वीरशैवानन्दचन्द्रिकायां वादकाण्डे एकविंशतितमं प्रकरणम् ॥
देशिकेन्द्र त्वया प्रोक्तं तन्त्रप्रामाण्यगोचरम् ।
भृङ्गिशीलवतोर्वादमाकर्ण्याङन्दितोऽभवम् ॥
अनन्तरं किमारब्धं भृङ्गिणा शीलिना ततः ।
किन्तत्रोत्तरितं सर्वं तच्छ्रोतुं मेऽस्ति कौतुकम् ॥
वदामि त्वं शृणु वचस्तयोर्वादात्मना स्थितम् ।
बसवेन्द्र महीपाल कुशाग्रविलसन्मते ॥
शीलिन् शिवागमान् शैवपुराणवचनानि च ।
अवलम्ब्य शिवोत्कर्षो भवता साधितोऽभवत् ॥
तत्रागमानां प्रामाण्यं साधितं भवताऽधुना ।
तत्र शैवपुराणानां प्रामाण्यं नोपपद्यते ॥
तामसत्वमहादोषग्रासेन निहितात्मना ।
इमं वज्रप्रहारं त्वं परिहर्तुं यदिक्षमः ॥
तदा मन्यामहे धन्यं मूर्धन्यं वाग्मिनां वयम् ।
जायते न हि विक्रान्त्यै मशकानान्तु हिंसनम् ॥
[[४१०]]
भृङ्गिन्विकत्थसे भूयः कृत्वैव सुकराः क्रियाः जायन्ते मौनिनः सन्तः कुर्वन्तो दुष्कराः क्रियाः ॥
पुराणानां तामसत्वं साध्यतां भवताऽधुना ॥
निराकरोमि तच्चापि पश्य मे बुद्धिकौशलम् ॥
ननु शैवपुराणानां तामसत्वात्तदुक्तानां वीरशैवधर्माणां लिङ्गधारणादीनां कथं प्रामाण्यम् ? तथाहि- पुराणानां कर्ता चतुर्मुखः केषुचित्कल्पेषु सत्त्वेनोद्रिक्तो भवति, केषुचिद्रजसा केषुचित्तमसा ।
स यदा सत्त्वेनोद्रिक्तस्तदा वैष्णवानि पुराणानि प्रणिनीय, यदा रजसोद्रिक्तस्तदा ब्राह्माणि, यदा तमसोद्रिक्तस्तदा शैवानि ॥
एवञ्च तमोगुणान्धब्रह्मप्रणीतानि शैवपुराणानि भ्रान्तजल्पितानीवाप्रमाणान्येव ।
वैष्णवपुराणानि तु सत्त्वोद्रिक्तब्रह्मप्रणीतानि प्राज्ञवाक्यानीव प्रमाणानि ।
यथोक्तम् मात्स्ये- शङ्कीर्णाः सात्त्विकाश्चैव राजसाश्चैव तामसाः ।
यस्मिन्कल्पेतु यत्प्रोक्तं पुराणं ब्रह्मणा पुरा ॥
तस्य तस्य तु माहात्म्यं तेन रूपेण वर्ण्यते ।
अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्तितम् ॥
सङ्कीर्णेषु सरस्वत्याः पितृर्णाञ्च निगद्यते ।
सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः ॥
तेष्वेव योगसंसिद्धा गमिष्यन्ति पराङ्गति" मिति ॥
यद्यप्युदाहृतश्लोकेषु ब्रह्मणः कल्पभेदात्तत्तद्गुणोद्रिक्तत्वं न स्फुटं प्रतीयते; तथापि तत्तद्गुणाधिकमूर्तिमाहात्म्यस्य तत्तद्गुणोद्रिक्तब्रह्मप्रतिपाद्यतौचित्यात्, “जायमानं हि पुरुषं यः पश्येन्मधुसूदनः ।
सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः ॥
पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः ।
रजसा तमसा चास्य मानसं समभिप्लुतम् ॥” इति मोक्षधर्मवचनेन स्वकटाक्षेण सत्त्वादिप्रवर्तकविष्णुमाहात्म्यप्रतिपादनस्य सत्त्वादिमूलकत्वौचित्याच्च ब्रह्मणस्तत्तत्पुराणप्रणयनकाले तत्तद्गुणोद्रेकसिद्धिः ।
नचोदाहृतवचनजातस्य तामसमात्स्यपुराणान्तर्गततया सुतरामप्रमाणत्वे सति नाभिमतार्थसिद्धिः, प्रमाणत्वे
[[४११]]
तु व्याघात इति वाच्यम्, तामसपुराणान्तर्गतत्वेन हि मानान्तरविरोधे दुर्बलत्वादप्रामाण्यं भवेत् ।
नतु तदभावेऽपि सम्भवदौत्सर्गिकं प्रामाण्यं हातव्यमिति प्रामाण्यसम्भवात्; ब्रह्मशिवादिप्रतिपादनाभिनिविष्टस्य प्रबन्धस्य भगवत्प्रकर्षोक्तावाग्रहासम्भवेनास्य वचनस्य तत्परत्वोपपत्तेश्च ।
न चानेकपुराणाप्रामाण्यकल्पनादेकस्यैतस्याप्रामाण्यकल्पनं ज्यायः भूयसां बलीयस्त्वादिति वाच्यं, ब्रह्मशिवादिप्रतिपादकपुराणेष्वेतद्वचनप्रतिपाद्यस्य स्वकीयरजस्तमोमूलकत्वस्य कण्ठरवेण प्रतिषेधाभावान्न साक्षादस्ति विरोधः; किन्तु तेषु स्ववाचोद्घाटितं प्रामाण्यमेतद्वचनगम्यरजस्तमोमूलकत्वविरोधीति परम्परया विरोधः ।
