वीरशैवानन्दचन्द्रिकायां वादकाण्डे सप्तदशं प्रकरणम् ॥
श्रुत्यागमपुराणौघसरस्वत्पारदर्शिना ।
उदीरितं त्वया स्वामिन्करुणासार्द्रचेतसा ॥
स्वामिन्योगमतस्याद्य प्रक्रियां भृङ्गिणेरिताम् ।
तद्दूषणं शीलिनोक्तं निशम्य मुदितोऽभवम् ॥
उपक्रान्तं ततः पश्चाद्भृङ्गिणा कस्य वा मतम् ।
दूषितं शीलिना तच्च कथं तद्वक्तुमर्हसि ॥
शृणु राजन्प्रवक्ष्यामि भृङ्गिणा कथितं मतम् ।
कीर्तितं शीलिना तत्र दूषणं शृणु सादरम् ॥
कर्तृत्वं प्रकृतेर्निराकृतमिति व्यक्ता तवाहङ्कृति- र्भो भो शीलिवराद्य माऽस्तु भुवने श्रुत्यागमोदीरितम् ।
ब्रूमो माध्वमतं हि तावकशिरः कुट्टाकयुक्त्यन्वितं तद्दुष्येत कथं त्वया तव मतिप्राविण्यमीक्षामहे ॥
तच्च माध्वमतमीरयाधुना भृङ्गिवर्य सृणुमः कृतादरम् ।
[[२९५]]
दूष्यते तदपि युक्तिभिर्मया पश्य मामकमतेः प्रवीणताम् ॥
माध्वाः स्वमतप्रक्रियामेवं वर्णयन्ति-द्वापरयुगे सर्वेषु धर्मेषु व्याकुलीभूतेषु तद्धर्मसंस्थापनाय ब्रह्मरुद्रादिभिरभ्यर्थितो भगवान्नारायणो व्यासरूपेणावतीर्णः, इष्टानिष्टप्राप्तिपरिहारापेक्षिणां तदुपायमलभमानानां मायावादप्रमुखमतान्तरेषु प्रविक्षूणां तत्त्वमजानतां लोकानामनुग्रहाय परमकारुणिकतया धर्मावबोधायोत्पन्नं वेदराशिं चतुर्धा विभजन्, पृथगेकैकं चतुर्विंशतिधा, एकोत्तरशतधा, सहस्रधा, द्वादशधा, विभाज्य तदर्थनिर्णयाय च ब्रह्मसूत्राणि चतुरध्यायात्मना प्रणिनाय ।
उक्तञ्च स्कान्दे-
नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् ।
किञ्चित्तदन्यथा जातं त्रेतायां द्वापरेऽखिलम् ॥
गौतमस्य ऋषेः शापाज्ज्ञाने त्वज्ञानतां गते ।
सङ्कीर्णबुद्धयो देवा ब्रह्मरुद्रपुरस्सराः ॥
शरण्यं शरणं जग्मुर्नारायणमनामयम् ।
तैर्विज्ञापितकार्यस्तु भगवान्पुरुषोत्तमः ॥
अवतीर्णो महायोगी सत्यवत्यां पराशरात् ।
उत्पन्नो भगवान्वेदानुद्दधार हरिः स्वयम् ॥
चतुर्धाप्यभजत्तांश्च चतुर्विंशतिधा पुनः ।
शतधा चैकधा चैव तथैव च सहस्रधा ॥
कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये ।
चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ॥
[[२९६]]
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ।
अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ॥
निर्विशेषितसूत्रत्वं ब्रह्मसूत्रत्वमप्यतः ।
यथा व्यासत्वमेकस्य कृष्णस्यान्यविशेषणात् ॥
सविशेषणसूत्राणि ह्यपाराणि विदो विदुः ।
मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः ॥
इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः ।
सूत्रेष्वेतेषु सर्वेऽपि निर्णयाः समुदीरिताः ॥
शब्दजातस्य सर्वस्य यत्प्रमाणञ्च निर्णयः ।
एवं विधानि सूत्राणि कृत्वा व्यासो महायशाः ॥
ब्रह्मरुद्रादिदेवेषु मनुष्येष्वपि पक्षिषु ।
ज्ञानं संस्थाप्य भगवान् क्रीडते पुरुषोत्तमः ॥
इति स्वोक्ताऽर्थे स्कान्दवचनानि प्रमाणयन्, “प्रथमस्तु हनूमान्स्याद्द्वितीयो भीमसेनकः ।
पूर्णप्रज्ञस्तृतीयस्तु भगवत्कार्यसाधकाः ॥” इति वचनावगमितवायुतृतीयावतारताप्रकाशितमहिमातिशयतया भगवत्कार्यसाधकत्वेन प्रतिपाद्यमानः पूर्णप्रज्ञापरसञ्ज्ञो माध्वाचार्यो नारायणापरावतारभगवद्वेदव्यासप्रणीतब्रह्मसूत्राणां नारायणैकतत्परतया भाष्यं प्रणयन्स्वाभिमतानुसारेण शाण्डिल्यमुनिप्रणीतप्रक्रियोपाश्रयलब्धसाहाय्यकं प्रमेयजातमेवमचीकथत् ।
तथाहि- तत्त्वं द्विविधं स्वतन्त्रमस्वतन्त्रञ्च ।
तत्र स्वतन्त्रो भगवान्विष्णुरेक एव ।
अस्वतन्त्रञ्च तत्त्वं द्विविधं भावोऽभावश्च ।
भावो द्विविधश्चेतनोऽचेतनश्च ।
चेतनो द्विविधो दुःखस्पृष्टा दुःखास्पृष्टश्च ।
तत्र नित्यदुःखासंस्पृष्टा रमा, तदन्ये चेतना दुःखसंस्पृष्टाः ।
दुःखसंस्पृष्टा अपि चेतना द्विविधाः, दुःखोपलक्षिता दुःखविशिष्टाश्च ।
[[२९७]]
उपलक्षिता मुक्ताः, दुःखविशिष्टा बद्धाः ।
दुःखस्पृष्टाः पुनर्द्विविधा मुक्तियोग्या मुक्त्ययोग्याश्च ।
मुक्तियोग्या अपि देवर्षिपितृगन्धर्वमानवभेदात्पञ्चविधाः ।
मुक्त्ययोग्या अपि दैत्या राक्षसाः पिशाचा मानवाधमा इति चतुर्विधाः ।
ते च पुनरन्धतमस्थिताः संसारस्थिता इति द्विविधाः ।
अचेतनमपि तत्त्वं द्विविधं नित्यमनित्यञ्च ।
नित्यं त्रिविधं वेदपुराणादिशब्दराशिः कालः प्रकृतिश्चेति ।
अनित्यमपि द्विविधमसंस्पृष्टं संस्पृष्टञ्च ।
असंस्पृष्टञ्च पुनर्महत्तत्त्वमहङ्कारो बुद्धिर्मनो दशेन्द्रियाणि पञ्चतन्मात्राणि पञ्चभूतानि च ।
संस्पृष्टञ्च तत्त्वं ब्रह्माण्डं, ब्रह्माण्डान्तर्गतं जगच्चेति ।
अभावोऽपि त्रिविधः प्रागभावः प्रध्वंसाभावः सनातनाभावश्चेति ॥
सर्वस्यैतस्यास्वतन्त्रप्रपञ्चस्य सृष्टिस्थितिसंहारनियमनज्ञानावरणबन्धमोक्षाख्याष्टकृत्यकर्ता स्वतन्त्रः स्वभिन्नानन्तकल्याणगुणपरिपूर्णः प्राकृतहेयगुणरहितो लक्ष्मीसमेतः शङ्खचक्रगदापद्महस्तः श्वेतद्वीपक्षीरसागरानन्तासनवैकुण्ठवासकलितोत्कण्ठः श्रीकण्ठपरमेष्ठिप्रष्ठसर्वसुपर्वसंसेव्यमानो भगवान्नारायण एव निखिलाम्नायैककण्ठ्यप्रतिपाद्यो मुक्तप्राप्यः ।
जगत्सत्यमेव ।
जीवाः सर्वे नारायणाद्भिन्नाः परस्परञ्च भिन्नाः ।
अजीवा अपि परस्परं भिन्ना नारायणादपि भिन्ना जीवेभ्योऽपि भिन्नाः ।
लक्ष्मीब्रह्मवायुसरस्वतिगरुडशेषरुद्रादीनां देवानां, विश्वामित्रादीनां तपोधनानां, प्रियव्रतादीनां राज्ञाञ्च नीचोच्चभावेनावस्थानम् ।
मुक्तिश्चानेकजन्मार्जितसद्धर्मानुष्ठानविशुद्धचित्ततया लब्धहरिप्रसादानां स्वस्वरूपानतिक्रमेण परमपदवैकुण्ठे निजसुखानुभवेन पुनरावृत्तिरहितमवस्थानम् ।
यथार्थं प्रमाणम् ।
तद्विविधं केवलमनुप्रमाणञ्च ।
तत्र यथार्थज्ञानं केवलं, तत्साधनमनुप्रमाणम् ।
केवलं चतुर्विधम् ईशलक्ष्मीयोग्ययोगिभेदेन ।
पूर्वद्वयमनादि नित्यं, स्वातन्त्र्यपारतन्त्र्याभ्यां तद्विशेषः ।
पूर्वं परगताखिलविशेषविषयं, द्वितीयमीशेऽन्येभ्योऽधिकमसार्वत्रिकं, अन्यत्र सर्वविषयम् ।
स्पष्टत्वे भेदः ।
योगिज्ञानमृजूनामनादिनित्यं, ईशे जीवेभ्योऽधिकं, अन्यत्रालोचने सर्व-
[[२९८]]
विषयं क्रमेण वर्तमानमामुक्तेस्ततोऽव्ययं, ततो वा स्यात्क्रमेण प्रसितं सादि च ।
तात्विकेभ्योऽन्यत्रायोगिज्ञानमुत्पत्तिविनाशवदल्पम् ।
अनुप्रमाणं त्रिविधं प्रत्यक्षमनुमानमागम इति ।
तत्र निर्दोषेन्द्रियसन्निकर्षः प्रत्यक्षं, निर्दोषोपपत्तिरनुमानं, निर्दोषः शब्द आगमः ।
अर्थापत्युपम अनुमानविशेषौ ।
नारायणशब्दवाच्यं ब्रह्म सगुणमेव ।
