१६

वीरशैवानन्दचन्द्रिकायां वादकाण्दे षोडशं प्रकरणम् ॥

गुरो तर्कमतं तस्य निराकरणमुत्तमम् ।
त्वया प्रोक्तं निशम्याहं प्रहृष्टहृदयोऽभवम् ॥
केषां मतमुपक्रान्तं भृङ्गिणा च ततः परम् ।
युक्त्या शीलवता तच्च खण्डितं कथमीरय ॥
भो शीलवद्वर्य तवास्ति गर्वः प्रदूषणात्तर्कमतस्य भूयान् ।
महत्तरं योगमतं वदामि युक्त्या कथं दूषयति त्वमीक्षे ॥
इत्युक्तवन्तं किल भृङ्गिणं द्राक् स शीलवानाह वदाद्यतच्च ।
भृङ्गिन्नहं योगमतं प्रशस्तम् प्रदूषयामि त्वमिहैव पश्य ॥
इत्थं बसवभूपाल शृणु त्वं भृङ्गिशीलिनोः ।
वचनं विस्मयकरं कथयाम्यहमादरात् ॥

[[२६१]]

“योगश्चित्तवृत्तिनिरोधः ।” द्रष्टुः पुरुषष्य स्वरूपचिन्मात्रतायामवस्थानं चित्तशब्दार्थः ।
वृत्तिसमुदायोऽवयवी चित्तमित्युच्यते ।
घटाद्याकारेण चित्तपरिणतिर्वृत्तिः ।
सा च वृत्तिः क्लिष्टाक्लिष्टाचेति द्विधा ।
ताश्च प्रमाणविपर्ययविकल्पनिद्रास्मृतिभेदेन पञ्चधा ।
तत्र प्रमाणमविसंवादिज्ञानम् ।
तच्च प्रत्यक्षानुमानागमभेदात्त्रिधा ।
इन्द्रियद्वारेण बाह्यवस्तूपरागाच्चित्तस्य तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षम् ।
गृहीतसम्बन्धाल्लिङ्गलिङ्गिनोः सामान्यात्मनाऽध्यवसायोऽनुमानम् ।
आप्तवचनमागमः ।
अतथाभूतेऽर्थे तथोत्पद्यमानं ज्ञानं विपर्ययः ।
संशयो विपर्ययभेदः ।
देवदत्तस्य कम्बलमित्यादौ षष्ठ्या योऽध्यवसितो भेदस्तं पुरुषस्य चैतन्यं स्वरूपमित्यादावविद्यमानमपि समारोप्याध्यवसायो विकल्पः ।
सन्ततोद्रिक्तात्तमसः सर्वविषयपरित्यागेन प्रवर्तमाना वृत्तिर्निद्रा ।
प्रमाणेनानुभूतस्य विषयस्य संस्कारद्वारेण बुद्धावारोहः स्मृतिः ।
तत्र प्रमाणविपर्ययविकल्पा जाग्रदवस्था ।
त एव यदानुभवबलात्प्रक्षीयमाणाः स स्वप्नः ।
एवं पञ्चवृत्तयः ॥
साङ्ख्यमतसिद्धजडपरिणामित्वमनुमन्वानाः पातञ्जलाः पुनरेवमुपवर्णयन्ति-योगश्चित्तवृत्तिनिरोधः ।
द्रष्टुः पुरुषस्य स्वरूपचिन्मात्रतायामवस्थानं चित्तशब्दार्थः ।
योगादन्यस्मिन् काले सा घटाद्याकारा ।
यथा जलतरङ्गेषु चलत्सु चन्द्रश्चलन्निव प्रतिभासते तद्वच्चित्तमप्यभ्यासवैराग्याभ्यां निवृत्तबाह्याभिनिवेशानां वृत्तीनामन्तर्मुखतया स्वकारण एव चित्ते शक्तिरूपेणावस्थानं निरोधः ।
वृत्तिनिहतस्य स्वरूपनिष्ठपरिणतिरूपतायां यत्न उत्साहः ।
पुनः पुनस्तथात्वेन चेतसि विनिवेशनमभ्यासः ।
स एव बहुकालं नैरन्तर्येणाऽऽदरातिशयेन च सेव्यमानो दृढभूमिः इहैवोपलक्ष्यमाणे शब्दादौ दृष्ट आनुश्रविके देवलोकादौ च परिणतिविरसत्वदर्शनाद्विरक्तस्य ममैते वश्या नाहमेतेषां वश्य इति विमर्शो वैराग्यम् ।
एवंविधो योगः ।
सम्प्रज्ञातासम्प्रज्ञातभेदेन द्विविधः समाधिः ।
सम्यक् संशयविपर्यय-

[[२६२]]

रहितत्वेन प्रज्ञायते प्रकर्षेण ज्ञायते भावस्य स्वरूपं येन स सम्प्रज्ञातसमाधिर्भावनाविशेषः ।
सवितर्कसविचारसानन्दसास्मितभेदात् स चतुर्विधः ।
समाधिर्भावना भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनम् ।
भाव्यञ्च द्विविधमीश्वरस्तत्त्वानीति, तानि च तत्त्वानि जडाजडभेदाद्द्विधा ।
जडानि चतुर्विंशतिरजडः पुरुषः ।
तत्र यदा महाभूतेन्द्रियाणि स्थूलानि विषयत्वेनादाय पूर्वापरानुसन्धानेन शब्दार्थोल्लेखसम्भेदेन च भावना प्रवर्तते तदा सवितर्कसमाधिः ।
अस्मिन्नेवालम्बने पूर्वापरानुसन्धानशब्दोल्लेखनशून्यत्वेन यदा भावना प्रवर्तते तदा निर्वितर्कः समाधिः ।
तन्मात्रान्तःकरणलक्षणं सूक्ष्मं विषयमालम्ब्य तस्य देशकालधर्मावच्छेदेन यदा भावना प्रवर्तते तदा सविचारः ।
तस्मिन्नेवालम्बने देशकालधर्मावच्छेदं विना धर्मिमात्रावभासित्वेन क्रियमाणा भावना निर्विचारसमाधिः ।
एते ग्राह्यसमाधयः, यदा तु रजस्तमोलेशानुविद्धमन्तःकरणसत्त्वं भाव्यते तदा गुणभावाच्चितिशक्तेः सुखप्रकाशमयस्य सत्त्वस्य भाव्यमानस्योद्रेकात्सानन्दः समाधिः ।
अस्मिन्नेव समाधौ ये बद्धधृतयस्तत्त्वान्तरं प्रधानपुरुषं न पश्यन्ति ते विगतदेहाहङ्कारत्वाद्विदेहशब्दवाच्याः ।
इयं ग्रहणसमापत्तिः ।
ततः परं रजस्तमोलेशानभिभूतं शुद्धसत्त्वमालम्बनीकृत्य या प्रवर्तते भावना तस्यां ग्राह्यस्य सत्त्वस्य न्यग्भवाच्चितिशक्तेरुद्रेकात्सत्तामात्रावशेषत्वेन समाधिः सास्मित उच्यते ।
न चाहङ्कारास्मितयोरभेदः शङ्कनीयः, यतो यत्रान्तःकरणमहमित्युल्लेखेन विषयान्वेदयते सोऽहङ्कारः ।
यत्रान्तर्मुखतया प्रतिलोमपरिणामे प्रकृतिलीने चेतसि सत्तामात्रमवभाति साऽस्मिता ।
अस्मिन्नेव समाधौ ये प्रकृतिपरितोषाः परं परमात्मानं पुरुषं न पश्यन्ति तेषां चेतसि स्वकारणे लयमुपागते प्रकृतिलया इत्युच्यन्ते ।
ये परं पुरुषं ज्ञात्वा भावनायां प्रवर्तन्ते तेषामियं विवेकख्यातिर्गृहीतसमापत्तिरित्युच्यते ।
तत्र सम्प्रज्ञातसमाधौ चतस्रोऽप्यवस्थाः शक्तिरूपतयाऽवतिष्ठन्ते ।
तत्रैकैकस्यास्त्याग उत्तरोत्तरा इति चतुर-

[[२६३]]

वस्थोऽयं सम्प्रज्ञातः समाधिः ।
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽसम्प्रज्ञातसमाधिः ।
अयमर्थः- विरम्यत इति विरामो विरामश्चासौ प्रत्ययश्चेति विरामप्रत्ययः तस्य पौनःपुन्येन चेतसि निवेशनमभ्यासः ।
तत्र या काचिद्वृत्तिरुल्लसति तस्या नेति नेति नैरन्तर्येण पर्युदासपूर्वकं संस्कारशेषोऽसम्प्रज्ञातसमाधिः ।
न तत्र किञ्चिद्वेद्यत इत्यसम्प्रज्ञातो निर्बीजः समाधिः ।
चित्तपरिणामश्चतुर्धा-व्युत्थानं समाधिप्रारम्भ एकाग्रता निरोध इति भेदात् ।
तत्र क्षिप्तमूढे चित्तभूमी व्युत्थानम् ।
विक्षिप्ता भूमिः सत्त्वोद्रेकात्समाधिप्रारम्भः ।
एकाग्रतानिरुद्धे तु पर्यन्तभूमी ।
प्रतिपरिणामञ्च संस्काराः ।
तत्र व्युत्थानजनिताः संस्काराः समाधिप्रारम्भजैः संस्कारैः प्रत्याहन्यन्ते ।
ते चैकाग्रताजैः, ते च निरोधजनितैः संस्कारैस्ते च संस्काराः स्वरूपञ्च हन्यन्ते ।
यथा सुवर्णसंवलितं ध्यायमानं सीसकमात्मानं सुवर्णमलञ्च निर्दहति, एवमेकाग्रताजनितान् संस्कारान्निरोधजाः स्वात्मानञ्च निर्दहन्ति ।
एवं सङ्क्षेपतो योगस्वरूपं तदुपायाश्च वेदितव्याः ॥
अथ योगाभ्यासप्रदर्शनपूर्वका विस्तरेणोपायाः ।
विदेहाः प्रकृतिलयाश्च पूर्वमाम्नातास्तेषां परतत्त्वादर्शनादाविर्भूत एव संसारे भवप्रत्ययः समाधिः ।
अतः परं तत्त्वज्ञाने तद्भावनायाञ्च मुक्तिकामेन यत्नो विधेय इत्येतदर्थमुपदिष्टम् ।
विदेहप्रकृतिलयव्यतिरिक्तानां योगिनां श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वकः समाधिः ।
तत्र योगविषये चेतसः प्रसादः श्रद्धा, वीर्यमुत्साहः, स्मृतिरनुभूतासम्प्रमोषः, समाधिरेकाग्रता, ज्ञातव्यप्रविवेकः प्रज्ञा ।
तत्र श्रद्धया वीर्यं जायते, साधको योगविषय उत्साहवान्भवति ।
सोत्साहस्य पाश्चात्यानुभूतिषु भूमिषु स्मृतिरुपजायते ।
तत्स्मरणाच्चेतः समाधीयते ।
समाहितचित्तश्च भाव्यं सम्यग्विजानाति ।
त एते सम्प्रज्ञातसमाधेरुपायाः ।
तस्याभ्यासात्पराच्च वैराग्याद्भवत्यसम्प्रज्ञातः ।
अथोक्तोपायवतां योगिनामुपायभेदाद्भेदः ।
क्रियाहेतुर्दृढतरः संस्कारः ।
सस्तीव्रसंवेगानां योगिनामासन्नः समाधिः, समाधिः फलञ्च शीघ्रमुत्पद्यते ।
अथ विषयसुखादिकं

[[२६४]]

फलमनिच्छतां सर्वासां क्रियाणां परमेश्वरे समर्पणमुत्कृष्टोपायः ।
तेनेश्वरप्रणिधानेन समाधिलाभः ।
अविद्यादिक्लेशैर्विहितप्रतिषिद्धमिश्ररूपैः कर्मभिः, जात्यायुर्भोगैः कर्मफलरूपैर्विपाकैर्वासनाख्यसंस्कारविशेषरूपैराशयैश्च त्रिष्वपि कालेष्वसंस्पृष्टः, अत एव विशिष्टः पुरुष ईशनक्षम ईश्वर इच्छामात्रेण जगदुद्धरणक्षमः ।
सर्वेषामात्मनां योद्धृगतजयपराजयौ स्वामिन इवाभिमानमात्रेण चित्तगतक्लेशादिसम्बन्धोऽस्ति ।
अस्येश्वरस्य तु तादृशसुखदुःखादिकं नास्तीति पुरुषेभ्य ईश्वरस्य विशेषः ।
तस्य च तथाविधमैश्वर्यं सत्त्वोत्कर्षात्सत्त्वोत्कर्षश्च प्रकृष्टज्ञानादेव ।
न चानयोर्ज्ञानैश्वर्ययोरितरेतराश्रयत्वम्, परस्परानपेक्षत्वात् ।
ते द्वे ज्ञानैश्वर्ये ईश्वरसत्वे वर्तमाने अनादिभूते, तेन च तथाविधेन सत्त्वेन तस्यानादिरेव सम्बन्धः ।
प्रकृतिपुरुषसंयोगवियोगयोरीश्वरेच्छाव्यतिरेकेणानुपपत्तेः ।
यथेतरेषां प्राणिनां सुखदुःखमोहात्मकतया परिणतं चित्तं निर्मले सात्त्विके धर्मात्मप्रख्ये योगिशरीरे प्रतिसङ्क्रान्तं चिच्छायासङ्कान्ते सवेद्यं भवति, नैवमीश्वरस्य ।
तस्य च केवल एव सात्विकः परिणाम उत्कर्षवाननादिसम्बन्धेन भोग्यतया व्यवस्थितः ।
अतः पुरुषान्तरविलक्षणतया स एवेश्वरः ।
न चेश्वराणामनेकत्वम्, तेषां तुल्यत्वे भिन्नभिन्नाभिप्रायत्वात्कार्यस्यैवानुपपत्तेः; उत्कर्षापकर्षवत्वेऽपि य एवोत्कृष्टः स एवेश्वरः ।
यथा परमाणावकाशे चाल्पत्वं महत्वञ्च दृश्यते; एवं ज्ञानादयोऽपि चित्तधर्मास्तारतम्येन परिदृश्यमानाः क्वचिन्निरतिशयतामापादयन्ति; यत्र चैते ज्ञानादयो निरतिशयाः स ईश्वर इति निरतिशयज्ञानित्वं सर्वज्ञत्वबीजम् ।
तस्य परमकारुणिकत्वाद्भूतानुग्रह एव प्रयोजनम् ।
कल्पप्रलयमहाप्रलयेषु निश्शेषान् संसारिण उद्धरिष्यामीति तस्याध्यवसायः ।
यद्यस्येष्टं तत्तस्य प्रयोजनम् ।
आद्यानां स्रष्टृर्णां ब्रह्मादीनामपि स गुरुरुपदेष्टा, यतः स कालेन नावच्छिद्यते, अनादित्वात् ॥
तस्य च वाचकः प्रणवः ।
तयोर्वाच्यवाचकभावसम्बन्धो नित्यः ।
सङ्केतेन प्रकाश्यते नतु केनचित्क्रियते ।
यथाऽस्यायं पिताऽस्यायं

