वीरशैवानन्दचन्द्रिकायां वादकाण्डे अष्टादशं प्रकरणम् ॥
देशिकेन्द्र भवता निरूपितं भृङ्गिशीलिवचनं सविस्तरम् ।
माध्वशास्त्रविषयं विभाययन् मोदमानहृदयोऽधुनाऽभवम् ॥
भृङ्गिणा किमुमक्रान्तं मतं तत्र हि दूषणम् ।
शीलिना वा कथं दत्तं तत्तच्छ्रोतुं मनो मम ॥
बसवेन्द्रमहीपाल वचनं भृङ्गिशीलिनोः ।
यज्जातं तदहं वच्मि शृणु त्वं विस्मयावहम् ॥
माध्वानां यददूषमुक्तमहितश्रुत्यध्वनाकल्पिता- नेकाम्नायसरूपवाक्यरचनामूलत्वदोषास्पदम् ।
साकल्येन मतं ब्रवीम्यभिमतं वेदागमानां परं दूष्येताद्यकथं त्वया परमिदं रामानुजीयं मतम् ॥
[[३२१]]
हे भृङ्गिवर्य भवता यदुदीरितं त- द्रामानुजीयमतमद्य हि दूषयामि ।
दन्तीन्द्रकुम्भदलनं खलु यस्य लीला हर्यक्ष एष किमु भीतिमजादुपैति ॥
रामानुजा इत्थमाहुः- भगवन्नारायण एव जगत्कारणम्, न विधिरुद्रौ ङारायणाद्रुद्रो जायते, नारायणाद्ब्रह्मा जायते" इति श्रुतिपर्यालोचनया ।
नच ब्रह्मरुद्रादिकारणत्वमात्रप्रतिपादनेन सर्वजगत्कारणत्वसिद्धिः कथमिति वाच्यम्, सर्वस्रष्टृत्वेन लोकवेदप्रसिद्धस्य विधेः, सर्वसंहर्तृत्वेन वेदजगद्विख्यातस्य रुद्रस्य च कारणत्वेनाभिहितस्य भगवतो जगत्कारणत्वाभिधाने निस्सन्देहात् ।
न चोपरि पुनःपुनरिन्द्रादिदेवमनुष्यादिकारणत्वं किमर्थं प्रतिपाद्यत इति वाच्यम्, मन्दधियां स्पष्टार्थत्वात् ।
अथवा सिद्धस्यानुवादः ।
अत एव महोपनिषदि “एको ह वै नारायण आसीत्, न ब्रह्मा नेशान” इत्यादिसन्दर्भेण विधिशिवयोरेव कारणत्वमनूदितम् ।
तस्मात्समस्तजगत्कारणं भगवन्नारायण एव ।
स च पञ्चविधो भवति, अर्चाविभवव्यूहान्तर्यामिपरवासुदेवरूपेण ।
अर्चा श्रीरङ्गवेङ्कटाचलादिस्थलेषु विद्यमानवेङ्कटेश्वरादिप्रतिकृतिर्भगवान्नारायण एव ।
विभवः श्रीरामकृष्णाद्यवतारः ।
स च भगवानेव ।
व्यूहोऽपि भगवानेव ।
स च चतुर्धा सङ्कर्षणव्यूहः, प्रद्युम्नव्यूहः, अनिरुद्धव्यूहः, वासुदेवव्यूहश्चेति ।
सङ्कर्षणप्रद्युम्नानिरुद्धवासुदेवाश्चत्वारो व्यूहपतयः ।
व्यूहास्तु भगवत्सरूपा एव ।
सङ्कर्षणाद्य- निरुद्धान्तश्च सकलजीवराशिर्जडशरीरी, तन्नियन्ता चान्तर्यामी भगवानेव ।
अण्डभित्तेरूपन्यप्राकृतवैकुण्ठे सहस्रस्तम्भमण्डपे परमपदाख्ये पञ्चसंस्कारसंस्कृतैर्द्रविडवेदपारगैः पाञ्चरात्रतदनुकूलवेदवेदान्तार्थश्रवणमनननिदिध्यासनकरिभिर्वैष्।
नवैः स्वशेषभूतैरन्यैश्च नम्माल्वार्प्रभृतिभिर्द्रविडवेदप्रवर्तकैः शेषभूतैरप्यत्यन्तारङ्गैरनन्तगरुडादिभिरपि
[[३२२]]
सह नित्यवासी सर्वशेषी लक्ष्मीपतिर्वैष्णवाभीष्टवर्षी शङ्खचक्राद्यायुधधारी भगवान्वासुदेव इत्युच्यते ।
इत्थं परिज्ञातुः परमपदप्राप्तिर्वैष्णवस्य, इत्थमजानतो वैष्णवस्य न परमपदप्राप्तिः ।
किन्तु तद्बहिर्देशेऽप्राकृतचण्डालवाटिकाप्राप्तिः ।
स्मार्तानान्तु नित्यनरकावाप्तिः, समाश्रयणादिपञ्चसंस्कारभगवच्छास्त्रद्रविडवेदपरिज्ञानाभावात् ।
आत्मा जीवः परमाणुः, “बालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥” इति श्रुतेः ।
भगवान्नारायणः परमात्मा व्यापकः, “अन्तर्याम्यधिदैवादिषु तद्धर्मोपदेशा” दिति न्यायात् ॥
इत्थमुत्तरतन्त्रे विचारः- “अन्तर्याम्यधिदैवादिषु तद्धर्मोपदेशात् ।” बृहदारण्यके तृतीयाध्याये अन्तर्यामिब्राह्मणे “यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथ्वी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ।
एवमेव “योऽप्सु तिष्ठन्, योऽग्नौ तिष्ठन्, यो वायु तिष्ठन्, य आदित्ये तिष्ठन्, यो रेतसि तिष्ठन्नित्युक्त्वा, उपरि यस्य रेतः शरीरम्, यस्यादित्यः शरीरम्, यस्य पृथिवी शरीर मित्युक्त्वा, सर्वान्ते यः सर्वं तिष्ठन्सर्वमन्तरो यमयति, सर्वस्यान्तरः, यं सर्वं न वेद, यस्य सर्वं शरीरम्, एष त आत्माऽन्तर्याम्यमृत” इति श्रूयते ।
अत्रत्यान्तर्यामिशब्दो जीवप्रतिपादको वोत परमेश्वरप्रतिपादको वेति विषयेऽत्र पूर्वपक्षः- जीवप्रतिपादक एव, कुतः स्वकर्मद्वारा तस्य पृथिव्यादिनियन्तृत्वसम्भवात्; योगैश्वर्यवशेन च पृथिव्यादिव्यापकत्वसम्भवाच्चेति प्राप्ते सिद्धान्तः- अन्तर्यामी परमेश्वर एव विष्णुः, न तु जीवः ।
अधिदैवादिषु तद्धर्मोपदेशात् ।
