वीरशैवानन्दचन्द्रिकायां वादकाण्डे एकोनविंशं प्रकरणम् ॥
गुरो रामानुजमतं कृतं तत्र च दूषणम् ।
उक्तिप्रत्युक्तिसहितं भाषितं भृङ्गिशीलिनोः ॥
त्वयानूदितमाकर्ण्य प्रहृष्टहृदयोऽभवम् ।
प्रवर्तन्ते विचित्राणि मतानि प्रक्रियान्तरैः ॥
अनन्तरं ततः किं वा प्रक्रान्तं भृङ्गिणावद ।
शीलिना वा तदुभयं जिज्ञासति मनो मम ॥
वदामि शृणु भूपाल तयोर्वाग्गुम्भजृम्भणम् ।
आक्षेपोत्तररूपेण सभायां सम्प्रवर्तितम् ॥
आरोप्य किन्तुलायां शिवविष्णू शीलिना तुलिनौ ।
ज्ञातुं सम्प्रत्यनयो- रुत्कर्षं चापकर्षञ्च ॥
[[३३८]]
हेरेर्यदिह दूषिता प्रतिपदं परब्रह्मता त्वया समवलम्ब्य तन्मतगतां खलु प्रक्रियाम् ।
अलं न तदिदं भवेन्मम हृदोऽति विस्रम्भणे पृथक् प्रयततां भवान्निरसितुं तदीयोन्नतिम् ॥
शिवस्य परतत्त्वतां स्फुटयितुं हरेरुन्नतिम् निवारयितुमुत्सहे शृणु विशिष्य भृङ्गिन्निदम् ।
अनेकनिगमागमस्मृतिपुराणवाग्गुम्भनैः ।
सुयुक्तिशतजृम्भितैरवहितं कुरु त्वं मनः ॥
वीरशैवमताभिज्ञैः सारहृदयैः सकलनिगमागमरहस्यानुसन्धानसमुन्मिषितभक्तिविशेषोपास्यं परमरहस्यं परं ब्रह्म शिव एवेति तस्यैव पारभ्यानुसन्धानप्रकारं श्रुतिस्मृतिपुराणेतिहासप्रसिद्धं प्रतिवादिप्रतिभावितदूषणनिरासपूर्वकमभिधीयते- “यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति; तद्विजिज्ञासस्व, तद्ब्रह्मेति तैत्तिरीयोपनिषदि जिज्ञास्यं वस्तु ब्रह्मशब्देनाभिहितम् ।
तच्च किंरूपमित्याकाङ्क्षायामुक्तं श्वेताश्वतरोपनिषदि"किङ्कारणं ब्रह्म कुतः स्म जाता जीवाम केन क्व च सम्प्रतिष्ठाः ।
अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्था” मित्याद्युपक्रम्य, केषाङ्चिद्ब्रह्मवादिनामृषीणां ब्रह्मजगत्कारणमित्येतावदवगच्छतां विशिष्य तदजानतां तन्निर्णयार्थविचारप्रवृत्तौ सत्यां तत्र किं कारणं ब्रह्मेति सामान्यकारणे ब्रह्मणि सन्देहोऽभिहितः ।
कुतः स्म जाता इत्यादिभिः पञ्चभिर्वाक्यैः स एव कारणविषयः सन्देहः कार्यतज्जननजीवनादिप्रतियोगिभेदेन पञ्चधा प्रपञ्चितः ।
तत्र ब्रह्मविदो व्यवस्थामिति पञ्चमे वाक्ये केनेत्यस्यानुषङ्गः, ब्रह्मेदमिति विमृशतामेव परस्परसम्बोधः; अथवा ब्रह्मविद इति षष्ठी ।
नन्वेवं विशेषविचारो निरालम्बः, ब्रह्मकारणमित्यस्यैवासिद्धेः ।
[[३३९]]
कार्याणामन्यकारणकत्वस्याकारणकत्वस्यैवोपपत्तेरित्याशङ्कानिरासार्त् हं तेषामेव स्वकीयसन्देहधर्मिसिद्धिप्रदर्शनार्थमनन्तरमाम्नातम् “कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् ।
संयोग एषां न त्वात्मभावादात्माप्यनीशः सुखदुःखहेतो” रिति ।
यदृच्छेत्यकारणकत्वपक्षः ।
एवं सन्देहानामर्थतो निर्णेतुमशक्तानां ब्रह्मविद्याधिदेवताया गौर्याः प्रसादेन तन्निर्णयमिच्छतां तत्प्रसादार्थं तद्ध्यानस्य तत्प्रसादेन तत्कारणं ब्रह्म शिव एवेति तेषां निर्णय आसीदित्यर्थस्य प्रदर्शनार्थः “ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं सुगुणैर्निर्गूढाम् ।
यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः ।” इत्यादिरुत्तरसन्दर्भः ।
तत्र ह्यग्रिममन्त्रेषु “क्षरं प्रधानममृताक्षरं हरः, तस्मात्सर्वगतः शिवः, विश्वाधिको रुद्रो महर्षिः, मायिनन्तु महेश्वरम्, तमीश्वराणां परमं महेश्वरं तं देवतानां परमञ्च दैवतम् ।
पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् ॥” इत्यादिष्वाम्नातैर्हरशिवरुद्रमहेश्वरादिनामभिर्जगत्कारणवाक्यानां शिवपरतां नयन्त्याः श्वेताश्वतरोपनिषदः साक्षिभूतान्यथर्वशिखादिवचनान्यपि दृश्यन्ते ।
शर्वमिदं ब्रह्म- विष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते सर्वाणि चेन्द्रियाणि सहभूतैर्न कारणं कारणानां ध्याता कारणन्तु ध्येयः सर्वेश्वर्यसम्पन्नः सर्वेश्वरः शम्भुराकाशमध्ये" इत्यादिभिरथर्वशिखावाक्यैरनुगृहीतैः श्वेताश्वतरोपनिषन्मन्त्रैः प्रेरितानि सदात्मशब्दादिसामान्यशब्दप्रयुक्तानि सर्वाणि कारणवाक्यानि शिवमेव जगत्कारणं परं ब्रह्म प्रतिपादयन्ति ।
उदाहृतश्रुतीनामन्यपरत्वशङ्कानिरासार्थं पौराणिकवचनरूपोपबृंहणानि बहूनि समुदाह्रियन्ते च ।
तथाहि कौर्मे किं कारणं ब्रह्मेत्याद्युपबृहणानि-
समेत्य ते महात्मानो मुनयो ब्रह्मवादिनः ।
वितेनिरे बहन्वादानात्मविज्ञानसंश्रयान् ॥
[[३४०]]
किमस्य जगतो मूलमात्मा वाऽस्माकमेव हि ।
किमु स्यात्सर्वभावानां हेतुरीश्वर एव च ॥
इत्येवं मन्यमानानां ध्यानकर्मावलम्बिनाम् ।
आविरासीन्महादेवी गौरी गिरिवरात्मजा ॥
इत्यारभ्य
निरीक्षितास्ते परमेशपत्न्या तदन्तरे देवमशेषहेतुम् ।
पश्यन्ति शम्भुं कविमीशितारं रुद्रं बृहन्तं पुरुषं पुराणम् ॥
इति ॥
शिवपुराणेऽपि-
मुमुक्षवः पुरा केचिन्मुनयो ब्रह्मवादिनः ।
संशयाविष्टमनसो विमृशन्ति यथा कथम् ॥
किं कारणं कुतो जाता जीवामः केन वा वयम् ।
क्व चास्माकं सम्प्रतिष्ठा वर्द्धिताः केन वा वयम् ॥
केन वर्तामहे शश्वत्सुखेष्वन्येषु वाऽनिशम् ।
अविलङ्घ्या च विश्वस्य व्यवस्था केन वा कृता ॥
कालः स्वभावो नियतिर्यदृच्छा वा प्रवर्तते ।
भूतानि योनिः पुरुषो योगो वैषां परोऽथवा ॥
अचेतनत्वात्कालादेश्चेतनत्वेऽपि चात्मनः ।
सुखदुःखाभिभूतत्वादनीशत्वाद्विचार्यते ॥
ते ध्यानयोगानुगताः प्रापश्यन् शक्तिमैश्वरीम् ।
पाशविच्छेदिकां साक्षान्निगूढां स्वगुणैर्भृशम् ॥
[[३४१]]
तया विच्छिन्नपाशास्ते सर्वकारणकारणम् ।
शक्तिमन्तं महादेवमपश्यन्दिव्यचक्षुषा ॥
यः कारणान्यशेषाणि कालात्मसहितान्यपि ।
अप्रमेयोमया शक्त्या साकमेकोऽधितिष्ठति ॥
इत्यादि ॥
अथर्वशिखोपबृंहणमपि शिवपुराणे-
यस्मात्सर्वमिदं ब्रह्म विष्णुरुद्रेन्द्रपूर्वकम् ।
सहभूतेन्द्रियैः सर्वैः प्रथमं सम्प्रसूयते ॥
कारणानाञ्च यो ध्याता ध्याता परमकारणम् ।
न सम्प्रसूयतेऽन्यस्मात्कुतश्चन कदाचन ॥
स सर्वैश्वर्यसम्पूर्णो नाम्ना सर्वेश्वरः स्वयम् ।
सर्वैर्मुमुक्षुभिर्ध्येयः शम्भुराकाशमध्यगः ॥
इति ॥
अथर्वशिरःकैवल्योपनिषदादीनामपि शिवैकान्तिककारणत्वादिब्रह्मलिङ्गसमर्पकान्युपबृंहणान्यपि शिवपुराणादिषु द्रष्टव्यानि ।
एवंविधानि वचनानि शब्दतोऽर्थतश्च मूलश्रुत्येकवाक्यतया मूलश्रुतीनामप्यविचलं शिवपरत्वं प्रतिष्ठापयन्ति, वनसिंहन्यायेन स्वयमपि बलवन्ति, शिवैकान्तिकमेव जगत्कारणपरब्रह्मभावं व्यवस्थापयन्ति ।
देवतान्तरपुराणेभ्यः शिवपुराणां भूयस्त्वमपि प्राबल्यहेतुः, तदुक्तम्-
अष्टादशपुराणेषु दशभिः कथ्यते शिवः ।
चतुर्भिर्भगवान् विष्णुर्द्वाभ्यां ब्रह्मा प्रकीर्तितः ॥
इत्युक्तपुराणसङ्ख्यया, शैवं लक्षं स्कान्दं लक्षमित्यादिग्रन्थसङ्ख्यया च, परस्परमनुग्राह्यानुग्राहकभावमापन्नैः श्रुतितदुपबृंहणैः शिवस्य परब्रह्मभावः सिद्धः ॥
यद्वा मुण्डकैतरेयछान्दोग्याद्युपनिषत्सु जगत्कारणत्वप्रतिपादकवाक्येषु श्रूयमाणानां ब्रह्मात्मसदक्ष-
[[३४२]]
रादिशब्दानां निघण्टुप्रसिद्धशिवादिशब्दसामानाधिकरण्यात् ।
अत एव पूर्वतन्त्रे नामधेयपेटिकायाम्- “आज्यैः स्तुवते, पृष्ठैः स्तुवते, बहिष्पवमानैः स्तुवते, चित्रया यजेत पशुकाम” इत्यादावाज्यपृष्ठबहिष्पवमानचित्रादिशब्दानां स्तुवते यजत इत्यादिस्तोत्रयागादिवाचकशब्दसामानाधिकरण्यात् स्तोत्रयागवाचकत्वमङ्गीकृतम् ।
अत्र पार्थसारथिमिश्राः- वाक्यभेदसङ्गेन सामानाधिकरण्यवतोऽन्वाख्यानार्थवादाच्च नामतैवोपपद्यत इति ।
अत एव “दध्ना जुहोती"त्यादौ सामानाधिकरण्याभावात् होमादिवाचकत्वं नास्तीति द्वितीयाध्याये अघोराग्निहोत्राधिकरणे प्रतिपादितम् ।
किञ्च नामधेयतापादकेषु यौगिकवाक्यभेदतत्प्रख्यतद्व्यपदेशेषु भिन्नेष्वपि सामानाधिकरण्यमेव सर्वत्रनुगततया नामधेयतापादकत्वेन निश्चितम् ।
अतः प्रकृतेऽपि ब्रह्मादिशब्दानां शिववाचकत्वेन प्रसिद्धशिवादिशब्दसामानाधिकरण्यबलेन शिववाचकत्वमिति युक्तमेव ॥
ननु कथं सदात्माक्षरादिशब्दानां सामान्यतः श्रुतानां शिवादिशब्दसामानाधिकरण्यम्, येन पूर्वतन्त्रन्यायेनात्र नामत्वं स्यादिति चेन्नैवम् “ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः ॥” इति मन्त्रे ऋतादिशब्दानां विरूपाक्षशब्दसामानाधिकरण्यमिति ब्रह्मशब्दस्य शिवपरत्वम् ।
एवमेव “ततः परं ब्रह्मपरं बृहन्तं यथा निकायं सर्वभूतेषु गूढम् ।
विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वाऽमृता भवन्ती"त्यत्र प्रसिद्धनिघण्टुसिद्धेशशब्दसामानाधिकरण्याच्च ।
एवमेव “अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्यजन्तोः ।
तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीश” मितीशशब्दसामानाधिकरण्यादात्मशब्दस्य शिवपरत्वम् ।
तथैव माण्डूक्योपनिषदि शिवाद्वैतं चतुर्थं मन्यन्ते ।
स आत्मा स विज्ञेयः” इति, एवमेव स्थलान्तरे “अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवोङ्कार आत्मैवे"ति शिवशब्दसामानाधिकरण्या-
[[३४३]]
च्चात्मशब्दस्य शिवपरत्वम् ॥
“यदा तमस्तन्न दिवा न रात्रिर्न सन्नचासच्छिव एव केवलः ।
तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी” त्यत्राक्षरशब्दस्य शिवशब्दसामानाधिकरण्याच्छिवपरत्वम् ॥
एवञ्च जगत्कारणत्वप्रतिपादकानां सर्वेषां सामान्यवाचकानां विशेषतः शिवे पर्यवसानम् ॥
“छागो वा मन्त्रवर्णा"दिति षष्ठान्त्याधिकरणे अग्निषोमीयं पशुमालभेतेति श्रूयते ।
तत्र पशुशब्देन गवादीनि सर्वाण्युच्यन्ते उत छागमात्रमिति संशये पूर्वपक्षः-विधिवाक्ये श्रुतस्य गवाश्वादिसाधारणस्य पशुशब्दस्य सङ्कोचायोगात्सर्ववाचकत्वमिति ।
सिद्धान्तस्तु-छागस्य वपाया मेदस इति मन्त्रवर्णे छागशब्दस्य विद्यमानत्वात्, तद्वशेन पशुशब्दस्य विशेषे पर्यवसानम् ।
तद्वत्सदेव सौम्येदमग्र आसीदित्यादौ शिवपरत्वम् ।
“ब्रह्मैव भूतानां ज्येष्ठं तेन कोहीति स्पर्धितुम्” इत्येतद्वाक्यानुरोधेन ङ वा वो यो रुद्र त्वदस्ति” इति शिवसाम्यं कस्यापि नास्तीति प्रतिपाद्यते ।
“आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत् ।
स ईक्षत लोकान्नु सृजा इति ।
स इमान् लोकानसृजत ।
अम्भोमरीचीर्मरमाप इति श्रूयते ।
“एतस्यैवाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत” इति सर्वप्रशासकत्वमिति ।
तथा च मुण्डकोपनिषदि- “यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति ।” इत्यादि सर्वकारणवाक्यानां शिवे पर्यवसानम् ॥
ननु महाभारते- “युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः ।
माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च” इति युधिष्ठिरस्य वृक्षत्वरूपेण ब्रह्ममूलमिति व्यपदिशन् भगवान् व्यासः श्रीकृष्णो ब्रह्मेति कृष्णस्य ब्रह्मभावं व्यक्तमेव विशेषणगत्योक्तवान् ।
कृष्णस्य ब्राह्मणानाञ्च पृथग्ग्रहणाद्वेदतपसोरचेतनयोश्चेतनमध्यपाठाङ्गीकारे पाठविरोधात्, ब्रह्मशब्दस्य वेदतपःपरत्वेऽपि नात्र तयोर्ग्रहणं युक्तम्, किन्तु तेभ्योऽन्यस्यैव
[[३४४]]
कस्यचिद्वृक्षस्थितौ मूलस्येव राजभावोपगूढयुधिष्ठिरस्थितौ कारणभूतस्यैव ग्रहणं युक्तम्, तथाभूतश्च विष्णुरेवेति व्यासहृदयम् ।
तस्मान्नारायण एव ब्रह्म शब्दवाच्यः ।
न च द्रोणपर्वणि नारायणकृतशिवस्तोत्रे- “रूपं ज्योतिः शब्द आकाश वायुः स्पर्शो रसः सलिलं गन्ध उर्वी ।
कामो धर्मो ब्रह्म च ब्राह्मणाश्च त्वत्सम्भूताः स्थास्नु चरिष्णु चेद"मिति ब्रह्मशब्दस्य ब्राह्मणशब्दसमभिव्याहारेऽपि वेदपरत्वं दृष्टम्, तथेह किं न स्यादिति वाच्यं, तत्र रूपं ज्योतिरित्याद्यचेतनसमभिव्याहारेण तत्र चेतनप्रायपाठाभावात्तत्र योग्यतया वेदपरत्वं युक्तम्, इह तु मूलं कृष्णो ब्रह्म च ब्राह्मणाश्चेति चेतनमर्थपाठात्कृष्ण एव ब्रह्मशब्दवाच्य इति चेन्मैवम् ।
कृष्णो ब्रह्म च ब्राह्मणाश्चेत्यत्र कृष्णो ब्रह्म चेत्युत्तरत्र समुच्चयार्थकत्वे दृष्टस्य च शब्दस्य तथैव निर्णेतुं योग्यत्वेन कृष्णपरत्वे समुच्चयालाभात्, शिवपरत्व उक्तकृष्णसमुच्चयलाभादत्रत्य ब्रह्मशब्दश्शिवपरत्वेन निर्धारयितुमुचित एवेति सिद्धान्तिनः प्रथमा कक्ष्या ॥
अथ पूर्वपक्षिणः प्रथमा कक्ष्या- ङनु नारायणः परं ब्रह्म तत्त्वं नारायणः परः ।
नारायणपरो ज्योतिरात्मा नारायणः परः ॥
इत्यादिवाक्येषु नारायणस्य परब्रह्मत्वेनात्मशब्दवाच्यत्वेन सामानाधिकरण्यस्यापि विद्यमानत्वात् ।
इतरेषामपि सदक्षरादिशब्दानां सुबालाद्युपनिषत्सु सिद्धप्रायत्वात् ।
सामान्यतः श्रुतानां जगत्कारणत्वप्रतिपादकानां वाक्यानां नारायणे पर्यवसानम् ।
किञ्च “यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित” इति श्रुतिपर्यालोचनया नारायणस्य सर्वव्यापकत्वेन श्रवणाच्च ॥
ऐतरेयोपनिषदि- आत्मशब्दनिर्देशेन, ब्रह्म देवानजनयदित्यादिब्रह्मसूक्ते ब्रह्मशब्दनिर्देशेन श्रूयमाणानां जगत्कारणत्वसर्वव्यापकत्वसर्वेश्वरत्वादीनां पारमेश्वरधर्माणां नारायणे पर्यवसानसम्भवात्कथं शिवे पर्यवसानम् ।
नच “हिरण्यगर्भं
[[३४५]]
जनयामास पूर्वम् ।
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्या जनिताऽग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनिताऽथ विष्णो"रिति ब्रह्मनारायणयोः शिवसृष्टत्वप्रतिपादनात्तस्य सर्वजगज्जनयितृत्वं सिद्धमिति वाच्यं, तैत्तिरीयोपनिषदि “यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः ।
हिरण्यगर्भं पश्यत जायमानं स नो देवः शुभया स्मृत्या संयुनक्त्वि” ति मन्त्रे, तत्रैव श्वेताश्वतरोपनिषदि तृतीयाध्याये “यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः ।
हिरण्यगर्भं पश्यत जायमानं स नो देवः स्मृत्या शुभया संयुनक्त्वि” ति मन्त्रे, तत्रैव श्वेताश्वतरोपनिषदि तृतीयाध्याये “यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः ।
हिरण्यगर्भं पश्यत जायमानं स नो बुध्या शुभया संयुक्त्वि"ति मन्त्रे स्वयमुत्पन्नस्य हिरण्यगर्भकर्मकशिवकर्तृकदर्शनमात्रश्रवणात्, स्वयम्भूश्चतुरानन इति कोशसिद्धसञ्ज्ञया च हिरण्यगर्भस्य जन्यत्वासम्भवात्, जनयामासेति स्वार्थणिजन्तत्वेन व्युत्पादनं कृत्वा हिरण्यगर्भमिति विभक्तिविपरिणामेन कर्तृत्वञ्चाङ्गीकृत्य श्रुत्यन्तरपर्यालोचनया हिरण्यगर्भस्य स्वयञ्जायमानत्वमेव निर्व्यूढम् ।
अत एव मनुः- “तस्मिन्प्रादुरभूद्ब्रह्मा स्वयमेव पितामहः” इत्यादिना तस्येतराजन्यत्वं प्रतिपादितम् ।
तस्माद्धिरण्यगर्भस्य शिवजन्यत्वं न सम्भवत्येव ।
एवमेव विष्णोरपि शिवजन्यत्वं न सम्भवति ।
सोमः पवत इति मन्त्रोऽपि सोमलताप्रकाशको न शिवपरः ।
किञ्च छान्दोग्यपठिताया पावमान्या ऋचो रुद्रसंहितादिवत्सामविधौ विनियोजनाभावेन शिवपरत्वस्य वक्तुमशक्यत्वात् ।
तस्माद्धिरण्यगर्भविष्णुजनकत्वेन शिवस्य जगत्कारणत्वप्रतिपादनासम्भवात्सर्वकारणवाक्यानां नारायणे पर्यवसानमिति पूर्वपक्षिणां प्रथमा कक्ष्या ॥
सिद्धान्तिनस्तु- “ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्त” इत्यथर्वशिखावाक्ये स्पष्टमेव ब्रह्मविष्णवादिदेवानां सृष्टत्वं श्रूयते ।
“कारणन्तु
[[३४६]]