[[२६५]]

पुत्र इति केनचित्प्रकाश्यते नैवमित्यर्थः ।
सार्धत्रिमात्रस्य तस्य प्रणवस्य यथावदुच्चारणं जपः ।
तद्वाच्यस्येश्वरस्य पुनः पुनश्चेतसि निवेशनञ्चैकाग्रताया उपायः ।
तज्जपभावनाभ्यां प्रत्यक्चेतनज्ञानं वक्ष्यमाणान्तरायाभावश्च फलमुत्पद्यते ।
व्याधिस्त्यानसंशयप्रमादाऽऽलस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वाऽन् अवस्थितत्वानि चित्तविक्षेपका अन्तरायाः ।
धातुवैषम्यनिमित्तो ज्वरादिर्व्याधिः ।
चित्तस्याकर्मण्यता स्त्यानम् ।
उभयकोट्यालम्बनं ज्ञानं संशयो योगः साध्यो नवेत्येवंरूपः ।
अनुत्थानशीलता प्रमादः समाधिसाधनेष्वौदासीन्यम् ।
कायचित्तयोर्गुरुत्वं योगविषये प्रवृत्त्यभावहेतुरालस्यम् ।
चित्तस्य विषयसंयोगात्माऽविरतिः ।
विपर्ययज्ञानं भ्रान्तिदर्शनम् ।
कुतश्चिन्निमित्तात्समाधेरभावोऽलब्धभूमिकत्वम् ।
लब्धावस्थायामपि समाधिभूमौ चित्तस्य तत्राप्रतिष्ठाऽनवस्थितत्वम् ।
एतैः चित्तविक्षेपैः सह दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासाः पञ्च भवन्ति ।
दुःखं बाधनालक्षणम् ।
मनोदौस्थ्यं दौर्मनस्यम् ।
अङ्गवेपथुरङ्गमेजयत्वम् ।
प्राणस्य बाह्यवायुसम्बन्धः श्वासः ।
कोष्ठवायोर्निश्वसनं प्रश्वासः ।
त एते विक्षेपैस्सह प्रवर्तमाना अभ्यासवैराग्याभ्यां निरोद्धव्याः ।
अथोपायान्तरमपि तेषां विक्षेपाणां निरोधार्थमेकस्मिन्नभिमते तत्त्वे चेतसः पुनः पुनर्निवेशनं कुर्यात् ।
तद्बलात्प्रत्युदिता चैकाग्रता विक्षेपरहिता भवति ।
चित्तसंस्कारापादकं परिकर्म चतुर्धा ।
मैत्री करुणा मुदितोपेक्षेति ।
तत्र मैत्री-सौहार्दम्, करुणा-कृपा, मुदिता-हर्षः, उपेक्षा-चावमान्यम् ।
यथा सुखिषु साध्वेषां सुखित्वमिति मैत्रीं कुर्यान्न त्वीर्ष्याम् ।
दुःखिषु कथन्नु नामैषां दुःखविमुक्तिः स्यादिति कृपामेव कुर्यान्न ताटस्थ्यम् ।
पुण्यवत्सु पुण्यानुमोदनेन हर्षमेव कुर्यान्नतु किमेते पुण्यवन्त इति विद्वेषम् ।
अपुण्यवत्सु चौदासीन्यमेव भावयेन्नानुमोदनं न वा द्वेषः ।
तदेवं मैत्र्यादिपरिकर्मणा चित्तं प्रसीदति ।
द्वेषरागादिप्रति पक्षभूतमैत्र्यादिभावनया समुत्पादितप्रसादं चित्तं सम्प्रज्ञातादिसमाधियोग्यं

[[२६६]]

भवति ।
उपायान्तरञ्च ।
कौष्ठ्यस्य वायोः प्रयत्नविशेषान्मात्राप्रमाणेन बहिर्निस्सारणरूपेण प्रच्छर्दनाभिधेन रेचकेण, बाह्याभ्यन्तरवायुपूरणेन पूरकोपायेन, पूरितवायुनिरोधात्मकेन कुम्भकेन विधारणनाम्ना वा चित्तैकाग्रता निष्पद्यते ।
अथ सम्प्रज्ञातसमाधेः पूर्वाङ्गः ।
गन्धरसरूपशब्दस्पर्शाख्यफलवती मनोवृत्तिरेकाग्रतामापादयति ।
यथा नासाग्रे चित्तं धारयतो दिव्यगन्धसंविदुपजायते ।
जिह्वाग्रे रससंवित्, ताराग्रे रूपसंवित्, जिह्वामध्ये स्पर्शसंवित्, जिह्वामूले शब्दसंवित्, तत्तदिन्द्रियद्वारेण तस्मिंस्तस्मिन्दिव्यविषये जायमाना संविच्चित्तस्यैकाग्रतायै प्रभवति ।
प्रशस्तो भूयान्सात्त्विकप्रकाशो यस्यां सा ज्योतिष्मती प्रवृत्तिः सुखमयत्वाभ्यासबलाद्रजः परिणतिरूपशोकरहितचित्तैकाग्र्यं सम्पादयति ।
अयमर्थः- हृत्पद्मसम्पुटमध्ये प्रशान्तक्षीरोदधिप्रख्यं चित्तसत्त्वं भावयतः प्रज्ञालोकात्सर्ववृत्तिपरिक्षये चेतसः स्थैर्यमुत्पद्यते ।
अयमेको योगः ।
वीतरागस्य चित्तमपि स्थैर्यहेतुः प्रत्यस्तमितबाह्येन्द्रियवृत्तेरात्मनो मनोमात्रेणैव भोक्तृत्वरूपस्वप्नालम्बनमुक्तनिद्रालम्बनं वा ज्ञानं चित्तस्थैर्याय भवति ।
यथाभिमते वस्तुनि बाह्ये चन्द्रादावाभ्यन्तरे नाडीचक्रादौ वा भाव्यमाने चेतसःस्थैर्यं भवति ।
एभिरुपायैश्चित्ते स्थैर्यं भावयतो योगिनः सूक्ष्मविषयभावनाद्वारेण परमाण्वन्तो वशीकारः फलम् ।
तत्तद्भावयतश्चित्तं न प्रतिहन्यते ।
एवं संस्कृतस्य चेतसः क्षीणवृत्तेः ग्रहीतृग्रहण- ग्राह्येष्वात्मेन्द्रियविषयेषु क्रमेण तत्स्थत्वं तन्मयत्वं तद्रूपपरिणामश्च ।
निर्मलस्फटिकस्य तत्तदाश्रयवशात्तद्रूपवन्निर्मलस्य चित्तस्य तत्तद्भावनीयवस्तूपरागात्तत्तद्रूपत्वापत्तिः ।
अथोक्ता समापत्तिश्चतुर्धा ।
श्रोत्रेन्द्रियग्राह्यः स्फोटरूपो वा शब्दः ।
अर्थो जात्यादिः ।
ज्ञानं सत्त्वप्रधाना बुद्धिवृत्तिः ।
विकल्प उक्तलक्षणः ।
तैः सङ्कीर्णा सवितर्का समापत्तिः ।
शब्दार्थस्मृतिप्रविलये सति प्रत्युदितस्पष्टग्राह्याकारप्रतिभासितया न्यग्भतज्ञानांशत्वेन स्वरूपशून्येव निर्वितर्का

[[२६७]]

समापत्तिः ।
सूक्ष्मतन्मात्रान्तःकरणादिविषया शब्दार्थविषयत्वेन शब्दार्थविकल्पसहितत्वेन द्वेधा देशकालधर्माद्यवच्छिन्नसूक्ष्मार्थप्रतिभावनवती सविचारा ।
देशकालधर्मादिरहिततन्मात्रान्तःकरणरूपधर्मिमात्रप्रतिभावनवती निर्विचारा समापत्तिः ।
सूक्ष्मविषये समापत्तिर्विशिष्टलिङ्गभूतादिविषयाः, अविशिष्टलिङ्गतन्मात्रेन्द्रियविषया, लिङ्गमात्रबुद्धिविषया, अलिङ्गप्रधानविषया च ।
नातः परं सूक्ष्ममस्ति ।
ता एवोक्तलक्षणाः समापत्तयः सह बीजेन वर्तते इति सबीजः सम्प्रज्ञातस्समाधिः ।
तथा च सवितर्कां स्थूलविषयामपेक्ष्य निर्वितर्कायाः प्राधान्यम् ।
ततोऽपि सूक्ष्मविषयायाः सविचारायाः, ततोऽपि निर्विकल्परूपाया निर्विचारायाः ।
तस्याः प्रकृष्टाभ्यासवशान्नैर्मल्ये सत्यध्यात्मप्रसादः सम्भवति ।
चित्तं क्लेशवासनारहितं स्थिरप्रवाहयोग्यं भवति ।
एवं चित्तवैशारद्यरूपे दार्ढ्ये सति, ऋतं सत्यं बिभर्ति कदाचिदपि न विपर्ययेणाच्छाद्यत इति ऋतम्भरा प्रज्ञा तस्मिन्भवति ।
तस्माच्च प्रज्ञालोकात्सर्वं यथावत्पश्यन्योगी प्रकृष्टं योगं प्राप्नोति ।
श्रुतेरनुमानाच्च सामान्यविषया प्रज्ञा ।
न हि शब्दलिङ्गयोरिन्द्रियवद्विशेषप्रतिपत्तौ सामर्थ्यम् ।
इयं पुनर्नि- र्विचारवैशारद्यसमुद्भवा प्रज्ञा ताभ्यां विलक्षणा विशेषविषयत्वात् ।
अस्यां हि प्रज्ञायां सूक्ष्मव्यवहितविप्रकृष्टानामपि विशेषः स्फुटेनैव रूपेण भासते ।
अतस्तस्यामेव योगिना परः प्रयत्नः कर्तव्यः ।
तया प्रज्ञया जनितः संस्कार अन्यान्व्युत्थानजान्समाधिजांश्च संस्कारान्प्रतिबध्नाति ।
स्वकार्यकरणाक्षमान् करोति ॥
अथासम्प्रज्ञातः ।
सम्प्रज्ञातस्य प्रविलये सति सर्वासां चित्तवृत्तीनां स्वकारणे प्रविलयाद्या संस्कारमात्राद्वृत्तिरुदेति तस्यां नेति नेति केवलं पर्युदासान्निर्बीजः समाधिर्भवति ।
यस्मिन्सति पुरुषः स्वरूपनिष्ठः शुद्धो भवति ।
तदत्राधिकृतस्य योगस्य लक्षणं चित्तवृत्तिनिरोधपदानाञ्च व्याख्यानमभ्यासवैराग्यलक्षणं तस्योपायद्वयस्य स्वरूपं भेदञ्चाभिधाय सम्प्रज्ञाताऽसम्प्रज्ञातभेदेन योगस्य मुख्यामुख्य-

[[२६८]]

भेदमुक्त्वा योगाभ्यासप्रदर्शनपूर्वकं विस्तरेणोपायान्प्रदर्श्य सुगमोपायप्रदर्शनपरतयेश्वरस्य स्वरूपप्रमाणप्रभाववाचकोपासनाक्रमं तत्फलानि च निर्णीय चित्तस्य विक्षेपांस्तत्सहभुवश्च दुःखादीन्विस्तरेण तत्प्रतिषेधोपायानेकतत्त्वाभ्यासमैत्र्यादीन्प्राणायामादीन्सम्प्रज्ञातास् अम्प्रज्ञातपूर्वाङ्गभूतविषयवती प्रतिपत्तिरित्यादीनाऽऽख्यायोपसंहारद्वारेण च समापत्तीः सलक्षणाः फलसहिताः स्वस्वविषयसहितांश्चोक्त्वा सम्प्रज्ञातासम्प्रज्ञातयोरुपसंहारमभिदाय सबीजपूर्वको निर्बीजः समाधिरभिहित इति योगपातञ्जलप्रथमपादप्रक्रिया ॥
तदेवं समाहितचित्तस्य सोपायो योगोऽभिहितः ।
इदानीं व्युत्थितचित्तस्यापि सोपायाभ्यासपूर्वकयोगसाधनानुष्ठानानि प्रतिपाद्यन्ते- “तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः” तपः कृच्छ्रचान्द्रायणादि, स्वाध्यायः प्रणवादिमन्त्रजपः, ईश्वरप्रणिधानं सर्वक्रियाणां तस्मिन्परमगुरौ फलनिरपेक्षतया समर्पणम् ।
एते तपः प्रभृतयोऽभ्यस्यमानाश्चित्तगतानविद्यादीन्क्लेशाञ्छिथिलीकुर्वन्तः समाधेरुपकारकाः ।
“अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः” अविद्या मोहः, अनात्मन्यात्मत्वाभिमानः ।
सा प्रसुप्ततनुविच्छिन्नोदारभेदाच्चतुर्विधानामस्मितादीनां प्रसवभूमिः ।
तत्र ये क्लेशाश्चित्तभूमौ स्थिताः प्रबोधकाभावे स्वकार्यं नाऽऽरभन्ते ते सुप्ताः, यथा बाल्ये वासनारुपेण स्थिताः क्लेशाः प्रबोधकसहकार्यभावे नाभिव्यज्यन्ते ।
अभ्यासवतां योगिनामविद्यादितत्तत्प्रतिपक्षभावनया शिथिलीकृतकार्यसम्पादनशक्तयो वासनाऽवशेषतया चेतस्यवस्थिताः प्रभूतां सामग्रीमन्तरेण स्वकार्यमारब्धुमक्षमाः तनवः ।
येन केनचिद्बलवता क्लेशेनाभिभूतशक्तयस्तिष्ठन्ति ये ते विच्छिन्नाः ।
यथा द्वेषावस्थायां रागः, रागावस्थायां वा द्वेषः ।
प्राप्तसहकारिसन्निधयः स्वकार्यनिर्वर्तका उदारा योगपरि- पन्थिनो व्युत्त्थानदशायाम् ।
येषां प्रत्येकञ्चतुर्विधानामपि मूलभूतत्वेन स्थिताप्यविद्याऽन्वयित्वेन प्रतीयते ।
तस्याञ्च मिथ्याभूतायां सम्यग्ज्ञानेन निवर्तितायां दग्धबीजकल्पानां तेषां