देवगन्धर्वसिद्धविद्याधरादिषु तद्धर्मस्य नियन्तृत्वस्य शरीरत्वस्याज्ञेयत्वस्य च धर्मस्योपदेशात्, तादृशधर्मस्य जीवात्मनि मुख्यत्वेनासम्भवात् ।
कथञ्चिद्योगैश्वर्यवशेन देवादिव्याप्तिकल्पनेऽपि तच्छरीरत्वस्य तत्प्रेरकत्वस्य तदज्ञेयत्वस्य च सुतरां जीवात्मन्यसम्भवात् ।
किञ्च शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ।” काण्वा माध्यन्दिनाश्चोभयेऽपि जीवं भेदेना-
[[३२३]]
न्तर्यामिभेदेनाधीयते पठन्ति ।
“यो विज्ञाने तिष्ठन्विज्ञानमन्तरो यमयति, यस्य विज्ञानं शरीरमिति काण्वाः ।
य आत्मनि तिष्ठन्, आत्मानमन्तरो यमयति, यस्यात्मा शरीरमिति माध्यन्दिनाः ।
तस्माच्छाखाद्वयेऽपि जीवभेदेनान्तर्यामिण उपदेशादन्तर्यामी भगवानेव न जीवः ।
जगत्सर्वं चेतनाचेतनात्मकं भगवतः शरीरम् ।
सर्वशरीरी भगवान्वासुदेवः ।
अतः सर्वशब्दवाच्यो भगवान् ।
लोके शरीरवाचकस्यापि देवदत्तादिशब्दस्य शरीराधिष्ठातृजीवात्मवाचकत्वस्याप्यङ्गीकारदर्शनात् ।
“एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
तत्सृष्ट्वा तदेवानुप्राविशत् ।
तत्त्वमसि ।
अहं ब्रह्मास्मि ।
एकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्या” दित्यादिकं सर्वमप्यस्माकमप्युपपद्यते ।
शरीरस्य विशेषणत्वेन भगवतः शरीरिणो विशेष्यत्वेन विशेषणविशेष्ययोरेकत्वस्य घटघटत्वादिषु दृष्टत्वेन जगतः परमात्मनो वासुदेवस्य च भेदोऽपि वक्तुं शक्यते, भेदोऽपि पारमार्थिकत्वेन वक्तुं शक्यते, विशिष्टाद्वैताङ्गीकारेण जगतः पारमार्थिकत्वञ्च वक्तुं शक्यते ।
भेदश्रुतीनामप्युपपत्तिरस्ति ।
अभेदश्रुतीनामप्युपपत्तिरस्मन्मते ।
एवं सिद्धेऽर्थे भेदो व्यावहारिको नतु तात्विकः ।
अभेदः पारमार्थिकस्तत्त्वमसीत्यादिश्रुतिपर्यालोचनयेति यदुक्तं तत्प्रमाणसिद्धं न भवति ।
कुतः तत्त्वमसीत्यादिश्रुतेरेवं योजयितुं शक्यत्वात्-तदिति लुप्तषष्ठीकं पदम्, तस्य त्वमसि तत्सम्बन्ध्यसि ।
तच्छब्दः परमेश्वरवाची सर्वस्मिन्नपि मते, अतस्तस्य भगवतो नारायणस्य त्वमसि सम्बन्ध्यसि ।
सम्बन्धश्च शरीरशरीरिभावः ।
नारायणशरीरमसि, तस्मान्नारायणविज्ञानेन सर्वविज्ञानमपि सम्भवति, सर्वेषां नारायणशरीरत्वेन सम्भवात् ।
तस्मात्सर्वमवदातमिति ।
ननु “यत्र हि द्वैतमिव भवति, तदितर इतरं पश्यति ।
यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ।” इति श्रुत्या द्वैतिनोऽतथ्यदर्शिन इति विष्णुपुराणोपबृंहणपर्यालोचनया च, द्वैतापारमार्थिकत्वस्य स्पष्टं प्रतीयमानत्वात्कथं विशिष्टाद्वैतमङ्गीकृत्य
[[३२४]]
द्वैतश्रुतीनां पारमार्थिकभेदविषयत्वम्, स्वरूपाभेदप्रतिपादकश्रुतीनामौपचारिकत्वञ्च वदसि ।
प्रस्तुतं तत्त्वमस्याद्यद्वैतश्रुतिपर्यालोचनया युक्तिसनाथया शरीरशरीरिभाव एव काल्पनिक इति वक्तुं शक्यते ।
तथाहि- भेदोऽपारमार्थिको दृश्यत्वात्, शुक्तिरजतवदिति ।
अत एव तृतीयाध्याये द्वितीयपादे आद्याधिकरणे “मायामात्रन्तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वा” दिति ।
स्वाप्निकायां वस्तूनामपारमार्थिकत्वमेवाभिहितम् ङ तत्र रथा नरथयोगा न पन्थानो भवन्ती"ति ।
तस्मात्स्वाप्निकपदार्थदृष्टान्तेन शुक्तिरजतदृष्टान्तेन चानुमानेन द्वैतस्यापारमार्थिकत्वं सिद्धमिति चेन्न, युष्माकं दृष्टान्तस्यैवाभावात् ।
नच शुक्तिरजतस्वाप्निकपदार्था दृष्टान्ता इति वाच्यं, तेषां प्रतिनिधिपेटिकान्यायेन सत्यत्वेनापारमार्थिकत्वस्यैवाभावात् ।
तथाहि- शुक्तौ रजतत्वप्रतीतिः किं विषयिणी न तावद्धट्टपट्टनस्थरजतविषयिणी तस्य चक्षुःसन्निकर्षाभावेन भावविषयत्वासम्भवात्, न तावज्ज्ञानं प्रत्यासत्तिः, संयोगसमवाययोरेव सम्बन्धत्वेन प्रत्यासत्तित्वेऽपि ज्ञानस्यात्मगुणस्यासम्बन्धस्य प्रत्यासत्तित्वकल्पनायां प्रमाणाभावात् ।
नच प्रत्यासत्तिर्द्विविधा लौकिक्यलौकिकी च ।
लौकिकानां संयोगसमवायादीनां सम्बन्धत्वेऽपि ज्ञानस्यासम्बन्धस्यालौकिकप्रत्यासत्तित्वमङ्गीक्रियत इति वाच्यं, प्रत्यासत्तेर्लौकिकालौकिकत्वस्य लौकिकपरिभाषामात्रसिद्धत्वेनासम्बन्धस्य ज्ञानस्य प्रत्यासत्तित्वस्यात्यन्तमसम्भावितत्वात् ।
तस्मान्नान्यथाख्यातिवादः सोपपत्तिकः ।
