२०

वीरशैवानन्दचन्द्रिकायां वादकाण्डे विंशतितमं प्रकरणम् ॥

श्रीगुरो शीलवद्भृङ्गिवचोभिः प्रतिपादितम् ।
शिवोत्कर्षञ्चापकर्षं विष्णोः श्रुत्यागमोक्तितः ॥
श्रुत्वा भवन्मुखाम्भोजनिस्सृतं वाक्सुधारसम् ।
आनन्दतुन्दिलोऽभूवं पुनः किं भृङ्गिणोदितम् ॥
पूर्वपक्षं शीलिनाऽथ कृतां सिद्धान्तपद्धतिम् ।
वद मे क्रमशः स्वामिन् श्रोतुमिच्छामि साम्प्रतम् ॥
अत्यर्थं बहुशो दृष्टं तदेवात्र प्रकाश्यताम् ।
तन्त्रमूलत्वमाश्रित्य परभावः शिवस्य तु ॥
आचारा वीरशैवानां लिङ्गधारणपूर्वकाः ।
साधितास्तत्र तन्त्राणां प्रामाण्यं नोपपद्यते ॥
भृङ्गिन् खण्डयसे यत्त्वं साधयाम्यहमाशु तत् ॥

ननु “लिङ्गधारणप्रतिपादकाऽऽगमवचनानां वेदमार्गप्रच्युतानां तन्त्रमार्गप्रवेशन” मित्यादिस्मृतिपुराणवचननिकुरुम्बबलेनाप्रामाण्यं प्रतिपाद्य श्रुतिप्रमाणबलाल्लिङ्गधारणस्य वैदिकत्वं समर्थितम् ॥

[[४०३]]

यद्यागमानामप्रामाण्यमभ्युपगम्येत तदा लिङ्गधारणादीनां वीरशैवाचाराणां सर्वेषां वैदिकैराराध्यसम्प्रदायप्रवृत्तैरनुष्ठीयमानत्वं न स्यात् ।
न चेष्टापत्तिः, तदनुसारिणामागमप्रामाण्यप्रतिपादकानां वचनानां जागरूकत्वात् ॥
तथाहि सूतसंहितायाम्-

अष्टादशपुराणानां कर्ता सत्यवतीसुतः ।
कामिकादिप्रभेदस्य यथा देवो महेश्वरः ॥

सिद्धान्तशिखामणौ-

वेदसिद्धान्तयोरैक्यमेकार्थप्रतिपादनात् ।
प्रामाण्यं सदृशं ज्ञेयं पण्डितैरेतयोः सदा ॥

क्रियासारे-

अथवा शिवनिश्वासश्रुतिभ्यस्ते शिवागमाः ।
अधिकाः शिववक्त्रेभ्यः साक्षादेव विनिर्गताः ॥
परस्पराऽविरुद्धार्थाः शिवोक्ता निगमागमाः ।
अल्पबुद्धिभिरन्योन्यविरोधः परिकल्प्यते ॥
निगमानामागमानां परमाप्तोपदेशतः ।
प्रामाण्यमविशेषेण ज्ञातव्यं तत्त्वदर्शिभिः ॥

इति वचनैर्वेदाऽविरुद्धवर्णाश्रमादिधर्मप्रतिपादकत्वेन सर्वाप्तपरमेश्वरैककर्तृकत्वेन चागमप्रामाण्यस्य शिष्टैरभ्युपगन्तव्यत्वादागमोक्ताऽऽचाराणां सर्वेषां वैदिकानुष्ठेयत्वं सिद्धम् ॥
ननु-

वैदिकं विहितं ज्ञानं भोगमोक्षप्रदायकम् ।
यदन्यत्रोदितं ज्ञानं न तन्मोक्षस्य साधनम् ॥
श्रौतं ज्ञानं मोक्षलक्ष्मीप्रदमन्यन्न किञ्चन ।
श्रुतं वेदान्तविज्ञाननिश्चितार्था इति श्रुतौ ॥

[[४०४]]