अथ कस्मादुच्यते ब्रह्मेति प्रश्ने बृहन्तो ह्यस्मिन् गुणा इति ।
अनन्तकल्याणगुणशालित्वस्य “बृहि= वृद्धा"विति धातोरौणादिकमन्प्रत्ययान्तेन ब्रह्मशब्देन प्रतिपाद्यमानादौचित्यात् ।
“परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चे"ति श्रुतेः, “मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे"ति भगवद्वचनात्, “तेजोबलैश्वर्यमहावबोधसद्वीर्यशक्त्यादिगुणैकराशिः ।
समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशात्कृतभूतसर्गः ॥” इत्यादिस्मृतेश्च ।
तथा “अन्तस्तद्धर्मोपदेशात् ।
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ।
अदृश्यत्वादिगुणको धर्मोक्तेः ।
सर्वधर्मोपपत्तेश्चे"त्यादिभगवद्बादरायणसूत्रेभ्यश्च ब्रह्मणि धर्मादिशब्दैर्गुणवत्वस्यैव प्रतिपाद्यमानत्वात् ब्रह्मधर्मिसत्तासमानसत्ताकगुणयुक्तत्वं, उक्तसत्ताकभावरूपगुणयुक्तत्वं वा साध्यं पदार्थत्वात्, अभावविलक्षणत्वाद्वा ।
इति क्रमेण साध्यद्वयसाधकं हेतुद्वितयम् ।
घटवदिति दृष्टान्त इति श्रुतिस्मृतिसूत्रोपोद्वलितेनानेनानुमानेन ब्रह्मणि गुणवत्वसिद्धेः ।
नचानन्दो ब्रह्मेति गुणगुण्यभेदप्रतिपादनानुपपत्तेरितिवाच्यं, तयोरभेदस्यैवास्माभिरुररीकृतत्वात् ।
न च गुणगुणिनोरभेदे रूपी घट इत्यादि प्रत्ययानुपपत्तिः रूपं घट इति प्रत्ययापत्तिश्चेति वाच्यं, तस्यास्मदङ्गीकृतभेदस्थलीयविशेषविषयस्त्वाङ्गीकारात् ।
नच विशेष एव मानाभावः, अभिन्नत्वेन प्रमितयोर्धर्मधर्मिभावव्यवहारस्यैव तत्र मानत्वात् ।
अन्यथा घटतत्स्वरूपयोरभेदस्य प्रमाणसिद्धतया तत्र जायमानस्य घटस्य स्वरूपमिति व्यवहारस्य भेदविषयकत्वासम्भवेन विशेषाविषयकत्वे निर्विषयकत्वापत्तिः ।
किञ्च “ब्रह्मण-
[[२९९]]
स्तद्गुणानाञ्च भेददर्शकरन्तमः ।
भेदाभेदप्रदर्शी च मध्यमस्तु तमो व्रजेत् ॥
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति ॥” इत्यादिप्रमाणानि ब्रह्मणस्तद्धर्माणाञ्चाभेदं विनाऽनुपपन्नानि तमभेदमेव स्थिरीकुर्वन्ति ।
ननु तर्हि ब्रह्म स्वगुणेभ्य इव जीवेभ्योप्यभिन्नं “तत्त्वमसि, स आत्मा, नेह नानाऽस्ति किञ्चने” त्यादि श्रुतेरिति चेन्न, द्वासुपर्णेत्यादिश्रुतेः ।
“द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ॥” “दैवो विस्तरशः प्रोक्त” इति दैवमुपसंहृत्य, “आसुरं पार्थ मे शृणु” इत्युपक्रम्य, “ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ।
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ॥
यक्ष्ये दास्ये च मोदिष्य इत्यज्ञानविमोहिताः” इत्यन्तेनेश्वरोऽहमित्युपक्रमागतेश्वराभेदज्ञानस्यासुरत्वेन निन्द्यत्वप्रतिपादनेनाभेदायोगात् ।
नच मुक्तौ तारतम्यानुपपत्तिः, तैत्तिरीयकश्रुतौ तारतम्यस्य प्रतिपादनात् ।
तथाहि- श एको मानुष आनन्द” इत्युपक्रम्य श एको ब्रह्मण” इति तरतमभावश्रुतेः ।
किञ्च “ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुन्नैव शक्यते ।
तद्यत्स्वभावः कैवल्यं स्वभावात्केवलो हरे” रिति स्मृतेः, जगद्व्यापारवर्जसूत्रेण सृष्ट्यादिकर्तृत्वाभावस्य मुक्तिषु प्रतिपादनेन च जीवेशयोर्जीवानाञ्च तारतम्यसिद्धेः ।
अपि च जीवा अप्यनन्ता एव, नैकश्चेतनः ।
तथैव महाभारते- “बहवः पुरुषा ब्रह्मनुताऽहो एक एव वे"ति प्रश्नपूर्वकं, ङैकमिच्छन्ति पुरुषमेके कुरुकुलोद्वहे"ति बहुधा जीवनानात्वकथनाच्च जीवानां नानात्वमिति सिद्धान्तः ॥
जगच्च सत्यमेव “विश्वं सत्यं वशे विष्णोर्नित्यमेव प्रवाहतः ।” विश्वं स्थावरजङ्गमादिभेदेन बहुधा भिन्नं जगद्विष्णोर्वशे वर्तमानं प्रवाहाकारेण सत्यशब्दवाच्यमित्यर्थप्रतिपादकोक्तवचनात् ।
तथोक्तञ्च भगवतैव गीतायां- “असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
[[३००]]
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥” इत्यादिभिः प्रमाणैर्जगदसत्यतावादिनामासुरत्वाद्युक्त्या तत्सत्यतावगम्यते ।
किञ्च श्रुतयोऽप्यत्र प्रमाणानि- “मघोनोऽस्य महतो महीयांसि सत्यासत्यस्य करणानि वाच्यं” अस्यार्थः- अस्य महतः परमेश्वरस्य सत्यानि कर्माणि प्रावोचमेव ।
कर्मणाञ्च सत्यत्वं विषयसत्यतां विना नोपपद्यत इति विश्वसत्यतासिद्धिः ।
“कविर्मनीषी परिभूः स्वयम्भूर्यथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः” इति तत्त्वोद्योते बहुधाभिधानेन “विष्णुः सर्वोत्तमोऽथ प्रकृतिरथ विधिः प्राणनाथावथोक्ते ब्रह्माणी भारती च द्विजफणिपमृडाः स्युः स्त्रियः षट् च विष्णोः ।
सौपर्णी वारुणी पर्वतपतितनया चेन्द्रकामावथोस्मान्प्राणोऽथो योऽनिरुद्धो रतिमनुगुरवो दक्षशच्यौ च पान्तु ॥
त्रायन्तां नस्सदैते प्रवह उत यमौ मानवी चन्द्रसूर्यौ चाप्योऽथो नारदोऽथो भृगुरनलकुलेन्द्रप्रसूतिश्च नित्यम् ।
विश्वामित्रो मरीचिप्रमुखविधिसुताः सप्त वैवस्वताख्याश्चैवं वै मित्रतारे वरनिरृति नामाप्रवही प्रसन्नाः ॥
विष्वक्सेनोऽश्विनोऽथो गणपतिधनपाव्यक्तशेषाः शतस्थाः देवाश्चोक्तेतराये तदवरमनवश्चावनौचिथ्यसञ्ज्ञा वैन्यो यः कार्तवीर्यः क्षितिपतिशशिबिन्दुप्रियादि- व्रतोऽथो गङ्गापर्जन्यसञ्ज्ञौ शशियमदयिते मा विराट् चाशु पान्तु ॥” इति “विश्वं सत्यं मघवानौ युवयोर्विदापश्च न प्रमिनन्ति व्रतं वा” अस्यार्थः- हे मघवानौ धनादिमन्तौ युवयोर्विश्वं सत्यमेव, न केवलमहमेव जानामि, किन्त्वापोऽपि सत्यजगत्सर्जनादि जानन्ति ॥
शत्यः सोऽस्य महिमा गृणेशवो यज्ञेषु विप्रराज्ये” ।
जगत्सृष्ट्यादिलक्षणोऽस्य परमेश्वरस्य महिमा सत्यः तं विप्रप्रधानेषु शवः सुखमुद्दिश्य स्तौमीति ।
एवंविधानेकश्रुतिभिश्च जगतः सत्यत्वावधारणान्नमिथ्याभूतम् ।
जगतश्चासत्यत्वेऽङ्गीक्रियमाणे निखिलजनानुष्ठीयमानं तत्तत्कर्मजातं तत्तत्फलावाप्तिसाधकमिति शास्त्रमनुपपन्नं स्यात् ।
ननु जगतोऽसत्यत्वमेवास्तु असत्वञ्चानिर्वचनीयत्वं शुक्तिरजतवदितिचेन्न, शुक्तिरजतस्यैव
[[३०१]]
निर्वचनीयत्वे मानाभावात्, असदेव रजतमभादिति प्रतीतिमहिम्नाऽसत एव रजतस्य भानाङ्गीकारात् ।
अत एव मुक्तावपि सर्वेषां पदार्थानां सत्यत्वमेवाङ्गीक्रियते ।
अत एव “एवं मुक्तिफलानि यमस्तदवस्थावधृतेस्तदवस्थावधृते” रित्यधिकरणे “तदिह व्याघ्रो वा कीटो वा पतङ्गो वा दंशो वा मशको वा वराहो वा यद्यद्भवन्ति तथा भवन्ती"ति श्रुतिमहिम्ना मोक्षदशायां तिर्यग्जन्तूनां तदवस्थतैव ।