न तावदख्यातिवादः सोपपत्तिकः, इदं रजतमितिज्ञानस्य सत्यरजतज्ञानवत्पुरोवर्तिनि रजतवैशिष्ट्यावगाहिनो भावरूपत्वेन गौरवकरभेदाग्रहरूपाभावत्वकल्पनाया अत्यन्तमप्रामाणिकत्वात् ।
न तावधिष्ठानशुक्त्यज्ञानोपादानकम्, अत एव शुक्त्यभिन्नत्वेनानिर्वचनीयं रजतमुत्पद्यते, तदेवेदमिति चक्षुषा प्रत्यक्षीक्रियत इति साधीयानयं पक्ष इति वाच्यं, युष्मन्मते व्यावहारिकसत्यत्वस्थलेवान्तःकरणनिर्गमाङ्गीकारेण शुक्तिरजतस्य प्रतिभासमान-
[[३२५]]
योगक्षेमत्वेन वस्तुत्वाभावात्, वृत्तिनिर्गमस्यानङ्गीकार्यत्वेन प्रत्यासत्तेरेवा भावात्, शुक्तिरजतमप्रामाणिकमेव ।
न तावदसदेव रजतमभादितिप्रतीत्या शुक्तौ रजतं शशशृङ्गवदसदेवप्रत्यक्षीक्रियत इति माध्वपक्षः साधीयान्, असतो भानायोगात् ।
अन्यथा शशशृङ्गस्यापि भानं स्यात् ।
तस्माच्छुक्तौ रजतं सदेव प्रतीयते ।
तस्य च चक्षुषा सन्निकर्षः संयोग एव ।
पुरोवर्तिनो रजतस्य द्रव्यत्वेन चक्षुषश्च द्रव्यत्वेन तयोः सम्बन्धस्य संयोगस्यैव वक्तुमुचितत्वात् ।
अतस्तेन संयोगेन प्रत्यासत्तिभूतेन चक्षुषा शुक्तौ सदेव रजतं प्रत्यक्षीक्रियत इति तद्दृष्टान्तेन प्रपञ्चस्यापि सत्यत्वमङ्गीक्रियते ।
भेदश्रुतिः प्रामाणिकभेदविषयिणी, अभेदश्रुतिस्तु विशिष्टाद्वैतविषयिणीति न किङ्चिदप्यसत्यमस्मन्मते ।
अत एव स्वप्नस्याप्यसत्यत्वं नास्ति, अन्यथा शुक्रोत्सर्गः सुखानुभवश्च प्रामाणिको न स्यात्; तत्कारणस्य स्वाप्निकतरुणीसम्भोगस्याप्रामाणिकत्वात् ।
अतस्तत्कार्यान्यथानुपपत्त्या तत्कारणस्य सत्यत्वमवश्यं वाच्यमेव ।
अत एव तृतीयाध्याये भगवता बादरायणमुनिना ब्रह्ममीमांसासूत्रकारेण स्वाप्निकसृष्टेर्याथार्थ्यमभ्यधायि ।
श्रुतिरपि तमेवार्थमनुगृह्णाति ।
“अथ रथान्रथ-योगान्पथः सृजत” इति ।
नच “मायामात्रन्तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्” ।
इत्युत्तरसूत्रेणायाथार्थ्यं प्रतिपाद्यत इति वाच्यं, तस्य सूत्रस्य पुर्वपक्षोत्थापकत्वेन सिद्धान्तसूत्रत्वाभावात्, शन्ध्ये सृष्टिराह ही” ति सूत्रस्यैव सिद्धान्तसूत्रत्त्वादिति परमं रामानुजरहस्यम् ।
अत एव पूर्वतन्त्रे षष्ठाध्याये तृतीयचतुर्थपादयोः प्रतिनिधिपेटिकारूपयोर्मुख्याभावे प्रतिनिधिनाऽनुष्ठानं प्रतिपादितम् ।
केषां द्रव्याणां प्रतिनिधित्वमित्याक्षेपे सति यस्मिन्द्रव्ये येन येन द्रव्येण सादृश्यं तत्तस्य प्रतिनिधिः, यथा व्रीहीणां नीवाराः प्रतिनिधयः ।
तत्र नीवारे व्रीहीणां बहुसादृश्यमस्ति ।
व्रीह्यवयवानां बहूनां सादृश्यस्य नीवारे विद्यमानत्वात् ।
अतो मुख्याभावे तद्गतबह्ववयववन्तो नीवारा यथा प्रतिनिधीयन्ते, एवं शुक्तिकायामपि
[[३२६]]
रजतावयवानां बहूनां विद्यमानत्वाद्रजतप्रतीतिः सत्यविषयिण्येव जायते ।
अतस्तद्दृष्टान्तेन भेदस्यापि सत्यत्वम्, प्रपञ्चस्यापि सत्यत्वमेव ।
बन्धोऽपि सन्नेव साक्षात्काराद्भगवतो निवर्त्यते, “तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाये” ति श्रुतेः ।
स च साक्षात्कारः श्रोतव्यो मन्तव्य" इत्यादि श्रुतिवशेन श्रवणमनननिदिध्यासनजन्य एव मोक्षदः, नत्वापाततो जातः ।
स च साक्षात्कारः कर्मसमुच्चित एव मोक्षकारणम् ।
तथा च श्रुतिः “कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः” इति ।
तानि च कर्माणि न केवलवैदिकानि मोक्षसाधनानि, किन्तु पञ्चसंस्कारादिभगवच्छास्त्रोक्तधर्मसहितानीत्युदक्कूला रामानुजाः ।
वैदिकानि कर्माणि विना भगवच्छास्त्रोक्तान्येव मुक्तिसाधनानीति दक्षिणकूला रामानुजाः ।
साक्षात्कारस्तु यथा वेदपुराणधर्मशास्त्रार्थश्रवणमनननिदिध्यासनादिजन्यो मोक्षसाधनम्, तथा भगवच्छास्त्रद्रविडवेदार्थश्रवणमनननिदिध्यासनजन्यस्यापि मोक्षसाधनत्वमित्युदक्कूला रामानुजाः, दक्षिणकूला रामानुजास्तु भगवच्छास्त्रद्रविडवेदार्थश्रवणमनननिदिध्यासनजन्यो वा केवलद्रविडवेदार्थश्रवणमनननिदिध्यासनजन्यो वा साक्षात्कारो मुक्तिस्थानमिति वदन्ति ॥
मुक्तिस्तु न सयुग्भावः, “तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्ययुपैति ।
