरणात्तत्त्वमस्यादिवाक्यानां विशिष्टाद्वैतपरत्वमेव ।
शिवस्य सर्वान्तर्यामित्वज्ञानमेव मोक्षसाधनम् ॥
तथा च श्वेताश्वतराणां शाखासु श्रूयते- “ततः परं ब्रह्म परं बृहन्तं यथा निकायं सर्वभूतेषु गूढम् ।
विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वा अमृता भवन्ती"ति तस्मात् द्वैतज्ञानमेव मोक्षसाधनमिति ॥
अत्रोच्यते- यदुक्तं विशिष्टाद्वैतज्ञानं मोक्षसाधनमिति तदत्यन्तानुपपन्नम् ।
तथाहि- “जाग्रत्स्वप्नसुषुप्त्यादि प्रपञ्चं यत्प्रकाशते ।
तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥” इत्यादिकैवल्यश्रुत्या “अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवोङ्कारः ।
आत्मैव संविशत्यात्मनाऽऽत्मानम् ।” इति माण्डूक्यश्रुत्या च, शिवाद्वैतस्यैव प्रतीयमानत्वेन तत्त्वमस्यादेः स्वार्थ एव तात्पर्यमवश्यं वाच्यम् ।
नच तद्ब्रह्माहमिति श्रुतिर्नाद्वैतपरा, किन्तु द्वैतस्य प्रामाणिकत्वेऽप्युपासनायामभेदोपासनाकार्येत्यभेदोपासनापरा ।
तथा माण्डूक्यश्रुतेरपि न शिवाद्वैते तात्पर्यम्, पूर्वस्मिन्खण्डे ङान्तः प्रज्ञं न बहिः प्रज्ञं नोभयतः प्रज्ञं न प्रज्ञं नाप्रज्ञमदृश्यमव्यवहार्यमग्राह्यमलक्षणमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवम द्वैतं चतुर्थं मन्यन्त” इति पक्षान्तरत्वेनोपन्यासादिति वाच्यम्, विश्वतैजसप्राज्ञव्यतिरिक्तस्य निष्कृष्टचैतन्यस्य शिवस्याद्वैतसम्भवो न तु विश्वतैजसप्राज्ञानामवस्थाभिमानिनामिति तत्र पक्षान्तरोपन्यासः, न तु शिवाद्वैते ।
अत एव कैवल्यश्रुतिः “त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।
तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥” इति जाग्रदाद्यभिमानिविलक्षणस्य सदाशिवस्याखण्डचैतन्यस्याद्वैतयोग्यत्वाज्जीवाभेदं प्रतिपादयति ।
तस्मान्माण्डूक्यश्रुतिवशाच्छिवाद्वैतमेवाङ्गीकार्यं कैवल्यश्रुत्या पूर्वोदाहृतया च ।
न चाद्वैताभावेऽपि तथोपास्तिपरा सा श्रुतिरित्युक्तमिति वाच्यं, बह्वीनां पूर्वापरश्रुतीनां शिवाद्वैतानङ्गीकारे विरोधः स्यात् ।

[[४२८]]

तथाहि- “यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् ।
सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ॥
तद्ब्रह्माद्वयमस्म्यहम् ।
अणोरणीयानहमेव तद्वन्महानहं विश्वमिदं विचित्रम् ।
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं सुखरूपमस्मि ॥” इत्यद्वैतस्यैव तात्पर्यविषयत्वेन प्रतिपादनात्कथं तत्त्वमस्यादिवाक्यानामौपचारिकत्वमुच्यते ।
किञ्च शिवाभेदं जीवस्य दृढीकृत्य जीवधर्म परमेश्वरस्य परमेश्वरधर्मांश्च जीवस्य सिद्धं वदति श एव मायापरिमौहितात्मा शरीरमास्थाय करोति सर्व"मित्यादिवचनैः ।
नच पूर्वं जीवाभिधानात्स एव मायेति तच्छब्देन जीवोऽभिधीयते न परमेश्वरे जीवाभेदं सिद्धं कृत्वा जीवधर्मवत्त्वमुच्यत इति वाच्यम्, “आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।” इति परमात्मनः प्रणवाभिन्नत्वेनोपासनाभिधानमन्तरेण जीवगन्धस्यैव पूर्वमभावात् ।
तथैव जीवस्येश्वरधर्मासम्बन्धं सिद्धं वदति “पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं विचित्रम् ।
एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि चे"ति ।
ननु “एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् ।” इत्यभिधानादेवं वेदन एव तात्पर्यमेतच्छ्रुतेः, नाद्वैत इति चेत् स द्वितीयस्य ब्रह्मणो- ऽद्वितीयत्वेनोपासनमित्यत्र प्रमाणाभावेन पूर्वापरपर्यालोचनयाऽत्रत्यश्रुतेः “ब्रह्मैव वसन् ब्रह्माप्येती"ति श्रुत्यन्तरेणाभेद एव तात्पर्यस्य प्रत्युतावश्यवक्तव्यत्वान्न द्वैतसिद्धिः ।
“त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी ।
त्वं जीर्णो दण्डेन वञ्चसी"ति पूर्वश्रुत्या शर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् ।
नवद्वारे पुरे देही हंसो लीलायते बहिः ।
वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ।
अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः” इत्युत्तरश्वेताश्वतरश्रुत्या च स्पष्टं जीवे शिवाद्वैतं प्रतीयत इति तत्त्वमस्यादौ न काप्यनुपपत्तिः ।
यच्चोक्तं “द्वा सुपर्णा सयुजे” ति श्रुत्या द्वैतं प्रामाणिकं प्रतीयते ।
तथैव गीतायामपि “द्वाविमौ पुरुषौ