तत्रापि नानेन वचनेन प्रागसिद्धं तेषामप्रामाण्यं प्रतिपाद्यते, किन्तु परस्परविरुद्धार्थानां सर्वेषां पुराणानां प्रामाण्यानुपपत्तौ क्वचिदप्रामाण्ये पर्यवसाययितव्ये विषयव्यवस्थामात्रतात्पर्येण प्रवृत्ततया विरोधाभावात् ।
एवं बलवताऽनेन निश्चितरजस्तमोमूलताकानां तेषां बहूनामपि बहुभ्रान्तवाक्यानामेकप्राज्ञवचनादिवदेतद्वचनाद्दुर्बलत्वात् ॥
किङ्च न केवलमियतैव तेषामप्रामाण्यं प्रत्यक्षश्रुतिविरोधादिभ्योऽपि तत्सिद्धेः ।
तथाहिः- श्रुतौ तावत्, ङारायणाद्रुद्रो जायते, नारायणाद्ब्रह्मा जायते ।
तस्मै विरूपाक्षाय ब्रह्मणः पुत्राय नम" इत्यादि वाक्यैर्नारायणस्य सर्वजनकत्वे रुद्रस्य तज्जन्यत्वं तज्जन्यब्रह्मजन्यत्वञ्च श्रूयते ।
नारायणस्य तज्जन्यत्वं तदुपासकत्वञ्च प्रतिपाद्यत इति श्रुतिविरोधः ।
किञ्च लैङ्ग्ये “युवां प्रसूतौ गात्रेभ्यो मम पूर्वं सनातनौ ।
अस्यैव दक्षिणे पार्श्वे ब्रह्मा लोकपितामहः ॥
वामपार्श्वे च मे विष्णुर्विश्वात्मा हृदयोद्भवः ॥” इति शिवाद्ब्रह्मनारायणयोरुत्पत्तिमुक्त्वा प्रदेशान्तरे विष्णुं प्रति वचने “त्वत्कोपसम्भवो रुद्रस्तमसा च समावृतः ।
त्वत्प्रसादाज्जगद्धन्ता रजसा च पितामहः ॥” इति नारायणाद्ब्रह्मरुद्रयोरुत्पत्तिश्च व्याख्यातः ।
तदेवं वक्तुस्तामसत्वदोषात्, श्रुतिविरोधात्,
[[४१२]]
स्वव्याघातात्, स्वोक्तार्थस्य प्रमाणत्वेनाभिमतपुराणान्तराननुगृहीतत्वात्, लैङ्ग्यस्यादौ “तस्माद्भवन्तं पृच्छामः सूत पौराणिकोत्तम ।
पुराणसंहितां पुण्यां लिङ्गमाहाम्यसंयुता” मिति विशेषनिष्ठप्रश्नोपक्रमेण प्रवृत्ततया लिङ्गमाहात्म्यवर्णनाग्रहस्य स्पष्टत्वात्, कौर्मादिषु नष्टकोशत्वप्रसिद्धेरतिविस्तृततया च सर्वेषां प्रक्षेपशङ्कासम्भवाच्च, शिवपुराणानां न प्रमाण्यं सम्भवति ।
विष्णुपुराणानान्तु सर्वप्रकारेणाप्युक्तवैपरित्यात्प्रामाण्यमस्ति ।
तथाहि- विष्णुपुराणस्य वक्ता पराशरः ।
स च वसिष्ठपुलस्त्यवरप्रसादलब्धदेवतापारमार्थ्यज्ञान इति विष्णुपुराणलैङ्ग्यादिषु प्रसिद्धम् ।
अत एव लैङ्ग्ये- “पराशरस्यावतारो व्यासस्य च शुकस्य चे"ति भगवतीव पराशरेऽप्युत्पत्तिरिति वक्तव्येऽवतार इति प्रयुक्तमित्येवं वक्तृगुणः ।
तथा “विष्णोः सकाशादुद्भूतं जगदेतच्चराचर” मिति वचनेन न ब्रह्मा नेशान इत्यादिश्रुत्याङुगुण्यम् ।
तथा सर्वत्र विष्णूत्कर्षस्यैव प्रतिपादनान्न क्वापि स्वव्याघातः ॥
यत्तु तत्र तत्र कैलासयात्रादेवकीगर्भोत्पत्यादिपरत्वविरुद्धधर्मोपवर्णनं तत्प्रसक्तापकर्षस्पर्शस्य शर्वावर्तेषु विष्णोश्च जननं लीलयैव तत्” इत्यादिलीला- रूपत्वेन परिहृतत्वान्न क्वापि स्वव्याघातः ।
तथा विष्णुपुराणोक्तार्थस्य तद्विरुद्धलैङ्ग्यादिभिरपि शर्वे विष्णुमया देवाः सर्वे विष्णुमयाः गणाः ।
न हि विष्णुसमा काचिद्गतिरन्या विधीयते ॥
इत्येव सततं वेदा गायन्ते नात्र संशयः ।
त्वत्कोपसम्भवो रुद्रस्तमसा च समावृतः ॥
सर्वावर्तेषु विष्णोश्च जननं लीलयैव तत् ।" इत्यादिना प्रतिपादितत्वेन सर्वपुराणसंवादितम् ॥
तथा शोऽहमिच्छामि वै धर्मं श्रोतुं त्वत्तो यथा जगत् ।
बभूव भूयश्च यथा महाभाग भविष्यती" ति सामान्यतः प्रश्ने, “विष्णोः सकाशादुद्भूतं जगत्तत्रैव संस्थित"मिति विशेषनिष्ठोत्तररूपेण प्रवृत्ततया क्वचिदप्यस्याग्रहाभावः स्पष्ट इति तत्त्वावेदकत्वं स्फुटम् ।
तथा षट्सहस्र्या अपि श्रूयमाणतया न नष्टकोशत्वशङ्कावकाशः ।
अत एव नातिविस्तृततया
