वीरशैवानन्दचन्द्रिकायां वादकाण्डे पञ्चदशं प्रकरणम् ॥
शाक्ताभिधस्य भवताद्य गुरो मतस्य संस्थापनं तदुपरीरितदूषणञ्च ।
आसीत्प्रदर्शितमहर्षि मया निशम्य तत्त्वं वदेह यदनन्तरभावि वृत्तम् ॥
राजन्नुपाक्राम्यत भृङ्गिणा य- न्मतं ततः शीलवताप्यदूषि ।
वदामि तत्ते क्रमतो विशिष्य विभावय त्वं विमलात्मबुद्धे ॥
मतान्तरस्था अपि शक्तिमन्तं विना जगत्कारणतां न शक्तेः ।
ब्रुवन्ति सर्वे परमेक एव त्वमेवमात्मा सदृशी मतिस्ते ॥
ईदृक्षवन्यन्मतमाशु भृङ्गिन् सविस्तरं ब्रूहि विलोकयामि ।
[[२४०]]
मतेषु सर्वेष्वपि निर्निरोध- विचारसामर्थ्यविशेषमस्मिन् ॥
ब्रवीम्यहं तादृशमेव शीलिन् ज्ञानं तथेच्छा कृतिरित्यमी च ।
सर्वज्ञतापीष्यत एव यत्र मते महानीश्वर एव कर्ता ॥
गौतमीयमतानुसारिणस्त्वित्थमाहुः- “प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादज् अल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्वज्ञानान्निश्रेयसाधिगम” इति न्यायस्यादिमं सूत्रम् ।
यत्र यदस्ति तस्य तत्तत्वम् ।
तद्ज्ञानमुद्देशादित्रिकाधीनम् ।
उद्देशस्तु लक्ष्यतावच्छेदकमात्रप्रकारकप्रतीति जनकः शब्दः ।
लक्षण वाक्ये च वाक्यार्थज्ञानस्य लक्ष्यतावच्छेदकातिरिक्तप्रकारकतया नातिप्रसङ्गः ।
न च लक्षणवाक्यान्तर्गतलक्ष्यभागेऽतिव्याप्तिः, तस्याप्युद्देशत्वात् ।
अत एव प्रतिलक्षणमुद्दिष्टा एव धर्मिण इति टीका ।
नचैवं पृथगुद्देश्यवैयर्थ्यं न्यूनाधिकसङ्ख्याव्यवच्छेदतात्पर्यकत्वात् ।
यद्वा लक्ष्यणाभिधानप्रयोजकजिज्ञासाजनकः शब्द उद्देश इति ।
लक्ष्यतावच्छेदकसमनियतधर्मवचनं लक्षणम् ॥
लक्षणोपपत्त्यनुपपत्यन्यतरफलको विचारः परीक्षा ॥
तत्र प्रमाकरणं प्रमाणम् ।
यथार्थनुभवः प्रमा ।
विशेष्यावृत्यप्रकारकं ज्ञानं यथार्थम् ।
यथा घटोऽयमिति ।
अत्र हि ज्ञाने विशेष्यो घटः ।
तदितरवृत्तिपटत्वादिकं तत्प्रकारकत्वमत्रनास्ति, घटत्वस्यैवात्र प्रकारत्वात्, तस्य च घटवृत्तित्वात् ।
इदं रजतमिति भ्रमे विशेष्यभूतशुक्तिकाशकलावृत्तिरजतत्वं प्रकार एवेति नातिव्याप्तिः ॥
प्रकारत्वञ्च भासमानवैशिष्ट्यप्रतियोगित्वम्, तच्च प्रतीयमानविशेषणविशेष्यसम्बन्धः, तदधीनप्रतीतिविषयत्वम् ॥
अनन्यथा सिद्ध-
[[२४१]]
नियतपूर्ववृत्तिजातीयत्वं कारणत्वम् ।
अरण्यस्थदण्डादावव्याप्तिवारणाय जातीयपदम् ।
तद्रासभेऽतिव्याप्ति वारणाय अनन्यथासिद्धपदम् ।
अनन्यथासिद्धत्वञ्चान्यथासिद्धिविरहः ।
अन्यथासिद्धिस्त्रिधा-येन सहैव यस्य पूर्वभावो गृह्यते तस्य तेनान्यथासिद्धिः ।
यथा तन्तुना तन्तुरूपस्य, दण्डेन च दण्डत्वस्य ।
अन्यत्र कऌप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तत्सहभूतत्वमपरान्यथासिद्धिः ।
यथा एतद्घटं प्रत्येतद्रासभस्य ।
एतद्घटत्वावच्छिन्नादन्यत्र घटान्तरे कॢप्तपूर्ववर्तिदण्डादेरेवैतद्घटसम्भवात् ।
अन्यं प्रति पूर्ववर्तित्वे ज्ञात एव यस्यान्यं प्रति पूर्वभावोऽवगम्यते तं प्रति तस्यान्यथासिद्धिः ।
यथा घटं प्रत्याकाशस्य ।
तथाहि घटं प्रत्याकाशस्य कारणत्वमाकाशत्वेन ग्राह्यम् ।
आकाशत्वञ्च न जातिः, तस्यैकवृत्तित्वात् ।
किन्तु शब्दसमवायिकारणत्वमाकाशत्वम् ।
कारणत्वञ्च कार्यनियतपूर्ववर्तित्वघटितम् ।
एवञ्च शब्दं प्रति पूर्ववर्तित्वे गृहीत एव घटं प्रति पूर्ववर्तित्वग्रहादन्यथासिद्धिः ।
तच्च कारणं त्रिविधम् ।
समवायिकारणासमवायिकारणनिमित्तभेदात् ।
यत्समवेतं कार्यमुत्पद्यते तत्समवायि कारणम् ।
यथा तन्तवः पटस्य ।
कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सति यत्कारणं तदसमवायिकारणम् ।
यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य ।
तदुभयभिन्नं कारणं निमित्तकारणम् ।
यथा तुरीवेमादिकं पटस्य ।
तानि च प्रमाणानि चत्वारि, प्रत्यक्षानुमानोपमानशब्दभेदात् ।
तत्र ज्ञानाकरणकं ज्ञानं प्रत्यक्षम् ।
तद्द्विविधम्-सविकल्पकं निर्विकल्पकमिति ।
तत्र सप्रकारकं ज्ञानं सविकल्पकम् ।
निष्प्रकारकं ज्ञानं निर्विकल्पकम् ।
तत्करणमपि प्रत्यक्षं षड्विधम् ।
घ्राणरसनचक्षुःश्रोत्रत्वङ्मनोभेदात् ।
गन्धरसरूपशब्दस्पर्शसुखादीनि क्रमेण विषयाः ।
संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायो, विशेषण-
[[२४२]]
विशेष्यभावश्चेति प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः ।
तदेवं व्याख्यातं प्रत्यक्षम् ॥
व्याप्तिप्रकारकपक्षधर्मताज्ञानजन्यं ज्ञानमनुमितिः ।
तत्करणमनुमानम् ।
प्रतियोग्यसमानाधिकरणसाधनाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसाम अनाधिकरण्यं व्याप्तिः ।
तदनुमानं त्रिविधम् ।
अन्वयव्यतिरेकिकेवलव्यतिरेकिकेवलान्वयिभेदात् ।
यथा पर्वतो वह्निमान् धूमात् ।
जीवच्छरीरं सात्मकं प्राणादिमत्वात् ।
घटोऽभिधेयः प्रमेयत्वादिति च ।
इत्यनुमानम् ॥
गोसादृश्यविशिष्टपिण्डज्ञानादिकमुपमितिः ।
उपमितिकरणमुपमानम् ॥
स्वार्थतत्त्वज्ञानजन्यः शब्दः प्रमाणम् ।
पदज्ञानं करणम् ।
पदार्थस्मरणं व्यापारः ।
वाक्यार्थज्ञानं फलम् ।
आकाङ्क्षायोग्यतासन्निधिश्च सहकारिणः ।
शब्दो द्विविधः ।
लौकिकोऽलौकिकश्च ।