जक्षत्क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा वयस्यैर्वा” इत्यादिश्रुतिभिर्भगवच्छास्त्रपाञ्चरात्रानुकूलाभिः सारूप्यमेव परवासुदेवशेषत्वस्य स्वभावसिद्धत्वेन दास्यस्य शेषिणा स्वामिना भगवता वैक्यस्य सर्वथा वक्तुमनुचितत्वात् ॥
तस्मादित्थं परमो निष्कर्षः-अन्तर्यामिब्राह्मणमहोपनिषद्वाक्यैश्च शरीरिशरीरभावो भगवज्जीवात्मनोः पारमार्थिकः ।
विशेषणं शरीरं जीवात्मान्तर्यामी भगवान्वासुदेवः शरीरी विशेष्यः विशेषणविशेष्ये नातीव भिन्ने, अतो विशिष्टमेकमेव ।
विशिष्टाद्वैतज्ञानं मोक्षसाधनम् ।
तत्त्वमस्यादिवाक्यानि न स्वरूपाभेदपराणि, किन्तु विशिष्टाद्वैत-
[[३२७]]
पराणि ।
अतस्तदिति षष्ठीलोपः, तस्य त्वमसि तस्य भगवतः सम्बन्ध्यसि, भगवतत्सम्बन्धिशरीरमसीति वाक्यार्थः ।
प्रतिनिधिपेटिकान्यायेन शुक्तिकायामिदं रजतमिति ज्ञानं सद्रजतविषयकम् ।
तद्दृष्टान्तेन प्रपञ्चस्य सत्यत्वमेवानुमानेन साधयितुं शक्यम् ।
अद्वैतश्रुतिः सर्वाऽपि लाक्षणिकी, द्वैतश्रुतिः सर्वाऽपि पारमार्थिकी; अतो भगवच्छास्त्रतदनुकूलभगवत्प्रतिपादकवेदद्रविडवेदार्थश्रवणादिक्र मजन्यसाक्षात्कारज्ञानं विशिष्टाद्वैतविषयकं केवलं न मोक्षसाधनम्, किन्तु भगवच्छास्त्रोक्तपञ्चसंस्कारादीनि तदविरुद्धानि वैदिक कर्माणि च ।
भगवत्स्वरूपञ्च, अर्चाविभवव्यूहान्तर्यामिपरवासुदेवभेदेन पञ्चधा ।
मुक्तिश्चाण्डभित्तेरुपर्यप्राकृतवैकुण्ठे भगवत्सारूप्यं प्राप्तस्य नित्यशेषस्य नित्यदासस्याप्राकृतसकलभोगप्राप्तिरिति रामानुजमतानुयायिनः ॥
तदत्यन्तमनुपपन्नम् ।
तथाहि- “अत्यन्तनिर्मलज्ञानस्वरूपं परमार्थतः ।
तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥” इति विष्णुपुराणोपक्रमवाक्येन “यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुः श्रोत्रं तदपाणिपादम् ।
नित्यं विभुं सर्वगतं सुसूक्ष्मं यद्भूतयोनिं परिपश्यन्ति धीराः ॥” इति श्रुत्या च भगवतो ज्ञानानन्दसत्स्वरूपस्य मूर्तेरेवाभावेनार्चादिस्वरूपकल्पनमत्यन्तमप्रामाणिकम् ।
तत्राप्यर्चायां भगवत्स्वरूपकल्पनमतितुच्छम्, “अग्नौ तिष्ठति विप्राणां हृदि तिष्ठति योगिनाम् ।
प्रतिमास्वप्रबुद्धानां सर्वत्र समदर्शिना” मिति वचनेन तवाप्रबुद्धत्वात्प्रतिमायां भगवदभेदकल्पनं युक्तमेव ।
नच तर्हि शालग्रामादिषु भगवद्बुद्धिः कथं क्रियत इति वाच्यम्, शास्त्रमहिम्ना भगवदभेदविषयिण्याऽऽहितारोपरूपा दृष्टिः क्रियते, तावता तस्य तत्त्वं किमुपपन्नं प्रत्यक्षविरोधात् ।
नहि श्राद्धे पितृत्वेन भावितो ब्राह्मणः साक्षात्पिता भवति ? शास्त्रात्तु प्रवृत्तिविशेषः कामं क्रियतां, श्रेयो वाऽप्येधस्व, न हि तावता तस्य तत्त्वं भवति ।
यदुक्तं रामकृष्णाद्यवतारा भगवद्रूपा इति तदंशेनास्माकं विवादः,
[[३२८]]
बहूनां श्रुतिस्मृतीतिहासपुराणवचनानां विद्यमानत्वात् ।
तदुक्तं श्रीमद्रामायणे वाल्मीकीये- श हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः ।
अर्थितो मानुषे लोके जज्ञे विष्णुः सनातन" इति ॥
यदुक्तं सङ्कर्षणप्रद्युम्नवासुदेवानिरुद्धा व्यूहपतयो भगवन्त एवेति तदत्यन्तमनुपमन्नम् ।
किं व्यूहा जीवराशयः सङ्कर्षणादयस्तदधिपतयः, किं वा तेऽपि भगवन्त एव तदधिपतयः सङ्कर्षणादयोऽपीति ? नाद्यः- जगत्पतेर्वासुदेवस्य राजनिकटवर्तिनामधिपतीनां स्वस्वव्यूहानामिवाल्पाधिपत्वकल्पनेन परमेश्वरत्वहानिः ।
नच भवन्मते शिवस्य जगत्पतेरीशानदिगाधिपत्यं यथा तद्वदत्रापीति वाच्यम्, “ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते” इत्यथर्वशिखावचनेन एकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्त" इति माण्डूक्यवचनेन च कार्यकारणरुद्रयोर्भेदेन कार्यरुद्रस्य परिमिताधिकारसम्भवात् ।
भवन्मते नारायणस्यैव जगत्कारणत्वाङ्गीकारेण तस्य कार्यकारणरूपानङ्गीकारात्कथमिदं सम्भवति ? न द्वितीयः- स्वस्य स्वपतित्वस्यात्यन्तमसङ्गतत्वात् ।
किञ्च सङ्कर्षणादिष्वपि किन्तारतम्यं किं वा साम्यम् ? नाद्यः- स्वापेक्षया स्वस्यातिशयत्वमेकस्यैव वस्तुनः को वा प्रेक्षावान्वदेत् ? नच रामावतारे रामलक्ष्मणभरतशत्रुध्नानां भगवतामेव भवद्भिर्यथाङ्गीकृतं तारतम्यं तद्वदिहाप्यङ्गीक्रियत इति वाच्यं, अवतारादिषु भगवतो ब्रह्मदत्तराक्षसवरपरिपालनार्थं प्राकृतमानुषरूपाङ्गीकारवद्रूप- भेदेन प्राकृततरतमभावाङ्गीकारसम्भवेऽप्यप्राकृतदशायां भगवतस्तथाङ्गीकारस्या त्यन्तमनुचितत्वात् ।