[[४१३]]
प्रक्षेपशङ्काभावश्चेति वैष्णवान्येव पुराणानि प्रमाणानि ।
शैवानि तु तदविरुद्धे प्रमाणानि भवन्त्यपि तद्विरुद्धे शिवोत्कर्षेण सर्वथैवाप्रमाणानीति ॥
अत्रोच्यते- यद्यपि परैरित्थं शैववैष्णवपुराणानां वैलक्षण्यमुक्तमिति तद्वैपरीत्येन विष्णुपुराणानामप्रामाण्यं प्रतिपादनीयम् ।
तथापि तत्त्वाऽऽवेदनप्रवृत्तैरस्माभिर्न तथा कर्तृमुचितम् ।
नहि परेण भ्रान्तमिति स्वेनापि भ्रमितव्यम् ।
अतः सर्वपुराणप्रामाण्यव्यवस्थापकः सिद्धान्तः प्रस्तूयते-यत्तावदुक्तं वक्तुस्तामसत्वदोषादिति तदेवासिद्धम्, तथाहि- पुराणानां को वक्तेत्यभिमानः ? चतुर्मुख इत्युक्तमेवेति चेत्सत्यमुक्तम्, तदेव तु दुरुक्तं भवद्भ्रान्तिकल्पितसात्त्विकादिदुर्विभागकथाभिज्ञेन भवतैव प्रमाणतयाऽभ्युपगते च भारत एव शान्तिपर्वणि राजधर्मे शिव एव सर्वपुराणानामादिवक्तेत्युक्तत्वात् ।
तथाहि-
भवश्च भगवान्ध्यात्वा चिरं शूलवरायुधम् ।
असृजत्सर्वशास्त्राणि महादेवो महेश्वरः ॥
विद्याश्चतस्रः कूटस्थास्तासां भेदविकल्पनाः ।
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ॥
पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश ।
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः ॥
अर्थशास्त्रञ्चतुर्थन्तु विद्या ह्यष्टादशैव तु ।
दश चाष्टौ च विख्याता एता धर्मस्य संहिताः ॥
एतासामेव विद्यानां व्यासमाह महेश्वरः ।
शतानि त्रीणि शास्त्राणामाह तन्त्राणि सप्ततिम् ॥
[[४१४]]
इति सामान्यत उक्त्वा,
तन्त्रं पाशुपतं नाम पाञ्चरात्रञ्च विश्रुतम् ।
योगशास्त्रञ्च विख्यातं तन्त्रं लोकायतं तथा ॥
दश चाष्टौ च विज्ञेयाः पुराणा यज्ञसंहिताः ।
पुरा व्यासप्रणीताश्च तावदेव हि संहिताः ॥
धर्मशास्त्राणि तावन्ति एकार्थानीति नान्यथा ।
एकार्थानि पुराणानि वेदाश्चैकार्थसंश्रयाः ॥
इति ॥
तथा तत्र तत्र पाञ्चरात्रादिषु विष्ण्वादिकर्तृकत्वस्मरणस्य प्रवृत्तत्वपरत्वं दर्शयितुम् “कल्पे कल्पे महाभागैरृषिभिस्तत्त्वदर्शिभिः ।
ऋषिपुत्रैश्च तैस्तैर्हि विष्णुना च विकल्पितः ॥” इत्यप्युक्तम् ।
तथाच “तस्मै वेदान्पुराणानि दत्तवानग्रजन्मन” इति पुराणवचनोपबृंहिततया “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै” इत्यनुक्तपुराणसमुच्चयार्थकचकारवत्या श्रुत्या सर्गाद्यकाले शिवाल्लब्धानां पुराणानां प्रवक्ता परञ्चतुर्मुख इति सिद्धत्वेन तस्य पुराणप्रणेतृत्वाऽसिद्धेः ।
नच प्रवक्तुस्तमोऽभिभवो दोषाय, तस्य प्रणेतृदोषवत्प्रबलाप्रामाण्यानापादकत्वात्; अन्यथाऽस्मदादिपठितवेदवाक्यानामप्यप्रामाण्यापत्तेः ।
किञ्चायं पुराणानां प्रवक्ता वाऽस्तु प्रणेता वा, सर्वथाऽपि स यदि पुराणानि युगपदनुक्त्वा क्वचित्कल्पे कानिचित्क्वचित्कल्पेऽपराणि च प्रणयेत्तदा घटेतापि कथञ्चिदभिलषितलाभप्रत्याशा ।
तदेवासिद्धम्, यत्पुराणे यत्प्रकरणे विद्यमानं वचनमुदाहृत्य चिन्तयितुमिष्यते तत्रैव मात्स्ये तस्मिन्नेवपुराणस्वरूपविवेचनप्रकरणे तदुपक्रम एव-
पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् ।
अनन्तरन्तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥
[[४१५]]
पुराणमेकमेवासीत्तदा कल्पान्तरे नृप ।
त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम् ॥
निर्दग्धेषु च लोकेषु वारिपूरेण वै मया ।
अङ्गानि चतुरो वेदान्पुराणं न्यायविस्तरम् ॥
मीमांसां धर्मशास्त्रञ्च परिगृह्य मया कृतम् ।
मत्स्यरूपेण तु पुनः कल्पादावुदकार्णवे ॥