यथा गोष्ठे गावः, ज्योतिष्टोमेन स्वर्गकामो यजेतेति च ।
अर्थापत्त्युनुपलब्धिसम्भवेत्यादीनां यथायथमेतेष्वन्तर्भावो मूलग्रन्थे स्पष्टः ।
आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गा स्तु द्वादशविधं प्रमेयम् ।
तत्रात्मत्वजातिमानात्मा ।
स द्वेधईशोऽनीशश्च ।
नित्यज्ञानवानीशः ।
अनित्यज्ञानवाननीशः ।
ज्ञानजनकमनस्संयोगवद्वृत्यन्त्यावयविमात्रवृत्तिजातिमच्छरीरम् ।
द्रव्यानाराम्भकं द्रव्यवत्सावयवि शरीरं द्विविधम्-योनिजमयोनिजञ्च ।
शुक्रशोणितसन्निपातजमस्मदादीनां योनिजम् ।
तदनपेक्षमयोनिजं देवर्षिनारदादीनाम् ।
स्मृत्यजनकज्ञानकरणमनःसंयोगाश्रयत्वमिन्द्रियत्वम् ।
तच्च षड्विधम्-पार्थिवं घ्राणम्, आप्यं रसनम्, तैजसं चक्षुः, गगनं श्रोत्रम्, वायवीयं त्वक्, आत्मग्राहकमिन्द्रियं मनः ।
रूपरसगन्धस्पर्शशब्दा अर्थाः ॥
वैशेषिकास्तु द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्तपदार्था इत्याहुः ।
गुणाश्रयो द्रव्यम् ।
तानि पृथिव्यप्तेजोवय्वाकाशकालदिगात्ममनांसि नव ।
गन्धवती पृथिवी, शीतस्पर्शाश्रयो जलम्, उष्णस्पर्शाश्रयस्तेजः, नीरूपः
[[२४३]]
स्पर्शाश्रयो वायुः, शब्दगुणकमाकाशम्, दिग्विपरीतपरत्वापरत्वानुमेयः कालः, अनियतपरत्वापरत्वानुमेया दिक्, आत्मत्वजातिमानात्मा, सुखाद्युपलब्धिसाधनमिन्द्रयं मनः ॥
गुणास्तु- रूपरसगन्धस्पर्शशब्दसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वाप रत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नगुरुत्वद्रवत्वस्नेहसंस्कार धर्माधर्माः ।
नित्यावृत्तिसत्ताव्याप्यजातिमत्कर्म ।
उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्चकर्माणि ।
नित्यमेकमनेकानुगतं सामान्यम् ।
तच्च परमपरमिति द्विविधम् ।
अन्त्यो नित्यद्रव्यवृत्तिर्विशेषः ।
नित्यसम्बन्धः समवायः ।
भावभिन्नोऽभावो द्विविधः, अन्योन्याभावः संसर्गाभावश्च ।
अन्त्यस्त्रिविधः, प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावश्चेति ।
बुद्धिरुक्तामनोप्युक्तमेव ।
अदृष्टजनकानित्यप्रयत्नः प्रवृत्तिः ।
प्रवृत्तिर्वाग्बुद्धिशरीरारम्भ इति सूत्रम् ।
शिवनामस्मरणप्रयत्नो वागारम्भः ।
शिवस्मरणानुकूलयत्नः बुद्ध्यारम्भः ।
शिवाभिषेकादिप्रयत्नः शरीरारम्भः ।
दोषरागद्वेषमोहाः प्रवृत्तिहेतवः ।
पूर्वदेहविश्लेषानन्तरमुत्तरदेहसंश्लेषः प्रेत्यभावः ।
फलं पुनर्भोगः ।
आत्मापवर्गान्यत्वे सति दुःखसम्बन्धिप्रमेयं दुःखम् ।
दुःखत्वजातिमद्दुःखमिति नवीनाः ।
स्वसमानाधिकरणदुःखप्रागभावासहवृत्तिः दुःखध्वंसो मोक्षः ।
इदानीन्तनदुःखध्वंसस्तु भविष्यद्दुःखप्रागभावसमानकालीन एव, नातः संसारितादशायां मुक्तिः ।
स चायं तत्त्वज्ञानसाध्यः ।
तत्त्वसाक्षात्कारसामर्थ्याच्च प्राचीनानादिभवसञ्चितधर्माधर्मप्रचयमनियतविपाकसमयमप्यवगत्य परितो विविधकायान्निर्माय तत्कालोपभोगात्प्रतिक्षिणोति ।
अचिन्त्यसामर्थ्यातिशयो हि समाधिः ।
तत्त्वज्ञानकर्मणोः समप्राधान्यमिति केचित् ।
तत्त्वज्ञानद्वारा कर्मणां हेतुत्वमित्यपरे ।
वस्तुतस्तु तत्त्वज्ञानमेव मिथ्याज्ञानध्वंसद्वारा मोक्षहेतुः ।
कर्म तु तत्त्वज्ञानजननोपक्षीणत्वेनान्यथासिद्धम् ।
एकस्मिन् धर्मिणि समानयोर्धर्मयोः परस्परविरोधावगाहिज्ञानं संशयः ।
स त्रेधा- समानधर्मजोऽसमानधर्मजो विप्रतिपत्तिजश्च ।
यदिच्छया प्रवृत्तिस्तत्प्रयोजनम् ।
[[२४४]]
तद्द्विविधम्-मुख्यं गौणमिति ।
आद्यं सुखं दुःखाभावश्च ।
तत्साधनं गौणम् ।
व्याप्यव्यापकत्वाभिमतवत्तया निश्चितोऽर्थो दृष्टान्तः ।
स द्वेधा-साधर्म्यवैधर्म्यभेधात् ।
उदाहरणे प्रसिद्धे प्रामाणिकत्वेनाभ्युपगतोऽर्थः सिद्धान्तः ।
स च सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमभेदाच्चतुर्धा ।
यथा गन्धादय इन्द्रियार्था इति सर्वतन्त्रसिद्धान्तः ।
तन्त्रान्तरप्रतिकूलोऽर्थः प्रतितन्त्रः ।
यथा नैयायिकानां शब्देऽनित्यत्वं प्रभाकरैरनङ्गीकृतम् ।
पक्षधर्मताबललभ्योऽर्थोऽधिकरणसिद्धान्तः ।
यथा क्षित्यादौ सकर्तृकत्वे साधिते ईश्वरे सार्वज्ञ्यम् ।
परतन्त्रे साधितः स्वतन्त्रेऽधिकृतोऽर्थोऽभ्युपगमसिद्धान्तः ।
यथा वैशैषिकसाधितस्य मनस इन्द्रियत्वस्य नैयायिकैरभ्युपगमः ।
अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यं न्यायः ।
प्रतिज्ञादिपञ्चकवाक्यैरेकवाक्यतया महावाक्यार्थज्ञानम्; ततो धूमविशिष्टे वह्निवैशिष्ट्यमिति मानसं ज्ञानम्; ततो वह्निव्याप्यधूमवानिति मानस लिङ्गपरामर्शः; ततोऽनुमितिरिति ।
न्यायजन्यज्ञानजनकशाब्दज्ञानजनकं वाक्यमवयवः ।
खण्डवाक्यार्थज्ञानानन्तरं महावाक्यार्थज्ञानाभ्युपगमात् ।
ते च प्रतिज्ञाहेतूदाहरणोपनयनिगमाः ।
हेत्व- भिधानप्रयोजकजिज्ञासाजनकं वाक्यं प्रतिज्ञा ।
पञ्चम्यन्तलाक्षणिकपदवन्न्यायप्रविष्टं वाक्यं हेतुः ।
दृष्टान्तवचनमुदाहरणम् ।
परामर्शवचनमुपनयः ।
लिङ्गसम्बन्धप्रयुक्तनिश्चितसाध्यवचनं निगमनम् ।
व्याप्यारोपेण व्यापकारोपस्तर्कः ।
अर्थतत्वावधारणं निर्णयः ।
तत्त्वनिर्णयोद्देशप्रवृत्तकथा वादः ।
उभयसाधनवती विजिगीषुकथा जल्पः ।
स्वपक्षस्थापनाहीनो वितण्डा ।