श्रुत्यन्यत्वादागमानां तज्ज्ञानं नैव मोक्षदम् ।
अवैदिकानामुद्धारस्तन्त्रमार्गानुसारतः ।
सर्वज्ञेन शिवेनाऽपि शृण्वन्तीं पार्वतीं प्रति ॥
स्त्रीत्वाद्देव्यास्त्वानुरूप्यात्कथितं तदवैदिकम् ॥
इत्यादि-

प्रमाणैर्वेदान्तजन्यज्ञानस्यैव मोक्षसाधनत्वं प्रतिपाद्यते ॥
श्रौते ज्ञाने स्त्रीणामनधिकारं मनसि निधाय गौरीं प्रत्यागमानामेवोपदेशः कृतः ।
अतो वेदान्तजन्यज्ञानस्यैव साक्षान्मोक्षसाधनत्वम् ।
आगमादिजन्यज्ञानानां स्त्रीशूद्राद्यधिकारिणां परम्परया वेदान्तजन्यज्ञानयोग्यजन्मप्राप्त्यनन्तरं पुनर्वेदान्तजन्यज्ञानद्वारा मोक्षजनकत्वं वक्तव्यम् ॥
किञ्चागमजन्यज्ञानस्य मोक्षसाधनत्वं न सङ्गच्छते, आगमानां मोहकशास्त्रत्वात् ।
तथाहि कूर्मपुराणे-

त्वञ्च रुद्र महाबाहो मोहशास्त्राणि कारय ।
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज ॥
प्रकाशं कुरु चात्मानमप्रकाशञ्च मां कुरु ॥
इति-

पुराणवचनेन सत्त्वप्रधानविष्णूत्कर्षप्रतिपादकं शास्त्रं मोक्षसाधनं कलिदोषकलुषितान्तःकरणानां मानवानां चित्तशुद्धिरहितानामयोग्यम्, अतस्तद्योग्यं स्वोत्कर्षप्रतिपादकं मदुत्कर्षनिषेधकं शास्त्रं कुर्वित्यत्र तात्पर्येण रुद्रप्रणीतानामागमानां मोहकशास्त्रत्वात्तदुदितानामाचाराणां वैदिकैरननुष्ठेयता तज्जन्यज्ञानस्य मोक्षसाधनत्वाभावश्च प्रतीयते ॥
किञ्चाष्टादशविद्यास्थानेष्वनन्तर्भावादागमानामप्रामाण्यम् ।
तथाहि-

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश ॥

[[४०५]]

आयुर्वेदो धनुर्वेदो गान्धर्वञ्चार्थशास्त्रकम् ।
उपवेदा इमे प्रोक्ताश्चत्वारस्तदनन्तरम् ॥
आष्टदशानामेतासां विद्यानां भिन्नवर्त्मनाम् ।
आदिकर्ता कविः साक्षाच्छूलपाणिरिति श्रुतिः ॥