ध्येयः सर्वेश्वरः सर्वैश्वर्यसम्पन्नः शम्भुराकाशमध्य” इति शिवस्यैव ब्रह्मविष्णुरुद्रादिकारणत्वप्रतिपादनात्, शोमः पवते जनिता मतीनाम् ।
हिरण्यगर्भं जनयामास पूर्व” मित्यादिषु तस्यैवार्थस्य प्रत्यभिज्ञायमानत्वेन, यो देवानामिति तैत्तिरीयमन्त्रे श्वेताश्वतरमन्त्रे च केवलं हिरण्यगर्भस्यैव स्वत उत्पत्तिर्न तु शिवसृष्टत्वम्, सोमः पवत इति मन्त्रस्य लतापरत्वमिति च कथं वक्तुं शक्यते ।
नच तैत्तिरीयश्वेताश्वतरमन्त्रपर्यालोचनया ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्त इत्यत्र ब्रह्मणः स्वयमुत्पत्तेरवश्यमङ्गीकर्तव्यत्वेन शिवसृष्टत्वाभावात्, तत्समानपठितस्य विष्णोरपि शिवसृष्टत्वं नास्तीत्यङ्गीक्रियत इति वाच्यं, तर्हि रुद्रेन्द्रादीनामपि सृष्टत्वं न स्यात् ।
विष्णुवद्ब्रह्मसमानपठितत्वात् ।
न चेष्टापत्तिः, वृश्चिकभयात्पलायमानस्याशीविषमुखनिपात इव सुबालमहोपनिषन्नारायणाद्युपनिषत्सु विष्णुपुराणादिषु च सर्वकारणत्वेन प्रतिपादितस्य विष्णोर्हिरण्यगर्भसमानपाठेनेन्द्रसाम्याङ्गिकारस्यात्यन्तहास्यास्पदत्व अत् ।
अतोऽस्मिन्वाक्येऽनिच्छताप्यच्छमतिना पञ्चसंस्कारसंस्कृतेन वैष्णवोत्तमेन रुद्रेन्द्रयोः सृष्टत्वमवश्यमङ्गीकर्तव्यम् तर्हि ब्रह्मनारायणयोरपि सृष्टत्वमङ्गीक्रियताम् ।
न चेन्द्रस्य जीवकोटिप्रवेशस्येतिहासपुराणादिषु सुतरां स्पष्टत्वेनास्मिन्वाक्ये शिवसृष्टत्वमङ्गीक्रियते, नतु विष्णुब्रह्मणोरिति वाच्यं, किमर्धजरतीयमङ्गीक्रियते ।
तस्मात्सकृदुच्चरितः शब्दः सकृदेवार्थं प्रत्याययतीति न्यायेन वाक्यं शिवे सृष्टत्वपरञ्चेत्सर्वत्र तथात्वमङ्गीक्रियताम्, नोचेत्परित्यज्यताम् ।
एकस्मिन्नेव वाक्ये एकस्य सृज्यत्वमेकस्मिन्नंशेऽसृज्यत्वमिति भ्रान्तप्रलाप एव, तस्मादत्र सर्वेषां सृज्यत्वमङ्गीकृत्यैतदर्थम्प्रत्यभिज्ञाया “हिरण्यगर्भं जनयामास पूर्वं, सोमः पवत” इत्यादिषु सृज्यत्वमेवाङ्गीकर्तव्यम्, नतु मन्त्रद्वयपर्यालोचनयाऽसृज्यत्वं ब्रह्मविष्ण्वोर्मन्त्रद्वयस्यैवैतदर्थकत्वमङ्गीकर्तव्यम्, अन्यथा पूर्वोक्तदोषतादवस्थ्यात् ।
किञ्च सोमः पवत इति मन्त्रस्य लतापरत्वाङ्गीकारे जनिता मतीनामित्यादिनाऽ-
[[३४७]]
सकृदुक्तानां जनिवाचकानां बहूनां शब्दानां कारणं विना लक्षणाङ्गीकारः स्यात् ।
अतो मुख्यार्थस्यावश्यमङ्गीकारायास्मिन्मन्त्रे सोमशब्दस्य शिवपरत्वमङ्गीकर्तव्यम् ।
मन्त्रान्तरेऽपि ङमः सोमाय चे"ति वाक्ये तथा दर्शनात् ।
लिङ्गपुराणे-
मतीनाञ्च दिवः पृथ्व्या अग्नेः सूर्यस्य वज्रिणः ।
साक्षादपि च वै विष्णोः सोमो जनयितेश्वरः ॥
कालिकाखण्डे-
द्यावापृथिव्योरिन्द्राग्न्योर्वियतस्तु यमस्य च ।
वरुणस्य शशाङ्कस्य सोमो जनयितेश्वरः ॥
इत्यादिपुराणोपबृंहणेन विष्णुजनकत्वमेव परमेश्वरस्याङ्गीकर्तव्यमिति द्वितीया कक्ष्या ॥
अथ पूर्वपक्षिणः-
चतुर्वेदतात्पर्यसङ्ग्रहे-
सोमे लतात्मनि महेश्वरगौणवृत्या विष्णोरवादि जनकत्वमृचा कयाऽपि ।
त्वय्येव तद्भवितुमर्हति मुख्यवृत्त्या नेन्द्रे न पङ्कजभवे नितरां मुरारौ ॥
ननु “पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति ।
नारायणाद्ब्रह्मा जायते ।
नारायणाद्रुद्रो जायत” इत्यादिनारायणोपनिषदा, “एको ह वै नारायण आसीन्न ब्रह्मा नेशानो नाग्नीष्टोमौ नेमे द्यावापृथिवी” इत्यादिना महोपनिषदा, ङैवेह किञ्चनाग्र आसीदमूलमनाधारमिमाः प्रजाः प्रजायन्ते ।
दिव्यो देव एको नारायण” इत्यादिसुबालोपनिषदा च, नारायणस्यैव सकलप्रपञ्चस्रष्टृत्वेन श्रवणाद् ब्रह्मरुद्रयोस्तज्जन्यत्वप्रत्यायनाच्च शिवस्य कथं स्रष्टृत्वेन जगत्कारणत्वमङ्गीक्रियते ? नारायणस्य तु सृज्यत्वप्रतिपादकानि
[[३४८]]
वचनानि सर्वाण्यौपचारिकाणि ।
अत एव कालिदासेनापि “ब्रह्माङ्गभूर्ब्रह्मणि योजितात्मे"ति कुमारसम्भवे तृतीये सर्गे ब्रह्मण उत्पत्तिप्रतिपादनाच्च ।
ननु सुबालोपनिषदि नारायणस्य प्राथम्यमात्रं प्रतिपादितम्, तावता स्रष्टृत्वकल्पनासम्भवाच्छिवस्य कथं सृज्यत्वमुच्यते ।
नच न ब्रह्मा नेशानो नाग्नीषोमावित्यादिना ब्रह्मेशानाभ्यामपि प्राथम्यश्रवणेन तयोः सृज्यत्वं द्योत्यत इति वाच्यं, प्राथम्यमात्रेण स्रष्टृत्वप्रतिपादनासम्भवात् ।
तथैव लोके यज्ञदत्तः प्रथमो न तदानीं चैत्रमैत्रावास्तामित्यादौ यज्ञदत्तस्य प्राथम्यमात्रं द्योत्यते, चैत्रमैत्रयोरनन्तरोत्पन्नत्वमात्रं प्रतीयते ।
नैतावता तत्र जन्यजनकभावः कल्पयितुं शक्यते ।
प्रत्युत नारायण आसीदित्यनेन नारायणस्य मुख्यतया प्रथममुत्पत्तिः प्रतीयते, अनन्तरमेतयो रुद्रनारायणयोरुत्पत्तिः प्रतीयते ।
अतः क्रमाविवक्षया ब्रह्मविष्णुरुद्रेशास्ते सम्प्रसूयन्त इत्युत्पत्तौ प्रतिपादितायां सत्यां क्रमाकाङ्क्षायां “एको हवै नारायण आसीन्न ब्रह्मा नेशान” इत्युत्पत्तिक्रमः प्रतिपाद्यत इति वक्तुमुचितत्वादिति चेन्न ॥
नारायणाद्रुद्रो जायत इति नारायणोपनिषदि स्पष्टमेव नारायणाद्रुद्रस्य जन्यत्वश्रवणात् ।
एतदनुरोधेनैवात्र सुबालोपनिषदो नेयत्वाच्छिवस्य सृज्यत्वं सिद्धमिति पूर्वपक्षिणस्तृतीया कक्ष्या ॥
अथ सिद्धान्तिनश्चतुर्थी कक्ष्या- श कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः” इति श्वेताश्वतरोपनिषद्वचनेन शिवस्यैव कारणत्वं प्रतिपाद्य, अन्यच्छिवस्य कारणं नास्तीति प्रत्यक्षनिषेधश्रवणान्नारायणाद्रुद्रो जायत इति वचनेन शिवस्य कथमुत्पत्तिरङ्गीकर्तुं शक्यते ।
नच नारायणाद्रुद्रो जायत इति श्रुतिवचनेन न कारणमिति वचनमौपचारिकमिति कल्पयितुं शक्यत इति वाच्यं, सोमः पवते जनिता मतीनामिति, ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्त इति च वचनद्वयेन, न कारणमिति शिवस्य कारणान्तरनिषेधवचनेन च, नारायणाद्रुद्रो जायत इति वचनस्यैवान्यथा नेयत्वात् ।
[[३४९]]
अन्यथानयनप्रकारस्तु- भक्तसौलभ्यार्थं विष्णोः सकाशादुत्पत्तिरिति वक्तुमुचितत्वात् ।
नच ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्त इत्यत्रैव भक्तसौलभ्यप्रदर्शनार्थं शिवसकाशाद्विष्णोरुत्पत्तिरौपचारिङ्कीति कल्प्यतां, ब्रह्मसृज्यत्वस्यापि पुराणान्तरे विष्णुपुराणमहाभारतयोर्दर्शनाच्छिवस्यैव जन्यत्वं मुख्यं वक्तव्यमिति वाच्यं, भक्तत्वं यस्य स्पष्टं तस्यैव सौलभ्यार्थमुत्पत्तिः प्रामाणिकी ।
भक्तसौलभ्यार्थमवतारश्शिवस्य कल्प्यतां वा विष्णोर्वेति विशये प्राप्ते शिवस्यैव भक्तसौलभ्यार्थमुत्पत्तिरिति वक्तुमुचितं, तद्यथा हिरण्यगर्भादपि शिवस्योत्पत्तिर्विष्णुपुराणादौ श्रूयते ।
उपनिषत्सु विष्णोरुत्पत्तिः श्रूयते ।
बहुषु स्थलेषूत्पत्तिर्भक्तसौलभ्यार्थेति कल्पयितुं युक्तम् ।
परैरपि रामकृष्णाद्यवतारेषु वसुदेवदशरथकाश्यपादिभ्यो बहुभ्य उत्पत्तिं दृष्ट्वा भक्तसौलभ्यार्थं भगवतो नारायणस्य जनिर्न तात्विकीत्यङ्गीक्रियते ।
लोकेऽपि सार्वभौमस्य राज्ञो बहूनामाश्रितानां गृहागमन आश्रितवात्सल्यविशेषादागमनमिति राज्ञ आश्रितसौलभ्यं कथयन्ति ।
नत्वेकत्रागमने सति तथात्वमाश्रितसौलभ्यस्याव्यक्तत्वात्, कल्पनानौचित्याच्च ।
अतो नारायणस्य शिवादेक- स्मादेवोत्पत्तिश्रवणेन, हिरण्यगर्भस्य तस्मादुत्पत्त्यश्रवणात्, भक्तसौलभ्यार्थं नारायणस्योत्पत्तिरिति कल्पनानुपपन्नैव ।
किञ्च ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसृयन्त इति वाक्ये भक्तसौलभ्यार्थमाविर्भावाङ्गीकारे ब्रह्मेन्द्रादीनामपि भक्तसौलभ्यार्थमवतार इत्यङ्गीकर्तव्यं स्यात् ।
अर्धजरतीन्यायप्रसक्त्यैकरीत्यैवैकस्मिन्वाक्ये श्रूयमाणानां पदानामर्थकल्पनौचित्यात् ।
अपि च पुरुषो ह वै नारायणोऽकामयतेत्यत्र ह वैशब्दापबन्धेनैतस्या अनुवादत्वकल्पनायोग्यत्वे सति शिवस्य जन्यत्वं ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्त इति श्रूयमाणं पुरोवादत्वेन कल्प्यम् ।
न च वैपरीत्यं शङ्क्यं ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्त इति यावतामर्थानां नारायणाद्रुद्रो जायत इति वाक्येऽश्रूयमाणत्वेन पुरोवादत्वकल्पना-
[[३५०]]
योगात् ।
अत एव पूर्वतन्त्रे प्रतिपादितं, अष्टावुपभृतिगृह्णातीत्यत्र विहितस्याष्टगृहीताज्यस्य पुरोवादानुवादसंशये सति, यदुपभृति प्रयाजानुयाजेभ्यस्तदिति वाक्यमेव पुरोवादः ।
यदुपभृतिगृह्णात्यनुयाजेभ्यस्तद्गृह्णातीति वचनमनुवादकम् ।
तन्न्यायेन ह वैशब्दश्रवणेन नारायणोपनिषद्वाक्यस्यैवानुवादकत्वेनौपचारिकत्वस्य कल्पयितुमुचितत्वात् ।
अत एव पूर्वतन्त्रेऽनुवादे लक्षणा न दोष इति प्रतिपादितम् ।
ननु ङैवेह किञ्चनाग्र आसीदमूलमनाधारमिमाः प्रजाः प्रजायन्ते दिव्यो देव एको नारायण” इति सुबालोपनिषदि प्रपञ्चोत्पत्तेः प्राक् नारायणव्यतिरिक्तसमस्तदेवतानामसत्वमुपवर्ण्य नारायणस्यैकस्य सर्वजगत्कारणप्रतिपादनान्नारायण एव परं ब्रह्म ।
नच “अहमेकः प्रथममासं वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तौ व्यतिरिक्त” इत्यादिना देवान्प्रति शिववचनेन सर्वदेवतानिषेधपुरस्सरं शिवस्यावस्थानवर्णनात्तस्यैव जगत्काणत्वं युक्तमिति वाच्यं, सौबालश्रुतिविरोधात् ।
न चोभयत्रेतरनिषेधपूर्वकं सर्वकारणत्ववर्णनासम्भवेनैकस्योपचरितार्थकत्वावश्यम्भावात्सुबालो पनिषदोऽथर्वशिरोवचनानुरोधाच्छिवपरत्वमुचितमिति वाच्यं, “आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
तासु तस्यायनं प्रोक्तं तेन नारायणः स्मृत” इत्यादिनिर्वचनानुसारेण देवताविशेषस्य सञ्ज्ञायामेव णत्वविधानादनितरसाधारणनारायणश्रुतिबलादवधृत् अजगत्कारणभावस्य सौबालश्रुतिसिद्धस्य विष्णोरेव सर्वकारणभाववर्णनपरत्वोचित्यादथर्वशिरोवचनस्थितस्य शिवशब्दस्य नारायणपरत्वौचित्यात्तस्यैव जगत्कारणत्वमितिपूर्वपक्षिणश्चतुर्थी कक्ष्या ॥
सिद्धान्तिनस्तु सौबालश्रुतौ नारायणशब्दे सञ्ज्ञायामेव णत्वविधायकव्याकरणनिर्बन्धात्सौबालोपनिषदनुसारेणा थर्वशिरोवचनस्य विष्णुपरत्वेऽहमेकः प्रथममासमित्युत्तमपुरुषप्रयोगासङ्गतिस्तथा वर्तामि च भविष्यामिति चेति ।
तथाहि- “देवा ह वै स्वर्गं लोकमगमन् ।
[[३५१]]
ते देवा रुद्रमपृच्छन् को भवानिति ।
साऽब्रवीदहमेकः प्रथममासं वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति सोऽन्तरादन्तरं प्राविशद्दिशश्चान्तरं सम्प्राविशत् ।
सोऽहं नित्यानित्यो ब्रह्माऽहं प्राञ्चोऽहं प्रत्यञ्चोऽह” मिति श्रूयते ।
तत्र रुद्रस्य सर्गाद्यसमये सर्वकारणभावेनावस्थायिनः स्वात्माभिप्रायेण सार्वात्म्योपदेशो युक्तः, “अस्मत्सामानाधिकरण्येऽस्मद्युत्तम” इति सूत्रेणोत्तमपुरुषविधानानुरूप्यात् ॥
नन्वहं सूर्यश्चेति वामदेवसार्वात्म्योपदेश इव स्वान्तर्यामिपरमात्माभिप्रायेण सार्वात्म्योपदेशः ।
अत एव परमात्मनः खलु कारणत्वादिप्रसिद्धम् ।
तव कथमहमेकः प्रथममासमित्याद्युक्तिरिति शङ्काव्यवछेदाय रुद्रस्यैव वचनं सोऽन्तरादन्तरं प्राविशदिति ।
तत्र स इति परमात्मोच्यते, बुद्धिसन्निहितत्वात् ।
अन्तर्यामिब्रह्मणोक्तरीत्या सर्वशरीरगस्य परमात्मनो देवमनुष्यादिशरीराधिष्ठानद्वारा देवमनुष्यादिशब्दवाच्यत्ववत्सर्वशब्दवाच्यत्वस्याभ्युपगमेनाहमेकः प्रथममासमितिपूर्ववाक्येऽहंशब्दस्य स्वशरीरगपरमात्मपरतया प्रकृतत्वात्, सोऽन्तरादित्यादेरयमर्थः स परमात्मान्तरात्प्राणादेरप्यन्तरं जीववर्गमन्तर्यामिभावेन प्राविशदित्यर्थः ।
ततः परमात्मनारायणाभिप्रायेण रुद्रस्य सर्वकारणत्वोपदेश इति चेन्न सोऽन्तरादिवाक्यस्य रुद्रस्यैव सर्वान्तर्यामितया प्रवेशकथनपरत्वे बाधकाभावात् ।
पूर्ववाक्यमपि रुद्रस्यैव च सर्वकारणत्वप्रतिपादनपरम् ।
नच तथासति सोऽन्तरादित्यादे रुद्रवचनत्वाङ्गीकारे, अहं प्राविशदिति प्रयोगापत्तिरिति वाच्यं, नान्यः कश्चिन्मत्तो व्यतिरिक्त इत्यनन्तरमितिकरणेन रुद्रवचनसमाप्त्यवगमात् ।
सोऽन्तरादित्यादेः श्रुतिवाक्यत्वेन प्रविशदिति प्रयोगोपपत्तेः ।
नापि स प्राविशदित्येतदनन्तरमपि सोऽहं नित्यानित्य इत्यादिरुद्रवचनानुवृत्त्या रुद्रवचनसमाप्त्यसिद्धिः ।
अन्यथा मध्ये श्रुतिवचनेन रुद्रवचनसन्दर्भविच्छेदे पुनः साऽब्रवीदित्याद्यपेक्षणात्तदध्याहारप्रसङ्गादिति वाच्यं,
[[३५२]]
कृत्स्नरुद्रवाक्यपरिसमाप्त्यनन्तरं सोऽन्तरादित्यादेरन्वये सोऽब्रवीदित्याद्यध्याहारानपेक्षणात् ।
नच व्यवहितान्वये कश्चिद्दोषः, भवन्मतेऽपीतिशब्दस्य कृत्स्नरुद्रवचनसमाप्तावन्वये व्यवहितत्वान्वयदोषस्य तुल्यत्वात् ॥
नच हेत्वर्थकत्वेनेतिकारस्य स्वस्थानेऽन्वयो लभ्येत् ।
परमात्मानुप्रवेशनेऽहमेकः प्रथममासमित्युक्तिरिति सन्दर्भसङ्गतेरिति वाच्यं, रुद्रादन्यस्य परमात्मनः प्रतिपादकशब्दाभावात् ।
नच स इति तच्छब्देन बुद्धिस्थः परमात्मा परामृश्यते, “तेन रक्तं रागा"दित्यादौ तच्छब्देन बुद्धिसन्निहितकषायादिद्रव्यपरामर्शवदिति वाच्यं, तेन रक्तमित्यादावव्यवस्थितानेकार्थपरामर्शेन दृष्टान्तवैषम्याद्व्यवस्थितैकार्थपरस्य सोऽन्तरादित्यादौ तच्छब्दस्य बुद्धिसन्निहितपरामर्शायोगात् ।
नच परमात्मनः सर्वशद्ववाच्यत्वेनाहं शद्वः परमात्मपर इति वाच्यं, “रुद्रमपृच्छन्, सोऽब्रवी” दिति प्रश्नोत्तरयोर्वैयधिकरण्यापातदोषप्रसङ्गात् ।
नच रुद्रशब्दोऽपि परमात्मनारायणपरः ततः प्रश्नोत्तरयोर्न वैयधिकरण्यदोष इति वाच्यं, देवैरन्तर्यामिणि पर्यवसानस्य प्रागनवगतत्वात् ।
अवगतत्वे सति परमात्मनः खलु कारणत्वादिप्रसिद्धं, तव कथमहमेकः प्रथममासमित्युक्तिरिति शङ्कानुदये न तदुत्तरत्वेन सोऽन्तरादन्तरं प्राविशदिति प्रतिवचनानुत्थानात् ।
ततः सोऽन्तरादिति श्रुतिवचनमेवेति रुद्रस्यैवान्तर्यामित्वप्रतिपादनौचित्यात्तस्मिन्मन्त्रे स्वात्माभिप्रायेणाहमेकः प्रथममासं वर्तामि च भविष्यामि चेत्युत्तमपुरुषप्रयोगानुरोधात्, नारायणपदस्यैकस्यैव लक्षणया शिवपरत्वाच्छिवस्यैव सर्वकारणत्वेन परब्रह्मभावो युक्त इति सिद्धान्तः ।
“विष्णुरात्माभगवतो भवस्यामिततेजस” इति भारतवचनन्तु, तस्मादात्मानमेवाग्रे रुद्रं सम्पूजयाम्यहमिति मोक्षधर्मे विष्णुवचनस्थितात्मशब्द इव मुख्य उपचरिते वाऽभेदे तात्पर्याद्यत्किञ्चिदेतत् ॥
ननु “अव्यक्तमक्षरे लीयते, अक्षरं तमसि, तमः परे देव एकीभवती"ति सौबालश्रुतिपर्यालोचनया सर्गाद्यकालेऽव्यक्तादि-
[[३५३]]
क्रमेण परस्मिन्नारायणे एकीभवनानुवर्णनान्नारायणस्यैव परब्रह्मभावो युक्तः, एवमन्यत्र श्रुतिस्मृतिपुराणादिषु नारायणस्यैव तमः प्रेरकत्वश्रवणात्स एव परं ब्रह्म ।
न च “यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः ।
तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी"ति शिवस्यैव तमःप्रेरकत्वेन सर्वकारणत्वप्रतिपादनात्स एव परं ब्रह्मेति वाच्यं, श्वेताश्वतरमन्त्रस्यापि नारायणपरत्वात् ।
तथा हि- यदा तम इति श्वेताश्वतरमन्त्रे यदेति कालविशेषे प्राप्तस्य तमसोऽनुवादः स्वप्रापकमव्यक्तमक्षरे लीयते, अक्षरं तमसि, तमः परे देव एकीभवतीति सुबालोपनिषद्वाक्यमपेक्षते, अनुवादस्य पुरोवादसापेक्षत्वात् ।
तस्य तमसोऽधिष्ठातृत्वेन प्रतिपादनान्नारायण एव सोऽपि मन्त्रः पर्यवस्यति, उपचित्य पुरोवादानुरोधाय ।