यद्ज्ञाने सत्यनुमित्यभावनियमस्तद्वत्वं हेत्वाभासत्वम् ।
ते च सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्चैव ।
साध्यवन्मात्रवृत्तित्वनिश्चयविरोधिहेत्वाभासतोपाधिमत्वं सव्यभिचारत्वम् ।
स च साधारणासाधारणानुपसंहारिभेदात्त्रिविधः ।
सपक्षविपक्षवृत्तिः साधारणः, यथा शब्दो नित्यः प्रमेयत्वात् ।
समानबलोपस्थित्या प्रतिरुद्धकार्यकलिङ्गत्वं सत्प्रतिपक्षत्वम् ।
बलञ्च व्याप्तिपक्षधर्मते ।
[[२४५]]
यथा क्षित्यादिकमकर्तृकं शरीराजन्यत्वात् ।
क्षित्यादिकं सकर्तृकं जन्यत्वादिति च ।
व्याप्तिपक्षधर्मतान्यतरविकलो हेतुरसिद्धः ।
स च त्रिधा-आश्रयासिद्धस्वरूपासिद्धव्याप्यत्वासिद्धभेदात् ।
आश्रयासिद्धो यथा- काञ्चनमयी तरुणी सधनस्वामिका, विविधालङ्कारशालित्वात् ।
स्वरूपासिद्धो यथा- कामिनि करादिमती पुरुषत्वात् ।
व्याप्यत्वासिद्धो यथा- पर्वतो वह्निमान् नीलधूमात् ।
सोपाधिकोऽपि व्याप्यत्वासिद्धः ।
यथा- यागीया हिंसा अधर्मसाधनं हिंसात्वात्, क्रतुबाह्यहिंसावत् ।
अत्र निषिद्धत्वमुपाधिः ।
साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः ।
पक्षे साध्याभावो बाधः, यथा वह्निरनुष्णः कार्यत्वादिति ।
परतात्पर्याविषयत्वे सति शब्दतात्पर्यसञ्चारेण दूषणाभिधानं छलम् ।
यथा नवपत्नीको देवदत्त इत्युक्ते एकैवानेन पत्नी बहुतरप्रयासेन लब्धा कुतोऽस्य नवपत्न्य इति ।
व्याप्तिमपुरस्कृत्य साधकत्वसाधनाभिप्रायेण प्रयुक्तमुत्तरं जातिः ।
यथा यदि पटसाधर्म्यात् कृतकत्वादयमनित्यस्तदाऽऽकाशसाधर्म्यात् प्रमेयत्वान्नित्य एव कस्मान्नेति ।
निग्रहनिमित्तं निग्रहस्थानम् ।
निग्रहः पराजयः ।
यथा शब्दोऽनित्यः, प्रत्यक्षगुणत्वात्, घटवदिति प्रयुक्ते परेण प्रत्यभिज्ञा- बाधेन दूषिते तु तर्हि घटोऽनित्य इति पक्षपरित्यागः ।
इत्येवंरूपषोडशपदार्थतत्त्वज्ञानान्मोक्ष इति गौतमीयाः ।
सप्तपदार्थतत्त्वज्ञानान्मोक्ष इति वैशेषिकाः ॥
अत्र विचार्यते- प्रथमन्तावद्गौतमीयप्रमाणप्रमेयेत्यादि सूत्रोक्तमेवासङ्गतम् ।
तथाहि- आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गा स्तु प्रमेयमिति प्रमेयविभाजकसूत्रान्तर्विभक्तार्थाभिधचतुर्थप्रमेयान्तर्गतत्वात्प्रमा णादीनामितरेषां पञ्चदशानां तदभिमतानां पदार्थानां प्रमेयापेक्षया पृथग्भावाभावेन षोडशत्वस्यासिद्धतया ज्ञानस्य ततोऽप्यसिद्धतया ततश्च मोक्षप्राप्तिर्गगनकुसुमायमाना ।
किञ्चात्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तीत्यादि प्रमेयविभाजकसूत्रोक्तमप्यसङ्गतम् ।
आत्मेत्यादिविभजनीयपदार्थान्तर्गते अर्थनामनि
[[२४६]]
प्रमेये आत्मादीनां पूर्वेषां त्रयाणां बुध्यादीनां परेषामष्टानां द्रव्ये गुणरूपाणां प्रमेयाणामुत्तरत्र विभजिष्यमाणानां यथायथमन्तर्भावेणार्थपदार्थविभागादेतत्सूत्रे आनर्थक्येन विभागासङ्गतिः ।
नन्वर्थाः षट्पदार्था इत्यर्थरूपप्रमेयस्वरूपपरविभागज्ञानार्थं प्रमेयसूत्रोक्तानामात्मादीनां पुनर्ग्रहणम् ।
प्रमेयसूत्रेऽप्युत्तरत्र विभजिष्यमाणानामात्मादीनामुद्देशः, आत्मनश्च व्यतिरिक्तपदार्थापेक्षयेतरभेदज्ञानेन मोक्षयोग्यतयाभ्यर्हितत्वद्योतनाय शतकृत्वोऽपि पथ्यं वदितव्यमिति शबरस्वामिभाष्योक्तन्यायेनोद्देश इति चेन्न ।
श्रुतिस्मृतिपुराणेतिहासादिभिरात्मनो जडाजडविवेकेनाभ्यर्हितत्वे मोक्षयोग्यत्वे च सिद्धे त्वत्पारिभाषिको विभक्तस्य पुनः पुनर्विभागो वेदवेदाङ्गागमाभ्यासप्रत्यूहतया प्रत्यवायकर एव ।
तथैव रामायणे- “धर्मशास्त्रेषु मुख्येषु मूढाः पण्डितमानिनः ।
बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥” इति भगवता बाल्मीकिना प्रतिपादितम् ।
एतेन प्रथमसूत्रेऽपि प्रमेयसूत्रप्रविष्टानां संशयादीनां पृथग्ग्रहणं तत्त्वावधारणप्रयुक्तवादकथोपयोगित्वेनावश्यकमित्यपि परास्तम् ।
किञ्च प्रमाणप्रमेयेत्यादिसूत्रे द्वन्द्वसमासानुपपत्तिः ।
पाणिनिना “चाऽर्थे द्वन्द्व” इति सूत्रेण पदार्थभेदस्थल एव द्वन्द्वसमासानुशासनात् ।
नच पदार्थभेदाभावेऽपि पदार्थतावच्छेदकभेदमादाय द्वन्द्वः सम्भवतीति वाच्यम्, सरूपाणामेकशेषविधायकसूत्रवैयर्थ्यापत्तेः ।
घटा इत्यादौ पदार्थभेदेऽपि पदार्थतावच्छेदकस्य घटत्वस्यैकत्वेन तदभावात् ।
द्वन्द्वप्रवृत्तियोग्यस्थल एव तदपवादस्यैकशेषस्यापि वक्तव्यत्वात् ।
नच नानार्थस्थले सैन्धवादिपदेषु पदार्थतावच्छेदकभेदसत्वेन तत्रैकशेषसूत्रप्रवृत्तेर्नं सूत्रवैयर्थ्यमिति वाच्यम्, तर्हि द्वन्द्वतदपवादसूत्रयोः क्वचित्पदार्थभेदे क्वचित्पदार्थतावच्छेदकभेदे प्रवृत्तिरित्यननुगममप्यङ्गीकृत्य पाणिनिसूत्रमपि स्वपारिभाषिकषोडशपदार्थसिद्धिप्रतिपादकसूत्रसमाससाधनानुकूलत् अया क्लिष्टगत्या मूढश्रद्धया योजयितुमयुक्तम् ॥
षोडशपदार्थतत्त्वज्ञानादात्मनो मोक्षप्राप्तिरित्युक्तम् ।
स
[[२४७]]
चात्माऽणुपरिमाणो मध्यमपरिमाणो वा ? नाद्यः ।
अणुपरिमाणत्वे अप्रत्यक्षतापत्तेः, महत्वाभावात् ।
नचोद्भूतरूपवत्वे सति बाह्येन्द्रियजन्यप्रत्यक्षं प्रत्येव महत्त्वस्य कारणत्वान्नोक्तदोष इति वाच्यम्, कार्यतावच्छेदकगौरवात्; प्रत्यक्षत्वेन महत्वेन कार्यकारणभावे लाघवात् ।