[[२६९]]

न क्वचित्प्ररोहोऽस्ति ।
ततस्तदुच्छेदे प्रथमं प्रयत्नः कार्यः ।
तत्रातस्मिंस्तदिति प्रतिभासोऽविद्येत्यविद्यायाः सामान्यलक्षणम् ।
अनित्येषु घटादिषु नित्यताभिमानः, अशुचिषु कायादिषु शुचित्वाभिमानः, दुःखेषु च विषयेषु सुखत्वाभिमानः, अनात्मनि शरीरे आत्मत्वाभिमानः, अपुण्ये पुण्यभ्रमोऽनर्थे चार्थभ्रम इत्यादि ।
“दृग्दर्शनशक्त्योरेकात्मतैवास्मिता” दृक्शक्तिः पुरुषः दर्शनशक्ती रजस्तमोभ्यामनभिभूतः सात्त्विकः परिणामोऽन्तःकरणरूपः, तयोर्भोग्यभोक्तृत्वेन जडाजडत्वेन चात्यन्तभिन्नरूपयोरेकात्मताभिमानोऽस्मिता ।
यथा प्रकृतिर्वस्तुतः कर्तृत्वभोक्तृत्वरहिताऽपि कर्त्र्यहं भोक्त्र्यहमित्यभिमन्यते सोऽयमस्मितारूपः क्लेशः ।
सुखज्ञस्य सुखस्मृतिपूर्वकः सुखसाधनेषु तृष्णारूपो गर्धो रागः ।
दुःखाभिज्ञस्य तदनुस्मृतिपूर्वकं तत्साधनेषु योऽयं निन्दात्मकः क्रोधः स द्वेषलक्षणः क्लेशः ।
पूर्वजन्मानुभूतमरणदुःखानुभववासनाबलाद्भयरूपः समुपजायमानः शरीरविषयादिभिर्ममवियोगो मा भूदित्यन्वहमनुबन्धरूपः सर्वस्यैवाऽऽकृमेर्ब्रह्मपर्यन्तं विना निमित्तं वर्तमानोऽभिनिवेशाख्यः क्लेशः ।
तदेवं व्युत्थानस्य क्लेशात्मकत्वादेकाग्रताभ्यासकामेन प्रथमं क्लेशाः परिहर्तव्याः ।
ते वासनारूपेण स्थिताः सूक्ष्माः क्लेशाः प्रतिलोमेन परिणामेन त्यक्तव्याः ।
स्थूलानान्तेषामारब्धकार्याणां याः सुखदुःखमोहात्मिका वृत्तयस्ताश्चित्तैकाग्रतालक्षणेन ध्यानेनैव हातव्याः ।
चित्तपरिकर्माभ्यासमात्रेणैव स्थूलानां तासां निवृत्तिर्भवति ।
यथा वस्त्रादौ घनः स्थूलो मलः प्राक्षालनमात्रेणैव निवर्तते ।
यस्तु तत्र सूक्ष्मः स तैस्तैरुपायैरुत्तापनादिभिर्निवर्तयितव्यः ।
वासनारूपाणि कर्माणि शुभाशुभरूपाणि क्लेशसाध्यान्यस्मिञ्जन्मनि जन्मान्तरे वा वेदनीयानि फलजनकानि ॥
एवमुक्तलक्षणेषु क्लेशेष्वनभिभूतेषु सत्सु कर्मणां विपाको जात्यायुर्भोगा भवन्ति ।
जातिर्मनुष्यत्वादिः, आयुश्चिरकालमेककायसम्बन्धः, भोगा विषया इन्द्रियाणि सुखसंविद्दुःखसंविच्च, कर्मकरणभावसाधनव्युत्पत्त्या भोगशब्दार्थाः ।

[[२७०]]

चित्तभूमावनादिकालसञ्चिताः कर्मवासना जात्यायुर्भोगलक्षणं कार्यमारभन्ते ।
पुण्यकर्मारब्धा जात्यायुर्भोगाः सुखफलाः, अपुण्यकर्मारब्धाः परितापफलाः, प्राणिमात्रापेक्षयाशां द्वैविध्यम् ।
परिज्ञातक्लेशादिविवेकस्य योगिनः परिदृश्यमानं सकलमेव भोगसाधनं सविषान्नवद्दुःखमेव ।
यस्मादत्यन्ताभिजातो योगी दुःखलेशेनाप्युद्विजते, यथा हि नेत्रमूर्णातन्तुस्पर्शमात्रेणैव महतीं पीडामनुभवति नेतरदङ्गम् ।
परिणामतापसंस्कारदुःखैर्विषयाणामुपभुज्यमानानां यथायथं गर्धाभिवृद्भेस्तदप्राप्तिकृतदुःखस्यापरिहार्यतया दुःखान्तरसाधनत्वाच्चास्त्येव दुःखस्वरूपतेति परिणामदुःखत्वम् ।
उपभुज्यमानेषु सुखसाधनेषु तत्परिपन्थिनं प्रति द्वेषस्य सर्वदैवावस्थितत्वात्सुखानुभवकालेऽपि तापदुःखं दुष्परिहरमिति तापदुःखता ।
स्वाभिमतानभिमतविषयसन्निधाने सुखसंविद्दुःखसंविच्चोपजायमाना तथाविधमेव स्वक्षेत्रे संस्कारमारभते, संस्काराच्च पुनस्तथाविधसंविदनुभव इत्यपरिमितसंस्कारोत्पत्तिद्वारेण संसारानुच्छेदात्सर्वस्यैव दुःखत्वम् ।
गुणवृत्तिविरोधाच्च गुणानां सत्त्वरजस्तमसां या वृत्तयः सुखदुःखमोहरूपाः परस्परमभिभाव्याभिभावकत्वेन विरुद्धा जायन्ते, तासां सर्वत्रैव दुःखानुबन्धा- द्दुःखत्वम् ।
अयमभिप्रायः- ऐकान्तिकीमात्यन्तिकीञ्च दुःखनिवृत्तिमिच्छतो विवेकिन उक्तरूपकारणचतुष्टयं यावत्सर्वे विषया दुःखरूपतया प्रतिभान्ति ।
तस्मात्सर्वकर्मविपाको दुःखरूप एव ।
उक्तक्लेशमूलाविद्योच्छेदकसम्यग्ज्ञानस्य साधनहेयोपादेयावधारणरूपत्वेन हेयस्वरूपमुच्यते ।
भूतस्य व्यतिक्रान्तत्वादनुभूयमानस्य च त्यक्तुमशक्यत्वादनागतमेव दुःखं हेयम् ।
चिद्रूपस्य द्रष्टुर्दृश्यबुद्धेश्चाविवेकख्यातिपूर्वको भोग्यभोक्तृत्वरूपो योऽयं संयोगः स हेयस्य दुःखस्य गुणपरिणामस्य संसारस्य हेतुः; तन्निवृत्त्या संसारनिवृत्तिः ।
प्रकाशक्रियास्थितयः दृश्यस्वरूपम् ।
प्रकाशः सत्त्वस्य धर्मः, क्रिया प्रवृत्तिरूपा रजसो धर्मः, स्थितिर्नियमरूपा तमसो धर्मः, एतत्त्रयं स्वरूपम् ।
स्थूलसूक्ष्मभेदेन द्विविधानि पृथिव्यादीनि गन्धतन्मात्रादीनि च ।

[[२७१]]

बुद्धीन्द्रियकर्मेन्द्रियान्तःकरणभेदेन त्रिविधानीन्द्रियाणि च, ग्रहणग्राह्यरूपेण स्वरूपतोऽभिन्नः परिणामो दृश्यस्य कार्यम् ।
उक्तरूपो भोगः, विवेकख्यातिपूर्विका संसारनिवृत्तिश्च दृश्यस्य फलम् ।
एवं भूतस्य नानावस्थारूपपरिणामात्मकस्य हेयस्य दृश्यस्य च चतस्रोऽवस्थाः ।
तत्र महाभूतेन्द्रियाणि विशेषावस्थाः, तन्मात्रान्तःकरणान्यविशेषावस्थाः, लिङ्गमात्रं बुद्धिः, अव्यक्तमलिङ्गम् ।
एवं सर्वत्र त्रिगुणरूपस्याव्यक्तस्यान्वयित्वेन प्रत्यभिज्ञानादवश्यं योगकाले ज्ञातव्यानि चत्वार्येतानि गुणपर्वाणि ।
पुरुषश्चेतनामात्रः परिणामित्वाद्यभावेन शुद्धः सुप्रतिष्ठोऽपि विषयोपरक्तानि ज्ञानानि प्रतिसङ्क्रमाद्यभावेन पश्यति ।
जातविषयोपरागायामेव बुद्धौ सन्निधिमात्रेणैव पुरुषस्य दृष्टृत्वम् ।
प्रागुक्तलक्षणस्य दृश्यस्य स्वरूपं पुरुषस्य भोक्तृत्वसम्पादनं नाम स्वार्थपरिहारेणैव प्रयोजनम् ।
न हि प्रधानं प्रवर्तमानमात्मनः किञ्चित्प्रयोजनमपेक्ष्य प्रवर्तते, किन्तु पुरुषस्य भोगं सम्पादयामीति ।
यद्येवं पुरुषस्य भोगसम्पादनमेव प्रयोजनं तदा सम्पादिते तस्मिंस्तन्निष्प्रयोजनं प्रति विरतव्यापारं स्यात् ।
तस्मिंश्च परिणामशून्ये शुद्धत्वात्सर्वे द्रष्टारो बन्धरहिताः स्युः ।
ततश्च संसारोच्छेद इति चेदिदमत्राकूतम्- विवेकख्यातिपर्यन्ताद्भोगसम्पादनात्कमपि कृतार्थं पुरुषं प्रति तन्नष्टं विरतव्यापारम्, तथाऽपि सर्वपुरुषसाधारणत्वादन्यान्प्रत्यनष्टव्यापारमवतिष्ठते ।
अतः प्रधानस्य सकलभोक्तृसाधारणत्वान्न कदाचिदपि विनाशः एकस्य मुक्तौ वा न सर्वेषां मुक्तिप्रसङ्गः ।
स्वस्वामिशक्त्योः दृश्यस्वभावदृष्टस्वरूपयोः संवेद्यसंवेदकत्वेन व्यवस्थितयोः या स्वरूपोपलब्धिस्तस्याः कारणं सहजभोक्तृत्वम् ।
भोग्यत्वस्वरूपानतिरिक्तः संयोगः ।
न हि तयोर्नित्ययोर्व्यापकयोश्च स्वरूपातिरिक्तः कश्चित्संयोगः ।
यदेव भोग्यस्य भोग्यत्वं भोक्तुश्च भोक्तृत्वमनादिसिद्धं स एव संयोगः ।
तस्यापि संयोगस्य हेतुरविद्या ।
तस्या अविद्यायाः स्वरूपविरुद्धेन सम्यग्ज्ञानेनोन्मूलिताया योऽ

[[२७२]]

यमभावस्तस्मिन्सति तत्कार्यस्य संयोगस्योप्यभावः, तस्य दृश्यस्य च हानम् ।
अयमभिप्रायः- नैतस्य मूर्तद्रव्यवत्परित्यागो युज्यते ।
किन्तु जातायां विवेकख्यातावविवेकनिमित्तः संयोगः स्वयमेव निवर्तते ।
संयोगहानमेव पुरुषस्य कैवल्यं व्यपदिश्यते ।
तदेवं संयोगस्य स्वरूपं कार्यं कारणञ्चाभिहितम् ।
अन्ये गुणा अन्यः पुरुष इति विवेकस्य ख्यातिर्दृश्यस्य परित्यागोपायः ।
प्रतिपक्षभावनाबलादविद्याप्रविलये विनिवृत्तज्ञातृत्वकर्तृत्वाभिमानायाः रजस्तमोमलानभिभूताया बुद्धेरन्तर्मुखा या सङ्क्रान्तिः सा र्विवेकख्यातिः ।
तस्याञ्च सन्ततत्वेन प्रवृत्तायां सत्यां दृश्यस्याधिकारनिवृत्तेर्भवत्येव कैवल्यम् ।
उत्पन्नविवेकख्यातेः पुरुषस्य प्रान्तभूमौ प्रज्ञा सप्तधा भवति ।
तस्योत्पन्नविवेकज्ञानस्य ज्ञातव्यविवेकरूपा प्रज्ञा प्रान्तभूमौ सकलसालम्बनसमाधिभूमिपर्यन्ते सप्तप्रकारा च भवति ।
तत्र कार्यविमुक्तिरूपा चतुर्धा-ज्ञातं मया ज्ञेयं न ज्ञातव्यं किञ्चिदस्ति, क्षीणा मे क्लेशा न मे किञ्चित्क्षेतव्यमस्ति, अधिगतं मया ज्ञानम्, प्राप्ता मया विवेकख्यातिरिति प्रत्ययान्तरपरिहारेण तस्यामवस्थायामीदृश्येव प्रज्ञा जायते ।
ईदृशी प्रज्ञा कार्यविषयं निर्मलं ज्ञानं कार्यविमुक्तिरित्युच्यते ।
चित्तविमुक्तिस्त्रिधा- चरितार्था मे बुद्धिःर्गुणा हृताधिकारा गिरिशिखरनिपतिता ग्रावाण इव न पुनः स्थितिं यास्यन्ति; स्वकारणे प्रलयाभिमुखानां गुणानां मोहाभिधानमूलकारणाभावान्निष्प्रयोजनत्वाच्चामीषां कुतः प्ररोहो भवेत्, सात्मीभूतश्च मे समाधिस्तस्मिन्सति स्वरूपप्रतिष्ठोऽहमिति ।
ईदृशी त्रिप्रकारा चित्तविमुक्तिः ।
तदेवमीदृश्यां सप्तविधप्रान्तभूमिप्रज्ञायामुपजातायां पुरुषः केवलो भवति ।
वक्ष्यमाणयोगाङ्गानां ज्ञानपूर्वकाभ्यासाच्चित्तसत्त्वप्रकाशावरणलक्षणक्लेशरूपाशुद्धिक्।
सये तारतम्येन सात्त्विकपरिणामरूपा ज्ञानदीप्तिर्विवेकख्यातेरूत्पादिका ॥
अथ योगाङ्गानि- यमनियमासनप्राणयामप्रत्याहारधारणाध्यानसमाधयोऽष्टौ ।
तत्र कानिचिद्धारणादीनि समाधेः साक्षादुपकार-

[[२७३]]