ननु “तमो वेदमेकमासीदि"ति मैत्रायणीयश्रुतिवाक्यमिह पुरोवादः किं न स्यादिति चेन्न, तस्या अपि सामान्यश्रुतेः सौबालश्रुतिप्रतिपन्नविशेषपर्यवसायित्वेनाविशेषात् ।
एवञ्च शिव एव केवल इति मन्त्रस्थः शिवशब्दः शुभतया रूढ्या वा देवतान्तरवाचकोऽपि लक्षणया नारायणे वर्तयितव्यः ।
शर्वाणीह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते ।
आकाशं प्रत्यस्तं यान्ती” इत्यादिवाक्येषु ह वैशब्दोपनिबन्धेन कारणत्वानुवादस्य पुरोवादानुरोधान्नारायणविषयतयाऽऽकाशादिशब्दानामचेतनवाचिनामपि कथञ्चिन्नारायणे वृत्तिरभ्युपगम्यते ।
देवतान्तरवाचकत्वेनातिविप्रकृष्टस्य तत्र वृत्यभ्युपगमे को भारः ? किञ्च सर्वः शर्वः शिवः स्थाणुरिति नामसहस्रमध्यपाठान्नारायणे शिवशब्दस्य वृत्तिरुपपन्ना ।
तस्मान्मन्त्रोपनिषन्नारायणपरेति तस्यैव जगत्कारणत्वमिति पूर्वपक्षिणः ॥
सिद्धान्तिनस्तु- “एको हि रुद्रो न द्वितीयाय तस्थुः, विश्वाधिको रुद्रो महर्षिः, मायिनन्तु महेश्वरम्, तमीश्वराणां परमं महेश्वर” मित्यादिमन्त्रान्तरपर्यालोचनया कार्त्स्न्येन मन्त्रोपनिषदः शिवपरत्वं प्रतीयते ।
नच “वेदाहमेतं पुरुषं महान्त” मित्यादिपुरुष-
[[३५४]]
सूक्तमन्त्रप्रत्यभिज्ञानान्मत्रोपनिषन्नारायणपरा ।
उभयोः प्रतिपाद्यभेदे ङान्यः पन्था अयनाय विद्यत” इति द्वयोरितरव्यवच्छेदेन मुक्त्युपायत्वावधारणासम्भवादिति वाच्यं, श्वेताश्वतरमन्त्रप्रत्यभिज्ञानादेव पुरुषसूक्तस्य शिवपरत्वौचित्यात् ॥
ननु शहस्रशीर्षा पुरुष” इत्युपक्रमे पुरुषसञ्ज्ञे शरीरेऽस्मिन् शयनात्पुरुषो हरिः, शकारस्य षकारोऽयं व्यत्ययेन प्रयुज्यते ।
भगवानिति शब्दोऽयं तथा पुरुष इत्यपि ॥
निरुपाधि च वर्तेत वासुदेवे सनातने ।” इति पुराणवचनावगमितनारायणैकान्त्यस्य पुरुषशब्दस्याम्नानेन मध्ये “वेदाहमेतं पुरुषं महान्त"मित्यत्र “महादेवं महापुरुषं वार्चये"दिति कल्पसूत्रावगमिततन्नामभावस्य महापुरुषशब्दस्याम्नानेन पुरुषसूक्तप्रतिपाद्यस्य महापुरुषस्यैव प्रतिपादकतया, तदेकवाक्यतापन्नस्य “अद्भ्यः सम्भूत” इति समनन्तरानुवाकस्यान्ते “ह्रीश्चते लक्ष्मीश्च पत्न्या"विति लक्ष्मीपतित्वलिङ्गाम्नानाच्च छान्दोग्यब्राह्मणे “इदं विष्णुः प्रक्षस्य विष्णुः प्रकाम्यमुशने ब्रुवाण” इति “वाराहमन्तं पुरुषव्रते चैषा वैष्णवी नाम संहिता, एतां प्रयुञ्जन्विष्णुं प्रीणाती"ति वैष्णव्यां संहितायां निवेशनेन, आथर्वणेऽष्टादशमहाशान्तिप्रकरणे तत्तद्दैवत्यासु शान्तिषु “वैष्णव्यां पुरुषसूक्त"मिति वैष्णव्यां शान्तौ विनियोजनेन, शौनकादिस्मृतौ नारायणसमाराधने विनियोजनेन, विष्णुपुराणादौ पुरुषसूक्तप्रक्रियया विष्णुस्तुतिदर्शनेन, “पुरुषेण नारायणेन यजमान उपतिष्ठते, अथ नारायणाभ्यामुपस्थान” मित्या-दिकल्पसूत्रे नारायणसमाख्यया व्यवहारेण च, पुरुषसूक्तं नारायणपरमिति चेन्न, अस्यामेवोपनिषदि “ततो यदुत्तरतरं तदरूपमनामयम् ।
य एतद्बिदुरमृतास्ते भवन्ति ।
अथेतरे दुःखमेवोपयन्ति ।
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।
सर्वव्यापी च भगवांस्तस्मात्सर्वगतः शिव ।” इति मन्त्राम्नानेन पुरुषसूक्तप्रतिपाद्यनारायणादुत्तरत्वेन शिवस्य प्रतिपादन एवास्यास्तात्पर्यावसानात् “तस्माद्यदा तम” इति मन्त्रः शिवस्य तमोविशेषाङ्कितसर्गाद्यसमय-
[[३५५]]
वर्तित्वेन सर्वकारणत्वं प्रतिपादयति ।
यदुक्तं “यदा तम” इत्यनुवाद इति तत्सत्यं, “तमो वा इदमेकमास, प्रजापतिर्वा इदमेकमासीन्नाह आसीन्न रात्रिरासी” दित्यादीनां पुरोवादत्वसम्भवात् ।
न दिवा न रात्रिरित्यादिर्नानुवादः, तद्वृत्तयोगेन तत्काले कस्यचिद्विधेयताप्रतीतेः, विधेयश्च न दिवानिशाविभागाभावः सदसदात्मकप्रपञ्चाभावो वा, उदाहृतपुरोवादद्वयादेव तत्प्रतीतेः ।
नहि किञ्चिदनूद्य किञ्चिद्विधातुं प्रवृत्तं वाक्यमनुवादायापेक्षते ।
पुरोवादादेव प्राप्तेऽर्थे पर्यवस्येत्, साफल्यमश्नुवीत ।
एवञ्च यदि शिवशब्द औत्सर्गिकं परमेश्वरपरत्वं हित्वा पुरोवादविशेषप्राप्ते नारायण एव पर्यवस्येत्तदा “यदा तम” इति किञ्चिद्विधातुमुद्यम्यार्धपथपर्यन्तमागतं वाक्यं किं तत्रैव विश्राम्यतु ।
नहि शिवशब्दस्य नारायणवृत्तित्वे पुरोवादाप्राप्तं कञ्चिदर्थं पश्यामः, ततः परमते वाक्यमेवेदं व्यर्थम् ।
तस्मात्सर्गाद्यसमये तमः प्रापकेषु वाक्येषु क्वचित्तदधिष्ठाता नारायणशब्देनोच्यते क्वचित्प्रजापतिशब्देन क्वचित्साधारणेन परमात्मशब्देन ।
विरुद्धविशेषद्वयश्रवणादनिर्णीतपर्यवसाने व्युत्थानप्रतिभासे तेषामेकविषयत्वं दर्शयितुं तेभ्यः प्राप्तं सर्गाद्यकालीनं तमोऽनूद्य शिवशब्देन तदधिष्ठातुः परमेश्वरत्वं तेभ्योऽप्राप्तं विदधातीति तत्सार्थकत्वस्य वक्तव्यत्वात्, तदुत्थाप्य पुरोवादस्थितनारायणशब्दस्यैव शिवे वृत्तिर्वक्तव्या ।
वरं हि वाक्यवैयर्थ्यात्पदमात्रस्य लक्षणा ।
अभ्युपगतञ्च पूर्वतन्त्रे “एकादशपशोरवदानानि तानि, द्विरवद्यती"ति पशौ चोदकप्राप्ताववदानद्वित्वस्य पुनर्विधायकवाक्यवैयर्थ्यपरिहाराय यद्यपि “चतुरवत्ती यजमानः पञ्चावत्त इव वपा कार्ये"ति वाक्ये वपापदस्य हृदयादिसाधारण्येन पाशुकहविर्मात्रे लक्षणा ।
तथाहि- हृदयादिष्ववदानपञ्चकसिध्यर्थमुपस्तरणाभिधारणयोः सतोः हृदयादिषु त्रिरवदानप्रसक्तौ हविर्द्विरेवावदेयं, उपस्तरणादिवृध्या तु भवतु सङ्ख्यापूरणमिति नियमेन भवति तत्सार्थकमिति ।
एवमुक्तेन प्रकारेण यदा तम इति पूर्वार्धं तमो वा इदमेकमासीदित्यादीनां केषाञ्चित्का-
[[३५६]]
रणवाक्यानां शिवे पर्यवसानं प्रतिपादयति ।
तथोत्तरार्धे तदक्षरमिति भागो “यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः ।
तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ती” त्यादिमुण्डकादिश्रुतीनां “तत्सवितुर्वरेण्य” मिति भागः सवितृमण्डलमध्यवर्तिनि परमपुरुषे जगत्कारणत्वनियतं सर्वान्तर्यामित्वलिङ्गं “धियो यो नः प्रचोदया” दित्युपवर्णयन्त्याः सावित्र्या ऋचः “प्रज्ञा च तस्मात्प्रसृता पुराणी"ति भागः “तदैक्षत बहुस्यां प्रजायेय, स ऐक्षत लोकान्नु सृजा इति, सोऽकामयत बहु स्यां प्रजायेयेति, तपसा चीयते ब्रह्म ततोऽन्नमभिजायत” इति स्रष्टुरादिसर्गपूर्वकाले स्रष्टव्यवस्तुजातालोचनमोक्षणादिशब्दैः प्रतिपादयतां छान्दोग्यादिश्रुतिकारणवाक्यानां शिवे पर्यवसानं प्रतिपादयति ।
एवमयं मन्त्रः कृत्स्नकारणवाक्यानां शिवविषयत्वमाविष्करोति ॥
यत्तु पुरुषसूक्तप्रत्यभिज्ञानादिति तद्गर्भश्रावेण निरस्तम् ।
“या ते रुद्र शिवा तनूः, मानस्तोक” इत्यादि श्रीरुद्रमन्त्रप्रत्यभिज्ञानेन शिवपरत्वात् ।
ङान्यः पन्था अयनाये"ति तु श्वेताश्वतरेऽपि श्रूयमाणत्वात्, शिवस्य मुक्त्युपायत्वव्यवस्थितेः, “उतामृतत्वस्येशान” इतीशानशब्दश्रवणाद्वस्तुतः पुरुषसूक्तमपि शिवपरम् ।
शब्दादेव प्रमित” इति सूत्रे ईशानशब्दश्रुत्या ब्रह्मपरत्वमिति निर्णयाच्च ।
पुरुषशब्दोऽपि न नारायणवाचकः “पुरुषावात्ममानवा"विति सामान्यशक्तित एव देवताविशेषपरत्वसङ्गतेः ।
बर्हिराज्याधिकरणे बर्हिराज्यादिशब्दानामसंस्कृतदर्भघृतादौ शक्तानां संस्कृते विशिष्य शक्त्यनङ्गीकारात् ।
चित्राधिकरणे स्तोत्रविशेषनामत्वेन सिद्धस्य पृष्ठशब्दस्य क्वचित्पृष्ठैरुपचिष्ठत इत्यादौ लक्षणया प्रसिद्धिरस्तीत्येतज्ज्ञापनेन चरितार्थस्यापो वा ऋत्वियमार्च्छत्तासां वायुः पृष्ठे व्यवर्ततेत्यादेरार्थवादिकनिर्वचनस्य विशिष्य वामदेव्यादौ शक्तिकल्पकत्वमिति सर्वमीमांसकैरभ्युपगमात् ।
तस्मात्पुरुषशब्दस्य विशिष्यशक्त्यभावात्सामान्यशक्तस्य श्वेताश्वरमन्त्रेण विशेषे पर्यव-
[[३५७]]
सानप्रतिपादनात् शिवपरत्वमेव युक्तम् ।
अत एव महापुरुषशब्दस्य नारायणपरत्वं निरस्तम् ।
लक्ष्मीपतित्वमपि श्रियं लक्ष्मीमौपलामम्बिकाङ्गाम् ।
तस्यां कमण्डलारूढा शक्तिर्माहेश्वरी परा ।
महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरे"ति घृतसूक्तशिवपुराणोपबृंहणाभ्यां शिवस्यैव लिङ्गमाम्नायते ।
नारायणसमाख्यापि पुरुषसूक्तस्य नारायणर्षित्वेनोपपद्यते ।
नारायणसमाराधने विनियोगस्त्वग्निर्मुर्धेति मन्त्रस्याग्नेयस्याङ्गारकसमाराधने विनियोगवदुपपन्न एव ।
अन्यथा “यजेत्पुरुषसूक्तेन धनदं विश्वरूपिण"मिति विनियोगादन्यपरत्वप्रसङ्गात् ।
“जेष्ठसाम्नान्त्रयेणैव तथा देवव्रतैरपि ।
रथन्तरेण पुण्येन सूक्तेन पुरुषेण चे"ति शिवाभिषेकविनियोजकलिङ्गपुराणवचनादपि शिवपरत्वं सिध्यति ।
तस्मात्पुरुषसूक्तस्य शिवपरत्वात्तन्मन्त्रप्रत्यभिज्ञानादपि श्वेताश्वतरोपनिषदः शिवपरत्वात्तदनुरोधेन सर्वकारणवाक्यानां शिवपरत्वमेवेति सिद्धान्तः ॥
अथ पूर्वपक्षः- महोपनिषदि “एको ह वै नारायण आसीन्न ब्रह्मा नेशानो नाग्नीषोमौ नेमे द्यावापृथिव्या"वित्यादिना ब्रह्मेशानाग्निषोमद्यावापृथिवीनां सत्त्वनिषेधपूर्वकं जन्यत्वं वर्णयित्वा सर्गाद्यसमयेऽसहायस्यैकस्य नारायणस्यैव सर्वकारणभावेनावस्थानमुपवर्ण्यते ।
विध्यपेक्षया निषेधस्य प्रबलत्वादीशानस्य सर्वकारणत्ववर्णनासम्भवान्नारायण एव सर्वकारणवाक्यानां पर्यवसाने तस्यैव परब्रह्मभावो युक्तः ।
अत एव छागपशुन्यायेनापि सदेव सौम्येदमग्र आसीदित्यादि सदात्माक्षरब्रह्मशब्दैः सर्वकारणत्वप्रतिपादकानां सामान्यकारणवादानां नारायण एव पर्यवसानस्य युक्तत्वान्नारायण एव परं ब्रह्मेति पूर्वपक्षः ॥
सिद्धान्तस्तु- “एको ह वै नारायण आसी” दित्यादिश्रुतिषु नारायणस्य प्रपञ्चस्रष्टृत्ववचनं क्वचित्कल्पविशेषे कल्पादौ प्रथमं परशिवादुत्पन्नस्य नारायणस्य तदितरप्रपञ्चस्रष्टुत्वपरतया योजयितुं शक्यत्वान्न कथञ्चिदपि परमशिवस्य परमकारणत्वाङ्गीकारेण विरुध्यते ।
[[३५८]]
एको ह वै नारायण आसीदित्यस्य “प्रादुरासीत्तमोनुद” इति मानवीयोपबृंहणानुसारेण सर्गाद्यसमये ब्रह्मरुद्रेन्द्राद्युत्पत्तेः पूर्वमेकोऽसहायो नारायणः परमशिवादासीदुत्पन्न इत्यर्थप्रतीतेश्च ।
महोपनिषदि प्रतिपादितस्य भूतेन्द्रियादिसृष्टिक्रमेण सलिलमध्ये सृष्टब्रह्माण्डे नारायणेन चतुर्मुखः सृष्ट इत्यादेरर्थजातस्य मानववचनेष्वपि स्पष्टत्वात् ।
तस्मात्सर्वश्रुतिस्मृतिपुराणाद्यविरोधेन परमशिवस्य जगज्जन्मादिकरणत्वव्यवस्थितेः शिव एव परं ब्रह्म ।
तथा च मन्त्रवर्णः- “ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः ॥” इति ।
अस्य हि मन्त्रस्य विरूपाक्षमित्यभिधानश्रुत्या ङमस्कृत्य महादेवमृतं सत्यमितीश्वर” मिति कौर्मे शिवनमस्कारे विनियोगेन “अथातो महादेवस्य पादोदकविधिं व्याख्यास्यामः” इत्युपक्रम्य ऋतं सत्यं परं ब्रह्मेति मन्त्रेण प्राशयेदिति बोधायनसूत्रे शिवपादोदकप्राशने विनियोगेन, “अथवा परमात्मानं परमानन्दविग्रहम् ।
गुरूपदेशाद्विज्ञेयं पुरुषं कृष्णपिङ्गलम् ।
ब्रह्म ब्रह्मपुरे गार्गी दहराब्जखमध्यमे ।
अभ्यासात्तं प्रपश्यन्ति सन्तस्त्वञ्च तथा कुरु ॥” इति योगयाज्ञवल्क्ये पूर्वानुवाकविहित- शैवदहरविद्योपास्यरूपसमर्पकतया तदेकवाक्यतया स्फुटीकरणेन व्यक्तं शिवपरत्वम् ।
तस्मादेतन्मन्त्रानुरोधात्परमशिवस्य जगत्कारणत्वे सिद्धे “एको ह वै नारायण आसी” दिति महोपनिषद्वचनमपि न विरुध्यत इति सिद्धान्तः ॥
ननु महोपनिषदि- “अथ पुनरेव नारायणः सोऽन्यत्कामो मनसा ध्यायत, तस्य ध्यानान्तस्थस्य ललाटात्त्र्यक्षः शूलपाणिः पुरुषोऽजायते” ति रुद्रस्य नारायणादुत्पत्तिश्रवणात्, तथा नारायणोपनिषदि ङारायणाद्ब्रह्मा जायते नारायणाद्रुदो जायत” इति रुद्रस्य नारायणादुत्पत्तिश्रवणात्, तस्य परमकारणत्वं सङ्गच्छते ।
अत एव महाभारते- “ब्रह्मा स्थाणुर्मनुर्दक्षा भृगुर्धर्मस्तपो दम"इत्यादिना, “एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः ।
तस्य देवस्य मर्यादां
[[३५९]]
पूजयन्ति सनातनी"मिति ब्रह्मेशयोर्दक्षमन्वादिवद्भगवन्नारायणकृतमर्यादानुवर्तित्वोक्तेश्च ।
तयोरपि ब्रह्मा ज्यायान्, अनुपदोदाहृतश्रुत्योपबृंहण एव प्रथममुत्पत्तिश्रवणात्, “एतौ द्वौ विवुधश्रेष्ठौ प्रसादक्रोधजौ मम ।
मया दर्शितपन्थानौ सृष्टिसंहारकारकौ ॥
एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः ।
एष माता पिता चैव युष्माकं प्रपितामहः ॥
अस्यैव योऽनुजो रुद्रो ललाटाद्यः समुत्थितः ।
मयाऽनुशिष्टो भविता सर्वभूतवरप्रदः” इति शिवस्य ब्रह्मानुजत्वोक्तेश्च, विष्णुपुराणादिषु तस्य ब्रह्मण एवोत्पत्तिप्रतिपादनाच्च ।
तस्मान्नारायणस्य सर्वकारणभावेन सर्वोत्कृष्टत्वाद्ब्रह्मशिवादीनां तत्परतन्त्रत्वाच्च स्थिरपुरुषार्थः प्रेप्सुभिः स एवोपासनीयः स एव प्रपत्तव्यः “कारणन्तु ध्येय” इत्याथर्वणश्रुतेः, “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ।
तः ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्य” इति श्वेताश्वतरमन्त्रवर्णनाच्चेति पूर्वपक्षः ॥
सिद्धान्तस्तु- “त्रियक्षः शूलपाणिः पुरुषोऽजायते” त्यादि श्रुतिस्मृतिषु रुद्रस्य नारायणसृज्यत्ववर्णनं तत्सर्वं कल्पविशेषेषु संहाररुद्ररूपेण ततः प्रादुर्भावपरम् ।
“अहञ्च भवतोत्क्रान्तात्कल्पान्ते घोररूपधृक् ।
शूलपाणिर्भविष्यामि क्रोधजस्तव पुत्रकः” इति कौर्मे नारायणं प्रति शिवस्य वरदानुवचनेन तथा स्फुटीकरणात् ।
एवमेव “प्रादुरासीत्प्रभोरङ्के कुमारो नीललोहितः” इत्यादिषु रुद्रस्य ब्रह्मणः प्रादुर्भाववर्णनं तदपि लोकसृष्ट्यभिवृध्युपायप्रदर्शनेन ब्रह्मणोऽनुग्रहाय ततः प्रादुर्भावपरम् ।
ङिर्दिष्टः परमेशेन महेशो नीललोहितः ।
पुत्रो भूत्वानुगृह्णाति ब्रह्माणं ब्रह्मणोऽनुज” इति वायूक्तेः, “अनादिनिधनो देवश्चैतन्यादिसमन्वितः ।
ज्ञानानि च वशे यस्य करणादीन्यशेषतः ॥
अणिमादिगुणोपेतमैश्वर्यं न च कृत्रिम् ।
सृष्ट्यर्थं ब्रह्मणः पुत्रो ललाटादुत्थितः प्रभुः ॥
इति भारतोक्तेः, एवमेव रुद्रस्य नियम्यत्ववचनं ब्रह्मनारायणांशविषयमवताररुद्रपरमिति वा मन्तव्यमिति सिद्धान्तः ॥
[[३६०]]
ननु तैत्तरीयश्रुतौ ङारायणपरं ब्रह्म तत्त्वं नारायणः परः ।
नारायणपरो ज्योतिरात्मा नारायणः परः ॥
नारायणपरो ध्याता ध्यानं नारायणः परः ।
यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा ॥
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः” इत्यादिना नारायणस्यैव परब्रह्मभावः स्पष्टमेव प्रतिपाद्यते ।
नच नारायणात्परम्ब्रह्मेति पञ्चमी समासाश्रयणेन नारायणात्परस्य परमशिवस्य परब्रह्मत्वं व्यवस्थाप्यतामिति वाच्यं, महोपनिषदि परब्रह्मप्रतिपादनप्रकरणे नारायणः परं ब्रह्मेति पदविच्छेदेनाध्ययनप्रदर्शनात्तदैकार्थ्यसम्पादनाय शुपांसुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजाल” इति सूत्रेण छान्दसे प्रथमाविभक्तेर्लुगादेशे कृते नारायणेत्यस्य नारायणपरं ब्रह्मेति प्रतिपादने तात्पर्यावसानात् ।
नारायणपरं ब्रह्मेति समस्तपदत्वेऽपि निषादस्थप्रत्यधिकरणन्यायेन समानाधिकरणसमानस्यैव ग्राह्यत्वात् ।
निषादस्थपत्यधिकरणे विभक्त्यर्थे लक्षणा, गौरवाभावेन व्यधिकरणतत्पुरुषापेक्षया “तत्पुरुषः समानाधिकरणः कर्मधारय” इत्यनुशासनसिद्धस्य कर्मधारयसमासस्यैव परमाभ्यर्हितत्वव्यवस्थापनात् ।