अशेषमेतत्कथितमुदकान्तर्गतेन च ।
श्रुत्वा जगाद च मुनीन्प्रतिमत्तश्चतुर्मुखः ॥
प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत्ततः ।
कालेन ग्रहणं दृष्ट्वा पुराणस्य ततो नृप ॥
व्यासरूपमहं कृत्वा संहारादि युगे युगे ।
चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा ॥
तथाष्टादशधा कृत्वा भूलोकेऽस्मिन्प्रकाशते ।
अद्यापि देवलोके तच्छतकोटिप्रविस्तरम् ॥
तदर्थश्च चतुर्लोके सङ्क्षेपेण निवेशितः ।
इति सर्गाद्यकल्पे युगपदेव ब्रह्ममुखाद्ब्रह्मपाद्मादिविभागस्य शतकोटिग्रन्थसङ्ख्याकस्य स्कान्दपुराणस्यैकस्यैव निर्गममुक्त्वा, ततः कल्पान्ते जगत्येकार्णवे सति नष्टेष्वध्येतृपुरुषेषु चतुर्दशविद्यास्थानान्यपि धारयता भगवता मत्स्यरूपेण “कल्पे कल्पे महाभागैरृषिभिस्तत्त्वदर्शिभिः ।
ऋषिपुत्रैश्च तैस्तैर्हि विष्णुना च विकल्पितः ॥” इति महाभारतोक्तरीत्या प्रवचनमात्रं पुराणानां कृतम् ।
तन्मुखाच्च चतुर्मुखः श्रुत्वा, तथैवाखण्डरूपेण तत्पुराणं मुनिभ्य उपदिदेश ।
ततो बहुतिथे कालेऽतीते द्वापरान्ते प्रसक्ते मनुष्याणामायुर्ह्रासात्तावद्विस्तारपुराणस्कन्दाध्ययनाध्यापनशक्तिकौ ण्ठ्यं पर्यालोच्य लोकानु-
[[४१६]]
जिघृक्षया भगवतैव व्यासरूपेणाष्टादशधा विभागश्चतुर्लक्ष्या सङ्क्षेपश्च कृत इति प्रतिपादनेन तत्रापि कल्पे ब्रह्मणा विभज्य कथनस्य कतिपयपुराणकथनस्य चासिद्धेः कथमभिमतलाभ इत्यास्तामेतत् ॥
तत्तत्कल्पेषु ब्रह्मा तत्तद्गुणोद्रिक्त इति यदुक्तं तत्र वा किं प्रमाणम् ? न तावदुदाहृतं वचनम्, तत्रोक्तार्थबोधकशब्दाभावात् ।
न च तत्स्वरुपेणेत्येतदेव प्रामाण्यं भवतीति वाच्यम् ।
यच्च यस्मिन्कल्पे तु यत्प्रोक्तं तद्गुणाधिकत्वोक्तिरित्यादि तदतितुच्छं वर्ण्यवर्णकयोरैकरूप्यनियमासिद्धेः; न ह्यन्धेनैवान्धो बधिरेणैव बधिरो वर्णयितव्य इति नियमः; सात्त्विकेनैव व्यासेन तामसानामसुरादीनां वर्णनात् ।
ननु न सात्त्विकः तामससोत्कर्षं भ्रान्त्या वर्णयति, तामसस्तु तथा करोतीत्यौचित्यमिति चेत्तदपि न, एवमपि राजसोत्कर्षवर्णनस्यापि भ्रममूलकतया तत्रापि वक्तुस्तामसत्वे कल्पनीये राजसत्वकल्पनाऽयोगात् ।
रजसः प्रवृत्तिधर्मत्वेन तमोवदज्ञानजनकत्वाभावात्; कथञ्चिद्भावे व्यवस्थानुपपत्तेः, राजसतामसोत्कर्षवर्णनयोर्भ्रममूलकाविशेषे राजसोत्कर्षवर्णनं राजसेनैव, तामसोत्कर्षवर्णनं तामसेनैव कर्तव्यमिति व्यवस्थायां नियामकाभावात् ॥
यदप्युक्तं तत्तद्गुणप्रवर्तकमहिमवर्णनस्य तत्तद्गुणमूलकत्वमिति तदपि न, प्राग्वदेवाप्रयोजकत्वात् ।
अन्यथा वातप्रकोपजनकपदार्थगुणपाठस्यापि वातमूलकत्वापत्तेः ।
किञ्च शङ्कीर्णेषु सरस्वत्याः पितृर्णाञ्च निगद्यत” इति श्रवणाद्यस्मि- न्कल्पे पितृसरस्वतीप्रतिपादकपुराणं प्रणिनाय तदाऽस्य सङ्कीर्णता कल्पनापत्तेः ।
न चेष्टापत्तिस्तादृशपुराणाभावात् ।
न च तादृशपुराणामेकं प्रणीय भागशस्तत्र प्रतिचिक्षपेति वाच्यं, पुराणानामादिकाल एव कॢप्तसङ्ख्याश्रवणस्य तत्तदनुक्रमणिकाध्यायोक्तकथानुक्रमस्य च विरोधात् ॥
यदप्युक्तं कल्पेषु सात्विकादिव्यपदेशानुपपत्या तत्प्रवर्तकस्य ब्रह्मणस्तत्तद्गुणोद्रेकसिद्धिरिति तदपि न, हेमन्तादिषु हिमकालादिव्यपदेशवत्कल्पानां तद्गुणप्राचुर्येण तत्तत्समाख्योपपत्तेरित्यास्तामिदमपि ॥
यच्चोक्तं बहूनां पुराणानामप्रामाण्य-
[[४१७]]
कल्पनादेकस्य वचनस्याप्रामाण्यकल्पनं युक्तं भूयसां बलीयस्त्वादिति तन्न, भूयसां बलीयस्त्वं नास्ति साक्षाद्विरोधे त्वस्तीति कल्पयितुं शक्यत्वात् ॥