तस्मादनिर्वाहक्षममेव दुस्तन्त्रपाञ्चरात्रे भगवत्स्वरूपकल्पनम् ।
अतो भगवत्स्वरूपनिर्णयाय शुद्धवैदिकशिष्टैर्भवितव्यं रामानुजैः, एवमेवातप्तचक्राङ्कनानामुष्मिकश्रेयःसाधनत्वमपि ।
किञ्च पाञ्चरात्रविषयेऽप्रामाण्यं भाष्य एवोक्तम्, लोकप्रसिद्धत्वान्नेहोच्यते ।
न द्वितीयः- भगवान् वासुदेवो निरञ्जन एकः परमार्थतत्त्वमिति तत्पाञ्चरात्रवचनविरोधात् ।
अपिचाप्राकृतवैकुण्ठे
[[३२९]]
पञ्चसंस्कारसंस्कृता द्रविडवेदान्तविदो वैष्णवाः परमपदे ङिरञ्जनः परमं साम्यमुपैती" ति श्रुत्युक्तसाम्यन्तेन भजन्ते परमवासुदेवेनेति वाच्यं, तर्हि सङ्कर्षणादीनां हीनत्वं स्पष्टमेव पर्यवसितम् ॥
यदुक्तमन्तर्यामी भगवद्रूप इति तत्रोच्यते, इत्थं खलु भवतां रामानुजानामाशयः “यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृत” इत्यादिषु वाक्येषु भगवतोऽन्तर्यामिभावः शरीरशरीरिभावश्च प्रतिपाद्यते ।
लोके शरीरशरीरिणोर्नातिभेदव्यवहारः ।
शरीरं विशेषणं भगवान्विशेष्यः, विशिष्टमेकं “तत्त्वमस्यहं ब्रह्मास्मी” त्यादिश्रुतयो विशिष्टाद्वैतपराः, तत्त्वमसि तस्य त्वमसि भगवत्सम्बन्धिशरीरमपीत्यभेदश्रुतीनामर्थः, अभ्यासे हि सति भूयस्त्वमर्थस्य भवतीति न्यायेनासकृदन्तर्यामिब्राह्मणेऽन्तर्यामीति शरीरमित्युपदेशाद्विशिष्टाद्वैत एव सङ्गच्छत इति ।
भवेदयं मनोरथो यद्यन्तर्यामिब्राह्मणं रामानुजजीवातुशरीरशरीरिभावपरम्, अन्तर्यामित्वपरञ्च भवेन्नान्तर्यामित्वे तात्पर्यम् ।
किन्तु जीवब्रह्मैक्य एव ।
अन्तर्यामित्वन्त्वनूद्यते, जीवब्रह्मैक्यं विधीयते ।
तस्मात्तत्रैव श्रुतेस्तात्पर्यमवश्यं वक्तव्यम् ।
तथाहि- यस्य पृथिवी शरीरम्, यस्यादित्यः शरीरमित्युक्त्वा तदुपरि एष त आत्मान्तर्याम्यमृत इति श्रूयते ।
मैत्रेयीं प्रति “योऽन्तर्याम्यमृतः, एष ते तवात्मा स्वरूप"मित्युपदेशः क्रियते ।
अतस्तत्त्वमसीतिवदभेदोपदेश एव पर्यवसानम्, नतु शरीरशरीरिभावेऽन्तर्यामित्वे च ।
नच यस्य पृथिवी शरीरम्, यस्यादित्यः शरीरम्, यस्य वायुः शरीरम्, यस्यात्मा शरीरम्, यस्सर्वस्मिंस्तिष्ठन्सर्वमन्तरो यमयति, यस्य सर्वं शरीरमिति शरीरत्वेऽस्यैवाभ्यासदर्शनात्, “अभ्यासे हि सति भूयस्त्वमर्थस्य भवति, नाल्पत्वमपि, प्रागेवोपचरितार्थत्व"मिति न्यायेन शरीरशरीरिभाव एव तात्पर्यविषयीभूत इत्युच्यत इति वाच्यं, तथैव शरीरं शरीरमित्युक्त्वा तत्तद्वाक्योपरि एष त आत्मान्तर्याम्यमृत इत्यभ्यासस्यापि दर्शनादभ्यासे
[[३३०]]
हि सतीति न्यायः स्वरूपाभेदोपदेशेऽपि साधारणः ।
परन्तु निपुणतरं विचार्यमाण एव त आत्मेत्युपदेशानन्तरं वाक्यविरामादभेदोपदेश एव तात्पर्यविषयीभूत इति निश्चीयते ।
यस्यात्मा शरीरं यस्य पृथिवीत्यनन्तरम् एष त आत्मान्तर्याम्यमृत इत्युपदेशात्, शरीरमित्यनन्तरं वाक्यसमाप्तेरभावात् ।
शरीरशरीरिभावोऽन्तर्यामिभावश्चानूद्येत इति दृढं निश्चीयते ।
अस्मात् श एष इह प्रविष्ट आनखाग्रेभ्य” इतिवत्स्वरूपाभेद एव वाक्यरीतिविशेषणं परमाभिमतम् ।
तव तु तादृशवाक्याशयविशेषज्ञानाभावादन्तर्यामिब्राह्मणस्यान्तर्यामिभाव् अ एव तात्पर्यमिति निश्चयो युक्त एव ॥
यदुक्तं तत्त्वमस्यहं ब्रह्मास्मीति वाक्यानां तस्य त्वमसीति षष्ठीलोपमङ्गीकृत्य विशिष्टाद्वैते तात्पर्यमिति तत्तव बुद्धिलोपाद्युक्तम् ।
नतु षष्ठीलोपात् ।
यदि विभक्तिलोपोऽत्राङ्गीक्रियेत्, तर्हि पूर्ववाक्येऽपि “तत्सत्यं स आत्मा” इत्यत्रापि विभक्तिलोपमङ्गीकृत्यान्यथान्यथा वाक्यार्थवर्णनं कर्तव्यमव्युत्पन्नसम्मोहनार्थम् ।
तस्मात्समाधिकरणबुद्ध्या पर्यालोच्यमानेऽर्थे तत्सत्यं तच्छब्दवाच्यब्रह्म सत्यम्, स आत्मा श य एषोऽणिमैतदात्म्यमिदं सर्व” मिति पूर्वपरामर्शात्स आत्मा परमात्मा तद्ब्रह्म त्वं भवानसीति स्वरूपाद्वैत एव वाक्यतात्पर्यं प्रतीयते ।
किञ्चान्तर्यामिब्राह्मणस्याद्वैते पर्यवसानेन सर्वदा विशिष्टाद्वैते उक्तरीत्या तात्पर्याभावेन च तत्त्वमस्यादिवाक्यानां निरातङ्कं प्रतीयमानार्थे तात्पर्यम् ।