किञ्च “अहमेव परं ब्रह्म परं तत्त्वं पितामह ।
अहमेव परं ज्योतिः परमात्मा त्वहं विभुः ॥” इति लिङ्गपुराणे ब्रह्माणं प्रति भगवद्वाक्येन नारायणस्य परब्रह्मता प्रतिपादकतयैवास्य मन्त्रस्योपबृंहणेन व्यधिकरणतत्पुरुषसमासकल्पनासम्भवाच्च ।
तस्मानारायण एव परं ब्रह्मेति तस्यैव सर्वदेवतोत्कर्षः ॥
सिद्धान्तस्तु- नारायणपरं ब्रह्मेत्यादिना नारायणस्य परब्रह्मत्वप्रतिपादनं शिवप्रसादलब्धशिवाभेदात् ।
परमशिवाभेदभावनासिद्धतद्भावपरत्वेन वा शिवस्यैव परभावोपवर्णनपरम् ।
एकस्यां विद्यायामुपास्योपासकभावेन प्रधानोपसर्जनपरतया निबद्धयोस्तयोर्वस्तुतः परब्रह्मभावायोगे सत्यङ्गगुणविरोधाधिकरणन्यायेनोपसर्जनतद्भावोपवर्णनस्यैव मुख्यतया नेयत्वात् ।
“अङ्गगुणविरोधे च तादर्थ्या"दित्यधिकरणे प्रतिपादितम्- एकाहादिदीक्षापक्षेषु दीक्षि-
[[३६१]]
णीयासोमयागयोरन्यतरस्य “य इष्ट्या” दिवाक्यप्राप्तपूर्वकालस्यासम्भवादावश्यके सोमयागे प्रधानानुग्रहस्योचितत्वाद्गुणभूताया दीक्षिणीयाया एव पूर्वकालत्यागो युक्त इति निर्णीतम् ।
तथैव नारायणात्परं ब्रह्मेति व्यधिकरणतत्पुरुषसमानाश्रयणेऽपि न दोषः, अङ्गगुणाधिकरणन्यायेन प्रधानानुरोधेनार्थव्यवस्थितेर्नेयत्वात् ॥
नच नारायणः परं ब्रह्मेति श्रुत्यन्तरे पदविच्छेदेनाध्ययनदर्शनात्पञ्चमीसमासासङ्गतिरिति वाच्यं, नारायणः परं ब्रह्मेति श्रुत्यन्तर एव सुपां सुलुगित्यादिसूत्रेण नारायणादितिपञ्चम्याः स्वादेशकल्पनया नारायणात्परं ब्रह्मेति श्रुत्यैकार्थप्रतिपादनसम्भवात् ।
नाप्यहमेव परं ब्रह्मेति लिङ्गपुराणवचनविरोधः, महालिङ्गप्रादुर्भावात्पूर्वं ब्रह्मनारायणयोरहमेव सर्वोत्कृष्ट इति परस्परविवादप्रस्तावे पठितस्य तदनन्तरं तद्विवादप्रशमनार्थोद्भूतमहालिङ्गमध्यसन्निहितस्य पशुपतेः “पश्यन्तं मां महादेवं भयं सर्वं विमुच्यताम् ।
युवां प्रसूतौ गात्राभ्यां मम पूर्वं महाबलौ ॥
त्रिधा भिन्नोऽस्म्यहं विष्णो ब्रह्मविष्णु भवाख्यया ।
सर्गरक्षालयगुणैर्निष्कलः परमेश्वरः ॥
सम्मोहं त्यजविष्णो त्व"मित्यादितत्वोपदेशेनापादितस्य ब्रह्मोत्कर्षवचनजातस्यैव तथात्वाव्यवस्थापकत्वात् श्रुतिसिद्धं शिवस्य सर्वकारणत्वमिति सिद्धान्तः ॥
ननु “अग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता” इति बह्वृचब्राह्मणे दीक्षिणीयायामिष्टौ यक्ष्यमाणदेवतापरिग्रहानुवर्णनदशायामग्नेरवमत्वं प्रतिपाद्य सर्वासामन्यासां देवतानामान्तरालिकत्वमुपवर्ण्य विष्णुः परम इति विष्णोः पारम्यश्रवणात्तस्यैव परमकारणत्वं न तद्भिन्नस्य परमशिवस्य परमकारणत्वं, विष्णोः पारम्यप्रतिपादकबह्वृचब्राह्मणविरोधात् ।
न चाग्निर्वै देवानामवमो विष्णुः परम इति दीक्षिणीष्टविषयार्थवादः, “विरोधे गुणवादः स्यादनुवादोऽवधारिते ।
भूतार्थवादस्तद्धानादर्थवादस्त्रिधामत ॥” इति न्यायेन स्तावकतया नेयत्वान्न तस्य स्वार्थे तात्पर्यं, तस्माद्विष्णोः पार-
[[३६२]]
म्यवर्णनस्यार्थवादत्वेन स्वार्थे तात्पर्याभावान्न परमशिवस्य पारम्यप्रतिपादनेन विरोध इति वाच्यं, अग्नेरवमत्वस्य तदितरसर्वदेवतानां तन्मध्यगतत्वस्य च वस्तुवृत्तत्वाभावे “अग्निरवमो देवतानां विष्णुः परमो देवतानां तदुभयतः परिगृह्य दीक्षित” इति श्रुतेर्दीक्षिणीयायाः सोमे यक्ष्यमाणसर्वदेवतापरिग्रहार्थत्वं न सिध्येत्, तदसिद्धौ च पूर्वतन्त्रे “ग्रहणार्थञ्च पूर्वमिष्टेस्तदर्थत्वा” दित्यधिकरणसिद्धं सोमाङ्गदेवतापरिग्रहार्थमन्वाधानं न कर्तव्यम् ।
सोमे यक्ष्यमाणदेवतापरिग्रहार्थया दीक्षिणीययैव प्रसङ्गात्सर्वदेवतापरिग्रहसिद्धेरिति निर्णयस्य सङ्कर्षणकाण्डे दीक्षिणीया निर्धार्य संस्कारसंयोगाद्देवतान्तरपरिग्रहणश्रुतेरित्यधिकरणसिद्धस्य सोमे दीक्षिणीयायां विहितस्यैवाग्नेः सोमयागार्थधारणं न प्रतिकर्मोद्धरणं दीक्षिणीया परिगृहीतदेवताकोटिसंस्कारसंयोगादिति निर्णयस्य च बाधः स्यादित्यग्निर्वै देवानामिति नार्थवादः ।
तस्माद्विष्णुः परम इति पूर्वपक्षः ॥
सिद्धान्तस्तु- “अग्निरवमो देवतानां विष्णुः परम इत्यस्यातिप्रबलानेकश्रुतिविरोधादुपचरितार्थत्वेऽपि दीक्षिणीया देवतापरिग्रहार्थत्वप्रतिपादनांशे विरोधाभावेन स्वार्थे प्रामाण्याङ्गीकारसम्भवात् ।
नचाग्निविष्ण्वोरधरोत्तरत्वाभावे, उभयतः परिग्रहालाभात्सर्वदेवतापरिग्रहो न सिध्यतीति वाच्यं, तयोरधरोत्तरकोटित्वेनोभयतः परिग्रहलाभेऽपि तदसिद्धितादवस्थ्यात् ।
नह्यधरोत्तरकोटिभूतदेवतायजने तन्मध्यगतदेवतान्तरपरिग्रहस्सिध्यति ।
वचनबलादुभयतः परिग्रहेण सर्वदेवतापरिग्रह इति चेत्तर्हि वचनबलादग्नावैष्णवयजनेन सर्वदेवता ग्राह्य इत्येतावांश्च ।
तत्र च यथा शूर्पेण जुहोति तेन ह्यन्नं क्रियत” इत्यत्र शूर्पस्यान्नकरणत्वकीर्तनं स्तावकतया न तस्य होमसाधनतोपयोगितया, तथाऽग्नावैष्णवयोरवमत्वपरमत्वकीर्तनमिह स्तावकतया न देवतान्तरपरिग्रहोपाधिकतयोपपद्यत इति न कश्चिद्विरोधः ।
वस्तुतोऽत्रावमपरमशब्दौ न निकर्षोत्कर्षपरौ, “अग्निरग्रे प्रथमो देवतानां संयातानामुत्तमो विष्णरासी” दितिमन्त्रे
[[३६३]]
दीक्षिणीयाया देवतापरिग्रहार्थत्वप्रतिपादक एव, प्रथमोत्तमशब्दाभ्यां तथा स्फुटीकरणात् ।
तत्र चोत्तमशब्दस्य “त्रिः प्रथमामन्वाह त्रिरुत्तमा"मित्यत्रेव प्रथमशब्दसमभिव्याहारात्प्राथम्यप्रतिकोटिभूतपश्चात्परत्वात् ।
अग्निरेतु प्रथमो देवतानां, अग्निर्मुखा वै देवा” इत्याद्यनेकमन्त्रब्राह्मणेष्वग्नेः प्राथम्यप्रतिपादनेनावमशब्दस्य तात्पर्यावसानावश्यं भावाच्च ।
तस्मात्परमशब्दस्य पाश्चात्यपरत्वात् ।
तावतैव वक्ष्यमाणदेवतापरिग्रहासम्भवेनार्थवादत्वस्य सिद्धत्वात्, विष्णोः पाश्चात्यदेवतात्वेऽपि परमशिवस्य परमकारणत्वेन विरोधाभावात्परमशिवस्यैव परब्रह्मत्वमिति सिद्धान्तः ॥
ननु “जन्माद्यस्य यत” इति जगज्जन्मादिकारणत्वं ब्रह्मलक्षणं सूत्रितवतो ब्रह्ममीमांसासूत्रकृतस्तात्पर्यं नारायण एव पर्यवस्यतीति नारायणस्यैव जगत्कारणत्वं युक्तम् ।
तथाच “असृजत्सलिलं पूर्वं स तु नारायणः प्रभुः ।
ततस्तु भगवानद्भ्यो ब्रह्माणमसृजत्स्वयम् ॥” इत्यादि नारायणस्यैव जगत्कारणत्वं लक्षणानुरोधादिति पूर्वपक्षः ॥
सिद्धान्तस्तु-ब्रह्ममीमांसासूत्रकृता भगवता बादरायणेन स्वाभिमतपरब्रह्मख्यापनार्थं प्रवृत्ते महाभारते भीष्मपर्वणि सभापर्वणि च शिवस्यैव सर्वजगत्कारणत्वेन परब्रह्मत्वं कण्ठरवेण प्रतिपादितम् ।
तथाहि-
यत्र भूतपतिः सृष्टा सर्वलोकान्सनातनः ।
उपास्यते तिग्मतेजावृतो भूतैः सहस्रशः ॥
इत्यादि मैनाकवर्णनवचनैः, “ईश्वरश्चेतनः कर्ता” इति शान्तिपर्ववचनैः,
स एष भगवानीशः सर्वतत्त्वादिरव्ययः ।
सर्वतत्त्वविधानज्ञः प्रधानपुरुषेश्वरः ॥
[[३६४]]
सोऽसृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसम्भवम् ।
वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः ॥
युगान्ते चैव सम्प्राप्ते रुद्रं प्रभुमथासृजत् ।
इत्यद्यानुशासनिकवचनैः,
अहं ब्रह्मा कपिलोऽथाप्यनन्तः पुरा सर्वे ब्रह्मणश्चातिवीराः ।
त्वत्तः सर्वे देवदेवप्रसूताः सर्वेशस्त्वं कारणात्मा त्वमीड्य ॥
इति कृष्णकृतशिवस्तोत्रमध्यगतहरिवंशवचनैश्च, शिवस्यैव सर्वकारणत्वेन “जन्माद्यस्य यत” इत्यधिकरणसिद्धं ब्रह्मलक्षणमाविष्कृतम् ।
तस्मात्परमशिव एव परमकारणं क्वचिछ्रुतिपुराणभारतेषु नारायणस्य परमकारणत्वोपवर्णनन्तु परमशिवाभेदेन कृष्णाद्यवतारा नारायणस्यैवेति प्राञ्चः ॥
वयन्तु ब्रूमः- परमशिवान्नारायणोऽयं भिन्न एव, तस्मिन्परब्रह्मधर्मकथनञ्चेत्थमुपपद्यते ।
तदुक्तं सुदर्शनाचार्यैः-
आत्मोच्यते परमसौ परमञ्च तत्त्वं ज्योतिः परञ्च परमेश्वरपद्मनाभः ।
तद्भावनैकरसिकस्त्वदनन्यभावा- न्मन्त्री यथा गरुडभावनया गरुत्मान् ॥
इति ॥
नच वैपरीत्येन नारायणस्यैव परमकारणत्वेन शिवस्यैव नारायणभावनासिद्धं परमकारणत्वोपवर्णनमिति शङ्क्यम्, जगत्कारणे तत्तद्देवताविषयविरुद्धानेकविशेषश्रवणेन कस्य जगत्कारणत्वमिति विशये देवताविशेषनिश्चयैदम्पर्येण प्रवृत्तश्रुत्यनुरोधेनैव तन्निर्णयो युक्तः, अनन्यपरश्रुतेः प्राबल्यात् ।
अत एव पौर्णमास्यामाग्नेयाग्निष्टोमयोः क्रमेणानुष्ठानेऽपेक्षिते श्रुतिक्रमेऽनुष्ठेयार्थस्मृत्येकप्रयोजनमन्त्रपाठक्रम एव नियामकः, न तद्विरोधिविधानेन चरितार्थ-
[[३६५]]
योर्ब्राह्मणयोः पाठक्रम इति “मन्त्रतस्तु विरोधे स्या"दिति पञ्चमाधिकरणे निर्णीतं, तथासति प्रकृतेऽपि सुबालाद्युपनिषत्सु सृष्टिप्रकरणेषु स्रष्टृसद्भावस्रष्टव्यपदार्थजातक्रमादिप्रतिपादनेन चरितार्थेषु तत्तद्देवताविशेषवाचकश्रुतिबलाद्देवतान्तरस्य कारणत्वप्रतीतावपि श्रुत्यन्तरप्रतिपादितं स्रष्टृसद्भावादिकं सिद्धं कृत्वा स्रष्टृब्रह्मणो देवताविशेषरूपेण निष्कर्षार्थं प्रवृत्तायां मन्त्रोपनिषदि हरशिवादिशब्दितस्य परमशिवस्य जगज्जन्मादिकारणत्वप्रतिपादनस्य प्रबलत्वात्परमशिवस्यैव जगत्कारणत्वेन परब्रह्मभावनिर्णयो व्यवतिष्ठते ।
एतेन सृष्टिप्रकरणेषु नारायणपदप्रयोगो बलवानिति परेषामभिमानो गलितः ।
नच तत्र तत्र सृष्टिप्रकरणे नारायणपदाभ्यासो बलीयानिति वाच्यं, सृष्टिप्रकरणेषु बहुशोऽभ्यस्तस्यापि नारायणशब्दस्य नारायणविषयकप्राणाकाशाक्षरादिशब्दवत्सम्भवात्, अनन्यपरश्रुतिविरोधे दुर्बलत्वात् ।
किञ्चाथर्वशिखायां “ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्त” इत्यादिना ब्रह्मादीनां परमशिवस्य च कार्यकारणभावेन विशेषप्रतिपादनेन वैपरीत्यशङ्काविरोधात् ।
नहि नारायणस्य जनिश्रवणात्कार्यकोटौ निक्षिप्य परमशिवस्य जगत्कारणत्वप्रतिपादनं नारायणविषय- तया योजयितुं शक्यम् ।
नच “ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्त” इति ब्रह्मरुद्रमध्यपठितो विष्णुशब्दस्तदवतारभूतरामकृष्णादिप्रतिपादक इति वाच्यं, प्रमाणाभावात् ।
किञ्च “यदा तम” इति मन्त्रोऽपि साक्षात्कारणवाक्यानां शिवविषयत्वं दर्शयन् सुबालोपनिषदादिषु नारायणकारणत्वप्रतिपादनस्यापि शिवविषयत्वं स्पष्टीकरोति ।
अत एव कृष्णस्य बहुधा सर्वकारणत्वं प्रतिपादयन्त्या भगवद्गीतायाः शिवपरत्वं कूर्मपुराणे पार्थं प्रति प्रतिपादितम्-
ज्ञानं तदैश्वरं दिव्यं यथावद्विदितं त्वया ।
स्वयमेव हृषीकेशः प्रीत्योवाच सनातनम् ॥
[[३६६]]
गच्छ गच्छ स्वकं स्थानं न शोकं कर्तुमर्हसि ।
भजस्व परया भक्त्या शरण्यशरणं शिवम् ॥
इति ॥
तस्यैश्वरं ज्ञानं वर्णयद्व्यासवचनं तत्रैवेश्वरगीतान्ते- ङारायणोऽपि भगवान्देवकीतनयो हरिः ।
अर्जुनाय स्वयं साक्षाद्दत्तवानिदमुत्तम् ॥” इति तामीश्वरगीतार्थनिबन्धनरूपामुपवर्णयद्व्यासवचनं स्पष्टीकरोति-
सर्वकारणमीशानः शिवः सत्यादिलक्षणः ।
न विष्णुर्न विरिञ्चिश्च न चेन्द्रो नापरः पुमान् ॥
श्रुतयश्च पुराणानि भारतादीनि सत्तमाः ।
शिवमेव सदा साम्बं हृदि कृत्वा ब्रुवन्ति हि ॥
इत्यादि ।
पराशरोपपुराणपर्यालोचनया स्मृतिपुराणादिषु देवतान्तरमधिकृत्य कारणत्ववादानां सर्वेषामपि शिवविषयर्त्वे स्पष्टीकरोति, तस्माद्देवतान्तरकारणत्वप्रतिपादकवाक्यानामेव परमशिवे पर्यवसानम् ।
नतु शिवस्य कारणत्वप्रतिपादकानामन्यत्र नारायणादौ पर्यवसानमिति शिवस्यैव सर्वजगत्कारणत्वेन परब्रह्मभावे भगवद्बादरायणस्य सूत्रकृतस्तात्पर्यमिति सिद्धान्तः ॥
ननु मानवीयधर्मशास्त्रोपक्रमे “आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतर्क्यमनिर्देश्यं प्रसुप्तमिव सर्वतः ॥
ततः स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम् ।
महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः ॥
सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः ।
अप एव ससर्जादौ तासुवीर्यमपासृजत् ॥
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ॥
तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥” इत्याद्यारभ्य, “आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यदस्यायनं प्रोक्तं तेन नारायणः स्मृतः ॥” इति वचनेन पितामहस्यापि जनके सकलजग-
[[३६७]]
त्कारणे परमपुरुषे नारायणनामनिरुक्त्या नारायणस्य जगत्कारणत्वप्रतिपादनात्तस्यैव जगत्कारणत्वं युक्तमिति पूर्वपक्षः ॥
सिद्धान्तस्तु- प्रादुरासीस्तमोनुद इति वचने तमोनुद इति क्विप्प्रत्ययान्तोऽयं पञ्चम्यन्तः शब्दः प्रादुरासीदित्युक्ते कस्मादिति जनिकर्तृपुरुषान्तराकाङ्क्षायां तदनुरोधेन तमः प्रेरणायाधिष्ठातुः परमशिवात्ततः शब्दोदिते प्रलयानन्तरकाले नारायणस्य प्रथमं प्रादुर्भावोक्त्या शिवस्यैव जगत्कारणत्वे पर्यवसानात् ।
नच “इगुपधज्ञापीकिरः क” इतीगुपधलक्षणे कप्रत्यये कृते तमोनुद इति प्रथमान्तपदमकारान्तं प्रादुर्भवितृनारायणविशेषणमिति वाच्यं, पश्चात्प्रादुर्भवितुर्नारायणस्य प्रादुर्भावात्पूर्वं सिद्धस्य तमसोऽधिष्ठातृत्वाऽयोगात् ।
तस्मात्तमोनुदः परमशिवान्नारायणः प्रादुरासीदिति परमशिवस्य नारायणजनकत्वे मनोस्तात्पर्यमवसीयते ।
अत एव मानवीयधर्मशास्त्रोपसंहारदशायां वचनानि- “प्रशासितारं सर्वेषामणीयांसमणोरपि ।
रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् ॥” इति परमपुरुषं निर्धार्य, “एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः ।
जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रव"दिति वचनप्रतिपादितेन “मूर्तयस्तस्य विख्याताः पञ्चब्रह्माह्वयाः पराः ।
सर्वलोकशरण्यस्य शिवस्य परमात्मनः ॥” इत्यादित्यपुराणवचनानुसारिसद्योजातादिमूर्तिपञ्चकेन वा मूर्त्यष्टकान्त- र्गतपृथिव्यादिपञ्चकेन वा सकलप्राणिजातव्याप्तलिङ्गस्योपनिबन्धनात्, शिवस्यैव परभावे मनोस्तात्पर्यवसानाच्च ।
अत एव धर्मशास्त्रकारमूर्धन्यो योगियाज्ञवल्क्योऽपि- “पृथिव्यां वायुमारोप्य लकारेण समन्वितम् ।
ध्यायंश्चतुर्भुजाकारं ब्रह्माणं परमेष्ठिनम् ॥
धारयेत्पञ्चघटिका धारणात्सिद्धिमाप्नुयात् ।
वारुणे वायुमारोप्य नकारेण समन्वितम् ॥
शुद्धस्फटिकसङ्काशं पीतवाससमच्युतम् ।
धारयेत्पञ्चघटिकाः सर्वपापैः प्रमुच्यते ॥
वह्नौ चानिलमारोप्य रेफाक्षरसमन्वितम् ।
त्यक्तञ्च वरदं रुद्रं तरुणादित्यसन्निभम् ॥” इत्यादिना, “आकाशे वायुमारोप्य हकारेण समन्वितम् ।
[[३६८]]
बिन्दुरूपं महादेवं व्योमाकारं सदाशिवम् ॥
शुद्धस्फटिकसङ्काशं बालेन्दुकृतशेखरम् ।
पञ्चवक्त्रधरं सौम्यं दशबाहुं त्रिलोचनम् ॥
सर्वायुधोद्योतिकरं सर्वभूषणभूषितम् ।
उमार्धदेहं वरदं सर्वकारणकारणम् ॥
चिन्तयंश्चित्तविन्यस्तं मुहूर्तमपि धारयेत् ।
स एव मुक्त इत्युक्तः त्रिषु लोकेषु शिक्षितैः ॥” इति ब्रह्मादीनां परमशिवपर्यन्तानां धारणमुपवर्ण्य प्रतिपादितम् ।
“एतदुक्तं भवत्यत्र गार्गि ब्रह्मविदां वरे ।
ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे ॥
युक्तचित्तस्तदात्मानं योजयेत्परमेश्वरे ।” इति परमशिवस्यैव सर्वकारणत्वं प्रतिपादितवानिति शिवस्यैव जगत्कारणत्वं सिद्धमिति सिद्धान्तः ॥
ननु विष्णुपदी गङ्गा शिवेन धृता ।
तदाहुः-