इत्यष्टादशविद्यास्थानानि ।
तत्र न तावदृग्वेदेऽन्तर्भावः, होतृगणोपयोगार्थप्रतिपादकत्वाभावात् ।
नापि यजुर्वेदे, अध्वर्युगणोपयोगित्वेन नियमितत्वाभावात् ।
नापि सामवेदे, उद्गातृगणापेक्षितार्थानभिधानात् ।
नाप्यथर्वणवेदे, आभिचारिकर्मैकप्रवृत्तत्वाभावात् ।
नाप्युपनिषत्सु, मन्त्रब्राह्मणान्यतररूपत्वेन ब्रह्मप्रतिपादकत्वाभावादुपनिषदागम इति सञ्ज्ञाभेदस्य विविक्ततया दर्शनाच्च ।
उपनिषदां सम्पदुपासना प्रतीकोपासनाऽहङ्ग्रहोपासना निर्गुणोपासनेति चातुर्विध्यम्; तत्र “वाचं धेनुमुपासीते"ति सम्पदुपासनायां वागादिकं विद्यमानं कृत्वा तत्र धेनुतादात्म्यभावनानैरन्तर्यं सम्पदुपासना ॥
“आकाशं ब्रह्मेत्युपासीत, मनो ब्रह्मेत्युपासीते” त्यादिप्रतीकोपासनायामाकाशमनःप्रभृतीनां स्वतः सत्ताराहित्येन कृतानां ब्रह्मतादात्म्यभावनानैरन्तर्यं प्रतीकोपासना ॥
“य एषोऽक्षिणि पुरुषो दृश्यते ।
एष आत्मेति होवाच ।
एतदमृतमेतदभयमेतद्ब्रह्म एनं संयद्वाम इत्याचक्षते ।
एष वामनिः स एष एव भामनि” रिति वामनीत्वभामनीत्वसंयद्वामत्वादिगुणविशिष्ट ईश्वरोऽहमस्मीति भावना नैरन्तर्यम्, “उमा सहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
ध्यात्वा मुनिर्गच्छति भूतयोनिम्” इत्यत्रोमासहितत्वपरमेश्वरत्वप्रभुत्वत्रिलोचनत्वनीलकण्ठत्वादिगुणविश् इष्टं सदाशिवाख्यं ब्रह्माहमस्मीति भावनानैरन्तर्यमहङ्गहोपासना ॥
न चात्र नीलकण्ठत्वादिगुणविशिष्टस्य ब्रह्मण उपासनीयस्य भिन्नत्वेन ध्येयतया प्रतिपादनादहं शब्दाभावात्तात्पर्याभावाच्च कथमहङ्ग्रहोपासनारूपत्वमिति वाच्यम्,

[[४०६]]

अस्यामेवोपनिषदि उत्तरत्र “जाग्रत्स्वप्नसुषुप्त्यादि प्रपञ्चं यत्प्रकाशते ।
तद्ब्रह्माऽहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥” इति ब्रह्मात्मैक्यज्ञानस्य मोक्षसाधनत्वप्रतिपादनात् ॥
एतत्त्रयातिरिक्ता निर्गुणोपासना ।
एवं विधोपासनाप्रतिपादनाभावाच्च ।
नापि तदङ्गेषु; तत्रापि न शिक्षायां, वेदवर्णस्वरमात्राद्युच्चारणक्रमप्रतिपादकत्वाभावात् ।
तत्र “व्रजनेज उदात्तश्चेदकारेण सहोच्यते ।
स्तुतं धृतं घृतेनोर्ध्वं हव्यपूर्वोऽन्त आहुत"मिति वर्णस्य, द्वादशाहीनस्येत्यत्राहर्गणवाचित्वे “अह्नः खः क्रता"विति खप्रत्ययविधानादन्तोदात्तत्वम् ।
न हीनोऽहीन इति नञ् तत्पुरुषे पूर्वपदप्रकृतिस्वरत्वाभावात्, हकारोपरिस्थितस्येकारस्य स्वरितत्वमिति स्वरस्य, ङातिव्यक्तं न चाव्यक्तमेवं वर्णानुदीरयेत् ।
पयः पूर्णमिवामत्रं मृदुधीरो यथामती” त्युच्चारणस्य, “चाषस्तु भाषते मात्रां द्विमात्रां वायसोऽब्रवीत् ।
त्रिमात्रान्तु शिखी रौति नकुलस्त्वर्धमात्रकम् ॥” इति मात्रायाश्च शिक्षारूपाङ्गविषयत्वात् ।
नापि कल्पसूत्रेषु, श्रौताङ्गार्हकर्मप्रयोगक्रमतत्प्रकारविधायकत्वाभावात् ।
नापि व्याकरणे, सन्धिसमासप्रकृतिप्रत्ययविभागद्वारा शब्दनिष्पत्तिपरत्वाभावात् ।
नापि छन्दसि, वैदिकलौकिकछन्दोवर्णमात्रानियमपरत्वाभावात् ।
नापि निरुक्ते, ऋगर्थावबोधकशब्दार्थविवरणपरत्वाभावात् ।
नापि ज्योतिषे, श्रुतिस्मृतिचोदितधर्मानुष्ठानकालनिर्णायकत्वाभावात् ।
अतो न वेदाङ्गेष्वन्तर्भावः ।
नोपाङ्गेषु चतुर्षु ।
तत्रापि न मीमांसायां, श्रुतिस्मृत्युक्तधर्मविचारतल्लक्षणतत्प्रमाणतत्स्वरूपतत्साधनतत्प्रयु क्तितत्क्रमतदधिकारातिदेशतदूहतद्बाधतत्तन्त्रानुष्ठानतत्प्रसङ्गानु ष्ठानपरत्वाभावात् ।
नाप्युत्तरमीमांसायाम्, ब्रह्मविचारतल्लक्षणतत्प्रतिपादकतत्समन्वयतद्विरोधनिरासतत्साधनतत् फलपरत्वाभावात् ।
नापि न्यायविस्तरे, वेदार्थनिर्णयानुकूललौकिकन्यायसञ्चारलक्षणप्रमाणघटितपदार्थव् इवेचनानुकूलबुद्धिकौशलसम्पादकत्वा-