कत्वेनान्तराण्यङ्गानि, कानिचिद्यमनियमादीनि प्रतिपक्षभूतहिंसादिवितर्कोन्मूलनद्वारेण समाधेरुपकुर्वन्ति ।
सत्यासनजये प्राणायामस्थैर्यमित्यासनादीनामुत्तरोत्तरं प्रत्युपकारकत्वम् ॥
तत्राहिंसा सत्यमस्तेयं ब्रह्मचर्यमपरिग्रहश्च पञ्च यमाः ।
प्राणवियोगप्रयोजनव्यापारो हिंसा, सा च सर्वानर्थहेतुः, तदभावोऽहिंसा ।
वाङ्मनसोर्याथार्थ्यं सत्यम् ।
परस्वापहरणाभावोऽस्तेयम् ।
उपस्थसंयमो ब्रह्मचर्यम् ।
भोगसाधनानामस्वीकारोऽपरिग्रहः ।
एते यमाः ।
ब्राह्मणत्वादिजातिभिः, तीर्थादिदेशैः, चतुर्दश्यादिकालैः, ब्राह्मणप्रयोजनादिभिः समयैरनवच्छिन्ना अहिंसादयो यमा महाव्रतमित्युच्यन्ते ।
तद्यथा- ब्राह्मणं न हनिष्यामि, तीर्थे न कञ्चन हनिष्यामि, चतुर्दश्यां न हनिष्यामि, देवब्राह्मणप्रयोजनव्यतिरेकेण कमपि न हनिष्यामीत्यादिरूपाः ।
एवं चतुर्विधावच्छेदव्यतिरेकेण कञ्चित्क्वचित्कदाचित्कस्मिंश्चित्कस्यचिदप्यर्थे न हनिष्यामीत्यनवच्छिन्नाः ।
एवं सत्यादिषु यथासम्भवं योज्यम् ।
इत्थमनियतीकृताः सामान्येनैव प्रवृत्ता महाव्रतमित्युच्यते ।
शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि पञ्चनियमाः ।
शौचं द्विविधम्- बाह्यमाभ्यन्तरञ्च ।
बाह्यं मृज्जलादिभिः काय- प्रक्षालनम्, मैत्र्यादिभिश्चित्तमलप्रक्षालनमाभ्यन्तरम् ।
सन्तोषस्तुष्टिः ।
शेषाः पूर्वं व्याख्याताः ।
“वितर्कबाधने प्रतिपक्षभावनम्” वितर्क्यन्त इति वितर्काः योगपरिपन्थिनो हिंसादयस्तेषां प्रतिपक्षभावने सति यदा बाधा भवति तदा योगः सुकर इत्येतेषामहिंसादीनां योगाङ्गत्वम् ।
ते च हिंसादयो वितर्काः कृताः कारिता अनुमोदिता इति त्रैविध्येन नव प्रकाराः ।
नवानां लोभक्रोधमोहाः कारणम् ।
लोभस्तृष्णा ।
कृत्याकृत्यविवेकोन्मूलकश्चित्तधर्मः प्रज्वलनात्मकः क्रोधः ।
मोहोऽनात्मन्यात्मत्वाभिमानः ।
एवञ्च प्रत्येकं कृत्यादिभेदभिन्ना हिंसादयो मोहादिकारणत्वेन त्रिधा भिद्यन्ते ।
ते च पुनरवस्थाभेदेन मृदवो मध्या अधिमात्रा इति त्रिप्रकाराः ।
मृदवो मन्दा न तीव्रा नापि मध्यमाः ।
मध्या नापि मन्दा नापि तीव्राः ।

[[२७४]]

अधिमात्रास्तीव्रा न मध्या नापि मन्दाः ।
एते दुःखाज्ञानानन्तफलाः प्रतिपक्षभावनया योगिना तेषां परिहारः कर्तव्यः ।
एवमहिंसां भावयतः सहजविरोधिनामप्यहिनकुलादीनां वैरत्यागः ।
हिंसारता अपि हिंसकत्वं परित्यजन्तीत्यर्थः ।
सत्याभ्यासवतो योगिनोऽग्निष्टामादिक्रियाफलं भवति ।
अस्तेयाभ्यासिनो दिव्यानि रत्नान्युपतिष्ठन्ते ।
ब्रह्मचर्यवतां निरतिशयं सामर्थ्यं भवति ।
अपरिग्रहस्थैर्ये जन्मान्तरे कोऽहमासङ्कीदृशः किङ्कार्यकारीति जिज्ञासायां सर्वमेव सम्यग्जानाति ।
अथ नियमफलानि- शौचवतः स्वाङ्गेष्वपि कारणस्वरूपपर्यालोचनया जुगुप्सा भवति, अशुचिरयं कायो नात्राऽऽग्रहः कार्य इति; अनेनैव हेतुना परैः कायवद्भिरसंसर्गः ।
किञ्च प्रकाशसुखात्मकसत्त्वशुद्धिः रजस्तमोभ्यामनभिभवः ।
सौमनस्यं खेदाननुभवेन मानसी प्रीतिः ।
नियतेन्द्रियविषये चेतसः स्थैर्यमेकाग्रता, इन्द्रियजयो विषयपराङ्मुखाणामिन्द्रियाणामात्मन्यवस्थानम् ।
आत्मदर्शने चित्तस्य योग्यत्वं समर्थत्वमित्येतानि पञ्च शौचाभ्यासिनः फलानि ।
अयं क्रमः- सत्त्वशुद्धेः सौमनस्यं, तस्मादैकाग्र्यं, तस्मादिन्द्रियजयः, तस्मादात्मदर्शनयोग्यत्वमिति सन्तोषप्रकर्षेण योगिन आभ्यन्तरसुखमाविर्भवति ।
तपः समभ्यस्यमानं चेतसः क्लेशादिलक्षणाशुद्धिक्षयद्वारेण कायेन्द्रियाणां सिद्धिमुत्कर्षमादधाति ।
अभिप्रेतमन्त्रजपादिलक्षणे स्वाध्याये प्रकृष्यमाणे इष्टया देवतया सम्प्रयोगो भवति, सा देवता प्रत्यक्षीभवतीत्यर्थः ।
ईश्वरे योऽयं भक्तिविशेषस्तस्मात्समाधेरुक्तलक्षणस्याविर्भावो भवति ।
यस्मात्स भगवानीश्वरः प्रसन्नः सन्नन्तरायरूपान्क्लेशान्परिहृत्य समाधिमुद्बोधयति ।
पद्मासनदण्डासनस्वस्तिकासनादि यदा निष्कम्पं सुखमनुद्वेजनीयं च भवति तदा योगाङ्गतां भजते ।
तस्यैवोपायान्तरञ्च “प्रयत्नशैथिल्याङन्त्यसमापत्तिभ्यां” तदासनं प्रयत्नशैथिल्येनाङन्त्यसमापत्त्या च स्थिरं सुखं भवति ॥
आसनजये सति न समाध्यन्तरायाः, शीतोष्णक्षत्तृष्णादिभिर्द्वन्द्वैर्योगी नाभिहन्यते ।
आसनस्थैर्ये सति

[[२७५]]

तन्निमित्तकः प्राणायामोऽनुष्ठेयो भवति ।
स च श्वासप्रश्वासयोर्गतिविच्छेदलक्षणः ।
बाह्यप्रवृत्तिः श्वासो रेचकः, अन्तर्वृत्तिः प्रश्वासः पूरकः, अन्तस्तम्भवृत्तिः कुम्भकः ।
स त्रिविधोऽपि देशेन कालेन सङ्ख्यया चोपलक्षितो दीर्घसूक्ष्मसञ्ज्ञो भवति ।
देशेनोपलक्षितो यथा नासाद्वादशान्तादौ ।
कालेनोपलक्षितो यथा- षट्त्रिंशन्मात्रादि प्रमाणः ।
इयतो वारान्कृत इत्यादिरूपः सङ्ख्योपलक्षितः ।
प्राणस्य बाह्यो विषयो नासाद्वादशान्तादिः, आन्तरो विषयो हृदयनाभिचक्रादिः, तौ द्वौ विषयावाक्षिप्य पर्यालोचतः स्तम्भरूपो गतिविच्छेदः स चतुर्थः प्राणायामः ।
तस्मात्प्राणायामाच्चित्तसत्त्वगतस्य प्रकाशस्यावरणं क्लेशरूपं तत्क्षीयत इत्यर्थः ।
फलान्तरञ्च धारणासु च योग्यता मनसः ॥
अथ प्रत्याहारः- इन्द्रियाणि स्वस्वविषयेभ्यः प्रतीपमाह्नियन्त इति प्रत्याहारः ।
चक्षुरादीनामिन्द्रियाणां स्वस्वविषयो रूपादिस्तेन सम्प्रयोगस्तदाभिमुख्येन वर्तनम्, तदभावस्तदाभिमुख्यं परित्यज्य स्वरूपमात्रेऽवस्थानम्, तस्मिन्सति चित्तस्वरूपमात्रानुकारीणीन्द्रियाणि भवन्ति ।
अभ्यस्यमाने च प्रत्याहारे वश्यानीन्द्रियाणि भवन्ति, यथा- बाह्यविषयाभिमुखतां नीयमानान्यपि न यान्तीत्यर्थः ।
तदेवं प्रथमपादोक्तलक्षणस्य योगस्याङ्गभूतं क्लेशतनूकरणफलं क्रियायोगमभिधाय क्लेशानामुद्देशं स्वरूपं कारणं क्षेत्रं फलं चोक्त्वा कर्मणामपि भेदं स्वरूपं कारणं फलं चाभिधाय विपाकस्य स्वरूपं कारणं चाभिहितम् ।
ततस्त्याज्यत्वात्क्लेशादीनां ज्ञानव्यतिरेकेण त्यागस्याशक्यत्वाज्ज्ञानस्य च शास्त्रायत्तत्वाच्छास्त्रस्य च हेयहानकारणोपादेयोपादानकारणबोधकत्वेन चतुर्व्यूहत्वाद्धेयस्य च हानव्यतिरेकेण स्वरूपानिष्पत्तेर्हानसहितं चतुर्व्यूहं स्वस्वकारणसहितमभिधायोपादानकारणभूताया विवेकख्यातेः कारणभूतानामन्तरङ्गबहिरङ्गभावेन स्थितानां योगाङ्गानां यमादीनां स्वरूपं फलसहितं व्याकृत्य धारणापर्यन्तानाञ्चासनादीनां परस्परमुपकार्योपकारक-

[[२७६]]

भावेनावस्थितानामुद्देशमभिधाय परस्परलक्षणकरणपूर्वकं फलमभिहितम् ।
तदयं योगो यमनियमादिभिः प्राप्तबीजभाव आसनप्राणायामैरङ्कुरितः, प्रत्याहारेण कुसुमितो ध्यानधारणासमाधिभिः फलिष्यतीति साधनपादाभिप्रायः ॥
तदेवं पूर्वोद्दिष्टं धारणाद्यङ्गत्रयं निर्णेतुं संयमसञ्ज्ञाभिधानपूर्वकं बाह्याभ्यन्तरादिसिद्धिप्रतिपादनाय लक्षयितुमुपक्रमते ।
तत्र धारणायाः स्वरूपमेवम्- नासाग्रनाभिचक्रादिदेशे चित्तस्य स्थिरीकरणं धारणा ।
मैत्र्यादिचित्तपरिकर्मवासितान्तःकरणेन यमनियमवता जितासनेन परिहृतप्राणविक्षेपेण प्रत्याहृतेन्द्रियग्रामेण निर्बाधप्रदेशे ऋजुकायेन निर्जितद्वन्द्वेन योगिना नासाग्रादौ सम्प्रज्ञातस्य समाधेरभ्यासाय चेतसः स्थिरीकरणं कर्तव्यमिति ॥
अथ ध्यानम्- यत्र चित्तं धृतं तत्र प्रत्ययस्य विसदृशपरिणामपरिहारद्वारेण धारणायामालम्बनीकृतस्य नैरन्तर्यं ध्यानम् ।
तदेव ध्यानमर्थमात्रनिर्भासं स्वरूपशून्यमिवापद्यते स समाधिः ।
एकस्मिन् विषये ध्यानधारणासमाधयः प्रवर्तमानाः संयमः ।
संयमाभ्यासेन ज्ञातव्यविवेकप्रसवो भवति ।
तस्य संयमस्य स्थूलसूक्ष्मालम्बनभेदेन स्थितासु चित्तवृत्तिषु विनियोगः कर्तव्यः ।
पूर्वेभ्यः पञ्चभ्यो यमादिभ्यो ध्यानादित्रयमन्तरङ्गं, तदपि निर्बीजस्य बहिरङ्गम् ।
यदा व्युत्थानसंस्काररूपो धर्मस्तिरोभूतो भवति, निरोधसंस्काररूपश्चाऽऽविर्भवति, धार्मिरूपतया च चित्तमुभयत्रान्वयित्वेनाऽवस्थितं प्रतीयते, तदा स निरोधपरिणामशब्देन व्यवह्रियते ।
चलत्वाद्गुणवृत्तस्य यद्यपि चेदसो निश्चलत्वं नास्ति, तथाप्येवंविधपरिणामस्थैर्य मुच्यते ।
अस्यैव फलमुच्यते- तस्य चेतस उक्तान्निरोधसंस्कारात्प्रशान्तवाहिता भवति ।
परिहृतविक्षेपतया सदृशप्रवाहपरिणामि चित्तं भवति ॥
अथ समधिपरिणामः- नानाविधार्थग्रहणं चित्तधर्मः, एकस्मिन्नेवाऽऽलम्बने सदृशपरिणामितैकाग्रता, साऽपि चित्तधर्मः, तयोः क्षयोदयौ समाधिपरिणामः ।
अथै-

[[२७७]]