आदावादिपितामहस्य नियमव्यापारपात्रे जलं पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् ।
भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ॥
इति, विष्णुपदी गङ्गा क्वचिदूर्ध्वप्रसारितत्रिविक्रमचरणाम्बुजसङ्क्षालनार्थं सत्यलोकस्थितब्रह्मकमण्डलुविसृतजलरूपाऽभिधीयते ।
क्वचित्तु विष्णुचरणनिर्भिन्नोर्ध्वाण्डछिद्रविसृतबहिर्जलरूपा वर्ण्यते ।
वामनपुराणेऽपि-
विष्ण्वङ्घ्रिणा प्रसरता कटाह भेदितेऽम्बरात् ।
कुटिला विष्णुपादान्तात्पपात कुटिला ततः ॥
लोके विष्णुपदीत्येवं नाम्ना ख्यातिरभून्मुने ॥
इति ॥
महाभारते सभापर्वणि-
तच्छिद्रात्स्यन्दिता तत्र पादभ्रष्टाऽथ निम्नगा ।
संसार सागरं साशू पावनी सागराङ्गना ॥
इति ॥
[[३६९]]
कूर्मपुराणे तु- “अथाण्डभेदादपतच्च शीतलं महाजलं पुण्यकृदोघजुष्ट"मित्युपवर्णितम् ।
विष्णुपुराणेऽपि-
ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः ।
एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ॥
इत्युपक्रम्योक्तम्- “ततः प्रवहति ब्रह्मन्सर्वपापहरा सरित् ।
गङ्गा देवाङ्गनाऽङ्गानामनुरञ्जनपिञ्जरा ॥
विष्णुपादविनिष्क्रान्ता प्लावयन्तीन्दुमण्डलम् ।
समन्ताद्ब्रह्मणः पुर्यां गङ्गा पतति वै दिवः ।
वामपादाम्बुजाङ्गुष्ठनखस्रोतो विनिर्गता ॥
विष्णोर्बिभर्ति यां भक्त्या शिरसाऽहर्निशं ध्रुवम् ।
ततः सप्तर्षयो यस्याः प्राणायामपरायणाः ॥
तिष्ठन्ति वीचिमालाभिरुह्यमानजटान्तराः ।
वार्यौघसन्ततेर्यस्याः प्लावितं शशिमण्डलम् ॥
भूयोऽधिकतरां कान्तिं वहत्येतदनुक्षपम् ।
मेरुपृष्ठे पतित्वोच्चैर्निष्क्रान्ता शशिमण्डलात् ।
जगतः पावनार्थाय या प्रयाति चतुर्दिशि ।
सीता चालकनन्दा च चक्षुर्भद्रा च संस्थिता ॥
एकैव या चतुर्भेददिग्भेदगतिलक्षणा ।
भेदं चालकनन्दाख्यं यस्याः शर्वोऽपि दक्षिणम् ॥
दधार शिरसा प्रीत्या वर्षाणामधिकं शतम् ।
शम्भोर्जटाकलापाच्च विनिष्क्रान्तास्थिशर्कराः ।
पावयित्वा दिवं निन्ये या पापान्सगरात्मजान् ॥
इति ॥
मार्कण्डेय पुराणेऽपि-
ध्रुवाधारं जगद्योनेः पदं नारायणस्य यत् ।
ततः प्रवृत्ता या देवी गङ्गा त्रिपथगामिनी ॥
सा प्रविश्य सुधायोनिं सोममाधारमम्भसाम् ।
संवर्तमानार्करश्मिसन्ततिं लोकपावनीम् ॥
पपात मेरुपृष्ठे च सा चतुर्धा ततो ययौ ।
इत्युपक्रम्य, सीतायाः पूर्वसमुद्रप्राप्तिमुक्त्वा,
[[३७०]]
तथैवालकनन्दाख्या दक्षिणाद्गन्धमादनात् ।
मेरुपादवनं गत्वा नन्दनं देवनन्दनम् ॥
मानसञ्च महावेगात्पावयित्वा सरोवरम् ।
मानसाच्छैलराजात्तु रम्याद्रिशिखरं गता ॥
तस्माच्च पर्वतान्सर्वान्दक्षिणे यत्र मोदिता ।
तान्पावयित्वा सम्प्राप्ता हिमवन्तं महागिरिम् ॥
दधार तत्र तां शम्भुर्मुमोच वृषभध्वजः ।
भगीरथेनोपवासैः स्तुत्याचाराधितो विभुः ॥
तत्र मुक्त्वा च शर्वेण सप्तधा लवणोदधिम् ।
प्रविवेश त्रिधा प्राच्यां सा तदा तु महानिति ॥
भगीरथस्यानुरथं स्रोतसैकेन दक्षिणन् ॥
इत्याद्युपवर्णितम् ॥
स्कान्दे केदारखण्डे-
सङ्कल्पेनैव ववृधे वामनो भगवानजः ।
पादैकेन मही व्याप्ता विष्णुना प्रभुविष्णुना ॥
स स्वर्गोऽपि द्वितीयेन व्याप्तस्तेन महात्मना ।
सत्यलोकस्थितेनैव अम्भसाचावने जने ॥
तत्पादसम्पर्कजलाच्च जाता पापापहा मङ्गलमङ्गला च ।
यया त्रिलोकी च कृता पवित्रा यया च सर्वे सगराः समृद्धाः ॥
यया कपर्दः परिपूरितश्च शम्भोस्तदानीञ्च भगीरथेन ॥
इति ॥
[[३७१]]
महाभारते- “विष्णोः पादाच्छिंशुमाराद्ध्रुवाच्च सोमात्सूर्यान्मेरुरूपाच्च विष्णोः ।
समागता शिवमूर्ध्नो हिमाद्रि” मित्याद्युपवर्णितम् ।
तस्माद्गङ्गाधारणं शिवस्यापकर्षहेतुरिति पञ्चषाक्षरश्रवणपरितुष्टानां कूपमण्डूकवत्प्रलपतां बालिशानां वादः ॥
सिद्धान्तस्तु- गङ्गाधारणन्तावदनन्यसाध्यमिति महाभारते भगीरथं प्रति गङ्गावचनेनावगतम्- “करिष्यामि महाभाग वचस्ते नात्र संशयः ।
वेगन्तु मम दुर्धार्यं पतन्त्या गगनाद्द्रुतम् ॥
न क्षमस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप ।
अन्यस्तु विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात् ॥” इत्यादिना ॥
रामायणेऽपि भगीरथं प्रति ब्रह्मवचनेनावगतम्- “गङ्गायाः पतनं राजन् पृथिवी न सहिष्यते ।
तां वै धारयितुं वीर नान्यं पश्यामि शूलिनः ॥” इति ॥
भागवते तु- “कोऽपि धारयितुं वेगं पतन्त्या मे महीतले ।
न चेद्भूमितलं भित्वा नृप यास्ये रसातलम् ॥” इति पृष्टवतीं गङ्गाम्प्रति भगीरथवचनेनैवावगतम्- “धारयेद्भगवतो वेगं रुद्रस्त्वात्मा शरीरिणाम् ।
यस्मिन्नोतमिदं प्रोतं विश्वं शाटीव तन्तुषु ॥” इति ॥
इदञ्च गङ्गाधारणं न केवलं भगीरथपितामहोत्तरणार्थं, किन्तु गङ्गावेगाद्भूदावणपरिहारेण जगत्संरक्षणार्थमपि ।
सर्वोपकारकस्यागस्त्यनिपीतस्य समुद्रस्य परिपूरणार्थमित्यभिधीयते ।
तत्र ह्यारण्यपर्वण्यगस्त्यनिपीतस्य लोकपावनतया सर्वोपकारस्य समुद्रस्य परिपूरणोपायं चिन्तयता ब्रह्मणा भगीरथः स्वपितामहोत्तारणाय गङ्गामानेष्यति तया च समुद्रस्य परिपूरणं भविष्यति विगतज्वराश्च देहिनो भवन्त्युक्तमिति प्रपञ्चितम् ।
एवमनन्यसाध्यं गङ्गाधारणं जगत्संरक्षणार्थं शिवेन कृतं, नतु स्वस्यापि गङ्गापावनीति तद्धारणं कृतम् ।
एवं लोकोपकारार्थं शिवेन कृतगङ्गाधारणमपि यदि विष्णुपद्या स्यात्तदा “यत्पादनिस्सृतसरित्प्रसरोदकेन तीर्थेन मूर्ध्नि विधृतेन शिवः शिवोऽभूत् ।
विष्णुपादविनिष्क्रान्ता प्लावयन्तीन्दुमण्डलम् ।” इत्यादिवचनानामवकाशः स्यात् ।
इदन्तु धारणं भगीरथ-
[[३७२]]
प्रसादितायाश्चतुर्मुखलोकस्थिताया हैमवत्या गङ्गाया इति विवेकः ।
तदुक्तम्-
गङ्गाऽपि नैव भवता गजचर्मधारि- न्मूर्ध्ना धृता मधुरिपोश्चरणात्क्षरन्ती ।
किन्तु प्रसादनपराय भगीरथाय दत्वा वरं शतधृतेः सदनात्क्षरन्ती ॥
इति ॥
इदमत्राकृतम्- द्विविधा गङ्गा, एका हिमवतः कन्या ब्रह्मलोके प्रवहन्ती केनचिदंशेन ब्रह्मलोकाद्भूलोकं भगीरथेनानीता, अन्या तूर्ध्वप्रसारित्रिविक्रमरूपभगवच्चरणप्रभवा सत्यधः पतन्ती केनचिदंशेन व्योम्नि स्थिता देवानामुपयोगिन्यंशान्तरेण मेरोरुपरि ब्रह्मपुर्याश्च तिसृषु दिक्षु प्रवहन्त्यनिलेन चतुर्धा विभक्ता निपतन्ती प्राच्यादिसमुद्रान्प्रविष्टा ।
तथाहि- वामनपुराणे-
श्वेताङ्गी पद्मपत्राक्षी नीलकुञ्चितमूर्धजा ।
श्वेतमाल्याम्बरधरा कुटिला नामजापरा ॥
इति ॥
उमाया जेष्ठां हिमवत्सुतां प्रस्तुत्योक्तम्-
दिवाकरैश्च रुद्रैश्च वसुभिश्च तपस्विनी ।
कुटिला ब्रह्मलोकन्तु नीता शशिकरप्रभा ॥
अथोचुर्देवताः सर्वाः किं न्वियं जनयिष्यति ।
पुत्रं तारकहन्तारं ब्रह्मन्व्याख्यातुमर्हसि ॥
ततोऽब्रवीत्सुरपतिर्नेयं शक्ता तपस्विनी ।
शार्वं धारयितुं तेजो वराकीमुच्यतामियम् ॥
ततस्तु कुटिला क्रुद्धा ब्रह्माणं प्राह नारद ।
यथा यतिष्ये भगवन् यथा शार्वं दुरुद्धरम् ॥
[[३७३]]
धारयिष्याम्यहं तेजस्तथैव शृणु सत्तम ।
तपसाऽहं सुतप्तेन समाराध्य जनार्दनम् ॥
यथा हरस्य तद्वीर्यं धारयिष्ये पितामह ।
तथा देव करिष्यामि सत्यं सत्यं मयोदितम् ॥
ततः पितामहः क्रुद्धः कुटिलामतिदारुणाम् ।
भगवानादिशद्ब्रह्मा सर्वेशः स महामुने ॥
यस्मान्मद्वचने पापे न स्थितं कुटिले त्वया ।
तस्मान्मच्छापनिर्दग्धा त्वमद्यैव भविष्यसि ॥
इत्येवं ब्रह्मणा शप्ता हिमवद्दुहिता मुने ।
अम्भोमयी ब्रह्मलोकं प्लावयामास वेगिनी ॥
तामुत्थितजलां दृष्ट्वा बबन्ध प्रपिताप्रहः ।
ऋक्सामाऽथर्वयजुषां वाङ्मयैर्बन्धनैर्दृढम् ॥
सा बद्धा संस्थिता ब्रह्मन् तथैव गिरिकन्यका ।
अम्भोमयी प्लावयन्ती ब्रह्मणो विमला जटाः ॥
इति ॥
अत्र गङ्गैव कुटिलेति नामान्तरेणोक्ता, “एते वै शैलराजस्य सुते लोकनमस्कृते ।
गङ्गा च सरितां श्रेष्ठा उमादेवी च राघव ॥” इति रामायणे हिमवत्सुतायामुमाजेष्ठायां कुटिलापदस्थाने गङ्गापददर्शनात् ॥
अथ जेष्ठां सुरास्सर्वे देवतार्थे चिकीर्षया ।
शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम् ।
ददौ धर्मेण हिमवांस्तनयां लोकपावनीम् ।
स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥
[[३७४]]
प्रतिगृह्य ततो देवास्त्रैलोक्यहितकारकाः ।
गङ्गामादाय वै याताः कृतार्थेनान्तरात्मना ॥
इत्युदाहृतकुटिलावृत्तान्तस्य गङ्गायामेव रामायणे सङ्क्षिप्य प्रतिपादनाच्च ।
एवं तावदाद्या हैमवती गङ्गा ब्रह्मशापादसिद्धित्वं प्राप्ता भगीरथभक्त्यनुरोधाद्भुवं प्राप्ता सती त्रिपथगा जातेति सप्रमाणमुपवर्णितम् ।
अन्या तु विष्णुपदी गङ्गा क्वचिदूर्ध्वप्रसारितत्रिविक्रमचरणाम्बुजसङ्क्षालनार्थं सत्यलोकस्थितब्रह्मकमण्डलुनिसृतजल रूपेति गङ्गाद्वयस्य सिद्धत्वेन शिवशिरसि स्थिता गङ्गा भिन्नेति नोक्तबालि शशङ्कावकाशः ॥
नन्वस्त्वेवमेतत्तथापि विष्णुपदीनिर्गमनसमये तन्मार्गस्थिता हैमवती तया मिश्रिताऽभूत्, अतः पावनीति शिवेन मृर्ध्ना धृतेति शङ्कां हैमवत्याः शिवमूर्ध्नि सम्बन्धादेव पावनत्वप्रतिपादनेन निरसनं कृतं रामायणे विश्वामित्रवचनैः-
आकाशादपतद्राम शिवे शिवशिरस्युत ।
अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा ॥
विशाम्यहं हि पातालं स्रोतसा गृह्य शङ्करम् ।
तस्यावलेपनं ज्ञात्वा क्रुद्धः स भगवान् हरः ॥
तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा ।
सा तस्मिन्पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि ॥
तत्र देवर्षिगन्धर्ववसुधातलवासिनः ।
भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः ॥
इति ॥
अत्र शिवे शिवशिरस्युत, पुण्ये रुद्रस्य मूर्धनीति शिवपुण्यशब्दाभ्यां शिवमौलेः परममङ्गलत्वं परमपवित्रत्वञ्चोक्तमिति शिवस्यैव सकलदेवतापारम्यमवगम्यत इति सिद्धान्तः ॥
[[३७५]]
ननु सवितृमण्डलमध्यवर्तिन एव गायत्रीप्रतिपाद्यत्वेन सर्वोपास्यत्वस्य श्रुतिस्मृतिपुराणादिषु प्रतिपादितत्वात्तत्प्रतिपाद्यो नारायण एव ।
तथाहि- “अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः ।
तस्या यथा कप्यासं पुण्डरीकं, एवमक्षिणी” इत्यादिश्रुत्याऽऽदित्यमण्डलान्तर्वर्तिन एवोपास्यत्वेन विधानात् ।
तत्रोपास्यो विष्णुरेव, नतु शिवः ।
पुण्डरीकाक्षवचनस्य रूढ्या योगेन च नारायणपरत्वात् ।
अक्षिणी इति द्विवचनस्वारस्यान्नारायणपरत्वमेव, नतु शिवपरत्वं तस्य त्रिनेत्रत्वप्रसिद्धेः ।
अपि च पुरुषशब्दस्य “पुरु सञ्ज्ञे शरीरेऽस्मिन् शयनात्पुरुषो हरिः ।
शकारस्य षकारोऽयं व्यत्ययेन प्रयुज्यते ॥
भगवानिति शब्दोऽयं ततः पुरुष इत्यपि ।
निरुपाधि च वर्तते वासुदेवे सनातने” इति नारायणपरत्वेन निर्णीतोपबृंहणानुसारेण विष्णोरेवादित्यमण्डलान्तर्वर्तित्वेनोपास्यत्वम् ।
अत एव गायत्रीप्रतिपाद्यत्वमपि तस्यैवोपपद्यते ।
अत एव “ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान्मकरकुण्डलवान्किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः” इत्यपि सङ्गच्छते ।
नचादित्यमण्डलमध्यवर्त्युपास्यमस्तु, तच्च मण्डलाभिमानिसूर्यरूपदेवता भवतु किं विष्णुपरत्वेनेति वाच्यं, आदित्यशब्दस्य मण्डलाभिमानिदेवतावाचकत्वेन कोशादिष्वसिद्धत्वात्, प्रथमान्तशब्दानां तद्व्यतिरिक्तार्थपरत्वेन स्वरसतः प्रतीयमानत्वान्नसूर्यपरत्वम् ।
न चादित्यशब्दस्य मण्डलाभिमानिवाचकस्य तदेकदेशे मण्डले “पुरोडाशकपालेन तुषानुपवपती"त्यत्रेवैकदेशलक्षणामङ्गीकृत्य प्रथमान्तशब्दानां तदभिमानिदेवतापरत्वमङ्गीक्रियतामिति वाच्यं, मुख्याऽर्थे सम्भवति सति लक्षणाया अन्याय्यत्वात् ।
किञ्चान्तर्यामिब्राह्मणे “य आदित्ये तिष्ठान्नादित्यमन्तरो यमयति ।
यमादित्यो न वेदे” त्यादित्यशब्दस्य मण्डलाभिमानिजीववाचकत्व उपास्यवस्तुनस्तद्भिन्नत्वैतस्याः श्रुतेरेव प्रमाणत्वात्कथं सूर्यपरत्वं, तस्मात्सूर्य-
[[३७६]]
मण्डलमध्यवर्तिसूर्योपास्यो नारायण एवेति तस्यैव गायत्रीप्रतिपाद्यत्वेन सर्वोत्तमत्वमिति पूर्वपक्षः ॥
सिद्धान्तस्तु- “असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ।
असौ योऽवसर्पति नीलग्रीवो विलोहितः” इति द्वाभ्यामृग्भ्यामादित्यमण्डलान्तर्वर्तित्वेन नीलग्रीवशब्दवाच्यस्य शिवस्यैव प्रतिपादनात् ।
अतो “य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यत” इति श्रुतेरप्यसौ यस्ताम्र इति श्रुतिप्रत्यभिज्ञानवशेन शिवपरत्वमेव ॥
किञ्च नीलग्रीवशब्दश्रवणवन्नारायणादिशब्दानां कोशादिप्रसिद्धानां तत्राश्रवणात्कथं नारायणपरत्वेन निर्णीयते ।
न चाक्षिणी इति द्विवचनानुपपत्तिरिति वाच्यं, नहि द्विवचनं द्वित्वमात्रप्रतिपादकं तृतीयमक्षि नास्तीति प्रतिपादयितुं शक्नोति ।
नहि देवदत्तस्य द्वौ पुत्रौ धार्मिकावित्यत्र तृतीयः पुत्रो नास्तीति निश्चेतुं शक्यते, परन्तु तृतीयः पुत्रोऽधार्मिक इति निश्चयं जनयितुमलं भवति ।
तद्वदत्रापि परमेश्वरस्याक्षिद्वयं पुण्डरीकसदृशं, तृतीयन्तु वह्निज्वालामालाकुलमिति निर्णयो भवति द्विवचनेन ।
तस्माच्छिवपरत्वे न किञ्चिदपि बाधकम् ॥
यदुक्तं पुरुषशब्दस्य नारायणपरत्वाच्छिवस्य कथमुपास्यत्वं सम्भवतीति तदत्यन्तासङ्गतम् ।
तथाहि- “ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
पुरुषस्य विद्मः सहस्राक्षस्य महादेवस्य धीमहे"ति श्रुतिभ्यां, तत्पुरुषाय विद्महे” इति पञ्चब्रह्ममन्त्रान्तर्गतमन्त्रेण, “पुरुषो वै रुद्रस्सन्महों नमो नम” इति त्वरितरुद्रेण, “अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठञ्च समाश्रितः ।
ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभृत् ।” इति तैत्तरीयमन्त्रेण, “अङ्गुष्ठमात्रः पुरुषः, ईशानो भूतभव्यस्य स एवाद्यस्य ईश्वर” इति कठवल्लीमन्त्रेण च पुरुषशब्दस्य शिवपरत्वेन नामधेयेऽप्येकजीवातुसामानाधिकरण्यन्यायेन शिवपरत्वेन निर्णयात्कथं नारायणपरत्वम् ।
नच पुरुषावात्ममानवाविति कोशादात्मसामान्यमनुष्यवाचकस्य कथं शिवपरत्वं वक्तुं शक्यत इति वाच्यं, एवं सति प्राणाकाशज्योतिर्वै-
[[३७७]]
श्वानरादिशब्दानां निघण्टुकाव्यादिषु तत्तदर्थप्रतिपादकत्वेन प्रसिद्धानां परशिवे लौकिकमर्यादयाऽप्रसिद्धानां “आकाशस्तल्लिङ्गात् ।
वैश्वानरस्साधारणशब्दविशेषात् ।
ज्योतिश्चरणाभिधानात् ।
अत एव प्राणः ।” इत्यादिभगवद्बादरायणसूत्रैः परमेश्वरपरत्वेन निर्णयो न स्यात् ।
अथ शब्दार्थनिर्णये कोशवदुपक्रमोपसंहाराभ्यासानितरसाधारणलिङ्गादयोऽप्यर्थनिर्णायक् आ इति ।
अत एव “अभ्यासे सति हि भूयस्त्वमर्थस्य भवति ।
नाल्पत्वमपि प्रागेवोपचरितार्थत्व” मिति भामत्यां टीकाकारैराचार्यवाचस्पतिमिश्रैः प्रतिपादितम् ।
अत एव नात्र शब्दार्थनिर्णायक इति शब्दार्थानभिज्ञकतिपयजनसम्मोहनमात्रमिति पुरुषशब्दस्य शिवपरत्वमेव ॥
यदुक्तं पुरुसञ्ज्ञे शरीरेऽस्मिन्निति योगमहिम्ना नारायणपरत्वमिति तदप्यतिमन्दम् ।
पुरि शयं पुरुषमीक्षत इति सामान्यनिरुक्तेः पूर्वोक्तसामानाधिकरण्यादिभिः श्रुत्यैव शिवपरत्वेन निर्णीतत्वात् ॥
स्मृतिनिर्वचनस्य “विरोधेत्वनपेक्षं स्यादसतिह्यनुमान"मित्यधिकरणन्यायेन श्रुतिनिर्वचनापेक्षया दुर्बलत्वादनादरणीयत्वमेव ॥