[[४०७]]

भावात् ।
नापि पुराणेषु, प्राकृतनैमित्तिकनित्यसृष्टिसंहारदेवताद्युत्पत्तिमन्वन्तरराजवंशानुच् अरितादिवर्णनतीर्थक्षेत्रमाहात्म्यादिवर्णनपरत्वाभावात् ।
नापि धर्मशास्त्रेषु, इतस्ततो विप्रकीर्णपरप्रकरणगतसिद्धवन्निर्देशादितिरोहितवेदमूलत्वेन वर्णाश्रमधर्मोपयोगिकालाचारश्राद्धप्रायश्चित्तदानशान्तिपूर्तव्यवह अरयोगादिप्रतिपादनपरत्वाभावात् ।
अतो नोपाङ्गेष्वन्तर्भावः ।
नाप्युपवेदेषु तत्रापि नायुर्वेदे, शरीरसंरक्षणानुकूलनिदानचिकित्सारूपस्कन्धत्रयात्मकत्वेन दृष्टफलसाधनत्वाभावात् ।
न धनुर्वेदे, वैरिनिरासोपयोगिशरीरव्यायामलक्ष्यवेधशरसन्धानाऽऽयुधोद्यमनिपातन लाघवसाधनप्रतिपादनपरत्वाभावात् ।
न गान्धर्वे, षड्जादिसप्तस्वराऽऽरोहावरोहक्रमभेदभिन्नग्रामत्रयमूर्छना कल्पितप्रधानरागमिश्ररागप्रयोगकालदेशतदनुगुणचञ्चत्पुटादितालमृ दङ्गादिवाद्यप्रभेदहस्तदृष्टिशिरः प्रभृत्यङ्गाभिनयक्रियारसादिप्रतिपादनपरत्वाभावात् ।
नाप्यर्थशास्त्रे, करादानप्रजारक्षणसामाद्युपायस्वाम्यमात्यादिराज्याङ्गसप्तकारिमित्राद् इद्वादशराजमण्डलषड्गुणशक्तित्रयत्रिवर्गादिविज्ञानतदनुगुणाऽऽचर णप्रतिपादनपरत्वाभावात् ।
तस्माद्वेदतदङ्गोपाङ्गोपवेदेष्वनन्तर्भावादागमा न प्रमाणम् ॥
किञ्चानुमानमप्यस्मिन्नर्थे साधकम् ।
आगमा न प्रमाणं वेदाऽनुक्तार्थप्रतिपादकत्वात्, यत्र यत्र वेदाऽनुक्तार्थप्रतिपादकत्वं तत्र तत्राप्रमाणत्वम्, यथा पाञ्चरात्रपाशुपततन्त्रे, तत्र हि तप्तचक्रलिङ्गशूलाङ्कनादिवेदविरुद्धार्थप्रतिपादनादप्रमाणत्वं सिद्धम् ॥
न चायं हेतुः सत्प्रतिपक्षः- आगमाः प्रमाणं वेदोक्तधर्मप्रतिपादकत्वात्, स्मृतिवदिति वाच्यम्, यत्किञ्चिद्वेदोक्तार्थप्रतिपादकत्वं वा यावद्वेदोक्तार्थप्रतिपादकत्वं वा ? नाद्यः, अहिंसासत्यादिवेदोक्तधर्मप्रतिपादकबौद्धशास्त्रे व्यभिचारः ।
न द्वितीयः, यावद्वेदोक्तार्थप्रतिपादकत्वं स्मृतौ नास्तीति दृष्टान्ते हेत्वसिद्धिः ।
तस्मादनुमानेनाप्यागमा न प्रमाणमिति चेदत्रोच्यते- परमाप्तपरमेश्वरप्रणीतत्वेन वेदानामागमा-