यदप्युक्तं तत्रैव नानेन बहूनामप्रामाण्यं प्रतिपाद्यते, किन्त्वविशेषप्रसक्तस्य तस्य विशेषपर्यवसानं क्रियत इति तदप्यसङ्गतम्, किमनेन विरोधः परिहृतः ? बाढमिति चेदस्तु, तर्हि केनाप्रामाण्यं शिवपुराणानामापतितम् ? परस्परविरोधेनेति ब्रूमः; नैषः सर्वसाधारण इति स कथं शिवपुराणानामप्रामाण्यमापादयेत् ? एतद्वचनसाचिव्येनेति चेत्, हन्तैवमागतो विरोधः ।
परन्तु कश्चिदन्योऽपि हेतुरासीदित्यन्यदेतत् ।
उभयोर्हेतुत्वेऽपि प्राप्ताप्राप्ताविवेकेन परस्परविरोधे सिद्धस्याप्रामाण्यस्य स्थलविशेषनिर्णयमात्रेऽस्य व्यापार इति चेन्न, तन्निर्णयार्थमप्यप्रामाण्यव्याप्यतमोमूलकत्वप्रतिपादनमुखेन प्रवृत्तस्यास्त्येव वचनस्य बहुप्रमाणविरोधः, स च दुष्परिहर एवेतीदमप्यास्ताम् ॥
यच्चोक्तमस्यैव वचनस्य तामसपुराणान्तर्वर्तितया कथं प्रामाप्यमिति शङ्कायाम्, मानान्तराविरोधात्सम्भवदौत्सर्गिकं प्रामाण्यमक्षतमिति तदप्ययुक्तम्, प्रागुदाहृतभारतवचने “पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दशे"ति विद्यापद- प्रयोगात्, “दश चाष्टौ च विख्याताः पुराणा धर्मसंहिताः” इति धर्मसंहितापदप्रयोगाच्च, प्रमाणत्वेन परिगणितासु विद्यासु पुराणं सामान्यत उपादाय, “एतासामेव विद्यानां व्यासमाह महेश्वर” इत्युपक्रम्य तद्विद्याभेदानुक्रमावसरे “दश चाष्टौ च विज्ञेयाः पुराणा यज्ञसंहिताः ।
पुरा व्यासप्रणीताश्च तावदेव हि संहिताः ।
धर्मशास्त्राणि तावन्ति एकार्थानीति नान्यथा ।
एकार्थानि पुराणानि वेदाश्चैकार्थसंश्रयाः” इत्यष्टादशपुराणानां परिगणनेन तेषु श्लोकमात्रस्याप्यप्रामाण्यानुपपत्तेः ।
नहि तत्र प्रत्यक्षादीनि प्रमाणानि भवितुमर्हन्ति ।
अपि च परस्परविरोधादप्रामाण्यमिति भ्रमोऽपि न कर्तव्यः, असिद्धेः, तत्रैव एकार्थानि पुराणानीति पठितत्वाच्च ।
मानान्तरविरोधो दुरुपपाद एव ।
का तर्हि तस्य वचनस्य गतिरिति चेत्, शृणु-
[[४१८]]
शङ्कीर्णाः सात्त्विकाश्चैव राजसाश्चैव तामसा” इति तत्तद्गुणप्रचुरतया कल्पांस्तथा तथा व्यपदिश्य, “अग्नेः शिवस्ये” त्यादिना तत्तद्गुणोत्कर्षवति काले तत्तद्गुणोपाधिकमूर्तेराधिक्यमुचितमित्यभिप्रायेण ब्रह्माद्युत्कर्षाणां कल्पभेदप्रवृत्तत्वमुपपाद्य, यस्मिन्कल्प इति श्लोके कल्प इति विषयसप्तमीं कृत्वा, यं कल्पं विषकीकृत्याधिकृत्य च यत्पुराणं प्रोक्तं प्रथममुक्तं ब्रह्मणा प्रशस्य प्राथम्यपरत्वेन केन प्रोक्तमित्यादाविव प्रोक्तशब्दस्य प्रथमवचनमात्रपरत्वात्; तत्स्वरूपेण तत्पुराणस्वरूपेण तस्य तस्य माहात्म्यं तत्तत्कल्पमाहात्म्यं वर्ण्यते ।
घनविद्युद्गर्जितादिवर्णनस्य वर्षाकालवर्णनत्ववत्तत्तत्कल्पवृत्यग्न्यादिमाहात्म्यवर्णनस्यैव तत्तत्कल्पवर्णात्मकत्वादिति प्रतिपादनेन भिन्नभिन्नकल्पविषयाणां पुराणानां नास्ति परस्परविरोध इत्येकार्थानि पुराणानिति भारतोक्तरीत्या सर्वपुराणप्रामाण्योपपादनतात्पर्यकत्वेन सामञ्जस्यात् ।
एवं कस्याप्यबाधेनोपपत्तौ कतिपयपुराणबाधस्य युक्तत्वात् स्पष्टश्चायमर्थः कौर्मशैवादिषु यथोक्तम्-
असङ्ख्याताः स्मृताः कल्पा ब्रह्मविष्णुशिवात्मकाः ।
कथिताश्च पुराणेषु मुनिभिः कालचिन्तकैः ॥
सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः ।
तामसेषु महेशस्य राजसेषु प्रजापतेः ॥
क्वचिद्ब्रह्मा क्वचिद्विष्णुः क्वचिद्रुद्रः प्रशस्यते ।
नानेन तेषामाधिक्यं न्यूनता वा कथञ्चन ॥
तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः ।