अपि च “यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति ।
यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ।” इति श्रुत्या द्वैतमसत्यमिति भाति ।
यत्र हि द्वैतमिव भवति ।
वस्तुतो द्वैतं नास्ति शुक्तिरजतवद् द्वैतं व्यवहारदृष्टौ बुद्धिविषय इति स्वरसतस्तात्पर्यमस्याः श्रुतेः ।
“द्वैतिनोऽतथ्यदर्शेन” इति विष्णुपुराणवाक्याच्च द्वैतमसत्यमिति निश्चितमेव ।
अत उपरिभागेन यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदित्यनेनाद्वैतमेव निर्व्यलीकमुच्यते ।
तस्माद्दृढीकृतमद्वैतम् ।
अनुमानेनापि
[[३३१]]
द्वैतासत्यत्वं सुवचम् ॥
यच्चोक्तं शुक्तिरजतदृष्टान्तमङ्गीकृत्य खलु द्वैतासत्यत्वं साधनीयम् ।
प्रतिनिधिपेटिकान्यायेन शुक्तौ रजतं सत्यमेव वर्तत इति तदतिमन्दम् ।
यथा प्रतिनिधौ नीवारे व्रीह्यवयवाः कतिपये वर्तन्ते, तेन पुरोडाशनिष्पत्तिरपि क्रियते, तद्वदत्रापि सत्सु रजतावयवेषु तेन कटकमकुटादिकमपि क्रियेत् ।
तस्माद्रजतसत्यत्वोक्तिरसत्योक्तिर्जाता ।
किञ्च लौकिकानां प्रातीतिकं शुक्तौ रजतमित्यनुभवान्न शुक्तिरजतं सत्यम् ॥
यच्चोक्तं स्वाप्निकानां पदार्थानां सत्यत्वमिति, तद्यथा चरमधातूत्सर्गादेः सत्यकार्यस्य सत्यकारणजन्यत्वावश्यम्भावात्स्वाप्निकयुवतीसम्भोगादेस्सत्यत्वं तद्वदिति तदसत्, असत्यशुक्तिरजतदर्शनेन सत्यपुरुषकुतूहलादेरुत्पत्तिदर्शनेन तादृशनियमस्याप्रयोजकत्वात् ।
नच तत्राऽपि शुक्तिरजतविषयज्ञानस्य सत्यत्वान्नियमभङ्गो नास्तीति वाच्यं, ज्ञानानां विषयोपरागं विना स्वतः सत्यत्वस्य वक्तुमशक्यत्वेन विषयाग्राहित्वेनासत्यत्वस्य वक्तुमुचितत्वात् ।
तस्मात्सत्यकारणजन्यत्वं सत्यकार्यस्येति नियमभङ्ग एव ।
किञ्च यदा कृष्णदन्तं पुरुषं पश्यति, तदैनं निहन्तीति वचनेनासत्यकृष्णदन्तपुरुषदर्शनेन सत्यमरणं जायते ।
तत्र तव नियमभङ्ग एव, तत्र पुरुषस्यासत्यत्वात् ॥
यच्चोक्तं शन्ध्ये सृष्टिराह ही" ति “अथ रथान् रथयोगान्पथः सृजती"ति स्वप्नसृष्टेर्यथार्थत्वमुच्यत इति तदसङ्गतम्, “मायामात्रन्तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादि"ति सूत्रेणोपरितनेनायाथार्थ्यप्रतिपादनात् ।
नच मायामात्रमिति सूत्रं पूर्वपक्षसूत्रानन्तरं खलु सिद्धान्तसूत्राभिधानम् ।
इह कथं व्यत्यासो भवेत् ।
न च “वैश्वानरः साधारणशब्दविशेषा” दितिवत् सिद्धान्तेनोपक्रमः ।
“सन्ध्ये सृष्टिराह ही"त्यनन्तरं शब्दादिभ्योऽन्तः प्रतिष्ठानाच्चे"त्यादिसूत्रवन्मायामात्रमिति सूत्रेण पूर्वपक्षः क्रियत इति वाच्यं, तद्वदत्र ङेति चेन्न तथा दृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयत” इति
[[३३२]]
स्पष्टं शङ्कोत्तरसूत्राभावात् ।
किन्तु “मायामात्रन्तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वा” दित्येतावन्मात्रस्य विद्यमानत्वात् ।
अतः सृष्टिराह हीति स्वप्नयाथार्थ्यप्रतिपादकं पूर्वपक्षसूत्रम्, मायामात्रन्तुकाकार्त्स्न्येनानभिव्यक्तस्वरूत्वादित्युपरिष्टात् ।
कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादित्यंशेन व्यक्तं स्वप्नायाथार्थ्याभिधायकं सिद्धान्तसूत्रमिति बुद्ध्यार्जवयुक्तानां द्योतते ।
त्वया तु वक्रबुद्धिना तत्त्वमस्यादिवाक्यं यथा व्याकुलीकृतं तथा पूर्वपक्षसूत्रं सिद्धान्तसूत्रमिति सूत्रमपि व्याकुलीक्रियते ।
तत्प्रज्ञावैपरीत्यायत्तमित्युपेक्ष्य सुधीभिः स्थातव्यम् ।
तस्माद् द्वैतमपारमार्थिकं दृश्यत्वात्, शुक्तिरजतवदित्यनुमानप्रयोगः सम्भवत्येव ।
यदुक्तं शुक्तिरजते सन्निकर्षाभावात्प्रत्यक्षत्वं न सम्भवतीति तत्तुच्छम्, प्रातिभासिकस्थले वृत्तिनिर्गमाभावेऽप्यविद्यावृत्तिविषयत्वं वा साक्षिभास्यत्वं वाऽङ्गीक्रियते ।
किञ्चाप्रत्यक्षेऽप्याकाशे लोके तन्मलिनता ज्ञायते ।
तत्र सत्ख्यातिवादिनामायुष्मातां कथं निर्वाहः ? आकाशस्य पुरोवृत्तित्वेन गृहीतुमशक्यत्वात् ।
रजतावयवा इव शुक्तौ कस्यावयवा आकाशे वर्तन्ते ।
अत्र तव मूकतैवोचिता ।
अतो भ्रान्तेर्नानाविधत्वादेकं रूपं वक्तुमेवाशक्यम् ।
नच दृश्यत्वमस्त्वपारमार्थिकत्वं मास्त्वित्यप्रयोजकत्वशङ्का क्रियत इति वाच्यम्, विपक्षे बाधकतर्कस्य विद्यमानत्वात् ।