अतेवानेकश्रुतिबलात्, “ध्येयः सदा सवितृमण्डलमध्यवर्ती"ति श्लोकस्थितनारायणशब्दस्य नारायणस्य स्त्री नारायणीत्यत्रोपाध्यायी क्षत्रियी आर्यीतिवदर्थनिर्णये नारायणशब्दवाच्यः शिव एव ।
अत एव शौरमण्डलमध्यस्थं साम्बं संसारभेषजम् ।
नीलग्रीवं विरूपाक्ष” मित्यादि पुराणवचनमपि शिवपरत्वे सङ्गच्छते ।
तस्मात्सूर्यमण्डलमध्यवर्ती परशिव एवेति गायत्रीप्रतिपाद्यत्वमपि तस्यैवेति शिवस्यैव सर्वोत्तमत्वम् ॥
नन्वादित्यमण्डलान्तर्वर्तित्वेनोपास्यत्वस्य वादेन सिद्धत्वेऽपि कथं गायत्रीप्रतिपाद्यत्वं शिवस्य ।
किन्तु नारायणस्यैवेति चेन्न, गायत्रीशब्दार्थापरिज्ञानिनामेवं शङ्कोपपद्यते ।
“यो देवस्सविताऽस्माकं धियो धर्मादगोचराः ।
प्रेरयेत्तस्य यद्भर्गस्तद्वरेण्यमुपास्महे” इत्यार्षनिरुक्तेरादित्यमण्डलान्तर्वर्तित्वेनोपास्यत्वस्य गायत्र्यर्थकत्वेन
[[३७८]]
निर्णीतत्वात्, शिवस्यैव गायत्रीप्रतिपाद्यत्वे को विवादः ? ननु नारायणस्यैव गायत्रीप्रतिपाद्यत्वम् ।
तथाहि- “ज्योतिश्चरणाभिधाना” दित्यधिकरणे ज्योतिः शब्दवाच्यं परं ब्रह्म, चरणाभिधानात्पादाभिधानादित्युक्त्वा, पादाभिधा कुत्रेत्याकाङ्क्षायां पूर्वस्मिन् खण्डे “तदेतदृचाभ्युक्तम्, तावानस्य महिमा, ततो ज्यायांश्चपुरुषः, पादोऽस्य सर्वा भूतानि” इति त्रिपादाभिधानं पूर्वं प्रतिपाद्य, “छन्दोऽभिधानान्नेति चेन्न, तथा चेतोऽर्पणनिगदात्तथाहि दर्शनम्” इति सूत्रे “गायत्री वा इदं सर्वं भूतं यदिदं किञ्च” इति गायत्र्या उपास्यत्वेन प्रतिपाद्यत्वात् ।
ज्योतिश्शब्दवाचस्य कथं परमेश्वरपरत्वमित्याक्षिप्य, गायत्रीद्वारा परमेश्वरस्यैवोपास्यत्वमिति वक्तव्ये पुरुषसूक्तमन्त्रप्रत्यभिज्ञानात्पुरुषसूक्तस्य नारायणपरत्वात्, तत्प्रत्यभिज्ञातस्य मन्त्रस्य तत्परत्वावश्यम्भावान्नारायणपरत्वं गायत्र्याः ।
किञ्च “यो देवस्सविताऽस्माक” मिति निरुक्तेः सामान्यरूपायाः शिवैकपरत्वाभावात्, छागो वा मन्त्रवर्णादिति षष्ठोपान्त्याधिकरणन्यायेन पूर्वोक्तयुक्त्युपोद्वलितेन नारायणपरत्वमेव, न शिवपरत्वेन किञ्चिल्लिङ्गवचनानि पश्यामः ।
अपिच भर्गशब्दस्य “भृञ् = भरणे, “रमु = क्रीडायां, “गमऌ = गतौ, इति धातुत्रयाद्भर्गशब्दस्य निष्पन्नत्वेन वायुपरत्वेन विष्णुरूपत्वाच्च ।
नच धातुत्रयाच्छब्दनिष्पत्तिरेव न भवतीति “भृजि = भर्जन्, इतिधातोर्निष्पन्नत्वेन संहारकारणे रुद्र एव पर्यवस्यति, नतु विष्ण्वावेवेति वाच्यं, “अदिभूभ्यां डुतजि” ति व्याकरणसूत्रसिद्ध अद = भक्षणे, भू = सत्तायामिति धातुद्वयनिष्पन्नाद्भुतशब्दवद्भर्गशब्दस्य विष्णुपरत्वोपपत्तेः ।
तस्माद्गायत्र्या विष्णुपरत्वान्नारायणः परब्रह्मेति सिद्धमिति चेदित्थमालोचनीयम्- पुरुषसूक्तप्रत्यभिज्ञानात्, “तावानस्य महिमे"ति ऋचो विष्णुपरत्वमिति यदवादि तदसङ्गतम्, पुरुषसूक्तस्य श्वेताश्वतरोपनिषदि प्रत्यभिज्ञायमानस्य शिवपरत्वेन बहुधा निर्णीतत्वेन तन्मन्त्रप्रत्यभिज्ञानेन विष्णुपरत्वाभावात् ।
तस्माद्गायत्री वा इदं सर्वमिति ब्राह्मणे प्रस्तुता गायत्री न
[[३७९]]
विष्णुपरा, किन्तु शिवपरा ।
किञ्च धीप्रेरकत्वं गायत्र्या श्रूयते ।
इदन्तु शिवस्यैवासाधारणं लिङ्गम् ।
तथाहि- “तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी"ति गायत्र्यर्थप्रत्यभिज्ञापनपुरस्सरं प्रज्ञाप्रेरकत्वं शिवस्यैव प्रतिपादयति ।
एवं मन्त्रान्तरेऽपि “हिरण्यगर्भं जनयामास पूर्वं स नो बुध्या शुभया संयुनक्तु, हिरण्यगर्भं पश्यत जायमानं स नो बुध्या शुभया संयुनक्तु, स नो देवः शुभया स्मृत्या संयुनक्तु” इत्यादिमन्त्रैः शिवस्यैव धीप्रेरकत्वमभ्यासवशेन सिद्धम् ॥
यच्चोक्तं भर्गशब्दस्य धातुत्रयनिष्पन्नत्वाद्विष्णुपरत्वमिति तदप्यत्यन्तवैय्याकरणमर्यादानभिज्ञतामूलम् ।
तथाहि- एकस्य शब्दस्य धातुत्रयनिष्पन्नत्वं व्याकरणे क्वाप्यदृष्टचरम्, अद्भुतशब्दोत्पत्तिस्तु ।
अदिति निपात उपपदे भूधातोर्डुतच्प्रत्ययविधानाद्भवतीति तस्य धातुद्वयान्निष्पत्तिरेव नास्ति ॥
किञ्च गायत्र्याः शिवपरत्व उपबृंहणवचनानि शिवरहस्ये हिमवत्खण्डे तृतीयांसे द्वितीयाध्याये-
पुरा चकार गायत्री तपो घोरतरं परम् ।
प्रीतस्तत्तपसा शम्भुस्तद्भक्त्यापरभूतया ॥
ततः परं स भगवान् भर्गः सर्गादिकारणम् ।
तामुवाचातिचतुरो घनगम्भीरया गिरा ॥
त्वया तप्तं तपो घोरं कल्पानामयुतं ध्रुवम् ।
तेन प्रीतोऽस्म्यहं देवि वरं वृणु यथेच्छया ॥
वरदेषु वरेण्योऽहं त्वदीप्सितवरप्रदः ।
किमदेयं मयाऽस्त्यत्र प्रीतोऽस्मि तपसाऽधुना ॥
इति तद्वचनं श्रुत्वा प्रणम्य भुवि दण्डवत् ।
गायत्री मूर्तिमासाद्य सानन्दाश्रुपरिप्लुता ॥
भगवन् देवदेवेश भर्ग संसारभञ्जक ।
प्रसिद्धकरुणासिन्धो वरं देहि मदीप्सितम् ॥
[[३८०]]
मन्त्रः शिवपदाभावे जपायोग्य इति श्रुतिः ।
देवस्य सवितुर्बुद्धिः प्रबोधयति शङ्करः ॥
स एव भगवान्भर्गो धियो यो नः प्रचोदयात् ।
देवस्य दीप्यमानस्य सवितुर्ज्ञानमुत्तमम् ॥
प्रचोदयति विश्वात्मा वरेण्यं शिव एव सः ।
अन्यः को वा तद्वरेण्यं सवितुर्वा प्रचोदयात् ॥
अस्माकमितरेषां वा स भर्गः शङ्करस्तु सः अस्य भर्गपदस्यैव माहात्म्यं श्रुतिषु श्रुतम् ॥
संसारभर्जनाद्भर्गस्सोऽयं स्वर्गापवर्गदः ॥
इत्याद्युपबृंहणवचनैश्च भर्गशब्दस्य शिवपरत्वमेवेति शिवस्यैव गायत्रीप्रतिपाद्यत्वं सिद्धमेवेति सिद्धान्तः ॥
अथ परमशिवस्य प्रणववाच्यत्वं प्रतिपाद्यते- “प्रजापतिर्लोकानभ्यतपत्, तेषां तप्यमानानां या विद्या सम्प्रास्रवत्तामभ्यतपत् ।
तस्या अभितप्ताया एतान्यक्षराणि सम्प्रास्रवन्त, तान्यभ्यतपत्, तेभ्योऽभितप्तेभ्य ओङ्कारः सम्प्रास्रवत्, तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णानि एवमोङ्कारेण सर्वा वाक् सन्तृण्णा ।
ओङ्कार एवेदं सर्वम्” इति सर्ववैदिकवाचां सारत्वेन सर्ववाचां लयाधारत्वेन च प्रतिपादनात्सर्ववागभ्यर्हितत्वेन प्रणवस्य सर्वोत्तरत्वात्, तद्वाच्यत्वं शिवस्येति शिव एव सर्वोत्तरः ।
“आत्मानमरणिं कृत्वा प्रणवञ्चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ॥” इति श्वेताश्वतरोपनिषदि शिवरुद्रमहेश्वरादिशब्दसामानाधिकरण्याच्छिवपरत्वेन लोकप्रसिद्धायां देवशब्देन प्रणववाच्यत्वप्रतिपादनाच्छिवस्यैव सर्वोत्तरत्वम् ॥
ननु प्रणववाच्यत्वं विष्णोरेव ।
“विष्णुं भास्वत्किरीटाङ्गदवलयगलाकल्पहारोदराङ्घ्रि श्रोणीभूषं सुवक्षोमणिमकरमहाकुण्डलामण्डिताङ्ग” मिति
[[३८१]]
प्रणवध्यानश्लोकस्य विष्णुपरत्वेनैव विद्यमानत्वात् तत्र तत्रोपनिषदि “प्रणवो धनुः शरो ह्मात्मा ब्रह्म तल्लक्ष्यमुच्यत” इत्यादिब्रह्मात्मशब्दसामानाधिकरण्यात्, “अहमात्मा गुडाकेश” इति गीतावचनेनात्मशब्दस्य प्रणववाचकस्य विष्णावपि वृत्तिसम्भवात्, ऊं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधो मत” इति ब्रह्मशब्दसामानाधिकरण्येन ऊं तत्सदिति शब्दानां नारायणः परं ब्रह्मेति परब्रह्मशब्द वाच्यस्याभिदेयत्वसम्भवात्, नारायणस्यैव प्रणवशब्दवाच्यत्वम् ।
अतेवाभियुक्तवचनमपि सम्पद्यते “चिदंशं विभुं निर्मलं निर्विकल्पं निरीहं निराकारमोङ्कारगम्यम्” इति ।
तस्मात्प्रणववाच्यत्वं विष्णोरेव ।
अत एव रामायणे “त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः प्रजापति"रिति ।
तस्माद्विष्णुरेव प्रणववाच्य इति सिद्धं सर्वोत्तरत्वमिति चेदत्रोच्यते- “यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य यः परस्स महेश्वर” इति तैत्तरीयश्रुतौ “प्रणवाद्या मुने वेदाः प्रणवे सम्प्रतिष्ठिताः ।” इति वेदाद्यन्तयोः श्रवत्यनोङ्कतं पूर्वं परस्ताच्च विशीर्यत” इति मनुवचनेनावश्यं पठ्यमानप्रणववाच्यत्वेन महेश्वरशब्दाभिधेयशिवस्यैव प्रतिपादनात्, पूर्वोदाहृतश्वेता- श्वतरमन्त्रेण च शिवस्यैव प्रणवप्रतिपाद्यत्वेन निश्चितत्वात्, सामान्याकारेण ब्रह्मात्मशब्दैस्तत्तदुपनिषदि गीतायाञ्च पठ्यमानप्रणवः शिवपर एव ।
नच तस्य प्रकृतिलीनस्येति ।
प्रकृतावाकारे लीनस्य यः परः, इदं परस्तत्पर इत्यादौ वाच्ये परपदश्रवणेन यः परो वाच्यः स महेश्वरो महानीश्वर इत्यर्थविवरणेन आकारो विष्णुवाचक इति स्मृत्युपोद्वलितेन विष्णोरेव प्रणववाच्यत्वं नतु शिवस्येति वाच्यं, एवं क्लिष्टगत्या परशब्दस्योत्कृष्टवाचकस्य कोशमर्यादया शिवपरस्य “महेश्वरस्त्र्यम्बक एव नापर” इत्यभियुक्तकालिदासोक्त्या च महेश्वरशब्दस्य शिवपरत्वे सम्भवति त्वदभिमतसिध्यर्थं वक्रमार्गानुसरणस्यात्यन्तमन्याय्यत्वात् ।
एवञ्च तस्यायमर्थः- तस्य प्रणवस्य प्रकृतावाकारे लीनस्य विष्णोः पञ्चम्यर्थे
[[३८२]]
षष्ठी, यूपस्य स्वरुं करोति यूपात्स्वरुमुपादत्त इति वत् ।
विष्णोर्यः पर उत्कृष्टः स एव महेश्वर इति श्रुतिरेव प्रणवशब्दवाच्यत्वं विष्ण्वापेक्षया चोत्कर्षञ्च वदतीति शिवस्य प्रणवशब्दवाच्यत्वेन सर्वोत्कृष्टत्वम् ।
तत्राप्यकारोकारमकारेभ्यः कार्यमूर्तिवाचकेभ्यः सर्वोत्कृष्टस्यार्धमात्राकस्य नादस्यैव गम्यः शिव इति “अर्धमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवोङ्कार” इति प्रतिपादनात्, शिव एव प्रणवशब्दवाच्यः ।
अत एव शैवपुराण उपबृंहणमपि श्रूयते-
प्रणवो वाचकस्तस्य शिवस्य परमात्मनः ।
अकारस्तु महान्बीजं रजः स्रष्टा चतुर्मुखः ॥
उकारः प्रकृतिर्योनिः सत्त्वं पालयिता हरिः ।
मकारः पुरुषो बीजं तमः संहारको हरः ॥
नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः ।
एवं त्रिसृभिरैवैतन्मात्राभिरखिलं त्रिधा ॥
अभिधाय शिवात्मानं बोधयत्यर्धमात्रया ।
शिवो वा प्रणवो ह्येषः प्रणवो वा शिवः स्मृतः ॥
वाच्यवाचकयोर्भेदो नात्यन्तं विद्यते क्वचित् ।
इति प्रणवप्रकृत्यात्मकत्वेन विष्णोर्वर्णनात्, चतुर्थार्धमात्रवाच्यत्वेन परमशिवस्य तदुत्तीर्णत्वात्सर्वोत्तरत्वम् ।
अत एव श्रीमता पुष्पदन्तेन-
त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा- नकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति ।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥
इति साधूक्तम् ।
यदुक्तमोङ्कारगम्यमिति त्वमोङ्कारः प्रजापतिरिति
[[३८३]]
विष्णुभुजङ्गरामायणादिषु तत्सर्वं प्रणवविकृतिभूताकारवाच्यविष्णुपरत्वेनास्माकमनुकूलमेवेति न कश्चिद्विरोधः ।
यदुक्तं प्रणवध्यानश्लोकस्य विष्णुपरत्वमिति प्रणववर्णाभिमानिदेवताध्यानपरत्वेनापि व्याहृतिगायत्र्यादिध्यानवत्सङ्गतत्त्वात् ।
तावता शिवस्यैव प्रणववाच्यत्वे तन्नियामकत्वमिति “प्रणवो हि परं ब्रह्म प्रणवः परमं पदम् ।
साक्षात्परशिवो योगा” दित्याद्यनेकप्रमाणपर्यालोचनया च प्रणववाच्यः शिवः एव सर्वोत्तर इति सिद्धान्तः ॥
अथ तारकविचारः- ननु काश्यां मणिकर्णिकायां मुमूर्षोः प्राणिनः “अस्य हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्ट” इति श्रुतिबोधितं मुक्त्यसाधारणकारणं तारकं किंरूपमित्याकाङ्क्षायां “मुमूर्षोर्मणिकर्णिक्यामर्धोदकनिवासिनः ।
अहं दिशामि ते मन्त्रं तारकब्रह्मसञ्ज्ञकम् ॥
श्रीरामरामरामेति ह्येतत्तारकमुच्यते ।
अतस्त्वं जानकीनाथ परब्रह्म सुनिश्चित"मिति पद्मपुराणशिवराघवसंवादवचनपर्यालोचनया, तथा श्री रामस्य मनुं काश्यां जजाप वृषभध्वजः ।
मन्वन्तरसहस्रन्तु जपहोमार्चनादिभि"रित्यादिप्रमाणैर्मुमुक्षुजनमुक्तिलक्ष्मी समधिगम्य मुख्यक्षेत्रभूतवाराणसीवासवतां कर्णालङ्कारमणिकर्णिकार्धोदकवासिमुमुक्षजनदक्षिणकर्णे परमेश्वरेणोपदिश्यमानस्य हि जन्तोरिति श्रुतिप्रतिपाद्यमानमन्त्रेणैव भगवान् रुद्रस्तारकं ब्रह्म व्याचष्ट इति ह्रस्वजाबालानुमोदितं तारकशब्दार्थस्यानिर्धारितस्य निर्धारणार्थं साक्षात्परमेश्वरेणैव परमान्तरङ्गभूतां पार्वतीं प्रति “अहं दिशाभि ते मन्त्रं तारकब्रह्मसञ्ज्ञित"मित्यारभ्य, श्रीरामरामरामेति ह्येतत्तारकमुच्यत” इति श्रुत्यर्थनिर्णायकैः पुराणवचनै राममन्त्रस्यैव तारकत्वप्रतिपादनात्, श्रीरामस्य मनुं काश्यामित्या- दिना शिवस्योपासकत्वप्रतिपादनाच्च, विष्णुरेव सर्वोत्तम इति पूर्वपक्षः ॥
सिद्धान्तस्तु- प्रणवस्यैव तारकत्वमिति प्रमाणसिद्धत्वेन तदितरमन्त्रस्य तारकत्वमर्थवादमात्रमिति प्रणवस्यैव तारकत्वं सिद्धम् ॥
[[३८४]]
तथाहि- अथर्वशिखाद्युपनिषद्वचनैस्तदनुसारिभिरभियुक्तवचनैश्च तदुपबृंहणभूतैः शिवरहस्यादिपुराणवचनैश्च प्रणवस्य वाराणस्यां मरणसमयोपदिश्यमानतारकमन्त्ररूपत्वं तद्व्यष्टिभूतपञ्चाक्षरीमन्त्रसहितस्य च तारकमन्त्ररूपत्वञ्च स्पष्टीकृतम् तथाहि-
अनिलो मृगनाभिरेणुगन्धि- र्हरवामाङ्गकुचोत्तरीयजन्मा ।
हरते मरणश्रमं जनाना- मधिकाशि प्रणवोपदेशकाले ॥
श्रीरामनामजपसीति च कर्णमूले मूढा वदन्ति न हि वेदविदो वदन्ति ।
त्वं तारकः खलु महेश्वर वेदसिद्धः काश्यां त्वमेव सततं प्रणवोपदेष्टा ॥
काश्यां वर्णयिता शिवः परतरः पञ्चाक्षरं तारकं तच्चैवं प्रणवान्वितं श्रुतिशिरोरत्नं तदित्यादरात् ।
दूर्वासादिसमस्तमौनिनिकरैः काशी समाराधिता सेयं शम्भुसमाश्रिता शिवपुरी मुक्त्यङ्गना संश्रिता ॥
इत्यादिश्रुतिपुराणाभियुक्तवचनशिवरहस्यवचनैः प्रणवशब्दस्य समष्टिरूपस्य तारकत्वेन निर्णयात्प्रणव एव तारकः, तस्य षडक्षरीरूपत्वेन षडाकृतीनां ङकारस्तारकाकारो मकारो दण्ड उच्यते ।
शिकारः कुण्डलाकारो वाकारश्चार्धचन्द्रकः ॥
यकारो दर्पणाकारः प्रणवो ज्योतिरात्मकः ।” इत्यादिवचनपर्यालोचनया प्रणवसमष्टिरूपतारकदण्डकुण्डलार्धचन्द्रदर्पणाकाराणां नकारमकारशिकारवाकारयकाराणां समष्टित्वेन प्रतिपादनात्, समष्टिव्यष्टिरूपयोः प्रणवपञ्चाक्षर्योरभेदात्प्रणववत्पञ्चाक्षर्या अपि तारकत्वं सिद्धम् ।
नच श्री
[[३८५]]
रामरामरामेति राममन्त्रस्य त्रिरुच्चरितस्य तारकत्वेनाभिहितत्वात्कथं प्रणवस्य तारकत्वमिति वाच्यं, “रमन्ते योगिनो ह्यन्ते सत्यानन्दे चिदात्मनि ।
इति रामपदेनासौ परं ब्रह्माभिधीयत” इत्युमासंहितावचनेन, रमन्ते योगिनोऽस्मिन्नित्यधिकरणार्थे करणाधिकरणयोश्चेति सूत्रेणाधिकरणार्थे घञ्विधानाच्च, मुमुक्षुयोगिजनोपास्यत्वं, तुर्याश्रमिषूपदेशस्य दृष्टत्वात्प्रणवस्यैव तद्वाचकत्वम् ।
अन्यथा दशरथकौसल्ययोरुत्पन्नस्य सीतावियोगेन साधारणमनुष्यवदत्यन्तदुःखितस्यागस्त्योपदेशमहिम्ना विरजादीक्षाद्वारा प्राप्तपाशुपतास्त्रस्य रामस्य तारकशब्दार्थत्वे बहुश्रुतिस्मृतिपुराणव्याकुलीभावप्रसङ्गात् ।
किञ्च यदि रामनाम्न एव पूर्वोक्तप्रमाणबलात्तारकत्वमङ्गीक्रियेत तदा रामस्य नारायणाभिन्नतया तन्मन्त्रोपदेशवशान्मुमूर्षूणां सर्वेषां मरणानन्तरं नारायणसारूप्यं स्यान्नतु शिवसारूप्यम् ।
किञ्च शशकोऽहं मशकोऽहं मातङ्गोऽहं पुरा मनुष्योऽहम् ।
इति जल्पन्त्यन्योन्यं काशीपुरवासिनूत्नपशुपतयः ॥
वाराणसी वासवतां जनानां साधारणे शङ्करलाच्छनेऽपि ।
पार्थप्रहारव्रणमुत्तमाङ्गे प्राचीनमीशं प्रकटीकरोति ॥” इत्यादि बहुप्रमाणविरोधः स्यात् ।
तस्मात्तारकमन्त्रः प्रणव एव तद्वाच्यः परमशिव एवेति शिवस्यैव सर्वोत्तमत्वं निर्विवादम् ॥
पाशुपत्यवरणम्- ननु शम्भुरीशः पशुपति” रित्यभिधानकोशस्मृत्या शिवासाधारणनामत्वेन प्रसिद्धः पशुपतिशब्दः ।