तानि तानि प्रणीतानि विद्वांस्तत्र न मुह्यति ॥
इति ॥
किञ्चाष्टादशपुराणानां दानविधिं वक्तुमुपक्रम्य मध्ये, नन्वष्टादशानां प्रामाण्यं न सम्भवति, परस्परविरोधादतो लोकायतादि-
[[४१९]]
वदप्रमाणानामेषां दानेन कथं स्वर्गो भवत्विति शङ्कायां तत्परिहारार्थं प्रवृत्तेनानेन वचनेन यावन्ति दातव्यत्वेनाभिमतानि पुराणानि तावतां प्रामाण्यसमर्थनमेव कर्तुं न्याय्यम्, नतु तन्मध्ये कतिपयानाम् ।
तथा सत्यप्रमाणानां तेषामुत्तरत्र दानविधिर्विरुध्येत ।
तस्मात्परिहृतमेतद्यत्तावद्वक्तृदोष इति ॥
यदप्युक्तं प्रत्यक्षश्रुतिविरोधादिति तदपि तुच्छम्, शिवाद्बह्मनारायणयोरुत्पत्तिवर्णनं हि प्रत्यक्षश्रुतिविरुद्धमित्यभिमानः, स एव भ्रममूलः ।
अथर्वशिरसि शर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते सर्वाणि चेन्द्रियाणि सहभूतैर्न कारणं कारणानां ध्यात्वा कारणं तु ध्येयः सर्वैश्वर्यसम्पन्नः सर्वेश्वरः शम्भुराकाशमध्ये" इति ब्रह्मविष्णुरुद्राणां शिवादुत्पत्ति श्रवणात् ।
किञ्चोदाहृतश्रुतिविरोधे विष्णुपुराणानामपि तुल्ये कथमेकत्र तदुद्भावनम् ।
नच नारायणादुद्रो जायत इति श्रुत्या कार्यत्वेनावगते रुद्रे श्रुत्यन्तरेण श्रूयमाणमपि ब्रह्मनारायणकारणत्वम्, “आत्मन आकाशः सम्भूत” इति श्रुत्या कार्यत्वेनावगते भूताकाशे शर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त" इति श्रुत्या प्रतिपादितं जगत्कारणत्वमिवान्वेतुमनर्हं सत्तदन्त-र्यामिणि परमात्मनि पर्यवस्यतीति न विष्णुपुराणस्य श्रुतिविरोध इति वाच्यम्, वैपरीत्यस्यापि सुवचत्वात् ।
अथर्व शिरसि कार्यत्वेन श्रुते विष्णौ श्रूयमाणं जगत्कारणत्वं तत्रान्वयमलभमानं सत्तदन्तर्यामिणि परमशिवे पर्यवस्यतीति ॥
वस्तुतस्तु न कस्यापि पुराणस्य श्रुतिविरोधः, गुणमूर्तीनामन्योन्यस्मादुत्पत्तिमभिप्रेत्य नारायणाद्ब्रह्मेत्यादिश्रुतयः परमशिवादुत्पत्तिमभिप्रेत्य सर्वमिदमित्यादिश्रुतय इति सविस्तरं व्यवस्थापितमप्पयदीक्षितैः शिवार्कमणिदीपिकादिषु ॥
यच्चोक्तं स्वव्याघातादप्रामाण्यमिति तदप्येतेनैव निराकृतम्, नारायणाद्रुद्रोत्पत्तिर्गुणिरुद्रविषया; त्रिमूर्तीनामुत्पत्तिस्तु परमशिवविषयेति व्यवस्थाभिप्रायकतया स्वव्याघातगन्धस्याप्यभावात् ।
यच्चोक्तं स्वोक्तार्थस्य प्रमाणत्वाभिमतपुराणान्तराननुगृहीतत्वमिति तदपि
[[४२०]]
तुच्छम्, शिवपुराणप्रतिपाद्यस्य शिवे ब्रह्मनारायणयोर्जनकत्वस्य तदुपास्यत्वस्य च परैः केवलमसूयितव्यस्य सर्वसम्प्रतिपन्ने महाभारत एव “असृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसृष्टये ।
वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः” इति, “यस्य ब्रह्मा च विष्णुश्च त्वञ्च शक्त्या सहामरैः ।
अर्चयध्वे सदा लिङ्गं तस्मात्पूज्यतरो हि सः” इत्यादिना च प्रपञ्चितत्वात्; अपि च भवदभिमते पाद्मे शिवराघवसंवादे गारुडे शिवरहस्यपादे च शिवपुराणोक्तार्थानां सविस्तरतया प्रतिपादनाच्च ॥
यच्चोक्तं “पुराणसंहितां दिव्यां लिङ्गमाहात्म्यसंयुता” मिति विशेषनिष्ठप्रश्नोपक्रमेण प्रवृत्ततया लिङ्गमाहात्म्ये आग्रहवत्वादप्रामाण्यं लैङ्ग्यस्येति तदपि न युक्तम्, नहि शब्दानां तात्पर्यादन्य आग्रहो नामास्ति तात्पर्यञ्च ।
मूर्धाभिषिक्तं प्रामाण्यनिदानमिति कथमप्रामाण्ये विरुद्धो हेतुरुपन्यस्तः ।
प्रत्युत यत्राग्रहो नास्ति तत्प्रमाणान्तरेण बाध्येतापि, यत्र त्वाग्रहो नास्ति तत्तत्सर्वथा बाध्यते अन्तरो विकल्पं वाऽनुभवेत् ।