तथासत्यात्मनोऽप्रत्यक्षतापत्तिरनिवारिता स्यात् ।
ननु वायौ महत्वस्य दर्शनेऽपि तस्याप्रत्यक्षत्वात्, जीवस्य बाह्येन्द्रियाप्रत्यक्षत्वेऽप्यन्तरिन्द्रियप्रत्यक्षत्वादणुपरिमाणत्वं सम्भवतीति चेन्न, यत्र महत्वं तत्रावश्यं प्रत्यक्षेण भाव्यमिति न नियमः ।
किन्तु प्रत्यक्षं प्रति महत्वं कारणमित्युच्यते ।
तथा चाणौ महत्वाभावान्न प्रत्यक्षतेति ।
नाऽपि द्वितीयः- मध्यमपरिमाणस्यानित्यत्वेन व्याप्तत्वात् ।
किन्तु पारिशेष्याद्विभुरिति वक्तव्यम् ।
किङ्च देशान्तरेयद्द्रव्यमस्मद्भोगायोपपद्यते, तदस्मददृष्टेन जनितमिति वक्तव्यम् ।
अस्मददृष्टस्यास्मदात्मनिष्ठत्वेन तस्य परिच्छिन्नत्वे सति वस्तूत्पत्तिदेशे अदृष्टवदात्मसंयोगाभावात्तद्वस्तुभोगाय कथमुपपद्यते ? तस्माद्वस्तूत्पत्तिदेशेप्यदृष्टवदात्मसंयोगो वक्तव्यः ।
तेन विभुत्वसिद्धिः ।
स चान्योन्यसुखदुःखादिवैचित्र्या- त्प्रतिशरीरं भिन्नः, व्यापकत्वान्नित्यः ।
अहमितिमानसप्रत्यक्षम् ।
विप्रतिपत्तौ बुध्यादिलिङ्गानुमेयः, ज्ञानादिगुणाश्रयः ।
एतादृशस्यात्मनः षोडशपदार्थतत्त्वज्ञानान्मुक्तिरिति चेन्न, ज्ञानादिगुणानामात्मनश्च भेदो वा स्यादभेदो वा स्यात् ।
नाऽन्त्यः आत्मनोऽनित्यत्वापत्तेः, अनित्यबुध्याद्यभिन्नत्वात्, व्यापकत्वभङ्गप्रसङ्गश्च परिच्छिन्नबुध्याद्यभिन्नत्वात् ।
नाऽपि प्रथमः भेदे घटपटयोरिव तादात्म्यसम्बन्धाऽसम्भवेन तद्गुणत्वापत्तेर्न ज्ञानादिगुणाश्रयत्वमतो जडत्वमिति ।
यच्चोक्तमात्मनः प्रतिशरीरं भिन्नत्वं विभुत्वञ्च तन्नोपपद्यते ।
तथाहि- प्रतिशरीरं भिन्नस्य व्यापकत्वायोगात् ।
यदि व्यापकत्वं तदा प्रतिशरीरभिन्नत्वं न सम्भवति; व्यापकत्वस्य सकलमूर्तद्रव्यसंयोगित्वेनोक्तत्वात् ।
तथा सत्येकस्मिन् शरीरे निखिलात्मसम्बन्धो वक्तव्यः; तन्न सम्भवति यत्रैकः सम्बध्यते
[[२४८]]
तदवच्छेदेनापरः सम्बध्यते वा न वा न चेद्व्यापकत्वभङ्गप्रसङ्गः ।
यदि सम्बध्यते अनन्तानामात्मनामेकत्र संयोगात् शरीरमेवोन्मथ्येत ।
किञ्चैकस्मिन् शरीरे निखिलात्मसंयोगस्य विद्यमानत्वादेकस्य सुखे सर्वेषां सुकमेकस्य दुःखे सर्वेषां दुःखं स्यात् ।
सकलशरीरेषु सकलात्मसम्बन्धस्य विद्यमानत्वात्, शरीरावच्छेदेनैवात्मनां सुखदुःखादिदर्शनात् ।
प्रतिशरीरं मनस्संयोगस्यापि भिन्नत्वान्नभोगसाङ्कर्यापत्तिरिति चेन्न, मनस्संयोगस्यापि सर्वेषां तुल्यत्वात् ।
नच यच्छरीरं यददृष्टेन जनितं तत्तस्यैव भोगायतनमिति नियमान्नभोगसाङ्कर्यापत्तिरिति वाच्यम्, एकस्यैव तददृष्टं नान्यस्येत्यत्रापि नियमाभावात् ।
न चादृष्टोत्पादकं कर्म येन कृतं तस्यैव तददृष्टमिति नोक्तदोष इति वाच्यम्, सर्वात्मसम्बन्धेनोत्पन्नं कर्म एकस्यैव नान्यस्येति नियमासम्भवाद्भोगसाङ्कर्यापत्तिर्दुर्निवारैव ।
किञ्चात्मनां व्यापकत्वे उत्क्रान्तिगत्याद्यनुपपत्तिः ।
नच लिङ्गशरीरस्य यावद्ज्ञानस्थायित्वात्तस्यैवोत्क्रान्तिगत्यादिकम्, आत्मनां तद्वारा तूपचर्यत इति वाच्यम्, “तमेवोत्क्रामन्तं प्राणा उत्क्रामन्ती"ति श्रुत्या आत्मनां प्रथमतो गमनं पश्चात्प्राणोपलक्षितलिङ्गशरीरस्य गमन- मुच्यते तद्विरुध्येत ।
तस्माच्छरीरगतगमनागमनमप्यात्मन्युपचर्यत इत्ययुक्तम् ।
सात्मन एव गमनागमनं श्रूयते नतु जडस्य केवलं लिङ्गशरीरस्य ।
अत एव “द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ ।
परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥” इत्यात्मन एव सूर्यमण्डलभेतृत्वोपपत्तेः ।
देशान्तरीयभोग्यतरवस्तुनियमस्तु परमेश्वरस्य नियतशक्तिसामर्थ्यवशाद्भवतीत्यग्रे निपुणतरमुपपादयिष्यामः ।
यच्चोक्तमात्माहमिति मानस प्रत्यक्षविषय इति तत्तुच्छं, तथाहि- मानसप्रत्यक्षविषयत्वं नाम मनोजन्यज्ञानविषयत्वम् ।
अहमित्येतत्प्रकाशकं मानसं ज्ञानमिति वक्तव्यम्, तथासति तद्भिन्नत्वे सति तद्विषयस्यादृश्यत्वात्; तदभिन्नत्वे सत्यनित्यतापसिद्धान्ततादोषौ स्यातामिति ।
किञ्चात्मनस्तावदहमिति मानसज्ञानविषयत्वे ज्ञानस्यात्ममात्रप्रकाशकत्वेनाङ्गीकृत-
[[२४९]]
त्वात् ।
एवं घटादिज्ञानानामपि स्वमात्रनिष्ठत्वात् ।
अत एव परविषयपरस्वरूपान्धप्रायत्वात् ।
परस्परभिन्नानामपरस्परवेदिनां ज्ञानानामन्योन्यं भेदनं भेदितानाञ्च व्यवसायरूपाणामन्तरनुसन्धानेनानुव्यवसायरूपभेदनमपि न स्यात् ।
आत्मनो घटवद्ग्राह्यकोटिनिविष्टत्वेन ग्राहकत्वाभावात् ।
यस्य यस्य ज्ञानविषयत्वं तस्य तस्य जडत्वमिति नियमात् ।
न च बहिरिन्द्रियजन्यज्ञानविषयस्य घटादेर्जडत्वेऽप्यात्मनस्तदविषयत्वात्, मानसज्ञानमात्रविषयत्वे जडत्वाभावान्नोक्तदोष इति वाच्यम्, तद्विषयत्वेऽपि सुखादेः स्मर्यमाणघटादेश्च जडत्वम्, तथा जडत्वापत्तिर्दुर्निवारैव ।
इष्टापत्तौ जडस्य घटवत्कदापि समवायेन ज्ञानोत्पत्त्यनधिकरणनियमात् षोडशपदार्थतत्वज्ञानान्मोक्षप्राप्तिः कस्येति न विद्मः ॥
किञ्चात्मनो जडत्वाङ्गीकारेऽपि शाक्यप्रयुक्तरीत्या नित्यत्वासत्कल्पत्वदोषौ न जहितः ।
किञ्चात्मविषयकमानसज्ञानमेव न युज्यते ।