किञ्च भगवतोऽन्तर्यामित्वेऽङ्गीक्रियमाणे “अन्तर्यामी परेशः स्वयमिह भगवानात्तचक्रस्तु लक्ष्म्या भक्तान्तःसंस्फुरत्यप्रतिमगुणगणः सर्वलोकेषु देवः ।” इत्यादिभगवत्स्तुतौ बहुशो लक्ष्मीसहायस्यैवान्तर्यामित्वं प्रतिपादितम् ।
युक्तमेव विष्णोर्लक्ष्मीसहायस्यैवानवरतावभासमानत्वम् ।
दीपतत्प्रभयोरग्न्यौष्ण्ययोर्जलशैत्ययोर्यथा तथैव स्वस्य देव्यविनाभावात् ।
“राघवत्वे भवेत्सीता रुक्मिणी कृष्णजन्मनि ।
अन्येषु चावतारेषु विष्णोरेषा सहायिनी ॥
देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी ।
विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनु” इति विष्णुपुराणे, तथा “एवं सर्वास्ववस्थासु विष्णोरेवानपायिनी” ति भारतादिवचनैश्चावतारादिष्वेव सर्वावस्थास्थितिसामान्यवचनेनान्तर्यामित्वेऽपि साहचर्यस्य नियमेनावबोधात् ।
अत एव पूर्वतन्त्रे पञ्चमाध्याये पूर्वपादान्त्याधिकरणे “षोडशीचोक्थ्यसंयोगा” दित्यत्र सूत्रे प्रतिपादितम् ।
तथाहि- ज्योतिष्टोमे श्रूयते षोडशिनं प्रकृत्य “तं पराञ्चमुक्थ्येभ्यो निगृह्णाती” ति, यदा वा दैवाद्वा मानुषाद्वा प्रतिबन्धादुक्थ्यान्युत्कृष्यन्ते तदा षोडश्युत्क्रष्टव्यो न वेति भवति संशयः ।
तत्र पूर्वपक्षः नोत्क्रष्टव्यः कुतः एवं स्वस्मिन्काले षोडशिनः स्तोत्रं कृतं भवति ।
शमयाध्युषिते सूर्ये षोडशिनः स्तोत्रमुपाकरोति” तस्मादनुत्कर्षः षोडशिन इत्येवं प्राप्तेऽभिधीयते ।
षोडशी चोत्क्रष्टव्यः ।
कस्मादुक्थ्यसंयोगात्, उक्थ्यसंयोगो हि षोडशिनो भविष्यति, तं पराञ्चमुक्थ्येभ्यो निगृह्णातीति ।
तस्मादुत्क्रष्टव्यः षोडशी ।
समयाध्युषितः स कालोहनैतेति ।
[[३०२]]
तत्रोच्यते स्तोत्रक्रममनुरुध्यमानस्यप्रधानक्रमो विरुद्व्येत् ।
तस्मान्न स्तोत्रक्रमोऽनुरोद्धव्यः ।
न शक्यमुभयमनुग्रहीतुं तस्मादुत्क्रष्टव्यः षोडशोत्यत्रोक्थ्योत्कर्षाप्तषोडश्युत्कर्षेण यथा तयोरपि नाभाव एवं विष्णोरनपायिनीति वचनाद्विष्णोर्लक्ष्म्यविनाभावप्रतिपादनाल्लक्ष्मीसमेतस्यैव सर्वान्तर्यामित्वम् ।
मुक्तौ च तारतम्यमस्त्येव ।
ननु मुक्तौ न तारतम्यं, मानाभावात् ।
परमं साम्यमुपैतीति साम्यश्रुतेश्च ।
सातिशयत्वे च मुक्तेः स्वर्गादिवदनित्यत्वं स्यात् ।
अधिकदर्शने दुःखद्वेषेर्ष्यादिकञ्च स्यादिति चेदुच्यते ।
मुक्तावतारतम्यं किं तत्र भेदभोगादेरेवासत्वात्, किं वा तस्य सत्वेऽपि साम्यात् ? नाद्यः- भेदप्रस्तावोक्तश्रुत्यादिभिस्तत्सिद्धेः ।
अन्त्येऽपि किं मुक्तजीवेशयोरप्यतारतम्यं किं वा मुक्तजीवानामेव ? नाद्यः- तन्मतेऽपि तयोर्विभुत्वाणुत्वशेषशेषित्वस्वातन्त्र्यादिना तारतम्यात्, अनेकेश्वरतापत्त्या जगत्प्रवृत्ययोगाच्च ।
अल्पशक्तिरसार्वज्ञमित्यादिभेदप्रस्तावोक्तश्रुतिभिः, “ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते ।
तद्यत्स्वभावः कैवल्यं सभवान्केवलो हरि” रित्यादिस्मृतिभिर्जगद्व्यापारमित्यादिसूत्रैर्मुक्तजीव- भोगो निकृष्टः जीवभोगत्वात्संसारभोगवत् ।
एवं मुक्तजीवज्ञानादिकमपि पक्षीकृत्य प्रयोक्तव्यम् ।
ईश्वरानन्दो जीवानन्दादुत्कृष्टः तदवश्यतन्नियामकानन्दत्वात्, यदेवं तदेवं यथा सेवकानन्दात्सेव्यानन्दः ।
ईश्वरो जीवस्वभावानन्दादुत्कृष्टस्वाभाविकानन्दवान्, तत्प्रेप्सुत्वे सति तत्र शक्तत्वात्, यो यत्प्रेत्सुत्वे सति यत्र शक्तः स तद्वान् यथासम्मत इत्याद्यनुमानैश्चविरोधाच्च ।
न द्वितीयः- त्वन्मतेऽपि जीवान्प्रति शेषिणोऽपि लक्षितत्वात् ।
तान्प्रति नियामकाद्विष्वक्सेनादितश्चेतरजीवानामङ्गीकृतत्वात् ।
शैषानन्दस्य मीमांसा भवती” त्यादिना “ये शतं मानुषा आनन्दा” इति तारतम्यश्रवणात् ।
तस्मान्मुक्तौ तारतम्यमस्तीति युक्तमेतत् ॥
“तापादिपञ्चसंस्कारमन्त्ररत्नार्थतत्त्ववित् ।
वैष्णवस्स जगत्पूज्यो याति विष्णोः परं पदम् ॥
तापः पुण्ड्रं तथा नाम यागो मन्त्रश्च पञ्चमः ।
अमी वै पञ्च
[[३०३]]
संस्कारा वैष्णवत्वस्य हेतवः ।” इति वचने तापादिपञ्चसंस्कारसंस्कृतस्यैव वैष्णवत्वे मुक्तियोग्यत्वं, नान्यस्येति ।
“यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिताह्यर्थाः प्रकाशन्ते महात्मन” इति ।
श्रद्धाभक्तिध्यानयोगादवेही” ति ।
ङाऽहं प्रसन्नस्तपसा न ध्यानेन न चेज्यया ।
न ज्ञानेन न दानेन वश्योऽहं श्रद्धया विना ॥" इत्यादिवचनाच्च विष्णुविषयिण्यनितरसाधारणी सन्देहविपर्यासानाक्रान्ता भक्तिरेवाऽऽवरणनिरासद्वारा निजसुखानुभवरूपमोक्षस्य साक्षात्साधनम् ।
अतेवाभियुक्तवचनमपि- श्रीमन्मध्वमते हरिः परतरः सत्यं जगत्तत्त्वतो भिन्ना जीवगणा हरेरनुचरा नीचोच्चभावं गताः ।
मुक्तिर्नैजसुखानुभूतिरमला भक्तिश्च तत्साधनं त्वक्षादित्रितयं प्रमाणमखिलाम्नायैकवेद्यो हरि ॥
रिति" तस्माच्छ्रुतिस्मृतीतिहासपुराणागमेषु बहुधा प्रतिपाद्यमानार्थानुरोधित्वान्माध्वमतमेव सर्वैः शिष्टैः परिग्राह्यमिति ॥
इह खलु केचिद्विजाभासाः पण्डितम्मन्या वैष्णवाभिमानिनः श्रुतिस्मृतीतिहासपुराणप्रतिपादितसकलपुरुषार्थसाधनस्वस्ववर्णाश्र मधर्मेषु वैदिकेष्वश्रद्दधानाः परित्यक्तस्वधर्माः समुद्रयात्रादिपरिप्राप्तपातित्येन निवृत्तश्रौतस्मार्ताधिकारतया परिगृहीतपाञ्चरात्राद्यागमोक्तदीक्षातप्तशङ्खचक्राद्यङ्कनोर्ध्वपुण्।
द्रविशेषादिलक्षणैकजातिधर्मं मध्वनामानं यत्याभासमाचार्यत्वेनाश्रित्य तेनानुष्ठितं तदुपदिष्टञ्च मुद्रादीक्षादिकं शूद्रधर्मान् द्विजधर्मतयाऽत्यादरेणानुतिष्ठन्तः स्वधर्मपरित्यागपरधर्मानुष्ठाननग्नत्वादिकं स्वकीयं तन्त्रं द्रव्यार्जनोपयोगार्थं परव्यामोहनप्रयोजनायोपस्थकुष्ठीनी स्वोपस्थकुष्ठमिव वैष्णवाभिधानसालग्रामार्चनस्नानादिव्याजेनाच्छाद्य प्रवर्तमानाः स्वयं नष्टाः स्वधर्मावबोधनतदनुष्ठापनद्वारा स्वकीयत्वापादनेन परानपि विनाशयितुं प्रवृत्ताः, तांस्तदीयाचारांस्तदीयशास्त्राणि च विश्वस्यान्येऽपि तद्धर्मानाचरन्तस्तद्दर्शनानि चाधीयाना दीर्घकालं नरके पतिता माभूवन्निति तेष्वनुजिघृक्षया कल्पितप्रमाणमूलकवेद-
[[३०४]]
मार्गविरुद्धतप्तमुद्रादिधारणप्रतिपादकमुनिनवकशापदग्धदुर्मतमतनि राकरणमारभ्यते ॥