काग्रतापरिणामः- समाहितस्यैव चित्तस्यैकप्रत्ययो वृत्तिविशेषः शान्तोऽतीतमध्वानं प्रविष्टः, अपरस्तूदितो वर्तमानेऽध्वनि स्फुरितः, द्वावपि समाहितचित्तत्वेन तुल्यावेकरूपालम्बनत्वेन सदृशौ प्रत्ययावुभयत्रापि समाहितस्यैव चित्तस्यान्वयित्वेनावस्थानं, स एकाग्रतापरिणामः ।
स्थूलसूक्ष्मभूतेषु बुद्धिकर्मलक्षणभेदेनावस्थितेषु धर्मलक्षणावस्थाभेदेन त्रिविधः परिणामोऽवगन्तव्यः ।
अवस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तरापत्ति धर्मपरिणामः ।
यथा- मृल्लक्षणस्य धर्मिणः पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारो धर्मपरिणामः ।
अथ लक्षणपरिणामो यथा- तस्यैव घटस्यानागताध्वपरित्यागेन वर्तमानाध्वस्वीकारः, तत्परित्यागेन चातीताध्वपरिग्रहः ।
अवस्थापरिणामोऽपि यथा- तस्यैव घटस्य प्रथमद्वितीययोः सदृशयोः क्षणयोरन्वयित्वेन; यतश्च गुणवृत्तिर्नापरिणममाना क्षणमप्यस्ति ।
अथ धर्मिलक्षणम्- शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी" अथोक्तस्य संयमस्य विषयप्रदर्शनद्वारा सिद्धयोऽभिधीयन्ते- धर्मलक्षणावस्थाभेदेन यत्परिणामत्रयमुक्तं तत्र संयमाद्योगिनोऽतीतानागतज्ञानं भवति ।
अयमभिप्रायः- अस्मिन्धर्मिण्ययं धर्म इदं लक्षणमियमवस्था चानागतादध्वनः समेत्य वर्तमानेऽध्वनि स्वं व्यापारं विधायातीतमध्वानं प्रविशतीत्येवं परिहृतविक्षेपतया यदा संयमं करोति तदा यत्किञ्चिदतिक्रान्तमनुत्पन्नं वा तत्सर्वं योगा जानाति ॥
शब्दार्थज्ञानानां व्यवहार इतरेतराध्यासाद्भिन्नानामपि बुद्ध्येकरूपतासम्पादनात्सङ्कीर्णत्वम् ।
इदं शब्दस्य तत्त्वं यद्वाचकत्वं नाम; इदमर्थस्य यद्वाच्यत्वमिदं ज्ञानस्य यत्प्रकाशकत्वमिति प्रविभागं विधाय तस्मिन्प्रविभागे संयमात्सर्वशब्दज्ञानमुत्पद्यते ।
अनेनैवाभिप्रायेणायं शब्द अनेन प्राणिना समुच्चारित इति सर्वं जानाति ॥
शंस्कारसाक्षात्करणात्पूर्वजातिज्ञानम्" ।
एवं मया सोऽर्थोऽनुभूत एवं मया सा क्रिया निष्पादितेति सर्वमतीतं स्मरति ॥
केनचिन्मुखरागादिना लिङ्गेन गृहीतपरचित्तस्य संयमात्परचित्तज्ञानं भवति ॥

[[२७८]]

अस्मिन्काये रूपमस्तीति संयमात्तस्य रूपस्य चक्षुर्ग्राह्यत्वरूपा या शक्तिस्तस्याः स्तम्भे भावनावशात्प्रतिबन्धे चक्षुष्प्रकाशासंयोगे योगिनोऽन्तर्धानं भवति, न केनचिदसौ दृश्यत इत्यर्थः ।
सोपक्रमनिरुपकमभेदेन द्विविधे कर्मणि संयमादमुष्मिन्कालेऽमुष्मिन्प्रदेशे मम शरीरवियोगो भविष्यतीति ज्ञानमुत्पद्यते ।
आध्यात्मिकाधिभौतिकाधिदैविकारिष्टेभ्यो वा शरीरवियोगज्ञानं जायते ।
तत्राध्यात्मिकानि कर्णपिधाने कौष्ठवायोरश्रवणादीनि ।
आधिभौतिकानि अकस्माद्विकृतपुरुषदर्शनादीनि ।
आधिदैविकानि-अकाण्ड एव द्रष्टुमशक्यस्वर्गादिपदार्थदर्शनादीनि ॥
चन्द्रे कृतसंयमस्य ताराणां ज्ञानं सिध्यति ।
ज्योतिषां प्रधाने ध्रुवे कृतसंयमस्य ताराणां गतिज्ञानं भवति ॥
इमाः कालज्ञानान्ता बाह्यास्सिद्धय आन्तरास्तु- शरीरमध्यवर्तिनाभिसञ्ज्ञकं यत्षोडशारं चक्रं तस्मिन्कृतसंयमस्य योगिनः कायगतो योऽसौ व्यूहो विशिष्टरसमलधातुनाड्यादीनामवस्थानं तत्र ज्ञानमुत्पद्यते ॥
कण्ठकूपे कृतसंयमस्य क्षुत्पिपासादयो निवर्तन्ते ॥
कण्ठकूपस्याधस्ताद्या कूर्माख्या नाडी तस्यां कृतसंयमस्य चित्तस्थैर्यं भवति ॥
शिरः कपाले ब्रह्मरन्ध्राख्यं छिद्रं प्रकाशाधारत्वाज्ज्योतिः; तत्र कृत- संयमस्य सिद्धदर्शनं भवति ॥
निमित्तानपेक्षं मनोमात्रजन्यमविसंवादकं द्रागुत्पद्यमानं ज्ञानं प्रतिभाः; तस्यां संयमे क्रियमाणे प्रातिभं विवेकख्यातेः पूर्वभावि तारकं ज्ञानमुदेति ॥
हृदयं शरीरस्य प्रदेशविशेषस्तस्मिन्नधोमुखस्वल्पपुण्डरीकाभ्यन्तरेऽन्तःकरणसत्त्वस्य स्थानम्, तत्र कृतसंयमस्य स्वपरचित्तज्ञानमुत्पद्यते ॥
सत्त्वं प्रकाशसुखात्मकः प्राधानिकः परिणामविशेषः, पुरुषो भोक्ताऽधिष्ठातृरूपः, तयोर्भोग्यभोक्तृस्वरूपत्वाच्चेतनाचेतनत्वाच्चात्यन्तासङ्कीर्णत्वं भिन्नत्वमित्यर्थः; तयोर्यः प्रत्ययस्याविशेषो भेदेनाप्रतिभासनं तस्मात्सत्त्वस्यैव कर्तृताप्रत्ययः सुखदुःखसंविदां भोगः, सत्त्वस्य स्वार्थनैरपेक्ष्येण परार्थः पुरुषार्थनिमित्तस्तस्मादन्यो यः स्वार्थः पुरुषस्वरूपमात्रालम्बनः परित्यक्ताहङ्कारसत्त्वे या चिच्छाया-

[[२७९]]

सङ्कान्तिस्तत्र कृतसंयमस्य पुरुषविषयं ज्ञानमुत्पद्यते ।
तत्र तदेवंरूपं स्वालम्बनं ज्ञानं सत्त्वनिष्ठः पुरुषो जानाति न पुनः पुरुषो ज्ञाता ज्ञानस्य विषयभावमापद्यते, ज्ञेयत्वापत्तेर्ज्ञातृज्ञेययोश्चात्यन्तविरोधात् ।
ततः पुरुषसंयमादभ्यस्यमानात् व्युत्थितस्यापि ज्ञानापि जायन्ते ।
तत्र प्रातिभं पूर्वोक्तं ज्ञानं, तस्याऽऽविर्भावात्सूक्ष्मादिकमर्थं पश्यति।
श्रावणं श्रात्रेन्द्रियजं ज्ञानं, तस्माच्च प्रकृष्टाद्दिव्यं-दिवि भवं-शब्दं जानाति ।
वेदनास्पर्शेन्द्रियजं ज्ञानं, तस्मिन् कृतसंयमाद्दिव्यं स्पर्शविषयं ज्ञानं जायते ।
आदर्शश्चक्षुरिन्द्रियजं ज्ञानं, तस्मिन् संयमाद्दिव्यं रूपज्ञानं जायते ।
आस्वादो रसनेन्द्रियजं ज्ञानं, तस्मिन् संयमाद्दिव्ये रसे संविदुपजायते ।
वार्ता गन्धसंवित्तिः, तस्यां संयमाद्दिव्यगन्धोऽनुभूयते ।
एता उक्ताः सिद्धयः प्रकर्षं गच्छत उपसर्गा विघ्न कारिण इत्यर्थः ।
तत्र हर्षविस्मयादिकरणेन समाधिः शिथिलीभवति ।
व्युत्थाने तु पुनर्व्यवहारदशायां विशिष्टफलदायकत्वात्सिद्धयो भवन्ति ।
व्यापकत्वादात्मचित्तयोर्नियतकर्मवशादेव शरीभान्तर्गतयोर्भोक्तृभोग्यभावेन यत्संवेदनमुपजायते स एव शरीरे बन्ध उच्यते ।
तद्यदा समाधिवशाद्बन्धकारणं धर्माधर्माख्यं कर्मजातं शिथिलभावमापद्यते, चित्तस्य च योऽसौ प्रचारौ हृदयप्रदेशादिन्द्रियद्वारेण विषयाभिमुख्येन प्रसरस्तस्य संवेदनं ज्ञानमियं चित्तवहनाडी, अनया चित्तं वहति, इयञ्च रसप्राणादिवहाभ्यो नाडीभ्यो विलक्षणेति, स्वपरशरीरयोर्यदा सञ्चारं जानाति तदा परकीयं शरीरं मृतञ्जीवच्छरीरं वा चित्तसञ्चारद्वारेण प्रविशति ।
चित्तं परशरीरे प्रविशदिन्द्रियाण्यप्यनुवर्तन्ते मधुकरराजमिव मधुमक्षिकाः ।
ततः परशरीरप्रविष्टोऽयं योगी स्वशरीरवत्तेन व्यवहरति, यतो व्यापकयोश्चित्तपुरुषयोर्भोगसङ्कोचे कारणं कर्माधिभूतम्, तच्चेत्समाधिना क्षिप्तं तदा स्वातन्त्र्यात्सर्वत्रैव भोगनिष्पत्तिः ।
समस्तानामिन्द्रियाणां तुषज्वालावद्या युगपदुत्थिता वृत्तिः ।
सा जीवनशब्दवाच्या, तस्याः क्रियाभेदात्प्राणापानादिसञ्ज्ञाभिर्व्यपदेशः ।
तत्र हृद-

[[२८०]]

यान्मुखानासिकाद्वारेण वायोः प्रणयनात्प्राण इत्युच्यते ।
एवमपानादिसञ्ज्ञाऽप्युन्नेया ।
तत्रोदानस्य संयमादितरेषां वायूनां निरोधाज्जलादौ मज्जितोऽपि तूलपिण्डवदुद्गच्छति ।
समानजयान्निरावरणस्याग्नेरुद्भुतत्वात्तेजसा प्रज्वलन्निव योगी प्रतिभाति ॥
श्रोत्राकाशयोः सम्बन्धसंयमाद्युगपत्सूक्ष्मव्यवहितविप्रकृष्टशब्दग्रहणसमर्थं दिव्यं श्रोत्रं भवति ।
कायाकाशयोः सम्बन्धसंयमाल्लघुनि तूलादौ समापत्तिस्तन्मयीभावलक्षणा ताञ्चेति विधाय प्राप्तात्यन्तलघुभावो योगी प्रथमं यथारुचि जले सञ्चरन्क्रमेणोर्णनाभतन्तुजालेन सञ्चरमाण आदित्यरश्मिभिश्च विहरन्यथेष्टमाकाशेन गच्छति ॥
शरीराद्बहिर्या मनसः शरीरनैरपेक्ष्येण वृत्तिः सा महाविदेहा नाम विगतशरीराहङ्कारदार्ढ्यद्वारेणोचते ।
तत्र संयमात्प्रकाशावरणक्षयः ॥
अथ स्वदर्शनोपयोगिसबीजनिर्बीजसमाधिसिद्धये विविधोपायः-पञ्चानां पृथिव्यादीनां भूतानां ये पञ्चावस्थाविशेषरूपा धर्माः स्थूलत्वादयस्तत्र कृतसंयमस्य भूतजयो भवति, भूतान्यस्य वश्यानि भवन्तीत्यर्थः ।
तथाहि- भूतानां परिदृश्यमानं विशिष्टाकारवत्स्थूलरूपं, स्वरूपञ्चैषां यथाक्रमं कार्यं गन्धस्नेहोष्णताप्रेरणावकाशप्रदानलक्षणम् ।
सूक्ष्मञ्च यथाक्रमं भूतानां कारणत्वेन व्यवस्थितानि गन्धादितन्मात्राणि ।
अन्वयिनो गुणाः प्रकाशप्रवृत्तिस्थितिरूपतया सर्वत्रैवान्वयित्वेन समुपलभ्यन्ते ।
अर्थवत्वं तेष्वेव गुणेषु भोगापवर्गसम्पादनाख्या शक्तिः ।
तदेवम्भूतेषु पञ्चसूक्तलक्षणावस्थाभिन्नेषु प्रत्यव्यवस्थं संयमं कुर्वन्योगी भूतजयी भवति ।
तद्यथा- प्रथमं स्थूलरूपे संयमं विधाय तदनु सूक्ष्मरूप इत्येवङ्क्रमेण तस्य कृतसंयमस्य सङ्कल्पानुविधायिन्यो वत्सानुसारिण्य इव गावो भूतप्रकृतयो भवन्ति ॥
अथ भूतजयस्य फलम्- तत्राणिमा परमाणुरूपतापत्तिः, महिमा महत्त्वं, लघिमा तूलपिण्डवल्लघुत्वप्राप्तिः, गरिमा गुरुत्वं, प्राप्तिरङ्गल्यग्रेण चन्द्रादिस्पर्शनशक्तिः ।
प्राकाम्यमिच्छानभिघातः, शरीरान्तःकरणेश्वरत्वमीशित्वं, सर्वत्र प्रभविष्णुता वशित्वं, सर्वाण्येव

[[२८१]]