कुतः मनसस्तावदणुत्वेन निरंशत्वादात्मनो विभुत्वेन निरवयवत्वादनयोर्निरवयवयोः संयोग एव न सम्भवति, संयोगस्याव्याप्यवृत्तित्वनियमात् ।
तथा चात्ममनस्संयोगासम्भवेन तज्जन्यज्ञानाभावादहमित्यात्मख्यातिरेव न स्यात् ।
एवं मनस इन्द्रियेण संयोगोऽपि न सम्भवति ।
संयोगस्य द्विनिष्ठत्वेन मनसो निरंशत्वात् ।
बाह्यप्रत्यक्षेऽपीन्द्रियसन्निकर्षो नोपयुज्यते ।
तथाहि- इन्द्रियावयवानामर्थावयविनः, अर्थावयवानामिन्द्रियावयविनः खलु सम्बन्धः ।
सच न सम्भवति, कुतः इन्द्रियं सावयवं वा निरवयवं वा ? नाद्यः- सावयवं चेदिन्द्रियावयवः सावयवो निरवयवो वा ? तस्यापि सावयवत्वेऽनवस्थाप्रसङ्गः ।
अवयवस्यावयवित्वेन अवयव्यवयविसंयोगो न सम्भवति ।
एवमर्थावयवस्यापीन्द्रियेण सम्बन्धो न सम्भवति, अर्थावयवस्यापि सावयवत्वेनावयवित्वादुभयोरवयविनोः सम्बन्धाभावात् ।
तस्मादिन्द्रियार्थयोरवयवा निरवयवाः ।
पूर्वपूर्वेषामुत्तरोत्तरं प्रत्यवयवित्वेन निरवयवा इत्येवाङ्गीकर्तव्याः ।
तथा सति निरवयवयोः संयोगो
[[२५०]]
नोपयुज्यते ।
तस्य व्याप्यवृत्तित्वनियमेनैकदेशवर्तित्वात् ।
निरवयवयोर्देशकालविभागाभावात् ।
न द्वितीयः- इन्द्रियं निरवयवं चेदवयवसंयोगस्य वक्तुमशक्यत्वात् ।
इन्द्रियं तावद्गोलकं विहायार्थप्रदेशं गच्छति वाऽर्थ एव गोलकप्रदेशमायाति वा ? नाद्यः- अन्धबधिरत्वापत्तेः, इन्द्रियस्य गतत्वाद्वेदनाप्युच्छिद्येत ।
नाऽपि द्वितीयः अरुन्धतीध्रुवमण्डलाद्यर्थस्तु सप्तलक्षयोजनात्क्षणेन गोलकप्रदेशमागत्य पुनर्झटिति गच्छतीति सर्वानुभवविरोधेनायुक्ततरत्वात् ।
तस्य ध्रुवमण्डलादेः स्वस्थान एव स्थितत्वात् ।
तस्मादिन्द्रियजन्यं ज्ञानं प्रत्यक्षमित्येतदनुपपन्नमिति मन्तव्यम् ।
तस्मादेतन्मूलकमनुमानादिकमपि खपुष्पप्रायमिति चिन्तनीयम् ।
एतेनेश्वरसिद्धिरपि दूरापास्ता, तत्साधकप्रमाणाभावात् ।
अस्तु तावदनुमानं तथाप्यत्रानुमितिर्न सम्भवति, तस्या व्याप्तिज्ञानसापेक्षत्वात् ।
तत्स्वरूपस्य ज्ञातुमशक्यत्वात् ।
तथाहि- लक्षणेन खलु व्याप्तिस्वरूपं ज्ञातव्यम् ।
लक्षणन्तु सदसद्धेतुसाधारणतयोक्तञ्चेद्व्याप्तिज्ञानमेव न स्यात् ।
तस्मात्सकलसद्धेतुसाधारण्येन लक्षणं वक्तव्यम्, तथा सति लक्षणकथनात्प्रागुद्देशावसरे सदसद्धेतुविभागज्ञानं विना सद्धेतुगतत्वेन लक्षणकथनं नोपपद्यते, लक्ष्यज्ञानाभावात् ।
लक्ष्यज्ञानं केन जातमिति विचारे लक्षणेनेति वक्तव्यम् ।
लक्षणज्ञानार्थं लक्ष्यज्ञानमपेक्षितम् ।
लक्षणस्य प्रयोजनमितरव्यावृत्ततया लक्ष्यज्ञानमेव ।
तस्मादन्योन्याश्रयप्रसङ्गात् ।
तत्रापि लक्षणान्तरकथने चक्रकादिदोषः स्यात् ।
तस्माद्व्याप्तिज्ञानाभावादनुमितिर्न सम्भवति ।
ननु महानसे धूमवह्न्योः सामानाधिकरण्यस्य भूयो भूयो दर्शनेन व्याप्तिग्रहादनुमितिः सम्भवतीति चेन्न, एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकमिति न्यायेन धूमसम्बन्धिज्ञानाद्वह्निसम्बन्धिस्मृतिरेव, नतु त्वदुक्तरीत्या पूर्वं महानसे यत्र धूमस्तत्राग्निरिति भूयो भूयो व्याप्तिग्रहणपूर्वकं सम्यगनुभूतत्वादनुमितिरिति ।
नचैवं चेत्स्मरामीति प्रतीतिः स्यान्नत्वनुमिनोमीति व्यवहार इति वाच्यम्, तादृशव्यवहारस्तु नैयायिकानामेव नतु सर्व-
[[२५१]]
साधारण्येन पामराणां व्याप्तिपक्षधर्मतालिङ्गपरामर्शनादिज्ञानाभावान्नानुमिनोमीति व्यवहारः, किन्तु स्मृतिरूपमेवेति सर्वानुभवसिद्धत्वादनवद्यम् ।
तस्माद्व्याप्तिज्ञानाभावान्नानुमितिः ।
किञ्च क्षित्यादिकं सकर्तृकं कार्यत्वाद्घटवदित्यनुमानेन किलेश्वरसिद्धिः ।
केयं सिद्धिर्नाम कारकव्यापारो वा ज्ञापकव्यापारो वा ? नाद्यः-नित्यसिद्धपरमेश्वरे कारकव्यापारासम्भवात् ।
न द्वितीयः- अपरिच्छिन्नप्रकाशे परमेश्वरे देशकालाद्युपदिष्टपरिच्छिन्नान्तःकरणव्यापारात्मकेनानुमानेन ज्ञापकव्यापारोऽपि न सम्भवतीति ।
अपि च परिच्छिन्नमानसिकज्ञानवेद्यत्वादीश्वरस्य जडत्वाद्यापत्तिरनिवारिता स्यात् ।
परञ्चानुमानोत्थापनमेव न सम्भवति, अनुमातुरप्रसिद्धत्वात् ।
नन्वहमिति प्रसिद्ध इति चेन्न, तदहं प्रत्ययस्य मानसिकज्ञानरूपत्वेन तद्भिन्नतया तद्विषयत्वस्यादृश्यत्वात् ।
तदभेदे शब्दबुद्धिकर्मणां त्रिक्षणावस्थायित्वनिमेनानित्यत्वादिदोष आपतेदिति ।
अयं घट इत्यादिज्ञानकाले सुप्तिमूर्च्छादौ च तदभावात् ।
न चानुमात्रानुमीयते बुध्यादिगुणलिङ्गैरिति वाच्यम्, केनानुमीयत इति न विद्मः, तस्यैवाप्रसिद्धत्वात् ।
किञ्च स पराधीनप्रकाशो वा स्वप्रकाशो वा ? नाद्यः- पराधीनप्रकाशस्य घटतुल्ययोगक्षेमत्वेनाननुमातृत्वात् ।
न द्वितीयः- सूर्यादिप्रकाशवज्जडस्स्वप्रकाशो वा तत्प्रकाशकस्वतन्त्रचित्प्रकाशो वा ? नाद्यः- पुनरपि घट्टकुटीप्रभातन्यायात् ।
न द्वितीयः- अपसिद्धान्तात् ।
चित्प्रकाशस्य गुणपदार्थत्वेन आत्मनो द्रव्यपदार्थत्वेनाङ्गीकृतत्वात् ।
ननु चित्प्रकाशभिन्नत्वेप्यात्मनश्चिद्धर्मयुक्त इत्यङ्गीकृतत्वान्न जडत्वमिति चेन्न, घटादिवच्चिद्भिन्नस्य समवायेन चिद्धर्मशून्यत्वयिनमात्तथापि परिच्छिन्नान्तःकरणव्यापारात्मकानुमितिज्ञानविषयस्य जडत्वनियमात् शाक्यप्रोक्तदूषणग्रस्तत्वाच्चेति सङ्क्षेपः ॥