तथाहि- अन्याः सम्प्रतिपन्नस्वमात्रपरिगृहीतकमठमाठरकौणारव्यकौण्डिन्यमाण्डव् यमार्कण्डिव्यमौद्गल्यपौष्यायणसौत्रायणसौकरायणपाराशर्यायणम अध्यन्दिनायनकाषारवकौषायाग्निरवकोषणबृहदुद्दालकौद्दालकायनकौ शिकसौवर्णवात्सगौपवनभाल्लवेयाग्निवैश्यचतुर्वेदशिखाचतुर्वेदसंहित् एन्द्रद्युम्नपरमाश्रुत्यादिकल्पनं, तदनुसारेणाध्यात्मनारायणात्मनारायणसंहिताब्रह्मसंहितानारायण् अतन्त्रब्रह्मतन्त्रपुरुषोत्तमतन्त्रमायावैभवब्रह्मवैवर्तभविष्यत्पर्वादि वचनानामत्यन्ताप्रसिद्धानामेव वचनानां तन्मूलप्रमाणत्वेनोपन्यासः तदुपन्यासप्रयुक्तस्वानाप्तत्वशङ्कापरिहाराय हनूमद्भीमसेनक्रमेण वायोः स्वयं तृतीयावतार इत्युद्घोषस्तत्र साक्षितया “प्रथमो हनुमान्नाम द्वितीयो भीमसेनकः ।
पूर्णप्रज्ञस्तृतीयस्तु भगवत्कार्यसाधकः ॥” इति वचनस्य त्रेतायुगे मुख्यप्राणो हनूमद्रूपेणावतीर्णः स्वयं रामरूपेणावतीर्णस्य भगवतो नारायणस्य धर्मैकतत्परत्वरावणसंहारादिकार्यसाधकः, ततो द्वापरे स एव भीमसेनरूपेणावतीर्णः श्रीकृष्णरूपेणावतीर्णस्य भगवतो नारायणस्य भूभारनिवारणपूर्वककौरवादिदुष्टसंहाररूपकार्यसाधकः, तथैवानन्तरं कलियुगे स एव मुख्यप्राणः पूर्णप्रज्ञापरपर्यायमध्वाचार्यरूपेणावतीर्णः, तदानीं बुद्धरूपेणावतीर्णस्य भगवतो नारायणस्य धर्मपरित्याजनपूर्वकान्यधर्मानुष्ठापनरूपश्रुतिमार्गातिवर्तिधर्मश् अब्दिताधर्मबोधनरूपकार्यसाधक इति त्रेतादियुगक्रमसमुचितमर्थमाच्छाद्य त्रेताद्वापरयोर्यथाक्रममुक्तमर्थमुररीकृत्य कलौ समुचितार्थक्रमोल्लङ्घनेन तृतीयपादस्य स्वानुकूल्येनार्थं परिकल्प्य प्रथमो हनूमानिति वचनस्य प्रमाणत्वेनोदाहरणं, अस्मिन्नर्थे “विष्णोः पदे परमे मध्व उत्सः” इत्यादिश्रुतिवाक्यानामर्थान्तरयोजनं, तथा नारायणेनातिविस्तरेण कृतं पुनस्तेनैव व्यासरूपेण सङ्क्षिप्तं तच्च ब्रह्मतर्काभिधानं शास्त्रं, तदेव चतुर्दशविद्यास्थानं सकलगुणपरिपूर्णो भगवानेव मुख्योऽर्थ इति निर्णयाय प्रवृत्तमिति स्वा-
[[३०५]]
भिमतपरव्यामोहनार्थानेकप्रमाणविधिरूपत्वेनैवं प्रणालीकल्पनम् ॥
किञ्च व्याकरणशास्त्रापरिशीलनप्रयुक्तं स्वकृतग्रन्थेष्वपशब्दप्रयोगबाहुल्यं दृश्यते ।
तथाहि- भारततात्पर्यनिर्णये- हरिं वदन्तीति समर्थयित्वेत्युक्तम् ।
अत्र समासे ल्यबन्तप्रयोगं विहाय क्त्वाप्रत्ययान्ततया प्रयोगो व्याकरणविरुद्धः ।
मध्यभाष्ये ईक्षत्यधिकरणेन तच्छब्दगोचरमिति प्रयुक्तम् ।
गोचर इति पुल्लिङ्गत्वेन प्रयोगो युक्तः ।
तथाच लिङ्गानुशासने पुमानित्यधिकारे सूत्रितम् ।
ज्ञाजन्तश्चेति, उदाहृतञ्च वृत्तिकृद्भिः, गोचरो विषय इति ।
प्रयुक्तञ्च श्रीहर्षेण “परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचर” इति ।
अणुव्याख्याने आर्यत्वमर्यतैव स्यादित्यत्र “ऋ” धातोः कर्मणि शानजन्तेऽर्यमाणपदसमानार्थकतया भ्रान्त्या प्रयुक्तमर्यपदम् ।
“अर्यः स्वामिवैश्ययो"रिति सूत्रेणार्थविशेषे निपातितत्वात्, तद्भिन्नार्थे आर्यपदस्य प्रयोगयोग्यत्वाद्व्याकरणविरुद्धम् ॥
तथा शभासभापप्राश्निके पूर्वस्तुत्यर्थिनामपी” ति श्लोके प्राश्निकेत्यत्रैकारस्य प्रयोगो विरुद्धः ।
तथा शाक्षादनुभवारूढं शक्यतेऽपोदितुं क्वचि" दित्यत्रापवदितुमिति वक्तव्ये अपोदितुमिति प्रयोगो विरुद्धः ।
तथा शृष्ट्यादीच्छासनातेने" त्यत्र टाप् प्रयुक्तः ।
यत्तु जयतीर्थेन सनातनेति नेमौ ट्युट्युलौ, किन्तु भवार्थे तनप्रत्यय इत्युक्तम्, तदपि स्वशिष्यप्रतारणमात्रम् ।
तथा “छन्दोऽभिधाना” दिति सूत्रे “लिङ्गभूयस्त्वा” दिति सूत्रे च जयतीर्थेनावश्यापेक्षित इति प्रयुक्तम्, तत्र मलोपोऽसङ्गतः ।
सङ्ख्याधिकरणे सुधायां मे चैतन्यमिति प्रयुक्तम् ।
“अभ्युपगमेऽप्यर्थाभावा” दिति सूत्रे तत्त्वप्रकाशिकायां मे मातेति प्रयुक्तम् ।
ममेति तु युक्तम् ।
पदात्परत्वाभावेन मे इत्यप्राप्तेः ।
एवमाचार्यकृतद्वादशस्तोत्रे “नारायणामलकारणं वन्दे” इत्यत्र दोधकवृत्तेनोपक्रान्ते वृत्तोचितादिगुर्वात्मकभगणार्हगुरुलघुविन्यासानुरोधेन नारायणशब्दस्य द्वितीयाक्षररेफगताकारदैर्घानुच्चारणे नारयणेत्यपशब्दप्रयोगः ।
यदि शब्दसाधुत्वसम्पादनाय नारायणेत्युच्चारणे गुरुलघुविन्यास-
[[३०६]]
व्यत्यासेन छन्दोभङ्ग इति दरिद्रदम्पत्याकृष्टकच्चरपटवदेकं सन्धिस्तोऽपरं प्रच्यवत इति न्यायः प्रसज्येत ।
किञ्च नवद्युनाथप्रतिमप्रभायेत्यत्र नवद्युनाथस्य सूर्यस्य सदृशी प्रभा यस्येत्यर्थविवक्षायां सूर्यस्य धर्मिणः प्रभारूपधर्मस्य च सादृश्यं निबद्धम् ।
इदञ्चालङ्कारशास्त्रविरुद्धं धर्मिणोरेव सूर्यनारायणयोः सूर्यप्रभानारायणप्रभयोर्धर्मयोर्वा सादृश्यं वर्णनीयम् ।
प्रकृते तु सूर्यस्य नारायणप्रभायाश्च प्रतिमशब्देन सादृश्यं प्रतिपादितम् ।
द्युनाथ इतिपदं स्वर्गान्तरिक्षपत्यर्थकं सूर्यपरत्वेन कोशादौ यत्रकुत्राप्यप्रयोगादसङ्गतं घटपदं पटादाविव ।
अस्मिन्नेव पद्ये ङारायणाखिलकारणाय श्रीप्राणनाथाय नमस्करोमी" त्यत्र केवल नमः शब्दप्रयोगे “नमः स्वस्ती"त्यादिना चतुर्थीविधानादत्र केवलनमःशब्दाभावेन चतुर्थ्या असम्भावितत्त्वात् ।
किन्तूपपदविभक्तेः कारकविभक्तिर्बलीयसीति नियमान्मुनित्रयं नमस्कृत्येत्यत्र द्वितीयाप्रयोगवत्, श्रीप्राणनाथं हि नमस्करोमीत्येव साधुः ।
एवं रामायणतात्पर्यनिर्णये- “अथाभ्यवर्धंश्चतुरः कुमारा नृपस्य गेहे पुरुषोत्तमाद्याः” ।
इत्यत्राभ्यवर्धन्निति वृधु (वृध्) = वृद्धाविति धातोरात्मनेपदित्वेनाभ्यवर्धन्तेति ल"नि प्रयोक्तव्ये तद्विहायावर्धन्निति परस्मैपदप्रयोगः शब्दशास्त्रविरुद्धः ।
तत्रैव चतुरः कुमारा इति, चत्वार इति वक्तव्ये चतुर इत्यस्य द्वितीयाबहुवचनरूपत्वमविज्ञाय प्रथमाबहुवचनं भ्रमेण प्रयोगः कृतः ।
तारतम्यस्तवे सौपर्णी वारुणी पर्वतपतितनयेत्यत्र सुपर्णवरुणशब्दाभ्यां पुंयोगादाख्यायामिति “नीपि वरुणशब्दादिन्द्रवरुणभवशर्वेत्यादिनानुगागमे वरुणानीति स्यात् ।
सुपर्णशब्दात् “नीपि सुपर्णीति स्यात् ।
पर्वतपतितनयेत्यत्र स्रग्धरायां सप्तस्वक्षरेषु विच्छेदस्योक्तत्वात्प्रकृतेयतिभङ्गो दोषः ।
नच मध्वाचार्याणामृषित्वेन तत्प्रयुक्तेषु शब्देषु व्याकरणविरोधादिकं नाशङ्कनीयं, छन्दस्तुल्यत्वात् ।
बहुलं छन्दसीत्यनुशासनादिति वाच्यं, तेषामृषिमध्ये केनापि परिगणनाया अकृतत्वात् ।
तथा नारायणशब्दावयवार्थनिर्वचने अरा = दोषाः, तद्विरुद्धा
[[३०७]]
गुणा नारास्तेषामयनमिति निर्णीतम्, तन्न सम्भवति ।
नञ् समासेन लोपो नञ इति नकारलोपे तस्मान्नुडचीति नुडागमे ।
अनरायण इति स्यात् ।
नच नगनौकादिशब्द इव नलोपाभावो निपात्यत इति वाच्यं, नभ्राण्नपान्नवेदानासत्येत्यादिना नगोऽप्राणिष्वन्यतरस्यामित्यादिना च पठितादन्यत्र नलोपावश्यम्भावनियमात् ।
“आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यस्यायनं प्रोक्तं तेन नारायणः स्मृतः” इति नारायणशब्दनिर्वाचकमनुस्मृतिविरोधाच्च ।
तस्मादनरा इत्येव वक्तव्यतया नारा इति रूपस्य व्याकरणविरुद्धतयाऽपभ्रंशत्वात् ॥
एवं मीमांसकमतोल्लङ्घनेन बहुधा व्यवहारो दृश्यते ।
तथाहि- शब्दादेव प्रमित इत्युत्तरमीमांसाधिकरणे श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां षण्णामङ्गत्वाबोधकप्रमा णानां सर्वमीमांसकविदितानामित्थमित्थमन्यथा निर्वचनं कृतम् ।
तत्र प्रथमं नाममात्रेण निर्देशः श्रुतिरिति तत्तुच्छम् ।
करणत्वकर्मत्वादिबोधकविभक्तीनां श्रुतित्वेन “ऐन्द्र्या गार्हपत्यमुपतिष्ठत” इत्यादिषु दृष्टत्वात् ।
तार्किकमतसिद्धोद्देशस्य नाममात्रेण वस्तुनिर्देशस्य श्रुतित्वस्य कैरप्यनङ्गीकारात् ।
यदप्यसाधारणधर्मो लिङ्गमिति तदत्यन्ताज्ञानविलसितं, मन्त्राणां शब्दरूपाणां देवस्यत्वेत्यादीनामर्थप्रतिपादकतासामर्थ्यमात्रस्य लिङ्गत्वेन मीमांसकैरङ्गीकृतत्वात् ।
अव्युत्पन्नैरभ्यासदशायां पठ्यमानेषु तर्कभाषादिष्वसाधारणधर्मस्य लक्षणत्वेनाभिधानात् ।
तस्य लिङ्गत्वव्यवहारस्य मीमांसकमर्यादातिवर्तित्वात् ।
यदप्युक्तं निराकाङ्क्षपदानि वाक्यमिति तदप्यविचारितरमणीयं, घटः कर्मत्वमानयनं कृतिरित्यादीनामपि वाक्यत्वप्रसङ्गात् ।
प्रत्युतार्थैकत्वादेकं वाक्यं साकाङ्क्षञ्चेद्विभागे स्यादिति जैमिनीयसूत्रेण साकाङ्क्षाणामेव वाक्यत्वप्रतिपादनात् ।
निराकाङ्क्षाणां पदानां वाक्यत्वप्रतिपादनं मुक्तानामपि शुनां भूषणाङ्गीकारवत्, व्युत्पन्नाव्युत्पन्नसाधारण्येनातिहास्यास्पदमिति यत्किञ्चिदेतत् ।
यच्चोक्तमेकप्रमेयप्रतिपादकानेकवाक्यानि प्रकरणमिति
[[३०८]]
तच्चात्यन्तभ्रान्तिविजृम्भितं, इति कर्तव्यताऽऽकाङ्क्षारूपस्य प्रकरणस्यार्थरूपत्वेन शब्दरूपत्वाभावात् ।
पवित्रशब्दस्य चक्रवाचकत्ववदेकप्रमेयप्रतिपादकानेकवाक्यानां प्रकरणत्वव्यवहारस्य यथाजातत्वमूलत्वात् ।
यच्चोक्तमनेकप्रमेयप्रतिपादकमेकार्थे तात्पर्ययुक्तं स्थानमिति तदप्यसत्, दब्धिरसीत्यादिमन्त्राणां हुतानुमन्त्रणानां स्थानसाम्यलक्षणक्रमरूपस्य प्रधानक्रतुसमीपाङ्गाम्नानलक्षणसन्निधेश्च स्थानत्वेन व्यवहारात् ।
भवदीयस्थानस्वरूपव्यवहारस्योत्यन्तमौढ्यायत्तत्वात् ।
यदपि समानोक्तिः समाख्येति तत्त्वत्प्रकाशिकेति तदपि न, आश्वमेधिकं पौरोडाशिकमिति नाममात्रव्यवहारप्रधानक्रतुसम्बन्धितयाऽर्थानां शब्दरूपाणां मन्त्राणाञ्चाङ्गत्वबोधकस्य न सञ्ज्ञाविशेषस्य समाख्याव्यवहारविषयत्वेन पूर्वतन्त्रेषु व्यवहाराद्भवदुक्तसमाख्यानिर्वचनस्य मूर्खप्रलापमात्रत्वात् ।
अत एव “द्वादशाहवदि” ति सूत्रे द्वादशाहः क्रत्वात्मकः सूत्रात्मकश्चेत्युक्तमयुक्तम् ।
गोबलीवर्दन्यायेन क्रतुसत्रशब्दयोः सामान्यविशेषपरतया विरोधाभावेनाहीनसत्रात्मकतया द्विविधस्य द्वादशाहस्योक्तप्रकारेण द्वैविध्योपपादनं कल्पसूत्रानभिज्ञतामूलत्वादुपेक्षणीयम् ।
“भूम्नः क्रतुव"दिति सूत्रे यथा खलु दीक्षणीया प्रायणीयोदयनीया सवनत्रयावभृथात्मकस्य क्रतोः सर्वयागेष्वनुवर्तन एव साफल्यम् ।
अन्यथा वैफल्याज्ज्यायस्त्वं ज्योतिष्टोमस्य ततश्च तस्य सर्वैः कर्तव्यत्वमिति यत्प्रलपितं तदव्युत्पन्नमनोहरम् ।
तथाहि- दीक्षणीयादीनां ज्योतिष्टोमाङ्गानां प्रधानज्योतिष्टोमात्मकत्वाङ्गीकारे सत्यङ्गाङ्गिभावव्यवहारः कुत्रापि न स्यात् ।
शरीरस्याङ्गिनः ज्ञानेन्द्रियकर्मेन्द्रियाद्यङ्गवतस्तदात्मकत्वात् ।
प्रधानक्रतोरनुवर्तमिति यदुक्तं तदतिदेशषट्कानवबोधमूलं, कार्यमुखेनाङ्गानां विकृतेः प्रकृतावतिदेश इत्यतिदेशषट्कस्य निर्णयः ।
प्रधानयागस्य विकृतावनुवर्तनं क्वाप्यदृष्टचरम् ।
प्रधानस्येतरयागानुवर्तनेन ज्यायस्त्वं तेन सर्वकर्तव्यत्वञ्च मृगतृष्णाम्भसि स्नातस्य वन्ध्यासुतस्य गगनकुसुममालालङ्कार इव भासते ।
ज्योतिष्टोमस्य
[[३०९]]
ज्यायस्त्वञ्च “एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोम” इति वचनप्रयुक्तं सर्वं द्विजातिकर्तव्यत्वञ्च “वसन्ते वसन्ते ज्योतिषा यजेते"ति वीप्सायुक्तवचनप्रयुक्तं स्वामिनः फलश्रुतेरित्यधिकरणे अयजमानानामपि ऋत्विजां सत्रयागफलमित्यादि यदुक्तं तदति तुच्छम् ।
ये यजमानास्ते ऋत्विज इति वचनेन यजमानानामेव ऋत्विक्त्वस्य प्राप्तत्वादयजमानानां सत्रे ऋत्विक्त्वं कुतस्त्यम् ? तुष्यतु दुर्जन इति न्यायेनायजमानानामृत्विक्त्वमङ्गीकुर्मः, तथापि तेषां सत्रफलप्राप्तिः कुतस्त्या ? कर्मकरत्वेन विद्यमानानां लोके वेतनवतामिव तत्फलप्राप्तेरनुचितत्वात् ।
वस्तुतस्तु यजमानानामेव ऋत्विक्त्वाद्दक्षिणापि न विधीयते ।
अत एव “ऋद्धिकामाः सत्रमासीरन्, प्रतितिष्ठन्ति ह वा एता रात्रीरुपयन्ती” ति बहुवचनमपि श्रूयते ॥
यच्च जिज्ञासासूत्रे प्रथममसंहिततया ऊङ्कारनिर्देशं सूत्रावयवभूतमङ्गीकृत्यासंहिताप्रयोजनमुत्तरसूत्रेष्वनुगतिसूचनमि ति व्युत्पादनार्थं न्यायसुधायां सर्वाणि सूत्राणि प्रत्येकमनेकवेदवाक्यविचारपरत्वादवान्तरा ब्रह्मविद्या श्रवत्यनोङ्कृतं ब्रह्म परस्ताच्च विशीर्यत” इति श्रौतार्थवादसामर्थ्यात्स सर्वास्वपि ब्रह्मविद्यास्वाद्यं तयोरोङ्कारस्योहः कर्तव्य इति गम्यते ।
नचोह्यमानवाक्पृथगिति शक्यते वक्तुम् ।
मन्त्रेष्वप्यूह्यमानस्य मन्त्रानवयवत्वप्रसङ्गादिति तदज्ञानविजृम्भितं, सूत्रादावोङ्कारप्रयोगस्य तत्प्रयोजनकल्पनस्य च भाष्यान्तरेषु केष्वप्यप्रतिपादनादोङ्कारसद्भावमेव न पश्यामः ।
अस्तु वा भवन्मतरीत्या ऊङ्कारप्रयोगः ।
तथापि तस्यासंहितत्वे किं नियामकम् ? अस्तु वाऽसंहितत्वं तथापि सूत्रावयवत्वं कथम् ? अस्तु वाऽव्यवहितपूर्वोच्चारणात्सूत्रावयवत्वभ्रमः, तथापि सूत्राणां ब्रह्मविद्याप्रतिपादकतया श्रुत्यर्थनिर्णायकन्यायप्रतिपादकशब्दसन्दर्भविशेषरूपाणां मानसव्यापाररूपविद्यात्मकत्वं कथं, वेदापाङ्गत्वेन परिगणितानामेषां वेदात्मकत्वं कथम् ? अस्तु वा नष्टवैदिकाध्वमध्वोपदेशजनितमूढभक्त्या भ्रान्त्या वा वेदत्वोक्तिः, तथापि श्रवत्यनोङ्कृतं ब्रह्म परस्ताच्च
[[३१०]]
विशीर्यत” इति मानवस्मृतिवाक्ये श्रौतार्थवादोक्तिर्वा कथम् ? तथाङन्दमयाधिकरणे न्यायसुधायां ज्योतिषां स्तोमो ज्योतिष्टोम इति ज्योतिष्टोमशब्दनिर्वचनं कृतं, तदपि वेदार्थानभिज्ञानविलसितम् ।
“त्रिवृत्पञ्चदशः सप्तदश एकविंशः, एतानि वा व्रतानि ज्योतींषि य एतस्य स्तोम” इति स्तोमानां ज्योतिःशब्दवाच्यानाञ्चाभेदपरत्वेन स्पष्टं श्रुतिनिर्वचनस्य विद्यमानत्वात्, ज्योतिषां स्तोम इति भेदप्रतिपादकया षष्ठ्या तयोरुभयोः शब्दप्रतिपादनं श्रुतिविरुद्धम् ।