भूतान्यनुगामित्वात्तदुक्तं नातिक्रामन्ति, एतेऽणिमाद्याः समाध्युपयोगिनो भूतजयाद्योगिनः प्रादुर्भवन्ति ।
अथ कायसम्पत्तिः- “रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत्” रूपलावण्यबलानि प्रसिद्धानि ।
वज्रसंहननत्वं वज्रवत्कठिना संहतिरस्य शरीरे प्रादुर्भवन्ति ॥
“ग्रहणस्वरूपास्मितान्वयार्थवत्वसंयमादिन्द्रियजयः” ग्रहणमिन्द्रियाणां विषयाभिमुखीवृत्तिः, स्वरूपं सामान्येन प्रकाशकत्वं, अस्मिताऽहङ्कारानुगमः, अन्वयार्थवत्त्वे पूर्ववत्, एतेषामिन्द्रियाणामवस्थापञ्चके पूर्ववत्संयमं कृत्वेन्द्रियजयी भवति ॥
ततः शरीरस्य मनोवदनुत्तमगतिलाभो मनोजवित्वं, कायनिरपेक्षाणामिन्द्रियाणां वृत्तिलाभो विकरणभावः, सर्ववशित्वं प्रधानजयः ।
एतास्तिस्रः सिद्धयो जितेन्द्रियस्य प्रादुर्भवन्ति ॥
अथान्तःकरणजयः- शत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं" सर्वज्ञातृत्वञ्च तस्मिन् शुद्धे सात्त्विके परिणामे कृतसंयमस्य या सत्त्वपुरुषयोरुत्पद्यते विवेकख्यातिर्गुणानां कर्तृत्वाभिमानशिथिलीभावरूपा तन्माहात्म्यात्तत्रैव स्थितस्य योगिनः सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वञ्च समाधेर्भवति ।
सर्वेषां गुणपरिणामानां भावानां स्वामिवदाक्रमणं सर्वभावा- धिष्ठातृत्वं, तेषामेव च शान्तोदिताव्यपदेश्यधर्मित्वेनावस्थितानां यथावद्विवेकज्ञानं सर्वज्ञातृत्वम् ।
एषाञ्चास्मिञ्शास्त्रे परस्यां वशीकारसञ्ज्ञायां प्राप्तायां विशोका नाम सिद्धिरित्युच्यते ॥
अथ क्रमेण भूमिकान्तरं- “तद्वैराग्यादपि दोषबीजक्षये कैवल्यम्” ।
एतस्यां विशोकायां सिद्धौ यदा वैराग्यमुत्पद्यते योगिनस्तदा तस्माद्दोषाणां रागादीनां यद्बीजमविद्यादयस्तेषां क्षये चात्यन्तिकी दुःखनिवृत्तिः तस्य पुरुषस्य गुणानामधिकारपरिसमाप्तौ स्वरूपप्रतिष्ठत्वम् ॥
एवम्भूतस्य योगिनो देवा उपनिमन्त्रयितारो भवन्ति ।
दिव्यस्त्रीरसायनादिकं ढौकयन्ति, तेन विस्मयसङ्गमौ न कार्यौ ।
क्षणानां पौर्वापर्येण परिणामे संयमाद्विवेकज्ञानमुत्पद्यते ।
पदार्थानां भेदहेतवो जातिलक्षणदेशा भवन्ति ।
यत्र केनचिदपायेन भेदो नावधारयितुं शक्यस्तत्र

[[२८२]]

संयमाद्भवत्येव भेदप्रतिपत्तिः ।
उक्तसंयमबलादन्त्यायां भूमिकायामुत्पन्नं ज्ञानं तारयत्यगाधात्संसारसागराद्योगिनमित्यान्वर्थिक्या सञ्ज्ञाया तारकमित्युच्यते ।
तच्च महदादिसर्वविषयं, सर्वाभिरवस्थाभिः स्थूलसूक्ष्मादिशरीरभेदेन तैस्तैः परिणामैः सर्वप्रकारेणावस्थितानि तत्त्वानि विषयो यस्येति सर्वथा विषयम् ।
निश्शेषनानावस्थापरिणामन्यूनाधिकभावग्रहणे नास्य क्रमो विद्यत इत्यक्रमम् ।
सर्वं करतलामलकवद्युतपत्पश्यतीत्यर्थः ।
फलभिधीयते- शत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम्" चित्तसत्वस्य सर्वकर्तृत्वाभिमाननिवृत्या स्वकारणेऽनुप्रवेशः शुद्धिः, पुरुषस्य शुद्धिरुपचरितभोगाभाव इति द्वयोः समानायां शुद्धौ पुरुषस्य कैवल्यमुत्पद्यते, मोक्षो भवतीत्यर्थः ।
तदेवमन्तरङ्गं योगाङ्गत्रयमभिधाय तस्य च संयमसञ्ज्ञां कृत्वा संयमस्य च विषयप्रदर्शनार्थं परिणामत्रयमुपपाद्य संयमबलोत्पद्यमानाः पूर्वान्तपरान्तमध्यभवाः सिद्धीः प्रदर्श्य समाधौ विश्वासोत्पत्तये बाह्या भुवनज्ञानादिरूपा आभ्यन्तराश्च कायव्यूहज्ञानादिरूपास्ताः प्रदर्श्य समाध्युपयोगायेन्द्रियप्राणजयादिपूर्विकाः परमपुरुषार्थसिद्धये यथाक्रममवस्थासहितभूतजयेन्द्रियजयसत्त्वजयोद्भवाश्च व्याख्याय विवेकज्ञानोत्पत्तये तांस्तानुपायानुपन्यस्य तारकस्य सर्वसमाध्यवस्थापर्यन्तभवस्य रूपमभिधाय तत्समापत्तेः कृताधिकारस्य चित्तसत्त्वस्य स्वकारणेऽनुप्रवेशात्कैवल्यमुत्पद्यत इति विभूतिपादीयोऽभिप्रायः ॥

यदाज्ञयैव कैवल्यं विनोपायैः प्रजायते ।
तमेकमजमीशानं चिदानन्दमयं स्तुमः ॥

अथ विप्रतिपत्तिसमुत्थभ्रान्तिनिराकरणेन युक्त्या कैवल्यस्वरूपज्ञानाय कैवल्यपादोऽयमारभ्यते- “जन्मौषधिमन्त्रतपः समाधिजाः सिद्धयः” पक्ष्यादीनामाकाशगमनादिर्जन्ममात्रनिमित्ता सिद्धिः ।
यथा कपिलादीनां जन्ममात्रेण ज्ञानसिद्धिः ।
पारदादिरसायनाद्युपयोगादौषधसिद्धिः ।
केषाञ्चिन्मन्त्रसिद्धिराकाशगमनादिः ।

[[२८३]]

तपस्सिद्धिर्विश्वामित्रादीनाम् ।
समाधिसिद्धिः प्राक् प्रतिपादिता ।
एताः सिद्धयः पूर्वजन्मक्षपितक्लेशानामेवोपजायन्ते ।
तस्मात्समाधिसिद्धाविवान्यासामपि सिद्धीनां जन्मान्तरीयसमाधिरेव कारणम् ।
मन्त्रादीनि निमित्तमात्राणि ।
ननु नन्दीश्वरादीनां जात्यादिपरिणामोऽस्मिन्नेव जन्मनि दृश्यते तत्कथं जन्मान्तराभ्यस्तस्य समाधेः कारणत्वमिति चेद्योऽयमिहैव जन्मनि नन्दीश्वरादीनां जात्यन्तरपरिणामः स प्रकृत्या पुरोत् ।
धर्माधर्मादिप्रकृतीनामर्थान्तरपरिणामे तु न प्रयोजकम्, नहि कार्येण कारणं प्रवर्तते ।
यथा कृषीवलः केदारात्केदारान्तरं जलं निनीषुर्जलप्रतिबन्धकवरणभेदमात्रं करोति, तस्मिन् भिन्ने जलं स्वयमेव प्रसरद्रूपं परिणामं गृह्णाति, नतु जलप्रसरणे तस्य कश्चिद्व्यापारः, एवं धर्मादेरनुष्ठीयमानादधर्मादिवरणक्षयः क्रियते; तस्मिन् प्रतिबन्धके क्षीणे प्रकृतयः स्वयमभिमतकार्याय प्रभवन्ति ।
यदा साक्षात्कृततत्त्वस्य योगिनो युगपत्कर्मफलभोगायाऽऽत्मीयनिरतिशयविभूत्यनुभवाद्युगपदनेकशरीर निर्मितसायामग्नेर्विस्फुलिङ्गा इव कायेषु तन्मूलकारणादस्मितामात्रादेव तदिच्छया चित्तानि प्रसरन्ति ।
तेषां चेतसां व्यापारनानात्वे एकं योगिनश्चित्तं प्रयोजकमधि- ष्ठातृत्वेन, तेन न भिन्नमतत्वम् ।
यथा स्वीयशरीरे मनश्चक्षुःपाण्यादीनि यथेच्छं प्रेरयत्यधिष्ठातृत्वेन तथा चित्तं कायान्तरेष्वपि ॥
जन्मादिप्रभवेषु पञ्चसु चित्तेषु समाधिजं चित्तं कर्मवासनारहितम् ।
यथेतरचित्तेभ्यो योगिनश्चित्तं विलक्षणं क्लेशादिरहितं तथा कर्मापि ।
दानतपःस्वाध्यायादिमतां पुरुषाणां शुभफलदं यागादि शुक्लं कर्म ।
ब्रह्महत्यादि कृष्णं कर्म नारकिणाम् ।
शुक्लकृष्णं कर्म सोमयागादिरतानाम् ।
योगिनान्तु त्रिविधकर्मविपरीतं यत्फलत्यागानुसन्धानेनैवानुष्ठानान्न किञ्चित्फलमारभते ।
अस्यैव कर्मणः फलन्तु येन कर्मणा यादृग्देवमनुष्यादिशरीरमारब्धं तस्यानुरूपा वासनाः प्रकटीभवन्ति; इतरा जात्यायुर्भोगफला वासनास्तु सत्याऽप्यव्यक्तसञ्ज्ञास्तिष्ठन्ति; न तस्यां दशायां नारकादिशरीरस्यो-

[[२८४]]

पभोगभवा वासना व्यक्तिमायान्ति ।
कार्यकारणभावोपपत्तिरपि- इह नानायोनिषु भ्रमतां संसारिणां काञ्चिद्योनिमनुभूय यदा योन्यन्तरसहस्रव्यवधानेन पुनस्तामेव योनिं प्रतिपद्यते तदा तस्यां योनौ पूर्वानुभूतायां तथाविधशरीरादिव्यञ्जकापेक्षया वासना याः प्रकटीभूता आसंस्तास्तथाविधव्यञ्जकाभावात्तिरोहिताः पुनस्तथाविधव्यञ्जकशरीरादिलाभे प्रकटी भवन्ति ।
जातिदेशकालव्यवधानेऽपि तासां स्वानुरूपस्मृत्यादिफलसाधने नैरन्तर्यमेव, स्मृतिसंस्कारयोरेकरूपत्वात् ।
तथाहि- अनुष्ठीयमानात्कर्मणश्चित्तसत्त्वे वासनारूपः संस्कारः समुत्पद्यते ।
स च स्वर्गनरकादीनां फलानामङ्कुरीभावः कर्मणां शक्तिरूपतयाऽवस्थानम् ।
कर्तुस्तथाविधभोग्यभोक्तृत्वरूपं सामर्थ्यम् ।
संस्कारात्स्मृतिः स्मृतेश्च सुखदुःखोपभोगस्तदनुभवाच्च पुनरपि संस्कारस्मृत्यादयः ।
एवं सति यस्य स्मृतिसंस्कारादयो भिन्नास्तस्याङन्तर्याभावे दुर्लभः कार्यकारणभावः ।
अस्माकन्तु यदा जातानुभव एव संस्कारीभवति संस्कारश्च स्मृतिरूपतया परिणमते तदैकस्यैव चित्तस्यानुसन्धातृत्वेन स्थितत्वात्कार्यकारणभावो न दुर्घटः ।
भवत्वानन्तर्यं कार्यकारणभावश्च वासनानां यदा तु प्रथममेवानुभवः प्रवर्तते तदा किं वासना- निमित्त उत निर्निमित्त इति शङ्काविषये तासां वासनानां प्रवाहानादित्वमाशिषो नित्यत्वात् ।
येयमाशीर्महामोहरूपा सदैव सुखसाधनानि मे भूयासुर्मा कदाचन तैर्मे वियोगोभूदिति यः सङ्कल्पविशेषो वासनानां कारणं तस्यानादित्वात् ।
अयमभिप्रायः- कारणस्य सन्निहितत्वादनुभवसंस्कारादीनां प्रवृत्तिः केन वार्यते ? अनुभवसंस्काराद्यनुविद्धं सङ्कोचविकासधर्मिचित्तं तत्तदभिव्यञजकविपाकलाभात्तत्तत्फलरूपतया परिणमत इति ।
अथानन्तानां वासनानां हानोपायः- वासनानामनन्तरानुभवो हेतुस्तस्याप्यनुभवस्य रागादयस्तेषामविद्येति साक्षात्पारम्पर्येण हेतुः ।
शरीरादि स्मृत्यादि च फलम् ।
आश्रयो बुद्धिसत्त्वम् ।
आलम्बनं यदेवानुभवस्य

[[२८५]]

तदेव वासनानामतस्तैर्हेतुफलाश्रयालम्बनैरनन्तानामपि वासनानां सङ्ग्रहीतत्वात्तेषां हेत्वादीनामभावे ज्ञानयोगाभ्यां दग्धबीजत्वे विहिते तन्निर्मूलत्वान्न वासनाः प्ररोहन्ति न कार्यमारभन्त इति तासामभावः ।
“अतीतानागतं स्वरूपतोऽस्त्यध्वभेदात्तद्धर्माणाम्” इहात्यन्तमसतां भावानामुत्पत्तिर्न युक्तिमती, तेषां सत्त्वसम्बन्धायोगात् ।
नहि शशविषाणादीनां क्वचिदपि सत्त्वसम्बन्धो दृष्टः ।
निरूपाख्ये च कार्ये किमुद्दिश्य कारणानि प्रवर्तेरन् ।
नहि विषयमनालोच्य कश्चित्प्रवर्तते ।
सतामपि विरोधान्नाभावसम्बन्धोऽस्ति ।
यत्स्वरूपेण लब्धसत्ताकं तत्कथं निरुपाख्यतामभावरूपतां वा भजते ? तस्मात्सतामभावासम्भवादसताञ्चोत्पत्त्यभावात्तैस्तैर्धमैर्विपरिणमम् आनो धर्मी सदैवैकरूपतयाऽवतिष्ठते ।
धर्मास्तु त्र्यधिकत्वेन त्रैकालिकत्वेन हि व्यवस्थिताः स्वस्मिन्स्वस्मिन्नध्वनि व्यवस्थिता न स्वरूपं त्यजन्ति, वर्तमानेऽध्वनि व्यवस्थिताः केवलं भोग्यतां भजन्ते ।
तस्माद्धर्माणामेवातीतानागताध्वभेदस्तेनैव च स्वरूपेण कार्यकारणभावोऽस्मिन्दर्शने प्रतिपाद्यते ।
तस्मादपवर्गपर्यन्तमेकमेव चित्तं धर्मितयाऽनुवर्तमानं न निह्नोतुं पार्यते ।
ते धर्मधर्मिणो व्यक्तसूक्ष्मभेदेन व्यवस्थिता ये सत्त्वरजस्तमोरूपा गुणास्तदात्मानः सत्त्वरजस्तमोभिः सुखदुःखमोहरूपैः सर्वासां बाह्याभ्यन्तरभेदभिन्नानां भावव्यक्तीनामन्वयानुगमो दृश्यते ।
यद्यपि त्रयो गुणाः सर्वत्र मूलकारणम्, तथापि क्वचित्सत्त्वमङ्गि क्वचिद्रजः क्वचिच्च तम इत्येवंरूपस्तस्यै कत्वाद्वस्तुनस्तत्त्वमेकत्वमुच्यते ।
यथेयं पृथिवी, अयं वायुरित्यादि ।
ननु ज्ञानव्यतिरिक्ते सत्यर्थे वस्त्वेकमनेकं वा वक्तुं शक्यते ।
यदा विज्ञानमेव वासनावशात्कार्यकारणभावेनावस्थितं तथा तथा प्रतिभाति तदा कथमेतच्छक्यते वक्तुमित्याशङ्कायां ज्ञानज्ञेययोविविक्तः पन्थाः ।
कथं ? वस्तुसाम्ये चित्तभेदात् ।
समाने वस्तुनि स्त्र्यादावुपलभ्यमाने नानाप्रमातृर्णां चित्तस्य भेदः सुखदुःखमोहरूपेणोपलभ्यते, यथा एकस्यां योषिति सरागस्य सुखम्, सपत्न्यास्तु द्वेषः, परिव्राजकस्य