[[४२९]]

लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यत” इति तदनुपपन्नम् ।
पैङ्गरहस्यब्राह्मणे जीवान्तःकरणयोरुभयोर्भेदपरतया व्याख्यातत्वेन त्वदभिमतद्वैतस्याप्रामाणिकत्वात् ।
एवङ्खलु पैङ्गिरहस्यब्राह्मणव्याख्यानं स्वाद्वत्तीति सत्त्वम् अनश्नन्नभिचाकशीतित्यनश्नन्नन्योऽभिपश्यति, ज्ञोऽज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौ येन स्वप्नं पश्यति ।
अथ योऽयं शारीर उपद्रष्टा, इति जीवान्तःकरणयोरेव भेदस्य व्यक्तीकृतत्वेन जीवब्रह्मगन्धस्यैवाभावात् ।
द्वाविमौ पुरुषौ लोक इति गीतावचनमपि व्याख्यातश्रुत्युपबृंहणरूपत्वान्न जीवेशभेदपरम्, किन्त्वन्तःकरणजीवभेदपरमेव ।
किञ्च “क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारते"ति तत्रैवाद्वैतस्य दृढीकरणात् द्वाविमाविति वाक्यं पूर्वोक्ततात्पर्यकमेव ।
एतेन द्वैतश्रुतयः सर्वा अपि दत्तोत्तराः ।
यच्चोक्त “मथातः शेषलक्षणम्, अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासे"तिवन्न शास्त्रान्तरारम्भः किन्तु शास्त्रस्यैवैकस्य बहुप्रकारस्य प्रकारान्तरारम्भ इति तदतिमन्दं, विषयप्रयोजनकर्तृभेदस्य शास्त्रभेदप्रयोजकत्वेन सर्वत्र दृष्टतयाऽत्रापि शास्त्रभेदस्यावश्याङ्गीकार्यत्वात् ।
पूर्वमीमांसायाः विषयः कर्म, उत्तरमीमांसायाः विषयो ब्रह्म ।
प्रयोजनञ्च द्वयोर्भिन्नम् ।
एकत्र सहस्राधिकरणन्यायसहितधर्मज्ञानद्वाराऽनुष्ठानात्स्वर्गः प्रयोजनम्, अन्यत्र श्रवणादिद्वारा सम्यग्ज्ञानेन मोक्षः ।
तथैव कर्तृभेदः सर्वजनस्पष्टः ।
उभयोरेवं शास्त्रभेदप्रयोजके विद्यमाने कथमभेदः प्रतिपाद्यते ।
नच न्यायविचारात्मकत्वेनैक्यं क्रियत इति वाच्यम्, तर्हि बोधायनाऽऽपस्तम्बाश्वलायनादिप्रयोगशास्त्राणामप्यैक्यं स्यात्, प्रयोगक्रमप्रतिपादकप्रकारस्यैक्यात् ।
ननु तथैवास्तु को नेत्याह, प्रयोगशास्त्रत्वेन तेषां सूत्राणामैक्यमेव ।
अत एव कल्पसूत्रमिति तेषां समाख्याप्येकैव ।
तथैवाङ्गानि वेदाश्चत्वार इति चतुर्दशविद्यास्थानाभिधानश्लोके अङ्गानीत्यनेन षडङ्गानि गृहीत्वा तन्मध्येऽङ्गत्वेन सर्वप्रयोगशास्त्रमेकाङ्गत्वेन पठितम् ।
अत एव “प्रयोगशास्त्रमिति

[[४३०]]