षष्ठीसमासपक्षे चान्तोदात्तता स्यात् ।
आद्युदात्ततया सर्वैरपि वैदिकैः पठ्यते ।
तस्मान्मध्वप्रतिपादितं सर्वं पूर्वोत्तरमीमांसाशास्त्रविरुद्धम् ॥
यच्चोक्तं जगतः सत्यत्वमिति श्रुतिविरुद्धत्वात्तदसङ्गतम् ।
तथाहि- “अथात आदेशो नेति नेति ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।
नेह नानास्ति किञ्चने"त्यादिश्रुतेः, “तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थित” मिति स्मृतेश्च जगतोऽसत्यत्वस्य स्पष्टं प्रतिपादनात् ।
नच “विश्वं सत्य” मिति श्रुत्या, “असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वर” मिति स्मृत्या च विरोधः स्यादिति वाच्यं तद्वच नस्य शशशृङ्गसदृशापह्नवरूपासत्यत्वप्रतिपादननिन्दापरस्या- सदेव रजतमभादित्यसतो भानमङ्गीकुर्वस्तवैव दूषणपरत्वात्, न त्वनिर्वचनीयत्वरूपासत्यत्वप्रतिपादकाद्वैतिदूषणपरत्वम् ।
तथैवाभियुक्तवचनम्-मिथ्याशब्दो द्व्यर्थः- अनिर्वचनीयवचनोऽपह्नववचनश्चेति ।
अपह्नवरूपासत्यत्वं जगतः सत्यत्वसाधकस्य तवैव पर्यवस्यति ।
तथाहि- प्रपञ्चो मिथ्या दृश्यत्वात, शुक्तिरजतवदित्यनुमाने शुक्तिरजतं शुक्त्यज्ञानोपादानकं शुक्तितः पृथक्त्वेन निर्वक्तुमशक्यम् ।
तद्दृष्टान्तेन जगतोऽनिर्वचनीयत्वे साधनीये शुक्तिरजतवदसदेव रजतमभादिति शुक्तिरजतस्यासत्यत्वं ब्रुवाणस्यानिर्वचनीयत्वं निराकुर्वतस्तव दार्ष्टान्तिकस्य जगतोऽसत्यत्वं पर्यवसन्नम् ।
तस्माज्जगतः सत्यत्वसाधनमसङ्गतम् ।
यच्चोक्तं बृहि = वृद्धाविति धातोरौणादिकमत्प्रत्ययान्तेन ब्रह्मशब्देन बृहन्ता ह्यस्मिन गुणा इति श्वाभाविकीज्ञानबलक्रिया
[[३११]]
चे"त्यादिवचनजातेन ब्रह्मशब्दवाच्यस्य विष्णोरनन्तकल्याणगुणपरिपूर्णत्वं प्रतिपादितमिति तदसमञ्जसं, बृहि = वृद्धाविति धातोरौणादिकमन्प्रत्ययान्तस्य ब्रह्मशब्दस्य स्वरूपमहत्वे सम्भवति, गुणपरिपूर्णत्वप्रयुक्तमहत्वकल्पनमप्रामाणिकम् ।
बृहन्तो ह्यस्मिन् गुणा इति किं श्रुतिर्वा स्मृतिर्वा ? नाऽद्यः- पठ्यमानासु श्रुतिष्वनुपलम्भात् ।
यथाकथञ्चिदुपलम्भे वा शाक्षी चेता केवलो निर्गुणश्च ।
निष्कलं निष्क्रियं शान्तम् ।
अस्थूलमनण्वह्रस्वम् ।
अगोत्रमवर्णमचक्षुः-श्रोत्रम् ।
अग्राह्यमलक्षण” मित्यादिश्रुतिविरोधेन तद्वचनस्यान्यार्थपरत्वेन स्वार्थे तात्पर्याभावात् ।
“परास्य शक्तिर्विविधैव श्रूयते” इत्यादिश्रुतेरिच्छाज्ञानक्रियाचिदादिस्वरूपमात्रशक्तिपरत्वेन गुणपरत्वासम्भवात् ।
अत एव स्वाभाविकी ज्ञानबलक्रिया चेति श्रुतिरस्मदुक्तस्वरूपपरत्वमेव प्रकाशयति ।
यच्चोक्तं “अन्तस्तद्धर्मोपदेशात् ।
अदृश्यत्वादिगुणको धर्मोक्ते” रित्यादिसूत्रपर्यालोचनया गुणपूर्णत्वं सिद्धमिति तदप्यतिमन्दं ङिर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः ।
ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणै” रित्युपासनार्थं मन्दानां व्यावहारिकगुणमात्रकल्पनेन तेषां तात्विकत्वे उक्तश्रुतिविरोधेन सूत्रकृतां तत्र तात्पर्याभावात् ।
यच्चोक्तं ब्रह्मधर्मिसत्तासमानसत्ताकगुणयुक्तं पदार्थत्वात्, घटवत् ।
ब्रह्मधर्मिसत्तासमानसत्ताकभावरूपगुणयुक्तं, अभावविलक्षणत्वात्, घटवदित्यनुमानद्वयेनापि गुणवत्वं साधितं तदरमणीयं, अनुमानद्वयेऽपि व्यभिचारो बाधश्च दोषः ।
तथाहि- पदार्थत्वस्याभावविलक्षणत्वस्य च हेतोर्द्रव्यविनाकृतेषु गुणादिषु षट्सु पदार्थेषु विद्यमानत्वात् ।
गुणे गुणानङ्गीकारेण गुणाश्रयो द्रव्यं गुणात्यन्ताभावानधिकरत्वमिति लक्षणद्वयेन च द्रव्यमात्रस्य गुणवत्वाङ्गीकारेण गुणादिपदार्थानां युष्मदस्मन्मध्यस्थतार्किकैरनङ्गीकाराद्व्यभिचारो दोषः ।
पूर्वोक्तश्रुतिस्मृतिवशाद्बाधश्च ।
यच्चोक्तं “अन्तर्यामी परेशः स्वयमिह भगवानात्तचक्रस्तु लक्ष्म्या भक्तान्तः संस्फुरत्यप्रतिमगुण” इत्यादिना लक्ष्मीसमेतस्य नारायणस्य सर्वान्तर्यामित्वमिति तदप्यतितुच्छं,
[[३१२]]
लक्ष्मीसमेतस्य नारायणस्य सर्वान्तर्यामित्वे लक्ष्म्या अप्यन्तर्यामित्वमवश्यं वक्तव्यम् ।
तथाच लक्ष्म्यापि तया साकमन्तर्यामित्वे वक्तव्ये तत्रापि तथैवेत्यनवस्थापत्तिः ।
तद्दोषभयात्तस्यां तया साकमन्तर्यामित्वं यदि परित्यजसि तर्हि सर्वत्र तथैवानुग्रहः क्रियताम् ।
यद्येवं वदसि स्वसिद्धान्तविरोधः ।
किञ्चान्तर्यामिब्राह्मणादिषु भगवन्मात्रान्तर्यामित्वतात्पर्यकेषु लक्ष्मीसमेतस्य नारायणस्यान्तर्यामित्वमत्यन्ताश्रुतचरम् ।
यच्चोक्तं गुणगुणिनोर्भेदोऽभेदश्चेति तदप्ययुक्तम् ।
भेदाभेदयोरेकत्र विरोधात् ।
किञ्च यद्यभेदस्तदा गुणानामानन्त्यात्तद्वतोऽप्यानन्त्यं स्यात् ।
गुणिवद्गुणानामप्येकत्वापत्तिः ।
यदि भेदस्तयोस्तदा भेदस्य तत्प्रयोगिनश्च भेदोऽस्ति वा न वा ? आद्ये तत्रापि तथैवेत्यनवस्थापत्तिः ।
द्वितीये भेदस्य स्वरूपत्वे एकत्र निर्णीतः शास्त्रार्थः सर्वत्रेति जीवब्रह्मणोर्भेदस्य स्वरूपत्वाङ्गीकारेणाद्वैतमतप्रवेशापत्तिः ।
नच भेदाभेदयोरेकत्र स्थितिर्विशेषबलात्सम्भवतीति वाच्यं, तादृशविशेषो गुणगुणित्वव्यवहारमात्रेण कल्प्यते वा सर्वत्र कल्प्यते वा ? नाद्यः, तन्मात्रकल्पने मानाभावात् ।
न द्वितीयः, घटपटादिकं स्वभिन्नं स्वाभिन्नमिति व्यवहारापत्तिः ।
व्यावृत्तिसम्पादकविशेषे भेदोऽस्ति वा न वा ? यदि भेदोऽस्ति तदा तस्यापि व्यावर्तकान्तरसापेक्षत्वेन तस्यापीत्येवमनवस्था स्यात् ।
यद्यभेदस्तदामुख्यधर्मस्वरूपत्वाभावात् ।
घटत्वादिषु तथा दृष्टत्वाद्व्यावर्तकत्वभङ्गप्रसङ्गः ॥
यच्चोक्तं- उक्थोत्कर्षे षोडश्युत्कर्षवद्विष्णोरन्तर्यामित्वे लक्ष्मीसहितस्यैवान्तर्यामित्वमपीत्यत्र पूर्वतन्त्राधिकरणोपन्यासः कृतः, तत्प्रकृतवैषम्यादनुपपन्नम् ।
तथाहि- लक्ष्म्यविनाभावे वक्तव्ये अविनाभूतपदार्थयोरेव दृष्टान्तत्वेन ग्रहणं युक्तम् ।
तत्र तथाविनाभावाभावात् ।
उक्थ्यनामके क्रतौ षोडशिग्रहाभावात् ।
न चोक्थ्यग्रहस्य षोडशिना साकं व्याप्त्यभावेऽपि षोडशिग्रहस्योक्थ्येन साकं व्याप्तिरस्तीति न प्रकृतवैषम्यमिति वाच्यं, प्रकृते लक्ष्मीनारायणयोः समव्याप्तौ वक्तव्यायां विषमव्याप्तपदार्थदृष्टान्तस्यात्यन्तमनुचितत्वात् ।
[[३१३]]
तस्मादेतदधिकरणदृष्टान्तेन लक्ष्मीसमेतस्य नारायणस्यान्तर्यामित्वमनुपपन्नमेव ।