[[२८६]]

घृणा ।
तस्मान्न चित्तकार्यं वस्तु ॥
यद्येवं ज्ञानं चेत्प्रकाशकत्वाद्ग्रहणस्वभावमर्थश्च प्रकाश्यत्वाद्ग्राह्यस्वभावस्तत्कथं युगपत्सर्वानर्थान्न गृह्णातीति चेत्, येनैवार्थेनास्य ज्ञानस्य स्वरूपोपरागः कृतस्तमेवार्थं ज्ञानं व्यवहारयोग्यतां नयति ततश्च सोऽर्थो ज्ञात इत्युच्यते ।
येन चाऽऽकारो न समर्पितः सोऽज्ञातत्वेन व्यवह्रियते ।
यस्मिंश्चानुभूतेऽर्थे सदृशादिरर्थः संस्कारमुद्बोधयन्सहकारिकारणतां प्रतिपद्यते तस्मिन्नेवार्थे स्मृतिरुपजायत इति ।
न सर्वत्र ज्ञानं नाऽपि सर्वत्र स्मृतिरिति न कश्चिद्विरोधः ।
यद्येवं प्रमाताऽपि पुरुषो यस्मिन्काले नीलं संवेदयति न तस्मिन्नेव काले पीतमतश्चित्तसत्त्वस्यापि कादाचित्कत्वं ग्रहीतृरूपत्वादाकारग्रहणे परिणामित्वमिति चेत्प्रमाणविपर्ययादिचित्तवृत्तयः सर्वदा ज्ञाताः, तद्ग्रहीतुः पुरुषस्यापरिणामात् ।
यद्यसौ परिणामी स्यात्तदा परिणामस्य कादाचित्कत्वात्प्रमातुस्तासां चित्तवृत्तीनां सदा ज्ञातत्वं न स्यात्तस्मात्पुरुषो न परिणामी ।
ननु चित्तमेव सत्त्वोत्कर्षाद्यदि प्रकाशकं तदा स्वपरप्रकाशकत्वादात्मानमर्थञ्च प्रकाशयतीति तावतैव व्यवहारसमाप्तेः किं ग्रहीत्रन्तरेणेति चेत्, तच्चित्तं स्वप्रकाशकं न भवति किन्तु पुरुषवेद्यं भवति दृश्यत्वात् ।
ननु साध्याविशिष्टोऽयं हेतुः, दृश्यत्वमेव चित्तस्यासिद्धम् ।
किञ्च स्वबुद्धिसंवेदनद्वारेण पुरुषाणां हिताहितप्राप्तिपरिहाररूपा वृत्तयो दृश्यन्ते ।
तथाहि- क्रुद्धोऽहं भीतोऽहमत्र मे राग इत्येवमाद्याः संविदो बुद्धेरसंवेदने तु नोपपन्ना इति चेत्, अर्थस्य संवित्तिरिदन्तया व्यवहारयोग्यतापादनमयमर्थः सुखहेतुर्दुःखहेतुर्वेति ।
बुद्धेश्च संविदहमित्येवमाकारेण सुखदुःखरूपतया व्यवहारक्षमतापादनम् ।
एवंविधञ्च व्यापारद्वयमर्थप्रत्यक्षकाले न युगपत्कर्तुं शक्यं विरोधात् ।
नहि विरुद्धयोर्व्यापारयोर्युगपत्सम्भवोऽस्ति ।
अत एकस्मिन्काले उभयस्य स्वरूपस्यार्थस्य चावधारयितुमशक्यत्वान्न चित्तं स्वप्रकाशम् ।
ननु मा भूद्बुधेः स्वयं ग्रहणं बुद्ध्यन्तरेण भविष्यतीति

[[२८७]]

चेत्, “चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च” रूपे रसे वा समुत्पन्नायां बुद्धौ तद्ग्राहिकाणामनन्तानां बुद्धीनां समुत्पत्तेर्बुद्धिजनितैः संस्कारैर्यदा युगपद्बह्व्यः स्मृतयः क्रियन्ते तदा बुद्धेरपर्यवसानाद्बुद्धिस्मृतीनाञ्च बह्वीनां युगपदुत्पत्तेः कस्मिन्नर्थे स्मृतिरियमुत्पन्नेति ज्ञातुमशक्यत्वात्स्मृतीनां सङ्करः स्यात् ।
इयं रूपस्मृतिरियं रसस्मृतिरिति न ज्ञायेत ।
ननु बुद्धेः स्वप्रकाशत्वाभावे बुद्ध्यन्तरेण चासंवेदने ।
कथमयं विषयसंवेदनरूपो व्यवहार इति चेत्, पुरुषश्चिन्मयत्वाच्चितिः, साऽन्येनासङ्कीर्णा सदैकरूपतयाऽवतिष्ठते ।
अतस्तत्सन्निधाने यदा बुद्धिस्तदाकारतामापद्यते चेतनेवोपजायते ।
बुद्धिवृत्तिप्रतिसङ्क्रान्ता च यदा चिच्छक्तिर्बुद्धिवृत्तिविशिष्टतया सम्पद्यते तदा बुद्धेः स्वस्याऽऽत्मनो वेदनं सम्भवति ।
इत्थं स्वसंविदितं चित्तं सर्वार्थग्रहणसामर्थ्येन सकलव्यवहारनिर्वाहक्षमं भवति ॥
शास्त्रफलकैवल्यस्वरूपन्त्वित्थम्-सत्त्वपुरुषयोरन्यत्वे सिद्धे यस्तयोर्विशेषमहमस्मादन्य इति पश्यति तस्य चित्ते याऽऽत्मभावभावना सा निवर्तते-चित्तमेव कर्तृज्ञातृभोक्तृ चेत्यभिमानो निवर्तते ।
तस्मिन्सत्यज्ञाननिम्नपथं बहिर्मुखं चित्तं विवेकनिम्नमार्गमाभ्यन्तरमुखं कैवल्यफलं सम्पद्यते ।
अस्मिन्विवेकवाहिनि चित्ते येऽन्तरायाः प्रादुर्भवन्ति तेषामित्थं त्यागोपायः ।
तथाहि- समाधौ स्थितस्यान्तरालेषु यानि व्युत्थानरूपाणि ज्ञानानि तानि प्राक्तनेभ्यो व्युत्थानानुभवजेभ्यः संस्कारेभ्योऽहं ममेत्येवं रूपाणि क्षीयमाणेभ्योऽपि प्रभवन्ति- अन्तःकरणोच्छित्तिद्वारेण तेषां ज्ञानं कर्तव्यमित्युक्तं भवति ।
यथा क्लेशानामविद्यादीनां हानं पूर्वमुक्तं तथा संस्काराणामपि कर्तव्यम् ।
यथा ते ज्ञानाग्निना प्लुष्टा दग्धबीजकल्पा न पुनश्चित्तभूमौ प्ररोहं लभन्ते तथा संस्कारा अपि ॥
एवं प्रत्ययान्तरानुदयेन स्थिरीभूते समाधौ यादृशस्य योगिनः समाधिप्रकर्षप्राप्तिर्भवति तादृशोपायः ।
यावतां तत्त्वानां यथाक्रमं व्यवस्थितानां परस्परविलक्षणस्वरूपपरिभावने सत्यप्यकुसीदस्य फलमलिप्सोः प्रत्ययान्तराणामनुदये

[[२८८]]

सर्वप्रकारविवेकख्यातेः परिपोषाद्धर्ममेघः समाधिर्भवति ।
अविद्याद्यभिनिवेशान्तक्लेशानां शुक्लादित्रिविधकर्मणां ज्ञानोदयात्पूर्वपूर्वकारणनिवृत्त्या निवृत्तिर्भवति ।
तदा सर्वावरणनिवृत्तौ ज्ञाननैरन्तर्यादक्लेशेनैव सर्वं ज्ञेयं जानाति ।
ततो निष्पादितभोगापवर्गलक्षणपुरुषार्थानां सत्वरजस्तमसां परिणतिक्रमसमाप्तिर्भवति ।
अल्पीयसः कालस्य योऽसौ प्रतियोग्येकक्षणविलक्षणः परिणामापरान्तनिर्ग्राह्योऽनुभूतेषु क्षणेषु पश्चात्सङ्कलनबुद्ध्यैव यो गृह्यते स क्षणानां क्रम उच्यते, नह्यननुभूतेषु क्षणेषु क्रमः परिज्ञातुं शक्यः ॥
फलभूतस्य कैवल्यस्यासाधारणं स्वरूपमित्थं विज्ञेयः ।
समाप्तभोगापवर्गपुरुषार्थलक्षणानां गुणानां यः प्रतिप्रसवः तस्य समाप्तौ विकारानुद्भवः, यदि वा चितिशक्तेर्वृत्तिसारूप्यनिवृत्तौ स्वरूपमात्रेऽवस्थानं कैवल्यमुच्यते ।
तदेवं सिद्ध्यन्तरेभ्यो विलक्षणां सर्वसिद्धिमूलभूतां समाधिसिद्धिमभिधाय जात्यन्तरपरिणामलक्षणस्य च सिद्धिविशेषस्य प्रकृत्यापूरणमेव कारणमित्युपपाद्य धर्मादीनां प्रतिबन्धकनिवृत्तिमात्र एव सामर्थ्यमिति पदर्श्य निर्माणचित्तानामस्मितामात्रादुद्भव इत्युक्त्वा तेषाञ्च योगिचित्तमेवाधिष्ठापकमिति प्रदर्श्य योगिचित्तस्य चित्तान्तरवैलक्षण्यमभिधाय तत्कर्मणामलौकिकत्वञ्चोपपाद्य विपाकानुगुणानाञ्च वासनानामभिव्यक्तिसामर्थ्यं कार्यकारणयोश्चैक्यप्रतिपादनेन व्यवहितानामपि वासनानामानन्तर्यमुपपाद्य तासामानन्त्येऽपि हेतुफलादिद्वारेण हानमुपदर्श्यातीतादिष्वध्वसु धर्माणां सद्भावमुपपाद्य विज्ञानवादं निराकृत्य साकारवादञ्च प्रतिष्ठाप्य पुरुषस्य ज्ञातृत्वमुक्त्वा चित्तद्वारेण सकलव्यवहारनिष्पत्तिमुपपाद्य पुरुषसिद्धौ प्रमाणमुपपाद्य कैवल्यनिर्णयाय दशभिः सूत्रैः क्रमेणोपयोगिनोऽर्थानभिधाय शास्त्रान्तरेऽप्येतदेव कैवल्यमित्युपपाद्य कैवल्यस्वरूपं निर्णीतमिति क्रमिकोऽयं योगपातञ्जलानां यावान्राद्धान्तः ॥
अत्रोच्यते- अष्टाङ्गयोगे तात्पर्यवत्त्वात्प्रमाणभूतापि सती योगस्मृतिरवैदिके प्रधानादौ न प्रमाणम्; तत्र तात्पर्याभावात् ।
तथाहि-

[[२८९]]

“अथ योगानुशासनमि"ति प्रतिज्ञाय “योगश्चित्तवृत्तिनिरोध” इति योगस्यैव लक्षणमुक्त्वा तमेव कृत्स्नशास्त्रेण प्रपञ्चयामासेति तत्र योगे तात्पर्यम् ।
प्रधानादीनि तु न प्रतिपाद्यतया प्रतिजज्ञे किं तर्हि ? द्वितीयपादे यमनियमादिसाधनप्रतिपादके ज्ञेयं ज्ञेयहेतुं ज्ञानं ज्ञानहेतुञ्च विवेचयन्प्रसङ्गात्साङ्ख्यस्मृतिप्रसिद्धानि प्रधानादीनि व्याजहार, ततो न तत्र तात्पर्यम् ।
तस्मान्न योगस्मृत्या वेदस्य सङ्कोचः ।
यच्चोक्तं सरूपाणामेव जन्यजनकभावदर्शनादचेतनं जगच्चेतनाद्ब्रह्मणो न जायते; विलक्षणत्वात् ।
यद्येन विलक्षणं तत्तस्मान्न जायत इति तत्तुच्छं, ये ये कार्यकारणे ते तेन सलक्षण इत्यस्या व्याप्तेर्वृश्चिकादौ व्यभिचारो दृश्यते- अचेतनाद्गोमयाद्वृश्चिकस्य चेतनस्योत्पत्तेः ।
चेतनाच्च पुरुषादचेतनानां केशनखादीनामुत्पद्यमानत्वात् ।
अतो वेदनिरपेक्षः शुष्कतर्को न क्वापि प्रतितिष्ठति ।
तदुक्तमाचार्यैः- “यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यत” इति ।
तस्माद्वैलक्षण्यहेतुर्न बाधकः ॥
यत्तु निरीश्वरसाङ्ख्यसेश्वरसाङ्ख्ययोर्मतमुपन्यस्य तन्मतखण्डनप्रस्तावनायां द्वितीयोल्लासे परमतगिरिवज्रदण्डकारेणाभिहितम-त्रेदं विचार्य्यत इत्यादिना बिम्बप्रतिबिम्बभावे रूपवद्दर्पणे रूपवद्घटादिप्रतिबिम्बवत्, समानधर्मत्वं घटादिरूपबिम्बापेक्षया दर्पणादेर्नैमल्यञ्चापेक्षितमिति प्रसिद्धम् ।
अत्र निर्मलस्याप्यसंवेद्यपक्षपतितस्य पुरुषस्य सुखदुःखमोहान्धकारकलुषितस्य बुद्धितत्त्वस्य च वैपरीत्येन विरोधान्न तत्प्रतिबिम्बत्वं पुरुषस्य तत्प्रतिबिम्बकारणीभूतनीलादिबिम्बपदार्थस्य बुद्धिव्यतिरिक्तबुद्धिप्रदेशवर्तमानासम्भवात् ।
सर्वस्य बोधकलक्षणबुद्व्यन्तर्गतत्वेन तदनन्तर्गतप्रदेशस्याभावात्, न स्वप्रकाशात्मकतमोगुणभागे स्थिता नीलादयो बिम्बभूताः प्रकाशात्मकसत्त्वगुणभागलक्षणबुद्धिदर्पणे प्रतिफलन्तीति चेन्न, तमोगुणभागस्यापि बुद्व्यन्तर्गततया भासनात् ।
अन्यथा तम इति रज इति सत्त्वमित्यसङ्कीर्णविभागस्फुरणं न