[[४०८]]

नाञ्चाविशेषेण प्रामाण्यं वक्तव्यम् ।
“अष्टादशपुराणानां कर्ता सत्यवतीसुतः ।
कामिकादिप्रभेदानां यथा देवो महेश्वरः ॥” इतिवचनादीश्वरकर्तृकत्वस्य सिद्धत्वात् ॥
“वेदसिद्धान्तयोरैक्यमेकार्थप्रतिपादनात् ।
प्रामाण्यं सदृशं ज्ञेयं पण्डितैरेतयोः सदा ॥
वेदधर्माभिधायित्वात्सिद्धान्ताख्याः शिवागमाः ।
वेदबाह्यविरोधित्वाद्वेदसम्मत उच्यते ॥” तस्माद्वेदागमयोः परमाप्तप्रणीतत्वसाम्याद्वेदोक्त भस्मरुद्राक्षपञ्चाक्षरादिमन्त्रवर्णाश्रमादिधर्मप्रतिपादनसाम्याद्वेद् अबाह्यबौद्धचार्वाकादिमतप्रतिपाद्याऽऽचारविरोधित्वसाम्याच्च द्वयोः समानं प्रामाण्यम् ॥
वस्तुतस्तु श्रुत्यपेक्षयाऽधिकमेवाऽऽगमानां प्रामाण्यं वक्तव्यम् ।
तथाहि- परमेश्वरस्य निश्वासरूपाणां श्रुतीनामेतावत्प्रामाण्यं चेदीशानवक्त्रात्ताल्वोष्ठपुटव्यापारपुरस्सरमुदितानामर्थप्रतिपादनस् अमर्थानामागमानां प्रामाण्यमधिकमेव ॥
यदुक्तमवैदिकत्वादागमज्ञानं न मोक्षसाधनमिति तन्न, अवैदिकत्वस्यैव निर्वक्तुमशक्यत्वात् ॥
यच्चोक्तमागमानामवैदिकत्वे पार्वतीं प्रति शिवोपदेश एव द्योतक इति तदत्यन्तासङ्गतम् ।
तथाहि- बृहदारण्यके चतुर्थाध्याये मैत्रेयीब्राह्मणे याज्ञवल्क्येन स्वभार्यां मैत्रेयीं प्रति “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इति श्रवणमनननिदिध्यासनादीनामुपदेशात्तेषामवैदिकत्वं स्यात् ।
तथैव गार्ग्यब्राह्मणे गार्गीं प्रति “एतस्यैवाक्षरस्य प्रशासने गार्गी सूर्याचन्द्रमसौ तिष्ठत” इत्यादीनामर्थानामवैदिकत्वं स्यात् ।
स्त्रियं प्रत्युपदेशस्य तुल्यत्वात् ।
अतः स्त्रियं प्रत्युपदेशोऽवैदिकत्वद्योतक इति वचनं मूढसम्मोहकत्वादुपेक्षणीयम् ॥
इत्यागमप्रामाण्यसमर्थनम् ॥

इति वीरशैवानन्दचन्द्रिकायां वादकाण्डे आगमप्रामाण्यसमर्थनं नाम विंशतितमं प्रकरणम् ॥

[[४०९]]