यच्चोक्तं- जीवेश्वरादिपञ्चभेदा अङ्गीकरणीया इति तदप्यत्यन्तासङ्गतं, तत्त्वमस्यादिश्रुतिविरोधात् ।
नच प्रमाणविरोधाज्जीवेश्वरयोर्भेदः सिद्ध एवेति वाच्यं, प्रत्यक्षविरोधात्त्यज्यत इति चेच्चन्द्रप्रादेशिकत्वादिकमपि लोकसिद्धं ज्योतिश्शास्त्रविरुद्धमङ्गीक्रियताम् ।
किञ्च चार्वाकमतप्रवेशापत्तिः ।
अत एवानुमानेनापि न भेदः सिध्यति ।
न तावत् “द्वा सुपर्णा सयुजा सखाया” वित्यादिश्रुतिविरोध इति ।
अस्याः श्रुतेः पैङ्गरहस्यब्राह्मणे जीवान्तःकरणयोर्भेदप्रतिपादनेन जीवेश्वरयोर्भेदप्रतिपादनाभावात् ।
ननु सत्यं भिदेति काठरायणशाखायां वर्तत इति भेदं यथार्थमङ्गीकुर्म इति चेत्, शाखासु काठरायणसञ्ज्ञायाः गगनकुसुमायमानत्वेन भेदस्यापारमर्थिकत्वात् ।
नच पैङ्गरहस्यब्राह्मणमिति शाखासञ्ज्ञाकल्पनमपि शशशृङ्गप्रायमेवेति वाच्यं, शाखासञ्ज्ञाविवादे कल्पसूत्रकारा एव शरणं युष्माकमस्माकञ्च, अस्माकं शाखासञ्ज्ञात्वाधानसूत्रे भगवताऽऽपस्तम्बसूत्रकारेण पैङ्गायनब्राह्मणं भवतीति गृहीता वर्तते ।
तथा भवदीयकाठरायणादिसञ्ज्ञायाः कुत्रापि कल्पसूत्रेऽगृहीतत्वात्सा भवदीयश्रौतमर्यादाज्ञानकृतैवेति भेदे प्रमाणमेव नास्ति ।
विस्तृततया भेदनिराकरणं रामानुजमतनिराकरणे करिष्यत इत्युपरम्यते ।
एवमेव जडेश्वरभेदाऽपि श्रुतिविरुद्धत्वादप्रामाणिकः ।
श य एषोऽणिमैतदात्म्यमिदं सर्व” मिति छान्दोग्योपनिषदि, “इदं सर्वं यदयमात्मा” इत्युपनिषदन्तरे चोक्तम् ।
तस्माज्जडेश्वरभेदे प्रमाणाभावात्तदप्यसङ्गतमेव ।
एवमेव जडजीवभेदोऽप्यनुपपन्नः ।
ङेह नानाऽस्ति किञ्चन, यदाह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति” इति भेदशब्दपर्यायान्तरनानाशब्दैस्सम्प्रतिपाद्य किञ्चिच्छब्देन सर्व स्यापि जगतोऽन्योन्यं भेदनिषेधस्य कृतत्वात्, भेददृष्टिमतः पुरुषस्य भयमृत्युप्राप्तिवर्णनाच्च ।
द्वैतिनोऽतथादर्शिन इति विष्णुपुराणस्मृतेश्च भेदः सर्वथानुपपन्न एव ।
अनुमानञ्च भेदो मिथ्या दृश्यत्वात्,
[[३१४]]
शुक्तिरजतवत् ।
तस्माद्भेदः सर्वथा युक्तिभिः प्रमाणैश्च साधयितुं न शक्यत इति निरस्त एव ॥
यच्चोक्तं “विष्णुः सर्वोत्तमोऽथ प्रकृतिरथ विधि” रित्यादिना देवतातारतम्यनुक्तं तदप्यतिमन्दबुध्या कल्पितम् ।
तथाहि- “ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते ।
सोमः पवतेर्जनिता मतीना” मित्यादिश्रुतिवचनविरोधात् ।
नच “पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति ।
नारायणाद्ब्रह्माऽजायत नारायणाद्रुद्रोऽजायत” इत्यादिना रायणोपनिषद्वचनेन, “एको ह वै नारायण आसीन्न ब्रह्मा नेशानो नाग्नी"त्यादिमहोपनिषद्वचनजातेन च नारायणस्य रुद्रादिसकलदेवताजनकत्वेन सर्वोत्तमत्वप्रतिपादनाद्भक्तसौलभ्यार्थावतारपरत्वेन पूर्वोक्तवचनद्वयस्याप्यन्यथानयनं क्रियत इति वाच्यं, अस्माभिः कार्यकारणरुद्रद्वयाभ्युपगमवत्, कार्यकारणात्मकनारायणद्वयाभ्युपगमे प्रमाणाभावात्, पूर्वोक्तवचनस्य भक्तसौलभ्यपरत्वेनान्यथा नेतुमशक्यत्वान्न नारायणस्य सर्वोत्तमत्वम् ।
विस्तरस्तु शैववैष्णववादे प्रदर्श्यत इत्यत्रोपरम्यते ।
एतेन सर्वदेवतातारतम्यमपि निरस्तम् ।
ननु तारतम्ये शैषाङन्दस्य मीमांसा भवति” त्युपक्रम्य, युवा स्यात्साधुयुवाध्यायकः ।
आशिष्ठो द्रढिष्टो बलिष्ठः ।
तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् स एको मानुष आनन्दः ।
ते ये शतं मानुषा आनन्दाः ।
स एको मनुष्य- गन्धर्वाणामानन्दः ।
श्रोत्रियस्य चाकामहतस्ये" त्यादिका मनुष्यगन्धर्वदेवगन्धर्वकर्मदेवाजानजदेवेन्द्रबृहस्पतिप्रजापतिब्रह्मप र्यन्तमानन्दतारतम्यप्रतिपादिका श्रुतिरेव प्रमाणमिति चेन्न, तस्यां श्रुतौ देवतानन्दतारतम्यस्य सत्वेऽपि भवदभिमतविष्णुसर्वोत्तमत्वप्रकृतिविधिवायुब्रह्माणीभारतीगरुडशे।
समृडादिदेवतातारतम्यप्रतिपादनाभावात् ।
न चानन्दतारतम्यप्रतिपादनादेवाधिकारतरतमभाववद्देवतातारतम्येऽस्मद् उक्ते इयमेव श्रुतिर्नियामिकेति वाच्यं, लोकेऽधिकारितारतम्येनानन्दतारतम्यवद्देवादीनामधिकारिणां ब्रह्मविद इव निस्तरङ्गानन्दाब्ध्यनुभववत्सोपद्रवानन्दानुभवमात्रेण तत्तल्यत्व-
[[३१५]]
मेव नास्तीति वक्तं श्रुतिरियं प्रवृत्ता नतु तरतमभावः सत्यमिति वक्तुं, तस्मात्तारतम्यकल्पनमप्रामाणिकम् ॥
यच्चोक्तं-मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेरित्यधिकरणे “तदिह व्याघ्रो वा कीटो वा पतङ्गो वा वराहो वा दंशो वा मशको वा यद्यद्भवन्ति तथा भवती” ति श्रुतिमहिम्ना मोक्षदशायां सर्वेषां तिर्यगादीनां तदवस्थतैव मोक्ष इति, तदत्यन्तासङ्गतं संसारदशायामिव मोक्षदशायामपि श्वा भषन्नेव कीशः किलकिलां कुर्वन्नेव मशक उत्पतन्निपतन्नेव फेरवोप्युच्चतरमारुवन्नेव हयो ह्रेषमाण एव वारणो बृंहमाण एव वराहो विटर एव काकः क्राङ्कुर्वन्नेव रासभो रारटन्नेव खलः पैशुन्यमाचरन्नेव भुजङ्गमोऽपि विषमुद्गिरन्नेव एवमेते स्वस्वव्यापारं कुर्वाणा एव तिष्ठन्ति चेत्संसारदशातो विशेषाभावान्मुक्त्यर्थं कस्यापि प्रवृत्तिर्न स्यात्, मुक्तितत्साधनप्रतिपादकानां शास्त्राणाञ्च वैफल्यं स्यात् ।
नच मुक्तौ तिर्यगादीनां शरीरमात्रस्य तादवस्थ्यमात्रमङ्गीक्रियते नतु तदीयानां हेयानां भूषणादिव्यापाराणां तादवस्थ्यमङ्गीक्रियत इति वाच्यं, प्रमाणाभावात् ।
हेयगुणत्यागवद्धेयशरीरस्यापि समानन्यायतया त्यागौचित्ये किमर्थमर्धजरतीयेनेत्यलम् ।
यदपि भक्तेः साक्षान्मोक्षसाधनत्वमित्युक्तं तदप्यत्यन्तासमञ्जसं, “तमेव विदित्वाऽतिमृत्युमेति ।
तमेवं विद्वानमृत इह भवति ।
ब्रह्मविद् ब्रह्मैव भवति ।
ज्ञात्वा तं मृत्युमत्येति ।
नान्यः पन्था विमुक्तये ।
तरति शोकमात्मवित् ।
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यती"त्यादिश्रुतिमहिम्ना ज्ञानसत्वे मोक्षः ज्ञानाभावे मोक्षाभाव इत्यन्वयव्यतिरेकयोः श्रुत्यैव प्रतिपादनात् ।
ज्ञानस्यैव साक्षान्मोक्षसाधनत्वं; नतु त्वदुक्ताया भक्तेः ।
नच श्रद्धाभक्तिध्यानयोगादवैही"ति भक्तेर्मोक्षसाधनत्वं प्रतिपाद्यत इति वाच्यं, परम्परासाधनत्वप्रतिपादकत्वेन श्रुतेर्नेतुं शक्यत्वात् ।
अन्यथा श्रद्धाया अपि तत्सहपठितायास्तथात्वं
[[३१६]]
स्यात् ।
अत एव “यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मन” इति गुरूपदिष्टार्थावबोधरूपश्रवणमननादिव्यापार एव प्रतिपादितम् ॥
यच्चोक्तं तापादिपञ्चसंस्कारसङ्कृतस्यैव मुक्तियोग्यत्वमिति तदत्यन्तानुपपन्नम् ।