[[२९०]]

स्यात् ।
यद्यत्स्फुरन्ति तत्सर्वं स्फुरणात्मकं बुद्व्यन्तर्गतमिति न्यायात् ।
यदि भवति बुद्धौ प्रतिबिम्बस्तदा तस्या मुखप्रकाशत्वेन दर्पणादिप्रतिबिम्बितवह्न्यादेस्तृणदाहकत्वतण्डुलपाचकत्वाद्यर्थक्रिया या असम्भव इव कर्तृत्वज्ञातृत्वभोक्तृत्वाद्यर्थक्रियाकारित्वं न स्यात् ।
बुद्धिपुरुषयोः परस्परभेदाग्रहात्तदभिमानमात्रमिति वाच्यम्, जपाकुसुमलौहित्यं यथा स्फटिकादौ प्रतीयते तद्वद्बुद्धिनिष्ठं कर्तृत्वं पुरुषे प्रतीयत इति वक्तव्यम्, तथासति बुद्धिव्यतिरिक्तपुरुषकल्पनमप्राणिकं स्यात्, कर्त्तृत्वादेर्बुद्धिधर्मत्वात् ।
नच कर्तृत्वादेरपि ज्ञातृधर्मत्वान्न तत्कल्पनमपि युक्तं बुद्धितत्त्वस्येति ।
नच पुरुषनिष्ठमेव कर्तृत्वादिकं बुद्धौ प्रतिफलतीति वाच्यम्, स्वभावस्य निराकर्तुमशक्यत्वादनिर्मोक्षप्रसङ्गः ।
न चायःकान्तहरिद्राचूर्णदृष्टान्तेन परस्परसम्मेलनात्कर्तृत्वादिकमुत्पद्यत इति वाच्यम्, मुख्यपुरुषस्य बुद्धितत्त्वस्य च सम्बन्धाभावात्तत्प्रतिबिम्बस्यैव सम्बन्धात्तत्प्रतिबिम्बस्यार्थक्रियाकारिकत्वाभावात् ।
ननु मुख्यपुरुषस्यैव सम्बन्धो बुद्धितत्त्वेन वर्तत इति चेन्न, तथा प्रतिबिम्बाभावात् ।
यद्यत्र वर्तते न तत्र प्रतिफलति दर्पणरेखावदिति न्यायात् ।
इष्टापत्तौ पुरुषस्वभावत्वाद्बुद्धेर्विषयोपरागादेरनपह्नवनीयत्वेनानिर्मोक्षप्रसङ् गो दुर्वार एव ।
किञ्च तदभिमानमपि न सम्भवतीति बुद्धिप्रतिबिम्बितस्य घटादेर्यथा कर्तृत्वाद्यभिमानो नास्ति तथा बुद्धिप्रतिबिम्बितस्य पुरुषस्यापि कर्तृत्वाद्यभिमानं न स्यात् ।
नच घटस्य जडत्वात्तदभिमान उपपद्यत एव, तत्प्रतिबिम्बस्य सुतरां नोपपद्यत इति ।
ननु घटवत्पुरुषः केवलं निष्क्रिय इति नोच्यते, किन्तु विकृतिस्पृशि विश्वस्मिन् प्रकृतिं प्रेरयतीति चेत्तत्रोच्यते “तथा सा चेत्ततो युक्त्या तस्यौदासीन्यप्रकल्पना ।
अनुदासीनतैवास्तां सूक्ष्ममध्यममाश्रितः ।
यद्यसौ निष्क्रियो न स्याद्यदसूक्ष्मापि सा क्रिया ।
स्व वियोगे क्रियां सूते प्रकृतौ विकृतिर्जडा ॥
जडा अपि स्वभावेन देहाक्षभुवनादयः ।
यत्प्रभावात्प्रवर्तन्ते स कथं निष्क्रियो भवेत् ॥” तस्मात्

[[२९१]]

क्रियायाः सविषयत्वेन निरञ्जनत्वलक्षणापवर्गो न स्यादिति दूषणं वज्रलेपायते ।
एतेन योगशास्त्रमपि प्रत्युक्तम् ।
तदङ्गीकृतेश्वरस्य मूर्च्छापरपर्यायसमाधिपक्षपतितत्वे न जडत्वप्रसङ्गादिति सङ्क्षेप इति ।
तदविचारितरमणीयम् ।
तथाहि- यत्त बिम्बप्रतिबिम्बभावे रूपवदुपाधौ रूपवत एव दर्पणादौ घटादेरिव प्रतिफलननियम इति न नियमः, जले नीरूपस्य गगनस्य प्रतिफलनदर्शनात्, ध्वनौ निरूपे वर्णप्रतिफलनदर्शनाच्च ।
अतेवोक्तमभियुक्तैरद्वैतवादिभिः- “बिम्बत्वं प्रतिबिम्बत्वं यथा पूषणि कल्पितम् ।
आत्मत्वमीश्वरत्वञ्च ब्रह्मण्येकत्र कल्पित"मिति ।
सिद्धान्तलेशसङ्ग्रहकारा अप्पयदीक्षिता अप्याहुः-विवरणानुसारिणस्त्वाहुः- “विभेदजनके ज्ञाने नाशमात्यन्तिकं गते ।” इत्यादिस्मृत्या एकस्यैवाज्ञानस्य जीवेश्वरविभागोपाधित्वप्रतिपादनात्, बिम्बप्रतिबिम्बभावेन जीवेश्वरयोर्विभागः ।
अत उभयोरपि प्रतिबिम्बभावो न, उपाधिद्वयमन्तरेणोभयोः प्रतिबिम्बत्वायोगात् ।
तत्रापि प्रतिबिम्बो जीवः बिम्बस्थानीय ईश्वरः ।
तथासत्येव लौकिकबिम्बप्रतिबिम्बभावदृष्टान्तेन स्वातन्त्र्यमीश्वरस्य तत्पारतन्त्र्यं जीवस्य च युज्यते ।
“प्रतिबिम्बगताः पश्यन्नृजुवक्रादिविक्रियाः ।
पुमान् क्रीडेद्यथा ब्रह्म तथा जीवस्थविक्रियाः ।” इति कल्पतरूक्त्या लोकवत्तु लीलाकैवल्यमिति सूत्रमपि सङ्गच्छते ।
अज्ञानप्रतिबिम्बितस्य जीवस्यान्तःकरणरूपो ज्ञानपरिणामभेदो विशेषाभिव्यक्तिस्थानं सर्वत्र प्रसृतस्य सवितृप्रकाशस्य दर्पण इव ।
अतस्तस्य तदुपाधिकत्वव्यवहारोऽपि ।
नैतावताऽज्ञानोपाधिपरित्यागः ।
अन्तःकरणोपाधिपरिच्छिन्नस्यैव चैतन्यस्य जीवत्वे योगिनः कायव्यूहाधिष्ठानानुपपत्तेः ।
इत्यादिना रूपानुपहितचैतन्यस्य प्रतिबिम्बस्वीकारात् ।
तथा च बिम्बप्रतिबिम्बभावो द्विविधः- लौकिकोऽलौकिकश्चेति ।
लौकिकघटादिप्रतिबिम्बे रूपवदुपाधौ रूपोपहितत्वनियमः ।
अलौकिके रूपानुपहितचैतन्यस्यापि प्रतिफलने बाधाभावात् ।
कल्पतरुविवरणादिग्रन्थानुरोधश्च ।
प्रतिबिम्बत्वखण्डने सिद्धा-

[[२९२]]

न्तशिखामणिशिवाद्वैतमञ्जर्यादिविरोधश्च ।
परमतखण्डनमात्रप्रवृत्तौ स्वपक्षस्थापनाहीनत्वं वैतण्डिकत्वं स्फुटमेव ।
इयान्विशेषः-पुरुषान्तपञ्चविंशतितत्त्ववादिनो निरीश्वरसाङ्ख्याः पुरुषस्य प्रकृतिरञ्जितस्य सुखदुःखयोरस्वातन्त्र्यात्तेषां बहूनां पुरुषाणां सुखदुःखनियामको निर्लेपः ।
चिन्तामणिसन्निधाने भाग्योदय इव निर्व्यापारोऽपि स्वतन्त्रः सर्वज्ञ ईश्वरोऽन्यः षड्विंश इति सेश्वरसाङ्ख्याः पातञ्जलाः ।
साङ्ख्यसिद्धप्रधाने जडत्वेन जगत्कारणत्वाभावेऽपि परब्रह्माधिष्ठितत्वेनानित्यत्वमित्यद्वैतवादिनः ।
सूक्ष्मचिदचिच्छक्तिवैशिष्ट्यवादिनो नीलकण्ठीयाः ।
वयन्तु ब्रूमः- चिदचिच्छक्तिज्ञानक्रियापरपर्यायत्वेन व्यवहृते तयोर्मूलशक्तिभेद इव मूलशक्तिधर्मरूपपरमेश्वराभिन्नेति सर्वे बिम्बप्रतिबिम्बवादिनः तन्नेति वदन्वादी स्वयमनिर्वचनीय इति यत्किञ्चिदेतत् ।
वस्तुतस्तु विसृमरसवितृकिरणानां प्रतिफलने गगने बिम्बबुद्धिभ्रमः ।
ध्वनेर्वर्णप्रतिबिम्बग्राहित्वमपि व्यञ्जकमात्रेणोपपद्यते ।
एवं रूपानुपहितचैतन्यं बुद्धौ न प्रतिबिम्बमर्हतीति महानाग्रहस्तदा अविद्यावच्छिन्नो जीवः ।
अन्तःकरणावच्छिन्नो जीव इति पक्षद्वयेऽपि घटाकाशमहाकाशयोरिव द्वित्वस्य सुवचत्वात्पुरुषस्य बुद्धेश्च भेदाद्बुद्धेरन्यः पुरुषः पुरुषादन्या बुद्धिरिति विवेकख्यातिः साधनम् ।
तया कैवल्यं मुक्तिः, द्वयोर्भेदाग्रहोऽयमविवेकख्यातिः संसार इति हि साङ्ख्ययोः सिद्धान्तः ।
भेदाग्रहाद्दुर्वारे द्वित्वे सिद्धे घटादिगतं द्वित्वमाकाशे गृह्यते घटाकाशो मठाकाश इति ।
तद्बुद्धिगतः कर्तृत्वादिः सर्वोऽपि प्रपञ्चः पुरुषे वर्तेत, विवेके सति कैवल्यमपि स्यादेव दग्धवटन्यायेन जीवन्मुक्तस्य क्रमेणाव्यक्ते बुद्धौ लीनायां सत्यां निर्विशेषमुक्तिरिति निर्दूषणं साङ्ख्यद्वयम् ॥
यच्चोक्तमसंवेद्यपक्षपतित इति तदसत्, साक्षिणोऽपि तस्य विवेकग्रहादन्यथाभूतस्य देहादिभावमापन्नस्य शास्त्रगुरुद्वारा संवेद्यत्वात् ।
नच पारमार्थिकदशायामसंवेद्य इति वाच्यम्, अनन्यभूतचित्तस्य निवृत्तवृत्तिकस्य वा कस्यापि संवेद्यस्याभावात्, संसारदशायामेव सर्वस्यापि संवेद्यत्वात् ।

[[२९३]]

पुरुषस्य नैर्मल्यविरोधोऽपि न, सवितृकिरणवत्प्रकाशरूपस्य निष्क्रियत्वादिना नैर्मल्यवत्वात्, सक्रिये जले प्रतिफलनवत् स्वच्छत्वमात्रेण प्रतिफलनविरोधाभावात् ।
बुद्धिव्यतिरिक्तदेशवर्तमानासम्भवादित्यपि न ।
घटान्तः प्रदेशस्य घटजले प्रतिफलनदर्शनात् ।
बुद्धिव्यतिरिक्तपुरुषकल्पने प्रमाणं नेति वदतो व्याघातः, बुद्धिनिष्ठमान्द्यादिख्यातिदर्शनात्, प्रकृतेर्महानित्यादिशब्दप्रमाणसद्भावाच्च ।
एवं प्रतिपदं स्खलन्स्वपक्षस्थापनारहित इति यत्किञ्चिदेतत्, तदुक्तरीत्या बिम्बप्रतिबिम्बभावाद्यनङ्गीकारेऽपि पूर्वोक्तपरिणमनाद्यनुरोधादजामेकामित्यादिश्रुतेश्च प्रधानकारणवादि साङ्ख्यद्वयमपि दुष्परिहार्यमित्यस्मदुक्तरीत्या स्वमतान्यमतसाधारण्येन प्रत्याख्यानप्रकारोऽवधेय इति वज्रदण्डकारो बर्बरः ।
एतेन बुद्धिप्रतिबिम्बे कर्तृत्वादिकं न स्यादिति निरस्तम्, उपाधिगुणारोपे बाधाभावात् ।
बुद्धिव्यतिरिक्तपुरुषकल्पने मानाभावादिति च न, “इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥
महतः परमव्यक्तं सा काष्ठा सा परा गति"रिति भगवदुक्तेः, तदनुरोधेन बहूनां प्रमाणानां सद्भावात् ।
पुरुषनिष्ठकर्तृत्वं बुद्धौ प्रतीयत इत्यनुक्तापादनं दोषः ।
एतेन सम्मेलनात्कर्तृत्वमिति वदन्बुद्धेः पुरुषस्य च सम्बन्धाभावादिति निरस्तः, भेदाग्रहेण सम्बन्धसद्भावात् ।
यदप्युक्तमौदासीन्यकल्पने सूक्ष्मक्रियावत्वेन निर्लेपत्वं न स्यादिति तदप्यज्ञानविलसितम् ।
तादृशौदासीन्यकल्पनेऽपि बहिर्मुखक्रियाभावान्निर्लेपत्वसिद्धेः ।
तस्मादस्मदुक्तानुसरणमेव न्याय्यमिति सर्वं समञ्जसम् ॥

इति वीरशैवानन्दचन्द्रिकायां वादकाण्डे योगमतनिरूपणतन्निराकरणं नाम षोडशं प्रकरणम् ॥

[[२९४]]