चेत्” इत्यधिकरणे सर्वसूत्राणामैक्यमङ्गीकृत्यैव प्रामाण्याप्रामाण्यविचारः कृतः ।
तद्वदत्रापि पूर्वोत्तरमीमांसयोरभेद एवेति चेन्न, प्रतिपाद्यभेदे विना विचाररीत्यैक्येन शास्त्राभेदस्य सर्वथा वक्तुमशक्यत्वात्, अन्यथा शिक्षाव्याकरणयोरपि भेदो न स्यात् ।
तस्मादभिधेयभेदप्रयोजनभेदावेव शास्त्रभेदप्रयोजकावित्यवश्यं वाच्यम् ।
कर्तृभेदश्चाभ्युच्चयतया शास्त्रभेदप्रयोजको न मुख्यतया ।
योगवैद्यकामशब्दशास्त्राणां कर्तुर्भगवतः पतञ्जलेरेकत्वेऽपि शास्त्रभेदस्यातिस्पष्टत्वात् ।
प्रकृते तु विषयप्रयोजनकतृर्णां त्रयाणां भिन्नत्त्वाद्भेदो वक्तव्य एव ।
ननु शिक्षाव्याकरणयोर्भेदोऽस्तु शब्दशिक्षकत्वप्रकारैक्येऽपि तयोर्विषयप्रयोजनभेदस्य विद्यमानत्वात् ।
शिक्षायाः वेदशब्दतत्त्वं विषयः, व्याकरणस्य लौकिकवैदिकशब्दतत्त्वं विषय इति भेदस्य सत्त्वात् ।
नच प्रयोजनभेदो नास्तीति वाच्यम्, “एकः शब्दस्साधुस्सुष्ठुप्रयुक्तः स्वर्गे लोके कामधुग्भवति ।
मातापितरौ चास्य स्वर्गे लोके महीयेते” इति भगवद्भाष्यकारवचनेन “यस्तु मीमांसते वचः ।
तावुभौ पुण्यकर्माणौ सूर्यमण्डलभेदिनौ ॥” इति पुराणवचनेन व्याकरणस्य श्वरमात्राविभागज्ञो वर्णक्रमविचक्षणः ।
पदक्रम- विशेषज्ञो गच्छेदाचार्यसंसद"मिति वचनेन व्यासाद्याचार्यस्थानप्राप्तेः शिक्षाफलस्य श्रूयमाणत्वात्फलभेदोऽप्यस्ति ।
तस्मात्तयोर्भेद उपपन्न एव ।
ननु प्रकृते फलभेदेऽपि श्रुतिवाक्यार्थतत्त्वविषयस्यैकत्वात्कथं भेद इति चेन्न, यया मत्या वेदाक्षरतत्त्वविषयैकत्वेऽपि लौकिकवर्णतत्त्वविभाजकत्वेन व्याकरणस्य वैदिकवर्णविभाजकत्वेन शिक्षायाश्च भेदं वदसि, तयैव मत्या पूर्वकाण्डवाक्यार्थोत्तरकाण्डवाक्यार्थविचारात्मकत्वेन भेदस्य सुखेन वक्तुं शक्यत्वात्पूर्वोत्तरमीमांसयोर्नैकशास्त्रत्वम् ।
किञ्च पूर्वकाण्डवाक्यार्थः कर्म, उत्तरकाण्डवाक्यार्थो ब्रह्मेति प्रकारविशेष्यभेदेन विषयभेदः स्पष्ट एव ।
शिक्षाव्याकरणविषयापेक्षया व्यतिरिक्ततया स्थितिः पूर्वमभाणि, तस्मान्न शास्त्रयोः पूर्वोत्तरमीमांसात्मकयोरभेदः ।

[[४३१]]

अपि च श्रुतिवाक्यार्थविचारत्त्वेन पूर्वोत्तरमीमांसयोरेकत्वेऽपि सञ्चारणीयासञ्चारणीयन्यायेन सुतुरां भेदस्य सत्वात्कथमभेदः ।
प्रत्युतोत्तरतन्त्रविचारार्थं यथा पूर्वतन्त्रन्यायाः सर्वेऽप्यपेक्षिता नैवमुत्तरतन्त्रन्यायाः पूर्वतन्त्रे ।
तस्मादेतादृशभेदे विद्यमाने कः पण्डितः शास्त्रैक्यं ब्रूयात् ।
तस्मादैकशास्त्र्यं पूर्वोत्तरमीमांसयोरिति निरुपपत्तिकमेव ।
अवशिष्टं सर्वमपि रामानुजमतनिराकरणेन निराकृतप्रायमिति नात्र पिष्टपेषणन्यायेन लिखितव्यमित्युपेक्ष्य विसृष्टमस्माभिरिति सर्वं समञ्जसम् ।

इति श्रीमद्-अनादि-निरञ्जन-जङ्गमापरावतार-
तोण्टद-सिद्धेश्वर-प्रसादासादित-
शाम्भवागमाम्बोधि-मथन-जनित-
निरुत्तरैकोत्तरशत-स्थल-भेद-भिन्न-षट्-स्थल–
तत्त्वबोध-सुधास्वादानन्द-सन्दोह-प्रदायकाचार्यवर्य-
श्रीमरितोण्टदार्य-विरचिते
यडव-मुरारि-कोटे-कोलाहलैकाङ्गि-वीर-
वैरि-सप्ताङ्ग-हरण-पश्चिम-समुद्राधीश्वर-
विशुद्ध-वैदिकाद्वैत-सिद्धान्त-प्रतिष्ठापनाचार्य-
केलदि-सदाशिव-राय-नायक-वंश-दुग्धार्णव-चन्द्र-
वीर-भद्र-धरणीन्द्र-धर्म्म-पत्नी-मल्लाम्बा-हृदयानन्द-
बसव-वसुधा-सङ्क्रन्दनोपदेशे
वीरशैवानन्द-चन्द्रिकायां वादकाण्डे नीलकण्ठमतप्रतिपादनतन्निराकरणं नाम द्वाविंशतितमं प्रकरणम् ॥

[[४३२]]