एतेन वैशेषिका अपि प्रत्याख्याताः ।
तथाहि- ते खलु द्रव्यगुण कर्मसामान्यविशेषसमवायाभावाख्याः सप्तैव पदार्थाः इति वदन्ति तदप्ययुक्तं, षोडशपदार्थखण्डनरीत्यैव खण्डितत्वात् ।
विशेषतस्तु
[[२५२]]
ते द्रव्यस्य गुणाश्रयो द्रव्यमिति लक्षणं वर्णयन्ति ।
गुणाश्रयत्वं नाम गुणात्यन्ताभावानधिकरणत्वं, तेनाद्यक्षणावच्छिन्ने घटे नाव्याप्तिरिति तदयुक्तम्, रूपस्यापि सङ्ख्यारूपगुणाश्रयत्वात् ।
नीलात्पीतं पृथगिति नीलपीतादेः पृथक्त्वरूपगुणाश्रयत्वाच्च लक्षणमतिव्याप्तम् ।
न च रुपादौ सङ्ख्यापृथक्त्वादिकमेकाश्रयसमवेतत्वसम्बन्धेन द्रव्यनिष्ठमेव प्रतीयत इति वाच्यम्, वैपरीत्यस्यापि सुवचत्वात्प्रमाणाभावाच्च ।
न च गुणे गुणानङ्गीकारान्यथानुपपत्तेरेव प्रमाणमिति वाच्यम्, लक्षण मुखेन लक्ष्यज्ञाने जाते सति खल्विदं द्रव्यमयं गुण इति विभागः ।
ततः पूर्वं गुण इति निर्णय एवास्तु कथं गुणे गुणानङ्गीकारादिति हेतुप्रयोगः ? स्वरूपज्ञानाभावात् ।
पूर्वम्मेव विभागो ज्ञातश्चेल्लक्षणकथनं व्यर्थमेव ।
न च लक्षणस्य प्रयोजनं पदार्थस्वरूपज्ञानमेवेति वाच्यम्, पूर्वमेवोद्देशकाले पदार्थस्वरूपज्ञानस्य वृत्तत्वात् ।
अन्यथा पदार्थस्वरूपज्ञानं विना तद्विभागज्ञानासम्भवात्पदार्थविभागज्ञानं विना पदार्थस्वरूपज्ञानासम्भवादेवमन्योन्यापेक्षायामन्योन्याश्रयादिदोषप्र सङ्गात् ।
किञ्चैकस्मिन्नेव घटे रूपद्वयमिति प्रतीतिर्जायते ।
तत्र द्वित्वसङ्ख्या न घटनिष्ठा भवति, एकस्मिन् घटे द्वित्वाभावात् ।
तस्माद्रूपगतैव द्वित्वसङ्ख्या भासत इति गुणाश्रयत्वलक्षणं रूपादावतिव्याप्तम् ।
एतेन समवायिकारणं द्रव्यमिति लक्षणमपि निरस्तं वेदितव्यम्, रूपादीनां सङ्ख्यापृथक्त्वादिगुणसमवायिकारणत्वात् ।
नच स्वरूपसम्बन्धेन सङ्ख्यादिकं रूपादौ प्रतीयत इति वाच्यम्, तथा सति द्रव्यगुणयोरपि स्वरूपसम्बन्ध एवास्तु प्रमाणाभावेन समवायस्य निराकरिष्यमाणत्वात् ।
अथ द्रव्यत्वं नाम जातिरिति चेन्न, जातिसद्भावे प्रमाणाभवात् ।
नचेदं द्रव्यमिदं द्रव्यमिति निखिलद्रव्येष्वनुगताकारप्रतीतिरेव प्रमाणम् द्रव्यगुणकर्मसु द्रव्यत्वगुणत्वकर्मत्वस्वरूपधर्ममन्तरेणानुगताकारप्रतीत्यनुदयात्, स च धर्मः परिशेषाज्जातिरेवस्यादिति वाच्यम्, कॢप्तेनैकपदोपात्तत्वेनानुगतव्यवहारोपपत्तौ तदन्यथानुपपत्त्या जातिकल्पनमयुक्तम् ।
नच संयोगतावच्छेदकतया
[[२५३]]
विभागतावच्छेदकतया कार्यतावच्छेदकतया प्रतिबध्यप्रतिबन्धकत्वावच्छेदकतया च जातिसिद्धिरिति वाच्यम्, तत्तदवच्छेदकतया कश्चिद्धर्मोऽङ्गीकर्तव्यो नतु जातिः ।
जातिव्यक्त्योः समवायसम्बन्धस्योक्तत्वात् ।
समवायः खपुष्पायमाण इति वक्ष्यमाणत्वात् ।
अत्रापि संयोगादिष्वेकपदोपात्तत्वस्य विद्यमानत्वाच्च ।
तस्माद्द्रव्यस्वरूपनिरूपणमनुपपन्नम् ।
अत एव द्रव्यकर्मभिन्नत्वे सति जातिमत्वं गुणत्वमिति तदप्ययुक्तम् ।
द्रव्यस्वरूपस्यैव ज्ञातुमशक्यत्वात्तद्भिन्नत्वं सुतरां ज्ञातुमशक्यम् ।
सति कुड्ये चित्रकर्मसिद्धिरिति न्यायात् ।
किञ्च भेदस्वरूपमपि ज्ञातुं न शक्यमित्यग्रे माध्वसिद्धान्तभङ्गप्रकरणे निपुणतरमुपपादयिष्यते ।
अत एव कर्मभिन्नत्वमपि वक्तुं नशक्यते, भेदवादस्याग्रेऽपवदिष्यमाणत्वात् ।
तस्मादेतादृशलक्षणेन गुणस्वरूपं ज्ञातुमशक्यम् ।
किमिदं कर्मत्वमुत्क्षेपणादिपञ्चान्यतमत्वमिति तदप्ययुक्तम् ।
“इदं सर्वमसृजत” इत्यादि श्रुत्या, क्रियत इति कर्मेति व्युत्पत्त्याच सर्वस्यापि जगतः कर्मत्वात् पञ्चैव कर्मेति नियमो न युक्तः ।
कर्मत्वं जातिरिति चेत्तत्सद्भावे प्रमाणं नास्तीति प्रदर्शितत्वात् ।
सामान्यमपि किमुच्यते ? नित्यमेकमनेकानुगतं सामान्यमिति तदयुक्तम् ।
समवायेप्यतिव्याप्तेः, तस्यापि तथात्वाङ्गीकारात् ।
नच नित्यत्वे सत्यनेकसमवेतत्वं तदिति वाच्यम्, समवेतत्वन्नाम समवायसम्बन्धेन विद्यमानत्वमिति तस्य दूष्यमाणत्वादिदं लक्षणमनुपपन्नम् ।
जातिसद्भावे प्रमाणाभावस्य दर्शितत्वात् ।
विशेषोऽपि किमुच्यते ? नित्यद्रव्याणां परस्परव्यावर्तकत्वेन किल विशेषोऽङ्गी क्रियते ।
स्वस्य व्यावर्तकं किमित्यपेक्षायां स्वयमेव चेदात्माश्रयः ।
अन्योन्यापेक्षायामन्योन्याश्रयादिदोषप्रसङ्ग इति ।
अपिच लाघवान्नित्यद्रव्याणि स्वत एव व्यावर्तकानीति न व्यावर्तकान्तरापेक्षेति न विशेषसिद्धिः ॥
समवायसद्भावेऽपि प्रमाणं न पश्यामः ।
नच घटोऽयमितिविशिष्टबुद्धिर्विशेषणविशेष्यतत्सम्बन्धविषया विशिष्टबुद्धित्वात्,
[[२५४]]
यथा दण्डी पुरुष इत्यनेनानुमानेन कश्चन सम्बन्धः सिद्धः ।
गुणगुणिनोः संयोगो न सम्भवति, द्रव्ययोरेव संयोगनियमात्, अयुतसिध्यभावात् ।
अनन्तानां स्वरूपाणां सम्बन्धत्वकल्पने गौरवाल्लाघवादेकसमवायसिद्धिः ।
स च गुणगुणिनोरवयवावयविनोः क्रियाक्रियावतोर्जातिव्यक्त्योर्विशेषनित्यद्रव्याणाञ्चैक एवाङ्गीक्रियत इति वाच्यम्, समवायस्यैकत्वे वायौ रूपवत्ताप्रतीतिः स्यात्, स्पर्शसमवायस्य रूपसमवायस्य चैकत्वात् ।
न च सम्बन्धस्य विद्यमानत्वेऽपि सम्बन्धिनो रूपस्याभावान्न रूपवत्ताप्रतीतिरिति वाच्यं, तथा सति तस्य सम्बन्धत्वमेव न स्यात्; सम्बन्धिनिष्ठत्वाभावात्, तस्माद्वायौ रूपवत्ताप्रतीतिः स्यादेव ।