नच माहात्म्यशब्दवाच्यप्रशंसायामाग्रहोऽपि, तद्घटके ब्रह्मनारायणजनकत्वादौ न प्रामाण्यमिति वाच्यम्, प्रशंसामात्रस्य तैरपि ज्ञाततया तद्घटकांश एव तेषां जिज्ञासायां तदुत्तरत्वेन प्रवृत्तस्य पुराणस्य तत्रैव तात्पर्यवत्वेन प्रमाणत्वात् ।
नच न ब्रूमस्तात्पर्यवत्वादिति, लिङ्गमाहात्म्यशुश्रुषुभिः पृष्टे “न बुद्धिभेदं जनयेदि"ति न्यायेन तत्त्वमाच्छाद्य तद्बध्यनुसारेणैव प्रवृत्ततया प्रशंसामात्रे तात्पर्यमिति, न वाच्यार्थे प्रामाण्यमिति वाच्यं, तत्त्वव्युत्पादनार्थं प्रवृत्तेषु पुराणेषु अप्रतिपन्नतत्त्वेन पृष्टे, अन्यथा बुध्या पृष्टेऽपि यथावत्त्वया पृष्टं नैतदेवं मन्तव्यमिदन्तु वस्तुतत्त्वमिति वक्तव्ये, तद्विहायान्यथा प्रवृत्तत्वाङ्गीकारे पुराणानां मोहशास्त्रत्वप्रसङ्गात्, मैत्रेयेण जगत्कारणं किमिति सामान्यतः पृष्टेऽपि चिरपरिचयास्तत्प्रकृतेरभिज्ञेनात एव विदिततदीयविष्णुभक्तिकेन पराशरेण न बुद्धिभेदमिति
[[४२१]]
न्यायात्तद्बध्यनुसारेण विष्णोः सकाशादुद्भूतं जगदित्याद्युक्तमिति वैपरीत्यस्यापि सुवचत्वाच्च ॥
किञ्च लैङ्ग्ये तथात्वेऽपि शैवे प्रयागे विद्यमानानामृषीणां सूतं प्रति प्रश्ने “त्वमदृष्टवशादस्मद्दर्शनं समुपागतः ।
अकुर्वन् किमपि श्रेयो न वृथा गन्तुमर्हसि ॥
तस्माच्छ्रेष्ठतरं पुण्यं सत्कथा ज्ञानसंहितम् ।
अपवर्गफलैकान्तमनाचारबहिष्कृतम् ॥
जगतां सृष्टिसंहारस्थितिहेतुप्रदर्शकम् ।
वेदान्तसारसर्वस्वं पुराणं श्रावयाद्य नः ॥” इति सामान्यनिष्ठप्रश्नोपक्रमेण प्रवृत्ते प्रामाण्यस्य त्वयापि वक्तव्यत्वात् ।
भागवते प्रामाण्यस्य त्वयैव वक्तव्यत्वाच्च ।
तत्र हि सूतं प्रति ऋषीणां प्रश्नोऽस्ति- शूत जानासि भद्रं ते भगवान् सात्वतां पतिः ।
देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥
तन्नु शुश्रूषमाणानामर्हस्यद्यानुवर्णितु"मिति विशेषस्यैव विषयी कृतत्वात्, “आपन्नः संस्तुतिं घोरा"मित्यादिभिश्चतुर्भिः श्लोकैस्तेषां भगवत्युत्कटाया भक्तेर्व्यक्तत्वात्, ततोऽपि पूर्वमेव प्रबन्धुप्रार्थनेऽपि “बत भागवतं रसालय"मिति विशेषनिष्ठतायाः प्रकटितत्वाच्च, तदुपक्रमेण प्रवृत्ते प्रबन्धे दुष्परिहरमप्राण्यम् ।
यदप्युक्तं कौर्मादिषु नष्टकोशत्व- प्रसिद्धिरिति तदप्यसारं या षट्सहस्रग्रन्थात्मिका ब्राह्मी संहिता प्रचरति सा न नष्टैव, मात्स्यवचनावगतसप्तदशसहस्रमध्ये ब्रह्मसंहितातिरिक्तोऽयमेकादशसहस्रग्रन्थात्मको भागः स नष्ट इति चेदस्तु को नेत्याह ? न हि वयं तत्रत्यानि वचनान्युदाहरामः ।
श्रूयमाणा तु या संहिता न तस्यां तदितरनाशप्रयुक्तं किञ्चिदिति शङ्काबीजमस्ति ।
तदितरभागस्य नष्टतया नानयापि संहितया तद्वदेव नष्टया भवितव्यम् ।
कस्यचिल्लोपस्य कस्यचिल्लोपे नियामकाभावात् ।
श्रूयमाणा तु केनचित्कल्पितेति स्यादनाश्वास इति चेन्न, अप्रयोजकत्वात् ।
नहीन्द्रादिव्याकरणनाशनिमित्तस्तिलमात्रोप्यनाश्वासः पाणिनीये तव मम वाऽस्ति ।
किञ्चैवं सति विष्णुपुराणे मात्स्यवचनावगत-
[[४२२]]
त्रयोविंशतिसहस्रमध्ये सप्तदशसहस्रीनाशप्रयुक्तो विद्यमानषट्सहस्र्यामनाश्वासो दुष्परिहर एवाऽऽपतेत् ।
यच्चोक्तमतिविस्तृततया प्रक्षेपशङ्कास्पदत्वमिति तद्धि न विविच्य प्रश्नमपि क्षमते, तथाहि- किमतिविस्तृतत्वं नाम किं स्वत एवाधिकग्रन्थवत्वं किं वा कॢप्तसङ्ख्यापेक्षयाऽधिकसङ्ख्यावत्वेनोपलभ्यमानत्वम् ? आद्ये, सर्वपुराणसाधारण्यान्नेष्टसिद्धिः ।