द्वैतस्य यद्यपारमार्थिकत्वं स्यात्तर्हि चैतन्यवद् दृश्यत्वमपि न स्यादिति ।
किञ्च भेदो यदि पारमार्थिकस्तम्भकुम्भयोस्तद्ग्रहणं कथम् ? स्तम्भेकुम्भभेदग्रहार्थं कुम्भज्ञानमावश्यकम्, अभावज्ञानस्य प्रतियोगिज्ञानसापेक्षत्वात् ।
कुम्भज्ञानञ्च न निर्विकल्पकमभावज्ञानजनकम्, किन्तु सविकल्पकमिति वाच्यम्; तच्चेतरव्यावृत्तघटत्वकम्बुग्रीवादिमत्वप्रकारकमिति वाच्यम्; तद्धर्म कुम्भेतरव्यावर्तकत्वज्ञानार्थं कुम्भे स्तम्भभेदो ग्राह्यः कुम्भे स्तम्भभेदज्ञानार्थं प्रतियोगिस्तम्भज्ञानमावश्यकं वाच्यम्, तथा च कुम्भे स्तम्भभेदज्ञानार्थं प्रतियोगिस्तम्भज्ञानमवश्यं वाच्यम्, कुम्भभेदज्ञानार्थं स्तम्भे कुम्भज्ञानमाव-
[[३३३]]
श्यकमित्यन्योन्याश्रयः ।
अपि च यदि भेदः स्वरूपमेव न भवति भिन्नं; घटात्पदार्थान्तरमित्युच्यते तर्हि घटस्यापि तस्यापि भेदो वाच्यः, तद्भेदस्यापि भेदस्तत्तद्भेदस्यापि भेद इत्यनवस्था, तस्माद्द्वैते युक्तिरेव नास्ति ।
“द्वैतिनोऽतथ्यदर्शिन” इति प्रमाणनिषिद्धञ्चेत्यादिभेदधिक्कारनिरूपणलेशः ।
तस्मादद्वैतमेव पारमार्थिकमिति सर्वं सुसिद्धम् ॥
यदुक्तं कर्मणां मोक्षसाधनत्वमिति तदप्यतिमन्दम्, साक्षात्कारान्तरङ्गसाधने निदिध्यासने यमनियमप्राणायामादीनामन्तरङ्गसाधनानां मध्ये प्राणायामाभ्यासवेलायां कर्माचरणमसङ्गतम्; कर्म च न प्राणायामवद् दृष्टं साधनम्, किन्न्त्वदृष्टम् ।
तत्र दृष्टैः प्राणायामादिभिः कार्यसम्भवे किमदृष्टार्थैः कर्मभिः ।
किञ्च यमो नाम वैदिकानि नित्यनैमित्तकानि कर्माणि, नियमो नाम दयादयो गुणाः, तत्र कर्माणि सर्वाणि सन्यस्य खलु ब्रह्मविचारः कार्यः, न चेद्बह्मविषयकानन्यव्यापाराभावात्तत्त्वसाक्षात्कारः कथं भवेत् ? अथ कर्मणां ब्रह्मविचारे प्रसक्तिरेव नास्ति, प्रत्युत विघ्न एव कर्माचरणम् ।
कर्माचरणे साक्षात्कारसाधकश्रवणादिव्यापाराणामैदं पर्यभङ्गात् ॥
अतः श्रवणेच्छातः प्राक् चित्तशुद्धिसम्पादने कर्मणामुपयोगः ।
नियमसञ्ज्ञितानां दयादिगुणानामधिकारिविशेषणेषु शमदमादिष्वन्तर्भावः ।
युक्तञ्च तत्; इतः प्रत्यूहाभावाच्छ्रवणेन मननं भवति, ततः परं मननेन निदिध्यासने जनयितव्ये योगशास्त्रविहितान्यासनादीनि पूर्वपूर्वाण्युत्तरोत्तरं प्रति दृष्टकारणानि कर्तव्यानि ।
तथाहि- आसनं प्राणायामाङ्गम्, प्राणायामेन योगशास्त्रप्रमाणानुष्ठितेनोपास्यब्रह्मधारणाप्रतिबन्धक- क्षुत्तृष्णानिद्रालस्यादिनिवृत्तेः पञ्चप्राणेन्द्रियदशकस्वाधीनतारूपप्रत्त्याहारो भवति; प्रत्याहाराद्धारणा सगुणविषयिणी निरन्तरा भवति; ततो विजातीयप्रत्ययतिरस्कारेण सजातीयप्रत्ययप्रवाहीकरणरूपनिदिध्यासनं भवति; ततो विधुरस्य कामिनीभावनया कामिनीसाक्षात्कार इव सगुणब्रह्मसाक्षात्कारो
[[३३४]]
भवति; तदनन्तरं निर्गुणसाक्षात्काररूपा चाखण्डाकारवृत्तिरविद्यानिवर्तिका भवति ।
इत्थं साधनचतुष्टयसम्पन्नस्य सकलनित्यनैमित्तिकानि सन्यस्य ब्रह्मविषयश्रवणमननादिकुर्वतः, कर्माचरणप्रसक्तिः कुत्र वर्तते ? तस्मात्कर्ममोक्षसाधनमिति वचनमेतादृशाध्यात्मयोगशास्त्रानभिज्ञकेवललौकिकसम्मोहनमात्रम् ।
“कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।” इत्यादिवचनं ब्रह्मविचारानाससक्तकेवलगृहस्थविषयकम् ॥
यच्चोक्तं पञ्चसंस्कारसहितैर्नित्यनैमित्तिकैश्चित्तशुद्धिः सम्पादनियेत्युदक्कूला रामानुजाः, तदतिमन्दम् ।
आश्रमधर्मवद्वैदिकतान्त्रिकाणां बहूनामेकत्र स्थातुमसम्भवात्स्वसमग्रानुष्ठानायाधिकारिणः सामर्थ्यात्कल्पयन्ति कर्माणि तानि तानि ।
तथैव वचनानि “अत्यन्तस्खलितानां हि नराणां वेदमार्गतः ।
पाञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः ॥” इत्यादीनि वैदिकानर्हाणां तन्त्रमार्गप्रवेशं वदन्ति ।
अत एव दक्षिणकूला रामानुजाः श्रुतिमार्गं त्यक्त्वा पञ्चसंस्कारैः द्रविडप्रबन्धैश्च सङ्कीर्णतया वर्तन्ते ।
एतेन द्रविडवेदकेवलवेदोभयवेदार्थज्ञानं मोक्षसाधनमिति निरस्तम् ।
एकेन साधनेन सम्भवे साधनान्तरस्य वैयर्थ्यात् ।
अधिकारिभेदेन द्वयोर्वेदयोः स्वीकारसम्भवात् ।
अत एव द्रविडवेदप्रवक्तारो नम्माल्वारर्प्रभृतयः शूद्रा इति गाथाप्युपपन्ना ॥