ननु समवायस्यैकत्वेऽपि वायौ रूपनिरूपितसमवायो नास्तीति चेन्न, रूपनिरूपितसमवायस्य स्पर्शनिरूपितसमवायस्य च भेदे लाघवादेकसमवायसिद्धिरित्युक्तिव्याघातोऽपसिद्धान्तश्च स्यात् ।
लाघवात्किलैकः समवायोऽङ्गीकृतः, नानात्वे लाघवं कुतः ? तथा च महद्गौरवं स्यात् ।
तथाहि- प्रत्येकपदार्थतयाङ्गीकृतस्समवायो घटादौ केन सम्बन्धेन वर्तत इत्याकाङ्क्षायां, द्रव्ययोरेव संयोगसम्बन्धनियमात्सम्बन्धसम्बन्धिनोर्न संयोगः ।
नापि समवायः, समवायस्य समवायान्तराभावात् ।
तथाङ्गीकारेऽनवस्थाप्रसङ्गः ।
तथा चानन्यगतिकत्वात् स्वरूपसम्बन्ध एव शरणीकरणीयः ।
तथा सति धर्मद्वयकल्पनमतिगौरवं तवैव ।
ननु एकस्मिन्नेव घटे प्रतीयमानरूपादिगुणानां घटत्वादिजातीनामेवैकेषां स्वरूपसम्बन्धत्वकल्पने गौरवाल्लाघवादेकसमवायस्तत्तत्पदार्थनिष्ठत्वेन स्वीक्रियत इति चेन्न, तद्गतरूपग्राहकनेत्रेन्द्रियेण तद्गतगन्धोऽपि गृह्यताम्, समवायस्यैकत्वेन रूपसमवायाभिन्नगन्धसमवायस्य नेत्रप्रदेशे विद्यमानत्वात् ।
न च रूपावच्छिन्नसमवायो भिन्नः, गन्धावच्छिन्नसमवायो भिन्न इति वाच्यं, पुनरपि घट्टकुट्यां प्रभातः स्यादेवेति स्वरूपसम्बन्ध एव शरणीकरणीयो लाघवात्,
[[२५५]]
गौरवान्न समवायः ।
किञ्च विशिष्टबुद्धित्वादित्युदाहृतहेतुस्वरूपमपि ज्ञातुं न शक्यते ।
तथाहि- विशिष्टत्वन्तु विशेषणविशेष्यतत्सम्बन्धेभ्यः किमनतिरिक्तमतिरिक्तं वा स्यात् ।
न द्वितीयः, अतिरिक्तं दण्डिनमानयेत्युक्तेऽतदानयनप्रसङ्गात् ।
तद्भिन्नत्वादेव ।
नापि प्रथमः; अनतिरिक्तत्वे विशेषणादौ प्रत्येकं विशिष्टबुद्धिः स्यात् तत्तत्स्वरूपानतिरिक्तत्वात् ।
न च समुदायनिष्ठमिति वाच्यम् ? तदेव वैशिष्ट्यमित्यात्माश्रयादिदोषप्रसङ्गात् ॥
कोऽयमभावो नाम ? भावभिन्नत्वमिति चेत्किमिदं भावत्वम् ? विधिमुखप्रत्ययवेद्यत्वमिति चेन्न, इह भूतले घटाभावो नेत्यत्र घटस्यापि निषेधमुखप्रत्ययवेद्यत्वेन तदनुल्लिखितधीविषयत्वाभावाद्भावत्वं न स्यात् ।
न च घटाभावाभावो न घटात्मकः, किन्त्वतिरिक्त इति वाच्यम्, एवमनेनैव क्रमेण तदभावोऽप्यतिरिक्त इत्यनवस्थापत्तेः ।
नच घटाभावाभावस्त्वतिरिक्तः, तदभावस्त्वधिकरणात्मक इति वाच्यं, यया युक्त्या घटाभावाभावस्त्वतिरिक्त इत्यङ्गीक्रियते तयैव युक्त्या तद्भावोऽप्यतिरिक्त इत्यङ्गीकर्तव्यः ।
तथा सत्यनवस्थापत्तिरिति ।
नचानवस्थादोषवशादेव घटाभावाभावस्य नातिरिक्तत्वमङ्गीक्रियत इति वाच्यम्, लाघवाद्घटाभावाभावस्य घटरूपत्वमेवाङ्गीक्रियताम्, अतिरिक्ताभावकल्पने गौरवात् ।
इह भूतले घट एव वर्तते, घटाभावो नेति घटाभावाभावस्य घटाभेदेन भासनादनुभवविरोधश्च ।
एतेन नञर्थोल्लिखितधीविषयत्वमभावत्वमित्यपि दूरापास्तम्, घटाभावाभावरूपस्य घटस्य नञर्थोल्लिखितधीविषयत्वं वर्तत इत्यभावत्वं स्यात् ।
घटाभावोऽस्तीत्यत्राभावस्यापि नञर्थानुल्लिखितधीविषयत्वादभावत्वं न स्यात् ।
नच भावत्वं नाम सत्वमेवेति वाच्यम्, सत्वं नाम स्वरूपसत्त्वं वा सत्ताविशिष्टत्वं वा ? नाद्यः, अभावेऽपि स्वरूपसत्त्वस्य विद्यमानत्वादतिव्याप्तिः ।
न द्वितीयः, सामान्यादिषु तदभावेनाव्याप्तेः; सामान्यादित्रयं निस्सामान्यमित्यङ्गीकृतत्वात् ।
तस्माद्भावत्वं दुर्विज्ञेयं तद्भिन्नत्वमभावे सुतरां दुर्वि-
[[२५६]]
ज्ञेयमिति ।
न चाभावत्वमखण्डोपधिरिति वाच्यम्, भावपदार्थे ज्ञाने तद्भिन्नस्याभावत्वमखण्डोपाधिरिति वक्तुं शक्यते ।
अद्यापि भावाभावपदार्थविभागाभावात् ।
तस्मात् पारिभाषिकेषु पदार्थेषु सप्तसु षोडशसु च केचन नित्याः, केचनानित्या इति वर्णयन्ति ।
पृथिव्यादिपरमाणव आकाशादयः पञ्च नित्याः ।
द्व्यणुकादिकाः कार्यरूपाः शरीरेन्द्रियविषयास्त्वनित्याः ।
रूपादयो गुणाश्चानित्याः ।
तत्रापि जलादिपरमाणुगुणो नित्यः ।
कार्यगतस्त्वनित्यः ।
कर्माप्यनित्यम् ।
सामान्यादित्रयं नित्यमेव ।
तत्रानित्यानां पदार्थानां परमाणुभ्य उत्पत्तिं वर्णयन्ति ।
ईश्वरस्य निमित्तत्वं जीवादृष्टस्यापि तदेव ।
एवं जीवादृष्टवशादीश्वरेच्छया निश्चलेषु परमाणुषु क्रियोत्पद्यते, क्रियातो विभागः, विभागात्पूर्वसंयोगनाशः, तत उत्तरसंयोगोत्पत्तिरिति क्रमेण परमाणुद्वयसंयोगाद् द्व्यणुकमुत्पद्यते ।
तादृशैस्त्रिभिर्द्व्यणुकैस्त्रसरेणुः ।
चतुर्भिस्त्र्यणु कैश्चतुरणुकादिक्रमेण महापृथिव्यादिजगदुत्पत्तिरिति ।
तदयुक्तम् ।
तथाहि- संयोगस्तु स्वाश्रयं व्याप्य वर्तते वा किमव्याप्य वर्तते ? नाद्यः, द्व्यणुकादिप्रथिमानुपपत्तेः ।
संयोगस्य स्वाश्रयव्यापकत्वात् ।
द्वयोः परमाण्वोरेक- रूपत्वप्राप्त्या अंशतः संयोगासम्भवात्परमाणुतैव स्यान्न द्व्यणुकता ।
नापि द्वितीयः, निरवयवयोः परमाण्वोरव्याप्यवृत्तिसंयोगो न सम्भवति, निरवयवत्वेन देशकालविभागाभावात् ।
नन्वीश्वरेच्छावशान्निरवयवयोरपि परमाण्वोः संयोगः सम्भवतीति चेन्न, ईश्वरः किं स्वतन्त्रो वा परतन्त्रो वा ? स्वतन्त्रत्वे जीवादृष्टपरमाणुसंयोगयोर्निरपेक्षत्वात् ।
तदपेक्षायां तदधीनत्वात्स्वातन्त्र्यभङ्गप्रसङ्गः ।