द्वितीये त्वसिद्धिः यो हि कॢप्तग्रन्थसङ्ख्या पुष्कला न लभ्यत इति नष्टकोशो भवतु ग्रन्थ इत्युपालभते तं प्रत्येव कथमुक्तलक्षणमतिविस्तृतत्वमापादनीयम् ।
इदमन्यद्वा किञ्चिदस्त्वतिविस्तृतत्वम्, सर्वथापि तत्किं वैष्णवपुराणेषु नास्ति ? तत्किं व्यर्थं परान्भ्रमयसीत्यास्तां तावदिदम् ॥
यदप्युक्तं विष्णुपुराणं शिवपुराणोक्तदोषसप्तकराहित्यात्प्रमाणमिति तत्र प्रतिज्ञांश एकः साधुः, हेत्वंशस्तु न परीक्षाक्षमः; तथाहि- यत्तावदुक्तं वक्तृगुणरूपमाद्यवैलक्षण्यमुपपादयितुं पुलस्त्यवसिष्ठवरलब्धदेवतापारमार्थ्यज्ञानशालितया, शिवपुराणेष्वपि स्वोत्पत्ताववतारपदप्रयोगसूचितमहिमशालितया च, शिवपुराणवक्तृतामसचतुर्मुखापेक्षया पराशर उत्कृष्ट इति तद्विचारयामः- वक्तात्र किं प्रबन्धप्रणेता कविरभिमतः, उत कविना स्वग्रन्थे स्वप्रतिपाद्यार्थवक्तृत्वेन निबद्धः ? आद्ये, वैष्णवपुराणानां सत्त्वोद्रिक्तचतुर्मुखप्रणीतत्वस्य भवतैवोद्घोषितत्वेन पराशरोत्कर्षवर्णनस्य प्रकृतानुपयोगात् ।
द्वितीये, शिवपुराणवक्तुस्तामसत्वदोष इति वादस्यासङ्गतिः स्पष्टैव ।
तत्र हि मत्स्यकूर्मशिवादयो वक्तृत्वेन निबद्धा इति ।
तथाच पराशरानुग्राहकपुलस्त्याद्युपास्यमत्स्यकूर्मादिवक्तृकेभ्यः शिवपुराणेभ्यस्तदुपासकोपासकपराशरवक्तृकत्वमेव विष्णुपुराणानां महद्वैलक्षण्यमिति वादः कस्य न हासाय भवेत् ? यच्च तस्य माहात्म्यन्तदुत्पत्ताववतारपदप्रयोगात्साधितं तदपि तस्यैव सन्तोषाय ।
किमवतारपदं महतामुत्पत्तौ शक्तमित्यभिमानः, किं वा साधारण्येऽपि तत्रैव प्रयाग इति ? नाद्यः, शक्तिग्राहककोशव्याकरणादेरभावात् ।
[[४२३]]
न द्वितीयः, असिद्धेः, शर्वे तेऽवतरिष्यन्ति ब्राह्मणाद्यासु योनिष्वि"ति गोतमशापदग्धानां पाषण्डानामुत्पत्तावप्यवतारपदप्रयोगात् ।
स तु लाक्षणिकः प्रयोग इति चेद्वैपरीत्यस्यापि सुवचत्वात् ॥
यत्तु द्वितीयं वैलक्षण्यं प्रत्यक्षश्रुत्यनुसारादिति तदपि साधारणं सर्वपुराणानामिति प्रागेव प्रपञ्चितम् ।
यत्तु तृतीयं वैलक्षण्यं स्वव्याघाताभावादिति तदेवासिद्धम्, भागवत एव ङ ते गिरित्राखिललोकपालविरिञ्चिवैकुण्ठसुरेन्द्रगम्यम् ।
ज्योतिःपरं यत्र रजस्तमश्च सत्त्वं न यद्ब्रह्म निरस्तभेद"मिति प्रबन्धप्रतिपाद्यभगवदुत्कर्षविरोधिनोऽर्थस्य निबन्धनात् ।
तत्त्वतो व्याघाताभावोप्युभयसाधारण इति तत्कथावैलक्षण्यं भवेत् ? यच्च चतुर्थं वैलक्षण्यं पुराणान्तरसंवादरूपं तदपि साधारणमित्यवोचाम ।
ये च पञ्चमषष्ठवैलक्षण्ये सामान्यप्रश्नोपक्रमत्वनष्टकोशत्वरूपे ते अपि भागासिद्धे अतिप्रसक्ते चेति प्रागेवोक्तम् ।
यच्च सप्तमं वैलक्षण्यं नातिविस्तृतमिति तदपि निर्वक्तुमेवाशक्यमित्युक्तमेव ।
तदलमनेन मशकमृगयासंरम्भेणेत्युपरम्यते ।
तदेवं सिद्धमेव प्रामाण्यं सर्वेषां पुराणानामिति ॥
इति श्रीमद्-अनादि-निरञ्जन-जङ्गमापरावतार-
तोण्टद-सिद्धेश्वर-प्रसादासादित-
शाम्भवागमाम्बोधि-मथन-जनित-
निरुत्तरैकोत्तरशत-स्थल-भेद-भिन्न-षट्-स्थल–
तत्त्वबोध-सुधास्वादानन्द-सन्दोह-प्रदायकाचार्यवर्य-
श्रीमरितोण्टदार्य-विरचिते
यडव-मुरारि-कोटे-कोलाहलैकाङ्गि-वीर-
वैरि-सप्ताङ्ग-हरण-पश्चिम-समुद्राधीश्वर-
विशुद्ध-वैदिकाद्वैत-सिद्धान्त-प्रतिष्ठापनाचार्य-
केलदि-सदाशिव-राय-नायक-वंश-दुग्धार्णव-चन्द्र-
वीर-भद्र-धरणीन्द्र-धर्म्म-पत्नी-मल्लाम्बा-हृदयानन्द-
बसव-वसुधा-सङ्क्रन्दनोपदेशे
वीरशैवानन्द-चन्द्रिकायां वादकाण्डे शैवपुराणानां तामसत्वनिराकरणं नामैकविंशतितमं प्रकरणम् ॥
[[४२४]]