शङ्खचक्राद्यङ्कनञ्च नृत्यगीतादिकं तथा ।
हीनजातेरयं धर्मो न जातु स्याद्द्विजन्मनः ।” इति, यथा स्मशानगं काष्ठमनर्हं सर्वकर्मसु ।
तथा चक्राङ्कितो विप्रः सर्वकर्मबहिष्कृतः ॥
निन्दन्तो ह्यैश्वरान्मार्गान्कुशास्त्रासक्तमानसाः ।
पाञ्चरात्रे च कापाले तथा कालामुखेऽपि च ॥
शाक्ते च दीक्षिता यूयं भवत ब्राह्मणाधमाः ।
एकदण्डास्त्रिदण्डाश्च ये च भक्ता हरेरिह ।
तेऽद्य पाखण्डिनः सन्तु द्रष्ट्रूणां नरकप्रदाः ॥" इत्यादिदेवीवीरभद्रनन्दी दधीचिगौतमदुर्वासादिदेवर्षिशापदग्धजनविषयत्वेन स्कान्दलैङ्ग्यकूर्मादिपुराणेषु प्रतिपादनात् ।
तापादिपञ्चसंस्कारस्य शापदग्धदुर्विप्रविषयतया तेषां मुक्तियोग्यत्वं दूरापास्तम् ।
विस्तरस्तु लिङ्गधारणवादे द्रष्टव्यः ।
किञ्च श्रुतिस्मृतिन्यायमूलकत्वाभावेनात्यन्तासङ्गतस्यास्य माध्वमतस्याऽऽर्हतमतमेव मूलम् ।
तथाहि- तत्र तावदेवं हि कल्पना- स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्त्यवक्तव्यः, स्यान्नास्त्यवक्तव्यः, स्यादस्ति च नास्ति चावक्तव्यश्चेति सप्तभङ्गीनय इति ।
एवं सप्तभङ्गीन्यायमाश्रित्यैव माध्वमतं प्रवृत्तम् ।
तथाहि- “अजायमानो बहुधा विजायत” इत्यत्र सामान्यात्मनाऽजायमानः स्वानेकपर्यायात्मना जायत इत्यर्थः ।
“एको देवो बहुधा निविष्ट इत्यत्र सामान्यात्मना एकत्वं विशेषात्मनाऽनेकत्वम् ।
तथा चैकस्मिन् ब्रह्मण्यैकत्वानेकत्वयोर्युगपदेवाङ्गीकारात् ।
एकत्वस्य स्यादस्तित्वं स्यान्नास्तित्वञ्च ।
तदसदेव सन्मनोऽकुरुतेत्यत्र कार्याकारेणासतः कारणात्मना सत्त्वम् ।
अन्यथा स्यामिति मनोऽकुरुतेत्यादौ कर्तुरत्यन्तासत्त्वप्रसङ्गात् ।
शदेव सोम्येदमग्र आसी” दित्यत्रापि कारणात्मना सदेवेति विवक्षितम् ।
[[३१७]]
अन्यथा बहु स्यामित्युत्तरवाक्यविरोधात् ।
“तद्धैक असदेवेदमग्र- आसी"दित्यत्रापि सत्त्वमेवानूद्य कथमसतः सज्जायेतेति प्रतिक्षिप्तम् ।
तथा ङासदासीन्नो सदास्तीत्तदानी” मिति श्रुतिवशादपि कारणस्य कथञ्चित्सत्त्वं पर्यवस्यति ।
तथा सति क्षराक्षरत्वाङ्गीकारात्, स्वरूपेणास्ति परमात्मा क्षराक्षरात्मना नास्तीति ।
एवञ्च स्यादस्ति स्यान्नास्तीति मूलभङ्गीद्वयमागतम् ।
तथा “अणोरणीया” नित्यत्रापि कथञ्चिदणुत्वं, अन्यथा महत्वोनुपपत्तेः ।
न चाणुत्वमहत्वयोरेकत्र विरोधः ।
चित्त्वेनैक्येऽपि विशेषापरनाम्नः कथञ्चिद्भेदस्येष्टत्वात्, अन्यथा महतो महीयानिति पृथगनुक्तिप्रसङ्गात् ।
सर्वथाऽणुत्वेऽस्थूलमनण्विति पर्युदासानुपपत्तेः तथा च स्यादणुः स्यादनणुर्महान्वेति मूलभङ्गीद्वयमागतम् ।
एवञ्च स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्त्यवक्तव्यः, स्यान्नास्त्यवक्तव्यः, स्यादस्ति च नास्ति चावक्तव्यश्चेति सप्तभङ्गीनयः ।
अस्मिन्नर्थे समन्तभद्रवचनानि मूलभूतानीति समन्तभद्रवचनमस्मिन्नर्थे विलिख्यते-
एकानेकविकल्पादावुत्तरत्रापि योजयेत् ।
प्रक्रियाभङ्गिनीमेनां नयैर्नयविशारदः ॥
प्रच्छन्नजैनो मध्वोऽयं स्याद्वादित्वेऽपि वस्तुतः ।
आवृत्तिक्षतये तस्य सप्तभङ्गी प्रदर्शते ॥
सर्वज्ञ आत्मा स्यादेक एव स स्यादनेकशः ।
स्यादेकश्चाप्यनेकश्च स्यादवाच्यस्तथैव सः ॥
स्यादेकश्चाप्यवाच्यः स्यादनेकश्चाप्यवाच्यकः ।
स्यादेकश्चाप्यनेकश्चाऽवक्तव्यश्च स एव हि ॥
इत्युक्ता सप्तभङ्ग्येव सप्तभङ्ग्यन्तराण्यपि ।
मूलभङ्गानुसारेण वक्तव्यानीह तद्यथा ॥
[[३१८]]
स्यादणुः स्यान्महानेवं स्यादणुश्च महानपि ।
स्याद्भिन्नः स्यादभिन्नश्च स्याद्भिन्नाऽभिन्न एव च ॥
बहुनात्र किमुक्तेन यः सर्वज्ञ इहोदितः ।
स तु स्वरूपेणास्त्येव न क्षराद्यात्मनास्त्यतः ॥
अनन्ताः सप्त भङ्ग्यः स्युः स्यादस्तीत्यादिका इह ।
ततो जैनाधिकरणे यन्नैकस्मिन्नसम्भवात् ॥
इत्यादिभिश्चतुर्भिस्तु सूत्रैर्वा समुदीरितान् ।
दोषानशेषानाक्षिप्य मध्वेन गतसाध्वसम् ॥
ब्रह्मानेकान्तमेवाह जिनोक्तिश्रद्धयोदितः ।
आत्मलोकौ सांशनित्याविति प्रोक्तौ जिनैरतः ॥
वैकुण्ठवैकुण्ठलोकौ सांशनित्यमनेन च ।
ब्रह्मानैकान्तिकं प्रोक्तं तथा षाड्गुण्यवादिना ॥
जिनशासनमुल्लङ्घ्य नैवाभ्यां ब्रह्म कथ्यते ।
अद्वैतैकान्तभङ्गे तौ मत्सहायौ च तिष्ठताम् ॥
न वेदस्य प्रमाणत्वं जिनैरभ्युपगम्यते ।
प्रमाणत्वेप्यनेकान्तसिद्धिरेवेति वर्णितम् ॥
इति ॥
अयमेषामाशयः- माध्वानामार्हतकल्पितस्यादस्तीत्यादिसप्तभङ्गीन्यायानुरूपप्रक्रियाकल्प नापटूनां प्रच्छन्नजैनत्वे, तदुक्तसप्तभङ्गीन्यायाच्छादनाय शब्दान्तरव्यवहारेण स्वस्वामिमतार्थगोपनपरत्वे च सप्तभङ्गीन्यायमूलकत्वस्फूटीकरणाय तदुपपादनं क्रियते- वादी समागत्य भवन्मते किं परमात्मा एक इति पृच्छति चेत्तत्रोत्तरं स्यादेकोऽस्तीति ।
किं परमात्मा एको न भवतीति पृतीति चेत्तत्रोत्तरं स्यादेको नास्ति किन्त्वनेक इति ।
किं परमात्मा एकोऽनेको
[[३१९]]
वेति पृच्छति चेत्तत्रोत्तरं स्यादस्ति नास्ति चेति ।
एकोऽप्यनेक इत्यर्थः ।
किं परमात्माऽवक्तव्य इति पृच्छति चेत्तत्रोत्तरं स्यादवक्तव्य इति ।
किं परमात्मा एकोऽवक्तव्य इति पृच्छति चेत्तत्रोत्तरं स्यादस्ति चावक्तव्य इति ।
किं परमात्माऽनेकोऽवक्तव्य इति पृच्छति चेत्तत्रोत्तरं स्यान्नास्ति चावक्तव्य इति ।
किं परमात्मा एकोऽनेकोऽवक्तव्य इति पृच्छति चेत्तत्रोत्तरं स्यादस्ति च नास्तिचावक्तव्यश्चेति परमात्मनः सामान्यात्मनाऽभेदः रामकृष्णाद्यवतारविशेषात्मना भेद इत्यङ्गीकारात्सप्तभङ्गीन्यायमनुकरोति ।
एवमेवाणुत्वमहत्वगुणत्वगुणित्वादिविरुद्धधर्माणामेकत्राङ्गीकारेण बहूनि सप्तभङ्ग्यन्तराणि स्युः ।
एतद्विस्तरस्तु वैदिकमतनिर्णये द्रष्टव्यः, विस्तरभयान्नेह लिख्यते ।
तस्मादार्हतमतानुसारात्, श्रुतिस्मृत्यादिविरोधान्माध्वमतं सद्भिरनादरणीयम् ॥
इति श्रीमद्-अनादि-निरञ्जन-जङ्गमापरावतार-
तोण्टद-सिद्धेश्वर-प्रसादासादित-
शाम्भवागमाम्बोधि-मथन-जनित-
निरुत्तरैकोत्तरशत-स्थल-भेद-भिन्न-षट्-स्थल–
तत्त्वबोध-सुधास्वादानन्द-सन्दोह-प्रदायकाचार्यवर्य-
श्रीमरितोण्टदार्य-विरचिते
यडव-मुरारि-कोटे-कोलाहलैकाङ्गि-वीर-
वैरि-सप्ताङ्ग-हरण-पश्चिम-समुद्राधीश्वर-
विशुद्ध-वैदिकाद्वैत-सिद्धान्त-प्रतिष्ठापनाचार्य-
केलदि-सदाशिव-राय-नायक-वंश-दुग्धार्णव-चन्द्र-
वीर-भद्र-धरणीन्द्र-धर्म्म-पत्नी-मल्लाम्बा-हृदयानन्द-
बसव-वसुधा-सङ्क्रन्दनोपदेशे
वीरशैवानन्द-चन्द्रिकायां वादकाण्डे मध्वमतनिरूपण तन्निराकरणप्रकारोनाम सप्तदशं प्रकरणम् ॥
[[३२०]]