स च योगरूढः पङ्कजादिपदवत् ।
ततो रुढ्युन्मेषवद्यागार्थस्यापि स्फुरणात्, पशूनां पतिः पशुपतिरिति व्युत्पत्त्या योगबलात्पाशुपत्यं शिवैकनिष्ठमिति वक्तव्यम् ।
पङ्कजनिकर्तृत्वस्य तृणादिसाधारण्येऽपि कमलमात्रोद्बोधवद्योगमहिम्ना प्रतीयमानं पाशुपत्यमागन्तुकं सहजसिद्धं वेति विशये प्रमाणपर्यालोचनयाऽऽगन्तुकमेवेति तस्यागन्तुकस्य पाशुपत्यस्य स्वस्मादुत्तीर्णादवाप्यतया स्वस्य निकर्षः पाशुपत्यदातुरुत्कर्षश्च सिध्यतीति तादृशपशुपतिशब्दपर्यायाः
[[३८६]]
शम्भ्वादिशब्दा अपि सर्वोत्तीर्णवस्तुवाचकाः ।
तत्र श्रुतिः यजुष्षष्ठकाण्डे द्वितीये प्रश्ने शोऽब्रवीद्वरं वृणा अहमेव पशूनामधिपतिरसाविति तस्माद्रुद्रः पशुनामधिपति” रिति श्रुतिरेव रुद्रेण वरोवृत इति ब्रवीतीति शिवस्यागन्तुकमेवान्यप्रेरितं पाशुपत्यमिति पूर्वपक्षः ॥
सिद्धान्तस्तु- अस्य वाक्यस्य प्रवृत्तेः प्रागेव वरेण वृतेन भाव्यम्, अन्यथा सोऽब्रवीदिति भूतार्थवादानुपपत्तेः ।
अतो यत्र यत्रानादिप्रवृत्तेः पूर्वपूर्वकल्पेष्विदं वाक्यं पठ्यते, ततस्ततः पूर्वसिद्धेन पाशुपत्येन भाव्यमित्यस्मादेव वाक्यात्पाशुपत्यमनादि सिध्यति ।
एवमेव हि यागहोमादीनां तया तया देवतया वरवरणलब्धत्वेन प्रतिपादितानां नित्यत्वं समर्थनीयम्, अन्यथा सर्वेषामपि वैदिककर्मणामनित्यत्वं प्रसज्येतेति कल्पभेदेन धर्माधर्मविप्लवः स्यात्, तस्माद्यथा नित्यसिद्धतत्तद्देवताकर्मसम्बन्धप्रत्यायनद्वारा तत्तत्सन्निधिश्रुतो वरवरणार्थवादः कर्मप्रशंसार्थः ।
एवमयमपि नित्यसिद्धपशुपतिभावप्रख्यापनद्वारा कर्मप्रशंसार्थोऽर्थवाद इत्यर्थः ।
इत्थमेव तत्र तत्र विष्णोरापतन्नत्यन्तापकर्षोऽपि परिहरणीयः ।
अन्यथा “त इषुं समस्कुर्वतां सोमं शल्यं विष्णुं ते जन"मिति त्रिपुरसंहारोपकरणभूताया इषोर्मध्यावयवतां देवैस्तदिच्छयैव नीतत्वेन श्रुतस्य विष्णोरत्यन्तापकर्षः समापतन्ननिवार्या स्यात् ।
तस्मात्कर्म प्रशंसार्थः पाशुपत्यवरणार्थत्वादः ।
तत्रायं निष्कर्षः- पाशुपतव्रतानुष्ठानाधीनः पशुत्वहरणरूपो मोक्षः, तदनुष्ठानञ्च देवमनुष्यादयो वयं पशवः, पशूनाञ्चास्माकं पतिः शिवः इति ज्ञानसापेक्षम्ः, पाशुपतव्रतानुष्ठानाभावात्तत्त्वज्ञानाभावादेव लोकस्य मुक्तिरेव न स्यादिति विचार्य सकललोकानुग्राहकः शिव एव वरणव्याजेन निजं नित्यसिद्धं पाशुपत्यं सर्वलोकप्रसिद्ध्यर्थं स्पष्टीचकारेति सिद्धान्तः ॥
रुद्रस्य तामसत्वनिराकरणम- ननु शोऽरोदीद्योऽरोदीत्तद्रुद्रत्व"मिति
[[३८७]]
तैत्तरीयशाखायामाम्नानाद्रोदनस्य रुद्रपदप्रवृत्तिनिमित्तत्वात्तस्य तमोगुणमूलकत्वात्तामसत्वं रुद्रस्य, पालनरूपकार्यस्य सत्त्वगुणापाधिकत्वाद्विष्णोस्सात्त्विकत्वम् ।
अतः सत्त्वप्रवर्तकस्य विष्णोः परब्रह्मभावो युक्तः ।
रुद्रस्तु तम उपकरणं कृत्वा सर्वं जगत्संहरति नैर्घृण्यापादकतमोगुणोपकरणत्वं दोषत्वेन प्रसिद्धम् ।
अतः प्राकृतजनवत्तमोऽभिभूतत्वात्त्रिपुरदहनजलन्धरवधब्रह्मपञ्चमशिरोल् अवनदक्षाध्वरध्वंसनादिदेवतानिग्रहरूपानुचितकार्यकरणं रुद्रे दृश्यते ।
अत एवायं रुद्रो भीम उग्रः पशुपतिरिति व्यपदिश्यते ।
तथाच स्मशानवासः परेतभूतपतित्वं भस्मानुलेपोऽस्थिमालाकङ्कारादिधारणं विषपानं सन्ध्यासु भद्रकाल्यादिसंरम्भजनकं नर्तनं दिगम्बरत्वमित्यादि तमोऽभिभवानुरूपं शीलमपि परिदृश्यत इति रुद्रस्य परब्रह्मभावो न युक्तः ।
किन्तु सत्त्वोपाधिकपालनादिदर्शनाद्विष्णोरेव परब्रह्मभावो वक्तव्य इति पूर्वपक्षः ॥
अथ तामसत्वं संहाररुद्रधर्ममपि परमशिवधर्ममभ्युपेत्य तस्य दोषत्वाभावं समर्थयामः- किमिह तावत्तामसत्वं दोषत्वेनापाद्यते, नैर्घृण्यापादकतमोगुणशालित्वं वा, प्राकृतजनवत्तमसाऽभिभूतत्वं वा ? नाद्यः, तस्यादोषत्वात् ।
तथाहि संसारमहारण्यगतागतातिश्रान्तान्प्राणिनः कञ्चित्कालं सुषुप्त्यापादनेन विश्रान्तिं प्रापयितुं सकलं जगत्सञ्जिहीर्षन्महादेवस्तत्संहारोपकरणतया तमो गृह्णाति, यथा चिरकालव्रणरुजार्त्या निद्राऽऽहाररहितानतिदुःखमनुभवतो मनुष्यान्व्रणरुजापनयनेन सुखयितुं तात्कालिकं किञ्चिद्दुःखकरमपि व्रणच्छेदं करिष्यन्व्रणवैद्यस्तदुपकरणतया शस्त्रं गृह्णाति, नच शस्त्रग्रहणं व्रणच्छेदनं तस्य नैर्घृण्यापादकम्, किन्त्वयं रक्षणीय इति परमदयालुत्वज्ञापकमेव ।
तदेतदुक्तं शिवपुराणे- ङिदानज्ञस्य भिषजो रुग्णे हिंसां प्रयुञ्जतः ।
न किञ्चिदपि नैर्घृण्यं घृणी शस्त्रप्रयोजकः ॥” इत्यभिधानात् ॥
न द्वितीयः, तमोऽभिभवकार्ययोर्नि-
[[३८८]]
द्रापारवश्यजाग्रत्कालिकानुचितविषयक्रौर्ययोरुद्रमूर्तावदर्शनात् ।
नच त्रिपुरदहनादिरस्तीति वाच्यं, तेषामुचितत्वात् ।
तथाहि निग्रहो द्विविधः- अनुग्रहोद्देश्यकस्तदनुद्देश्यकश्चेति ।
आद्यस्त्रिविधः- अनुग्राह्यानुग्रहोद्देश्यकः, अननुग्राह्योद्देश्यकः, उभयोद्देश्यकश्चेति ।
तत्राद्यः सदाचारानुवर्तनार्थं शिष्यादिनिग्रहः, स तु गुण एव ।
द्वितीयो बह्वितरानुग्राहश्चेन्न दोषः ।
एकस्मिन्निधनं प्रापिते दुष्टचारिणि बहूनां भवति क्षेमम्, तत्र पुण्यप्रदो वध इति वचनात्; स यथा मृगया व्याघ्रादिवधश्चोरवधश्च ।
उभयानुग्राहार्थो यथा “राज्ञा विधृतदण्डास्तु कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥” एवं निर्दोषाणां मध्येऽन्यतमो निग्रहः शिवकृतः पुत्रादिनिग्रहवद्ब्रह्मादिनिग्रहोऽप्युचितविषय एव ।
तदुक्तं शिवपुराणे- “ये पुनर्निग्रहाः केचित् ब्रह्मादिषु च दर्शिताः ।
तेऽपि लोकहितायैव कृताः श्रीकण्ठमूर्तिना ॥
दण्डस्यास्याधिपत्यं हि श्रीकण्ठस्य न संशयः ॥
श्रीकण्ठाख्यां शिवो मूर्तिं क्रीडन्तीमधितिष्ठति ॥
सदोषा एव विध्याद्या निगृहिता यथोचितम् ।
ततस्तेऽपि विपाप्मानः पश्चादपि गतज्वराः ॥
निग्रहोऽपि स्वरूपेण विदुषां न जुगुप्सितः ।
अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्यते ॥” इत्यादि ॥
यदुक्तमुग्र इत्यादिव्यपदेश इति तत्रेदं वक्तव्यम्- उग्रशब्द उत्तरवाच्यप्यस्ति ।
“उग्रोऽस्युग्रोऽहं स जातेषु भूयास” मित्युग्रत्वशास्यत्वश्रवणात् ।
उत्पूर्वाद्गमेरुद्गच्छत्युत्तरो भवतीत्यस्मिन्नर्थे रुद्रेन्द्रेत्याद्यौणादिकसूत्रेण रप्रत्ययान्तत्वेन निपातित उग्रशब्दः शिवस्य सर्वोत्तरत्ववाची ॥
भीमशब्दस्तु भयङ्करवाच्यप्यस्योत्कर्षमावहति ।
“यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम् ।
महद्भयं वज्रमुद्यतं य एवं विदुरमृतास्ते भवन्ती” ति मन्त्रेण सर्वजगद्भयहेतुत्वस्य सकलनियन्तृपरब्रह्मधर्मोपपादनात् ।
अतोऽस्य रुद्रस्य सत्त्वप्रवर्तकत्वादिलक्षणं सात्त्विकत्वं सत्त्वस्यैव प्रवर्तक इति श्वेताश्वतरप्रतिपादितम्-
[[३८९]]
अस्ति रुद्रस्य विप्रेन्द्रा अन्तः सत्त्वं बहिस्तमः ।
विष्णोरन्तस्तमः सत्त्वं बहिरस्ति रजोगुणः ॥
अन्तर्बहिश्च तत्सर्वमस्ति तस्य प्रजापतेः ।
शौक्ल्यं सत्त्वगुणाज्जातं रागो जातो रजोगुणात् ॥
कार्ष्ण्यन्तमो गुणाज्जातमिति विद्यात्समासतः ।
रुद्रस्य विग्रहं शुक्लं कृष्णं विष्णोश्च विग्रहम् ।
ब्रह्मणो विग्रहं रक्तं चिन्तयेद्भुक्तिमुक्तये ॥
इत्यादि वचनैः,
सङ्करास्सर्वदेवाः स्युर्वृषलस्तु पुरन्दरः ।
पितामहस्तु वैश्यः स्यात् क्षत्रियः परमो हरिः ॥
ब्राह्मणो भगवान् रुद्रः सर्वेषामुत्तमोत्तमः ॥
इत्यादि वचनैश्च ,
रुद्दुःखं दुःखहेतुर्वा तं द्रावयति नः प्रभुः ।
रुद्र इत्युच्यते सद्भिः शिवः परमकारणम् ॥
रोदयस्यखिलाञ्जीवानन्तकाले यदृच्छया ।
अतः प्राज्ञैर्मुनिवरै रुद्र इत्यभिधीयते ॥
इत्यादिस्कान्दलैङ्ग्यादिपूर्वोक्तश्वेताश्वतरोपनिषद्वाक्योपबृंहणवचनैस् तद्वाचकनामनिरुक्त्या च शिवस्यैव सात्त्विकत्वं विष्णोस्तामसत्वञ्च “त्वं देवेषु ब्राह्मणोऽहं मनुष्येष्वि"ति प्रपदब्राह्मणोक्त्या च शिवस्यैव ब्राह्मणत्वप्रतिपादनाद्विष्णोः क्षत्रियत्वप्रतिपादनाच्च शिवस्यैव सर्वोत्तरत्वमिति निर्विवादम् ॥
अथ नमस्कारशेषित्वम्- “यो रुद्रोऽग्नौ योऽप्सु य ओषधीषु यो रुद्रो विश्वाभुवनानि विवेश तस्मै रुद्राय नमोऽस्तु ।
सर्वो वै
[[३९०]]
रुद्रस्तस्मै रुद्राय नमोऽस्त्वि"त्यादितैत्तिरीयश्रुत्या, नमस्तस्मै सुरेशाय गणानां पतये नमः ।
नमोऽस्तु स्थाणवे नित्यं नमस्तस्मै सुधन्वने ॥
नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः ॥
इत्यादि महाभारते द्रोणपर्वान्तिमाध्यायादिवचनैः शिवस्यैव नमस्कार शेषित्वं प्रदिपाद्यते ॥
ननु ङमो विष्णवे बृहते करोमी"त्यस्यामृचि, ॐ इत्येकाक्षरं, नम इति द्वे अक्षरे, नारायणायेति पञ्चाक्षराणि, ॐ नमो नारायणायेत्यष्टाक्षराणीति मन्त्रे च विष्णुः प्रकीर्त्यते ।
एवं “आकाशात्पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारः केशवं प्रतिगच्छती"ति पुराणवचनात्तत्तद्देवतोद्देश्यकनमस्काराणामपि विष्ण्वैकगामित्वप्रतिपादनात्प्राणादिविशेषेण कैमुतिकन्यायद्योतकेन विष्णोरेव नमस्कारशेषित्वस्य स्फुटीकरणात्तस्यैव सर्वोत्तमत्वमिति पूर्वपक्षः ॥
सिद्धान्तस्तु- सर्वेषु वेदस्थितेषु रुद्रसूक्तेषु नमस्कारपूर्वकमेव चतुर्थ्यन्तशिवपर्यायशब्दानुक्रमपाठदर्शनात्, विष्णोस्तु वेदत्रयेऽपि तदीयमन्त्रेषु क्वाचित्कतया विद्यमानत्वेऽपि तथा प्राचुर्याभावात्, अभ्यासे सति भूयस्त्वमर्थस्य भवति नाल्पत्वमपि ।
प्रागेवोपचरितार्थत्वमिति न्यायेन शिवस्यैव नमस्कारशेषित्वम्, न विष्णोः ।
नच सर्व देवनमस्कारः केशवं गच्छतीति पुराणवचनेन शिवादितत्तद्देवतोद्देश्यकनमस्काराणामपि विष्ण्वैकगामित्वप्रतिपादनेन प्रागुक्तयुक्तिः पराहतेति वाच्यम्, तैत्तिरीये “यस्मै नमस्तच्छिरोधर्मो मूर्धानं ब्रह्मोत्तरा हनुर्यज्ञाधरा विष्णुहृदयमि"ति तैत्तिरीयशाखाविहितसर्वदेवावयवकदिव्यशिंशुमारावयव्युपासनायामित् अरावयवरूपणेषु देवतान्तराणां प्रातिस्विकनामधेयग्रहणवत्, शिवस्याप्यवयवविशेषत्वेन रूपणार्थं नामधेये विहितव्ये तदगृहीत्वा पर्यायोक्तालङ्काररीत्या नमस्कारशेषित्वं शिवासाधारणधर्मं सिद्धं कृत्वा “यस्मै न मस्तच्छिर” इति नमस्कारशेषित्वस्येतरव्यावृत्त-
[[३९१]]
त्वेन श्रुत्यैव स्फुटतरं प्रतिपादनात् ।
एतादृशश्रुतिविरुद्धमाकाशात्पतितं तोयमिति पुराणवचनम्, “विरोधे त्वनपेक्षं स्यादसति ह्यनुमान” मित्यधिकरणन्यायेन दुर्बलत्वात्स्वार्थपरं न भवतीति सर्वशब्दस्य सङ्कोचं कृत्वा, न हिंस्यात्सर्वभूतानीत्यत्र यागीयहिंसातिरिक्तत्वकल्पनवत्, विश्वजिति सर्ववेदसन्दद्यादिति सर्वस्वदाने विहिते आत्मपुत्रकलत्रकेसरिशद्विताश्वादिव्यतिरिक्तत्वकल्पनवच्च, शिवव्यक्तिरिक्तत्वकल्पनाया न्याय्यत्वात् ।
नच नमो विष्णवे महते करोमीति विष्णोर्नमश्शेषित्वं श्रूयत इति वाच्यम्, तन्मन्त्रोपक्रमे ङमो ब्रह्मणे नमोऽस्त्वग्नये नम ओषधीभ्य” इत्यादिना ब्रह्माग्निपृथिव्योषध्यादिसाधारण्येन विष्णोरपि नमस्कार्यत्वदर्शनान्नासाधारण्येन विष्णोरपि नमः शेषित्वमुक्तम् ।
अत एवोक्तं चतुर्वेदतात्पर्यसङ्ग्रहे-
दत्तं नमः किमपि शुश्रुम देवताभ्य- स्त्वामन्तरेण नमसामवसानभूमिम् ।
तांस्ते गृहीतुमनलं न हि कश्चिदीष्टे चोरोपनीतमिहधारयितुं किरीटम् ॥
इति ॥
एतेनेतरदेवताप्रतिपादकमन्त्रेषु श्रूयमाणा नमस्कारा अपि शिवैकगामिन इति सिद्धान्तः ॥
निखिलदेवासुरैर्दुग्धोदधिमन्थने प्रक्रान्ते तत्र कामधेनुकल्पवृक्षकौस्तुभकमलाचिन्तामण्युच्चैःश्रवस्सुधादीधितिसुधै रावतेषूत्पन्नेषु, अहमहमिकया पराङ्काष्ठाङ्गतया लोभसञ्जातया तेषु तेषु रमणीयेषु वस्तुषु तैस्तैर्नारायणपुरन्दरादिदैवैः प्राकृतमनुष्यैरिव गृहितेषु सत्सु तदनन्तरोत्पन्नं भुवनभीकरं सकलदेवतागर्वनिर्वापकं कालकूटमवलोक्य नारायणादिदेवेषु विषज्वालामाला-
[[३९२]]
दग्धाङ्गेष्वात्मानमपि विस्मृत्त्य पलायमानेष्वन्यत्र शरणमलब्ध्वा शिवचरणारविन्दमेव शरणं प्रपन्नेषु सत्सु परमकारुणिकः परमशिवः स्वात्मारामस्तान्नारायणादीन् भजमानान्दृष्ट्वा, आगतं घोररूपं कालकूटं जम्बूफलवद्धस्ते निधाय कवलीचकारेति भारतरामायणस्कान्दलैङ्गादिसकलपुराणप्रसिद्धमिति शिवस्यैव सर्वोत्कर्षः ॥
ननु शिवस्य विषपानं न माहात्म्यद्योतकं भवति प्रत्युत विष्णोरेव माहात्म्यं प्रकटीकरोति ॥
तथाहि- तन्त्रभागवते “तं दृष्ट्वा घोरसङ्काशं प्रादुर्भूतं महाविषम् ।
ध्यात्वा नारायणं देवं हृदये गरुडध्वजम् ॥
अच्युतानन्तगोविन्दमन्त्रमानुष्टुभं शुभम् ।
ॐ नमस्सम्पुटीकृत्य जपन्विषधरो हरः ॥
नामत्रयप्रभावाच्च विष्णोः सर्वगतस्य वै ।
विषं तदभवज्जीर्णं लोकसंहारकारक” मित्यादिप्रमाणपर्यालोचनया नारायणासाधारणाच्युतानन्तगोविन्दनामजपप्रभावाच्छिवो विषं दधारेति स्पष्टतया प्रतिपादनान्नारायणशिवयोरुपास्योपासकत्वमनेन स्पष्टीभवतीति नारायणस्यैव सर्वोत्तरत्वमिति पूर्वपक्षः ॥
सिद्धान्तस्तु-शैवधर्मसंहितायाम्-
पुरा सुरासुरास्सर्वे ममन्थुः क्षीरसागरम् ।
मन्थानं मन्दरं कृत्वा योक्त्रं कृत्वा च वासुकिम् ॥
सुधार्थमभवत्तस्मात्कालकूटं महाविषम् ।
तं दृष्ट्वा विबुधाः सर्वे ततः शक्रपुरोगमाः ॥
सम्भ्रान्ता विवशाधीना दुद्रुवुश्च महासुराः ।
दग्धास्त्रवस्त्रकवचा दग्धाङ्गा दग्धलोचनाः ॥
अवदन्केचिदन्योन्यं प्रेक्ष्य देवाश्च दानवाः ।
दन्दह्यमानास्ते सर्वे दावा इव दवाग्निना ॥
[[३९३]]
हा हेति प्राकृतरवानवदन्विबुधाः सुराः ।
विनिर्गतास्ते सोष्माणो विशीर्णा हारभूषणाः ॥
इत्युपक्रम्य, क्षीराब्धिमथनोदितकालकूटगरलकरालज्वालामालाप्लुष्टाङ्गाः पुरन्दरप्रमुखा निखिला मखाशना भीतास्त्रातारमनवेक्षमाणाः स्वप्राणत्राणार्थं ब्राह्मणं गतास्ततः स्वयं देवांस्त्रातुमसमर्थो ब्रह्मा तैर्देवैस्सह विष्णुं त्रातारं मत्वा तत्सकाशमागत्य, विषाग्निना भीतेन देवान्पालयितुमशक्तेन ब्रह्मेन्द्रपुरोगमैः कैलासं प्रति गतेन विष्णुना प्रार्थ्यमानः कैलासद्वारि विद्यमानो गणनायको नन्दीश्वरस्तानालोक्य “गणपः प्राह सर्वज्ञो नेत्रैर्नीलाम्बुजप्रभैः ।
देवान् शतक्रतुमुखान् सयक्षोरगराक्षसान् ॥
किमर्थं वै महाभागा भूता उद्विग्नचेतसः ।
दिव्याष्टगुणमैश्वर्यं भवतां सम्प्रकल्पितम् ॥
तेन व्यावर्तितैश्वर्या यूयं शक्रपुरोगमाः ।
त्रैलोक्यस्येश्वराश्चैव सर्वे वै विगतज्वराः ॥
सनारायणका देवाः सेन्द्रास्सवरुणोरगाः ॥
तत्किमर्थं भयोद्विग्नाः मृगास्सिंहार्दिता इव ॥
किं दुःखं तेन सन्तापः कुतो वा भयमागतम् ।
एतत्सर्वं यथान्यायं शीघ्रमाख्यातुमर्हथ” इत्यादिना पप्रच्छ ।
नन्दीश्वरपृष्टैर्ब्रह्मादिदेवैः शुरासुरैर्मथ्यमाने पयोराशौ गणेश्वर ।
भुजङ्गभृङ्गसङ्काशं नीलजीमूतसन्निभम् ॥
प्रादुर्भूतं विषं घोरं संवर्ताग्निसमप्रभम् ।
विषेणोत्तिष्ठमानेन कालानलसमत्विषा ॥
निर्दग्धारुणगौराङ्गो विष्णुः कृष्णत्वमागतः ।
तं दृष्ट्वा रक्तगौराङ्गं कृतं कृष्णं जनार्दनम् ॥
ततः सर्वे वयं भीताः शङ्करं शरणं गताः ।” इत्यादिवचनैः सम्प्रार्थितः शैलादिः सनारायणकैर्देवैस्सह शिवसमीपं गत्वा देवागमनकार्यं विज्ञापितवान् ।
ततो विष्णुपुरोगमाः शिवं स्तुत्वा प्रणम्य कालकूटविषोपद्रवं निवेदितवन्तः ।