यच्चोक्तं ङिरञ्जनः परमं साम्यमुपैती"ति श्रुत्या सारुप्यमेव मुक्तिः, न तु सायुज्यं तस्य भगवता शेषिणा सर्वस्वतन्त्रेण लक्ष्मीपतिना नित्यदासस्य नित्यशेषस्य जीवात्मनोऽसम्भवादिति तदतिमन्दम्, “यत्र हि द्वैतमिव भवति ।
तत्त्वमसि ।
अहं ब्रह्मास्मी"ति श्रुतिभिः, “क्षेत्रज्ञञ्चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
द्वैतिनोऽतथ्यदर्शिनः ।” इत्यादिभिः स्मृतिभिः, “तदनन्यत्वमारम्भणशब्दादिभ्यः” इतिसूत्रेण च ब्रह्माद्वैते चैतन्यमात्रस्य वास्तविकत्वे विकाराणां शुक्तिरजतवदनृतत्वे च सिद्धे, जीवे विद्यमानकिञ्चिज्ञत्वस्य वासुदेवे
[[३३५]]
विद्यमानसर्वज्ञत्वस्य लक्ष्मीपतित्वस्य च व्यावहारिकमात्रस्य परमार्थदशायां, वक्तुमनुचितत्वेन सायुज्यस्य सम्भवात् ।
अत एव श्रुतिः “ब्रह्मविद्ब्रह्मैव भवति, ब्रह्मैव सन् ब्रह्माप्येती"ति ।
ननु ब्रह्मणा जीवस्य सायुज्याङ्गीकारे “जक्ष्यक्रीडन् रममाणः स्त्रीभिर्वायानैर्वा ज्ञातिभिर्वा वयस्यैर्वे” त्यादिश्रुत्युक्तभोगोपपत्तिः कथं सम्भवति, तस्मात्सारूप्यमेव मुक्तिरङ्गीक्रियताम् ।
तत्र चैता भोगश्रुतय उपपद्यन्त इति चेन्न, उपासकस्य वासुदेववत्सर्वस्वतन्त्रस्य “जगद्व्यापारवर्जं प्रकरणा"दिति सूत्रन्यायेन जगद्व्यापारेतरकर्मणि सामर्थ्यवतः प्रयागमरणे साम्राज्यप्राप्तिरिवाहङ्ग्रहोपासनाफलत्वेन सकलभोगसम्भवेन तस्य मुक्तित्वाभावात् ।
“विज्ञानमानन्दं ब्रह्म ।
सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादिश्रुतिभिः सच्चिदानन्दकूटस्थचैतन्यावस्थानस्यैव मुक्तित्वात् ।
अत एव “ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्तञ्च गच्छन्ती"ति स्मृत्या “परामृतात्परिमुच्यन्ति सर्वे” इति श्रुत्या च सगुणोपासकानां ब्रह्मकल्पपर्यन्तमवस्थाय ब्रह्मणा सह मुक्तिरिति प्रतिपादनमसङ्गतमेव ।
यदि सारूप्यमेवमुक्तिः, सा चाण्डभित्तेरुपर्यप्राकृतवैकुण्ठे भगवत्कल्पितसकलाप्राकृतभोगप्राप्तिस्तर्हि पुनरप्यप्राकृतशब्दवाच्यसंसारप्राप्त्या घट्टकुट्यां प्रभातमिति न्यायेन तस्यामुक्तित्वमेव स्पष्टम् ।
प्रत्युत बन्ध एव स्यात्, तथाहि अप्राकृतवैकुण्ठेऽप्राकृतपुरुषैर्वैष्णवैस्सह सकलभोगप्राप्तिः कथं सम्भवति, भोगसाधनानामभावादित्यप्राकृतयुवत्यः, ताभिः सहाप्राकृतसम्भोगः, अप्राकृतगर्भोत्पत्त्याऽप्राकृतपुत्रोत्पत्तिरित्येवमादिकं सर्वमपि स्यात् ।
भवतु को दोष इति चेत्सुखमात्रस्य दुःखानुषङ्गित्वस्य सिद्धव्याप्तिकत्वादप्राकृतयुवतीभोगाङ्गीकारेऽप्राकृतभार्यावियोगजन्यद् उःखमपि स्यादिति हन्त हन्त तत्त्वमस्यादिवाक्यार्थवर्णनवन्मुक्तिवर्णनमपि व्याकुलीकृतमेव ॥
ननु युष्माकं तर्हि श्त्रीलोककामो भवती” त्यादिना कथं भोगप्राप्तिरित्युच्यते ? तत्राप्येते दोषाः समाना एवेति चेन्न सगुणो-
[[३३६]]
पासनानां निर्गुणे पर्यवसानार्थत्वात्, निष्कामकृतनित्यनैमित्तिककर्मणां चित्तनैर्मल्यार्थमनुष्ठितानामपि शरीरपुष्टिरोगादिनिवृत्तिरूपानेकफलजनकत्ववत्तत्फलजनकत्वेऽपि तत्फलस्यान्तरालिकत्वेन मुक्तित्वाभावात् ।
मुक्तिरखण्डसच्चिदानन्दस्वरूपत्वेन स्वरूपानन्दे तेषामपि भोगसाधनानामनपेक्षितत्वेन पुनरर्थप्राप्त्यसम्भवेन संसारदशाविलक्षणत्वेन मुक्त्युपपादनस्याद्वैतिनां सम्भवात् ।
उपासनाफलानां विलक्षणत्वेनापि वर्णनात्, ब्रह्मसाक्षात्कारस्यापासनाविलक्षणत्ववर्णनाच्च न काप्यनुपपत्तिरस्मन्मते सर्वाप्यनुपपत्ती रामानुजस्यैवेति सर्वं रमणीयम् ॥
इति श्रीमद्-अनादि-निरञ्जन-जङ्गमापरावतार-
तोण्टद-सिद्धेश्वर-प्रसादासादित-
शाम्भवागमाम्बोधि-मथन-जनित-
निरुत्तरैकोत्तरशत-स्थल-भेद-भिन्न-षट्-स्थल–
तत्त्वबोध-सुधास्वादानन्द-सन्दोह-प्रदायकाचार्यवर्य-
श्रीमरितोण्टदार्य-विरचिते
यडव-मुरारि-कोटे-कोलाहलैकाङ्गि-वीर-
वैरि-सप्ताङ्ग-हरण-पश्चिम-समुद्राधीश्वर-
विशुद्ध-वैदिकाद्वैत-सिद्धान्त-प्रतिष्ठापनाचार्य-
केलदि-सदाशिव-राय-नायक-वंश-दुग्धार्णव-चन्द्र-
वीर-भद्र-धरणीन्द्र-धर्म्म-पत्नी-मल्लाम्बा-हृदयानन्द-
बसव-वसुधा-सङ्क्रन्दनोपदेशे
वीरशैवानन्द-चन्द्रिकायां वादकाण्डे रामानुजमतनिरूपणतन्निराकरणप्रकारो नामाष्टादशं प्रकरणम् ॥
[[३३७]]