तदा करुणानिधिः परशिवः “अथ तस्य वचः श्रुत्वा देवानालोक्य चेश्वरः सस्मार च विषं घोरं युगान्ताग्निसमप्रभम् ॥
स्मृत्वा विषं कदाग्रस्तमभवत्तत्क्षणाद्विभोः ।
तदा रेजे करतलं सभृङ्गमिव वारिज”
[[३९४]]
मित्यादिना स्मृतिमात्रेण कालकूटे करस्थे सति “अथोवाच नमस्कृत्वा भगवान् पद्मसम्भवः ।
तत् पिबस्वेति सर्वज्ञं लोकानां हितकाम्यया ।” इति ब्रह्मणा सम्प्रार्थ्यमानः शङ्करः “बाढमित्येव तद्वाक्यं प्रतिगृह्य घृणानिधिः ।
पपौ यथाऽमृतं सर्वं कालकूटं महाविषम् ॥
एवं तद्ग्रसितं घोरं नीलनीरदसन्निभम् ॥” इति भुवनं निर्भयं कर्तुं कालकूटं पपाविति बहुपुराणेषु सफुटतरं प्रतीयमानत्वेन, एवमेव रामायणभारतादिष्वितिहासेष्वपि विद्यमानत्वेन, शिव एव सर्वैः सेव्यः प्रपत्तव्यश्चेति ॥
यच्चोक्तमच्युतानन्तगोविन्देति नामत्रयजपप्रभावाद्विषं जीर्णमभूदिति तदतिमन्दम्; नारायणध्यानपूर्वकं नामत्रयमनुस्मरन् शिवो विषं दधार, तच्च जीर्णत्वमप्यभजदित्यर्थे उदाहृतश्लोकत्रयेतिहासपुराणादिषु प्रसिद्धेषु काप्यदृष्टचरत्वेन भाल्लवेयादिश्रुतिवत्तैरेव कल्पितत्वात् ॥
किञ्च ङामानि तव गोविन्द यानि सन्ति महान्ति च ।
तान्येव मम नामानि नात्र कार्या विचारणे” ति हरिवंशे कृष्णकैलासयात्रायां विष्णुं प्रतीश्वरवचनेनाच्युतादिनाम्नामवयवव्युत्पत्या नित्यत्वं सकलप्राणिनां कर्मानुकूलतया वेदनं प्रेरणं शिवस्यैव पूर्वोक्तसकलश्रुतिस्मृतिपुराणेतिहासवचनबलात्सम्भवति, नान्यस्येति तेषां त्रयाणां नाम्नामर्थपर्यालोचनया प्रमाणबलाच्च तत्रैव पर्यवसानं युक्तियुक्तमिति श्लोकत्रयस्यापि शिवपरत्वान्न काप्यनुपपत्तिरिति ।
तथा चायमर्थः सम्पद्यते अच्युतश्च्युतिरहितः, अनन्तोऽन्तरहितः, गा विन्दतीति व्युत्पत्त्या सकलप्राणिकृतशुभाशुभकर्मवेदनकर्ता, “जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते ।
तद्ब्रह्माऽहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥
इति, “त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।
तेभ्यो विलक्षणः साक्षी चिन्मात्रो हि सदाशिव” इति कैवल्यश्रुत्या, “अजात इत्येव कश्चिद्भीरुः प्रपद्यते ।
रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्य” मिति श्वेताश्वतरश्रुत्या च, शिवस्यैव नित्यत्वसर्वसाक्षित्वश्रवणात्तदितरस्य नारायणस्य
[[३९५]]
“ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते” इति श्रुत्या बहुधा जन्यत्वप्रतिपादनान्नामत्रयस्य नारायणपरत्वमिति न शङ्कावकाशः, किन्तु शिवपरत्वमेवेति सिद्धान्तः ॥
ननु भगवान्प्राचेतसो मुनिवरः कमलासनवरलब्धसकलवेदार्थवेदनशीलः श्रीरामचन्द्रचरितात्मकं रामायणाख्यं महदादिकाव्यं निर्ममे ।
तस्मिन्महाकाव्ये श्रीरामचन्द्रगुणवर्णनद्वारा तस्यैव श्रीविष्णोः सर्वकारणत्वेन परब्रह्मभावं व्यक्तमेव प्रत्यपादयत् ।
तथाहि- “रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि” इति रामपदेनासौ परं ब्रह्माऽभिधीयते ॥” इत्युमासंहितावचनोपपादितपरब्रह्मभावशालिरामचरितात्मके रामायणे शीतालक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः ।
वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ॥
अक्षय्यं मधुहन्तारं जानामि त्वां सुरोत्तमे"ति बालकाण्डे परशुरामकृतस्तोत्रे प्रतिपादनात्, श हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः ।
अर्थिन्तो मानुषे लोके जज्ञे विष्णुः सनातन” इत्ययोध्याकाण्डे प्रथमसर्गेऽभिधानात्, “प्रीयते सततं रामः स हि विष्णुः सनातन” इत्युपसंहारदशायामुपपादनाच्च रामो विष्णुरेव स एव परं ब्रह्मेति पूर्वपक्षः ॥
सिद्धान्तस्तु- रामायणस्यादिकाव्यत्वेन तस्योत्तमकाव्यस्य वाच्यार्थो रामस्य तव ब्रह्मभावः, व्यञ्जनावृत्त्या प्रतीयमानार्थस्तु शिवस्यैव परब्रह्मभावः ।
समागत्यागस्त्याश्रमप्रवेशसमये श्रीरामचन्द्रवचनैः, तत्र तत्र कविवचनैश्च स्पष्टीकृतः ॥
तथाहि- “अत्र देवास्सगन्धर्वाः सिद्धाश्च परमर्षयः ।
अगस्त्यं नियताहारं सततं पर्युपासते” इत्यगस्त्याश्रमप्रवेशं वर्णयित्वाऽभिहितम्- श तत्र ब्रह्मणः स्थानं लक्ष्म्याः स्थानं तथैव च ।
विष्णोः स्थानं तथेन्द्रस्य स्थानं चैव विवस्वतः ॥
सोमस्थानं भगस्थानं तथा कौबेरमेव च ।
धातुर्विधातुः स्थाने च वायोः स्थानं तथैव चे” त्यादिनाऽगस्त्यमुपासीनानां स्थानान्युक्तानि, तदाश्रमे निवसतां देवनामिव तत्र
[[३९६]]
शिवस्य स्थानं नोक्तम् ।
तस्माद्ब्रह्मविष्ण्वादय एवागस्त्यस्योपासकाः, नतु शिव इति द्योतनेन शिवस्य महिमा व्यञ्जितः ।
तथा च सकलैर्देवैरुपास्यमानस्यागस्त्यस्य तपोनिकरैराराधनीयः शिव एवेति पारिशेष्यात्सिध्यति ।
ततश्चेतरदेवानां शिवोपासकोपासकत्वसिद्धेस्तेभ्यः शिवस्यातितरामुत्कर्षः प्रतीयत इत्यर्थः ।
किञ्च लवणवधार्थं शत्रुघ्नं प्रेषयता रामचन्द्रेण तद्वधार्थं हरिमूर्तिरूपं किञ्चिदस्त्रं दत्वा तत्प्रभावो वर्णितः- ङायं मया शरः पूर्वं रावणस्य वधार्थिना ।
मुक्तः सत्रुघ्न भूतानां महांस्त्रासो भवेदिति” इत्युपवर्ण्य एवं भूतं शरं प्रयच्छतापि श्रीरामचन्द्रेणोक्तं यदा शिवेन स्वशूलाद्विनिष्कृष्य दत्तं शूलं लवणस्य हस्तेऽस्ति तदा केनाप्युपायेन स जेतुं न शक्य इति हस्ते शूलाभावसमये स निरुन्धानेन शरेण हन्तव्य इत्युपदिश्य रामेणोक्तम्- श्रीमतो नीलकण्ठस्य कृत्यं हि दुरतिक्रम” मित्यादिना ।
ततोऽपि शिव एव परं ब्रह्मेति व्यञ्जयामासेति शिवस्य सर्वोत्कर्षसिद्धिः ।
श तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।
वेदोपबृंहणार्थाय तत्तावग्राहयत्प्रभु"रिति रामायणस्य वेदोपबृंहणार्थत्वोपपादनाद्रामायणकाव्यस्य व्यञ्जनावृत्त्या शिवे प्रतिपाद्ये सति वेदप्रतिपाद्यत्वमिति सिद्ध्यतीति शिव एव परमकारणमिति सिद्धान्तः ॥
ननु महाभारतसारभूतभगवद्गीतायां पार्थं प्रति संसारसागरोत्तरणोपायोपदेशप्रस्तावनायाम् “ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ।
तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वत"मिति भगवता कृष्णेनोपदिष्टम् ।
तथा “तमेवचाद्यं रुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी"ति भगवता क्रियमाणं प्रपदनं किं विषयकमित्याकाङ्क्षायाम् “उत्तमः पुरुषस्त्वन्यः परमात्म्येत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥” इत्युक्त्वा, उपास्यं स्वान्यन्न भवति, किन्तु स्वस्वरूपमेवेति प्रतिपादितम्
[[३९७]]
“यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥” इति क्षराक्षरातीतत्वेन स्वस्यैव ताभ्यामुत्तमत्वप्रतिपादनाद्विष्णोरेव परब्रह्मभावो युक्त इति पूर्वपक्षः ॥
सिद्धान्तस्तु- पूर्वोदाहृतश्लोकेष्वन्यत्र च शिवासाधारणनाम्न ईश्वरशब्दस्याम्नानात् ।
विश्वरूपप्रदर्शनादिकं सर्वमपि शिवाभेदाच्छिवविषययोगाद्वोपपादनीयम् ।
पुरुषोत्तमनामधेयात्प्रथमश्रुतस्येश्वरनाम्नो बलवत्तया प्राधान्येनानुरोद्धव्यत्वात् ॥
किञ्च श्थितोऽस्मिगतसन्देहः करिष्ये वचनं तवे"ति प्रतिज्ञातवानर्जुनो यावज्जीवं शिवपूजानिरतो वर्तत इति कृष्णेनापि गीतासु शिव एव सकलपरभावाङ्गशालित्वेन मुमुक्षुभिः शरणीकरणीयत्वेन चोपदिष्ट इत्यवधीयते ॥
एतेन तमेव शरणं गच्छेत्यनन्तरं शर्वगुह्यतमम्भूयः शृणु मे परमं वच” इत्युपक्रम्य, सर्वधर्मान्परित्यज्य मामेकं शरणं व्रजे"ति यदुपदिष्टम्, तदनन्तरं “करिष्ये वचनं तवे"ति यत्प्रतिज्ञातम्, तद्विष्णुविषयकमिति शङ्का निरस्ता ।
तथासति शिवपूजां परित्यज्य विष्णुपूजाया एवार्जुनेन कर्तव्यतापत्तेः यावज्जीवं तेन शिवपूजैव कृता, न विष्णुपूजा ।
यावज्जीवशिवपूजानिष्ठत्वश्रुतेः ।
यत्तु शिवस्य रात्रिकर्तव्यनित्यपूजार्थं कॢप्तः सर्वोप्युपहारः कृष्णे समर्पित इति वचनं तदपि कृष्णमूर्तौ शिवभावोऽस्तीति शिवाराधनबुद्ध्यैतदभिप्रायम् ।
एवं कृष्णार्जुनयोः कैलासगमने सर्वोऽप्युपहार शिवसमीपे दृष्टोऽर्जुनेनेत्युक्तम्- “तं चोपहारं सकलं नेष्यन्नैतिकमात्मनः ।
ददर्श त्र्यम्बकाभ्यासे वासुदेवे निवेदित"मिति ।
“अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।
मामेव शरणं व्रज ।
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्” इत्यादि भगवद्वचनं जानताऽर्जुनेन देवतान्तरं परित्यज्य यावज्जीवं शिवपूजनमेव कृतमिति न विवादः ।
तता गीताप्रतिपाद्यः शिव एवेति भारतसारत्वाद्गीताया भारतप्रतिपाद्यमानः शिव एवेति सिद्धान्तः ॥
[[३९८]]
ननु “अग्नि रग्रे प्रथमो देवतानामग्निः सर्वदेवताः, राजानौ वा एतौ देवानां यदग्नीषोमौ ।
अग्निर्मुखं प्रथमो देवताना"मित्यादि श्रुतिवाक्यपर्यालोचनयाऽग्नेर्देवताप्राथम्यसार्वात्म्यदेवतानियामकत्वमुख् यत्वादिब्रह्मलिङ्गाम्नानादग्निरेव जगत्कारणं ब्रह्मोपास्यम्, सकलवैदिकैरग्निपरिचरणस्यैव तारकत्वेनाङ्गीकारात् ।
तथा शूर्य आत्मा जगतस्तस्थुषुश्च ।
तरणिर्विश्वदर्शनो जोतिष्कृदसि सूर्य विश्वमाभासि भेषजं दृशे विश्वाय सूर्य “मित्यादिश्रुतिषु सूर्यस्य जगदात्मत्वविश्वप्रकाशकत्वाद्याम्नानात्स एवोपास्यः प्रपत्तव्यश्च ।
अत एव “असौ वा आदित्यो देव मध्वि"ति सकलदेवताजीवनोपायभूतं मधुत्वेन निरूपणमुदयास्तमयायत्तं सकलप्राणिदैनन्दिनप्रलयः प्राणानादायोदेतीत्यादिना दर्शितः ।
सावित्रीमन्त्रोऽपि सवितृप्रकाशकः, सतूपनयनसंस्कारद्वारा ब्राह्मण्यापादक इति सुप्रसिद्धम् ।
ततः सूर्य एव परं ब्रह्म ॥
तथा “गणानान्त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ।
जेष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनः शृण्वन्नूतिभिस्सीद सादन"मिति गणपतेर्जेष्ठराजत्वब्रह्मणस्पतित्वाम्नानात्तस्यैव पारम्यं युक्तम् ।
स्कान्दे गणेशपुराणे च प्रथमाध्याये- ङिर्गुणो निरहङ्कारो निर्विकल्पो निराकृतिः ।
निरामयो निरीहो यो गणेशोऽसौ निगद्यते ॥
अरूपो रूपवांश्चैव नानारूपधरस्तथा ।
भक्तिगम्यस्वरूपोऽसौ ज्ञानगम्यस्वरूपवान् ॥
चराचरहितार्थाय नामरूपावतारवान् ।
कदाचित्प्रलये जाते प्लवीभूते जगत्त्रये ॥
योगशायी निराकारो गुणातीतो निराश्रयः ।
चिदानन्दघनो नित्यः स्वप्रकाशो जगन्मयः ॥
चक्रे स ईक्षां पुरतो विधार्यश्च प्रतापवान् ।
मत्तो भिन्नो न चेहास्ति बिभेम्यहमतः कुतः ॥
एकाकी तान्नु युक्त्वेति बहुस्यां जगदात्मना ॥
इति मत्वा ससर्जाग्रे रजस्सत्त्वं तमस्तथा ।
गुणैस्त्रिभिस्तथाभूतो ब्रह्मविष्णुशिवाभिदः ॥
इत्यादिपुराणवचनजातेन निर्गुणनिराकारवान् सच्चिदानन्दलक्षणो गणेशः प्रलयात्पूर्ववर्तीति ततो ब्रह्मादिजनक
[[३९९]]
इति तस्यैव जगज्जन्मादिकारणत्वेन परब्रह्मत्वं सिद्धम् ॥
ङ किमिन्द्रत्वादुत्तरः, विश्वस्मादिन्द्र उत्तरः ।
इन्द्रो याताऽवसितस्य राजा” इत्यादिवाक्येष्विन्द्रस्य सर्वोत्तरत्वाम्नानात्तस्यैव परभावो युक्तः ॥
इति पूर्वपक्षः ॥
सिद्धान्तस्तु-तत्तदधिकारिविशेषसापेक्षोऽयं देवतान्तरपारम्यवादः ।
किञ्च सर्वगस्य परमेश्वरस्य सर्वशरीराधिष्ठानद्वारा सर्वशब्दवाच्यत्वस्याङ्गीकारात्परमेश्वरस्य वैभवान्तरवर्णनं करितुरगवरभूषणादिकमिव सचिवादीनां साधारणम् ॥
“यद्यद्विभूतिमत्सत्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोऽंशसम्भवमि"ति भगवद्गीतार्थपर्यालोचनया परमेश्वरविशेषत्ववर्णनात् ॥
साधारणं जगत्कारणत्वन्तु परमेश्वरस्यैवेति श्वेताश्वतरादिमन्त्रसन्दर्भपर्यालोचनया परमशिवस्यैव पारम्योपपादनात्, ततो न वैभवान्तरशालिनामग्निसूर्यगणपतीन्द्रादीनामुत्तीर्णत्वम् ।
किन्तु शिवस्यैव सर्वोत्तरत्वापरभावो युक्त इति सिद्धान्तः ॥
तस्मादेवं श्रुतिस्मृतिपुराणागमवचनार्थनिर्णायकपूर्वोत्तरमीमांशान्यायसहकृ ताभिः पूर्वोक्तयुक्तिभिर्जगज्जन्मादिकारणत्वं शिवस्यैवेति तस्यैव परभावो युक्तः ॥
नच ङारायणाद्ब्रह्मा जायते, नारायणाद्रुद्रो जायत” इति नारायणोपनिषदा नारायणाद्ब्रह्मरुद्रादीनामुत्पत्तिः श्रूयत इति नारायणस्यैव जगज्जन्मादिकारणत्वं न शिवस्येति वाच्यम्, गुणमूर्तीनां कार्यकोटिप्रविष्टानां ब्रह्मविष्णुरुद्राणाम्भेदमादाय परस्परस्मादुत्पत्तिश्रवणेऽपि सृष्टिस्थितिसंहारतिरोधानानुग्रहरूपपञ्चकृत्यनियोजितब्रह्मविष्णुरुद्र् एश्वरसदाशिवमहालिङ्गशब्दितपरशिवस्य न कुत्रापि जनिः श्रूयत इति तस्यैव नित्यत्वं सर्वकारणत्वञ्च ।
तथाहि शैवे वायवीयसंहितायाम्- “त्रयस्ते कारणात्मानो जातास्साक्षान्महेश्वरात् ।
चराचरस्य विश्वस्य सृष्टिस्थित्यन्तहेतवः ॥
तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः ।
पित्रा नियमिताः पूर्वं त्रयोऽपि त्रिषु कर्मसु ॥
[[४००]]
ब्रह्मा सर्गे हरिस्त्राणे रुद्रस्संहरणे पुनः ।
त्रयोऽप्यन्योन्यमात्सर्यादन्योन्यातिशयार्थिनः ॥
तपसा तोषयित्वा तं प्रेरकं परमेश्वरम् ।
लब्धाः सर्वात्मतां तस्य प्रसादात्परमेष्ठिनः ॥
ब्रह्मनारायणौ पूर्वं रुद्रं कल्पान्तरेऽसृजत् ।
कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः ॥
विष्णुश्च भगवान् रुद्रं ब्रह्माणमसृजत्पुनः ।
नारायणं पुनर्ब्रह्मा ब्रह्माणञ्च पुनर्भवः ।
एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः ।
परस्परस्माज्जायन्ते परस्परजयैषिणः ॥
तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः ।
तानि तानि प्रणीतानि विद्वांस्तत्र न मुह्यति ॥
इति ॥
तथैव शैवोपागमे मृगेन्द्रोत्तरं गुणिरुद्रवाक्यम्-
एकसप्ततिभिस्तैस्तु ज्ञेयं मन्वन्तरं मनोः ।
तैश्चतुर्दशभिः कल्पैर्ब्रह्मणस्तु दिनं मतम् ॥
एतस्मिन्नन्तरे शक्रा मृता जाताः पुनः पुनः ।
शतत्रयं दिनं षष्टिस्तस्यैवं वर्ष उच्यते ॥
तत्सङ्ख्येया शतं यावद्वर्षाणां ब्रह्मणः स्थितिः ।
तस्य वर्षशतं यावत्तावन्मासो हरेरतः ॥
तेन मासेन वर्षाणां शतं यावद्धरेः स्थितिः ।
मम मासो भवेद्यावन्माधवो याति सङ्क्षयम् ॥
वर्षाणां मे शतं यावद्धरेर्जन्मस्थिती पुनः ।
दिनमेकं तदीशस्य तदा मम शतं भवेत् ॥
एकस्मिन्नन्तरे काले वयं जाताः पुनः पुनः ।
सदाशिवनिमेषाच्च तदा तस्यापि सङ्क्षयः ॥
परस्या या त्रुटिश्चासौ तदासौ लयमाप्नुयात् ।
न भवो न मृतिस्तस्य शिवस्य परमात्मनः ॥
इति ॥
[[४०१]]
तस्माज्जगज्जन्मादिकारणत्वान्नित्यत्वाच्च नित्यफलप्रेप्सुभिर्मुमुक्षुभिः शिव एक एव ध्यातव्यः पूजयितव्यो नमस्कर्तव्यः प्रपत्तव्यश्चेति सर्वमनवद्यम् ॥
इति श्रीमद्-अनादि-निरञ्जन-जङ्गमापरावतार-
तोण्टद-सिद्धेश्वर-प्रसादासादित-
शाम्भवागमाम्बोधि-मथन-जनित-
निरुत्तरैकोत्तरशत-स्थल-भेद-भिन्न-षट्-स्थल–
तत्त्वबोध-सुधास्वादानन्द-सन्दोह-प्रदायकाचार्यवर्य-
श्रीमरितोण्टदार्य-विरचिते
यडव-मुरारि-कोटे-कोलाहलैकाङ्गि-वीर-
वैरि-सप्ताङ्ग-हरण-पश्चिम-समुद्राधीश्वर-
विशुद्ध-वैदिकाद्वैत-सिद्धान्त-प्रतिष्ठापनाचार्य-
केलदि-सदाशिव-राय-नायक-वंश-दुग्धार्णव-चन्द्र-
वीर-भद्र-धरणीन्द्र-धर्म्म-पत्नी-मल्लाम्बा-हृदयानन्द-
बसव-वसुधा-सङ्क्रन्दनोपदेशे
वीरशैवानन्द-चन्द्रिकायां वादकाण्डे शिवोत्कर्षव्यवस्थापनं नामैकोनविंशतितमं प्रकरणम् ॥
[[४०२]]