अन्यनिरपेक्षया कर्तृत्वमेव हि स्वातन्त्र्यम् ।
अत एवोक्तं भगवता पाणिनिना “स्वतन्त्रः कर्ते"ति ।
अस्वतन्त्रश्चेत्परतन्त्रत्वादनीश्वरत्वप्रसङ्गो नियतपदार्थाधीनकुम्भकारवदिति ।
अदृष्टस्यापि परमाणुसंयोगं प्रति न कारणत्वं तस्यापि जडत्वात् ।
ईश्वरेच्छया कारणत्वं सम्भवतीति चेत्तदसङ्गतमिति पूर्वमेव प्रदर्शितत्वात् ।
[[२५७]]
यदि जडेनैव स्वातन्त्र्येण कार्योत्पत्तिस्तर्हि मृत्पिण्डोऽपि कुम्भकारमन्त्ररेण घटमुत्पादयेत् ।
ननु निर्जनेऽरण्यादौ चेतनव्यापारमन्तरेण बीजादङ्कुरोत्पत्तिर्दृश्यते, तद्वदत्रापि भविष्यतीति चेन्न; तत्र बीजं वा सन्तमङ्कुरमुत्पादयत्यसन्तं वा ? नाद्यः, स्वतःसिद्धस्योत्पादनासम्भवात् ।
न द्वितीयः, तथासति पनसबीजात्सहकाराद्युत्पत्तिः स्यादित्यपि प्रसङ्गात् ।
तस्मात्तत्रापि जडेन बीजेन स्वातन्त्र्येण नाङ्कुरोत्पत्तिः, ईश्वरेच्छाया एव नियामकत्वात् ।
ननु तथैव सर्वत्र जीवादृष्टवशात्परमाणुभ्यः प्रपञ्चोत्पत्तावीश्वरेच्छैव नियामिका भवत्विति चेन्न, भवन्मते तावदीश्वरस्य नियतपदार्थाधीनकुम्भकारवदस्वतन्त्रत्वस्य जडत्वस्य च प्रदर्शितत्वात् ।
किञ्च शदेव सौम्येदमग्र आसीदेकमेवाद्वितीयम् ।
तदैक्षत बहु स्यां प्रजायेयेति, स वै नैव रेमे तस्मादेकाकी न रमते न द्वितीयमैच्छत् ।” इत्यादिश्रुतिभिः सृष्टेः प्रागीश्वरस्यैव जगत्कारणत्वकथनात्, एवकारादिभिरितरस्य पदार्थस्य निरसनद्वारानन्यमुखप्रेक्षकत्वलक्षणं स्वातन्त्र्यमेवावगम्यते ।
तस्माज्जीवादृष्टवशात्परमाणुभिर्जगदुत्पत्तिरित्ययुक्तम् ।
अन्यद्विचार्यते ।
घटादीनामुत्पत्तिर्नामाद्यक्षण- सम्बन्ध इति चेन्न, सम्बन्धस्य द्विनिष्ठत्वात् ।
आद्यक्षणे घटाभावात्तल्लक्षणमनुपपन्नमिति ।
न चाद्यक्षणे घटो वर्तत इति लक्षणमुपपन्नमिति वाच्यम्, यद्याद्यक्षणे घटो वर्तते तर्हि तदुत्पत्तिरेव न स्यात; सिद्धत्वात् ।
उत्पत्त्यनन्तरं घटः, प्राक् घटो नास्तीति भवन्मतम् ।
मृद्दण्डचक्रसलिलचीवरादिना पूर्वमविद्यमान एव घट उत्पद्यत इत्युक्तेः ।
तस्मादुत्पत्तिक्षणे घटाभावादाद्यक्षणसम्बन्ध उत्पत्तिरित्ययुक्तम् ।
किञ्च घटस्योत्पत्तिरपि भवन्मतरीत्या न सम्भवति, उत्पत्तेः सप्रतियोगिकत्वात् ।
उत्पत्तेः पूर्वं घटस्याभावान्निष्प्रतियोगिकोत्पत्तिः स्यात्, निर्विषयकोत्पत्तिः स्यादिति यावत् ।
कथमसतः सज्जायतेति श्रुतिविरोधः, नासतो विद्यते भाव इति स्मृतिविरोधश्च ।
तस्माद्घटस्य नित्यत्वमेवाङ्गीकर्तव्यम् ।
ननु तर्हि यतो वेत्यादिश्रुतिभिर्लौ-
[[२५८]]
किकानुभवेन च घटोपलक्षितप्रपञ्चस्य तावदुत्पत्तिः प्रतीयते, सा नोपपद्येत ।
तथासति ब्रह्मप्रपञ्चयोः कार्यकारणभावो न स्यात् ।
घटोपलक्षितनिखिलप्रपञ्चस्यापि नित्यत्वादिति चेन्न, श्रुतौ जायन्त इति शब्दस्तावदाविर्भावपरः, अनन्यगतिकत्वात् ।
जनी= प्रादुर्भाव इत्युक्तेरुत्पत्तिराविर्भाव इत्यवगतम्, आद्यक्षणसम्बन्धलक्षणोत्पत्तेः खण्डितत्वात् ।
आविर्भावो नाम मृद्दण्डसलिलचक्रचीवरादिना पूर्वं सूक्ष्मरूपेणोभयेन्द्रियाणामगोचरतया स्वात्मतादात्म्येन विद्यमानस्य घटस्योभयेन्द्रियगोचरं यथा भवति तथा स्थूलरूपेण व्यक्तीकरणमेवेति श्रुतिस्मृत्यनुभवबलेन च सिद्धं भवति, असत उत्पत्त्ययोगादिति श्रुतियुक्तिभ्यां निर्णीतत्वादसदुत्पत्तिपक्षस्त्वसमञ्जस एव, शशविषाणादीनामप्यसतामुत्पत्तिः स्यादित्यतिप्रसङ्गात् ।
अत एव ब्रह्मप्रपञ्चयोः कार्यकारणभावोऽपि सम्भवति, उत्पत्तिस्वरूपस्य प्रदर्शितत्वात् ।
उक्तलक्षणस्य घटस्यार्थक्रियावत्वेन यावत्सञ्जिहीर्षमेबाधितस्थैर्यं स्थितिरिति ।
एवं विनाशोऽपि न ध्वंसः, किन्तु तिरोभाव एव ।
“अदर्शनं लोप” इति स्मृतेः ।
मुद्गरप्रहारादिनोभयेन्द्रियोत्तीर्णतया सूक्ष्मरूपेणार्थक्रियाशून्यतया प्रमातृतादात्म्येनावस्थानमिति मन्तव्यम् ।
पदार्थस्वरूपस्यैव नाशे पुनस्तद्विषयिणी स्मृतिर्न स्यात् ।
स्मृतेः सविषयकत्वनियमात् ।
संस्कारस्यापि तथैवेति ।
तस्मादुत्पत्तिविनाशयोः सप्रतियोगिकत्वादाविर्भावतिरोभावपरावेताविति विमर्शनीयम् ।
तदुक्तं श्रीमद्विरूपाक्षपञ्चाशिकाशास्त्रे- “द्यावा पृथ्वी देशः कालोऽहोरात्र इति ययोः प्रसरस्ते भानतिरोधिकृतिशक्तिर्मे भाववृन्दस्येति ॥” एवं त्वदुक्तमोक्षलक्षणमपि न सम्भवति ।
तथाहि- आत्यन्तिकदुःखनिवृत्तिर्मोक्ष इति ।
तत्र विचार्यते ।
एकविंशतिविधदुःखानामत्यन्तनाशः पुनरुत्पत्तिशङ्काराहित्येन तत्स्वरूपनाशो ध्वंस इति यावत्, स एव मोक्ष इति खलु ते मतम् ।
तथाच सुखदुःखयोर्मनोजन्यज्ञानविषयत्वेन षड्विषयान्तःपतितत्वादेकविंश तिसङ्ख्यावत्वमनुपपन्नम् ।
[[२५९]]
तथापि मनसस्तावन्नित्यत्वाङ्गीकारेण तन्नाशासम्भवादनिर्मोक्षप्रसङ्गः ।
किञ्च बुद्धिसुखयोरपि नाशे पाषाणवज्जडतयात्मनोऽवस्थानप्रसङ्गः ।
इष्टापत्तौ तद्वदनित्यत्वप्रसङ्गश्च ।
ननु जडस्याप्याकाशवन्नित्यत्वं सम्भवतीति चेन्न, तस्याप्यनित्यत्वात्; “आत्मन आकाशः सम्भूतः ।
एतस्माज्जायते प्राणो मनोबुद्धीन्द्रियाणि च ।
खं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी"त्यादिश्रुतिभिरुत्पत्तेः श्रवणादित्यलमतिप्रपञ्चेन ।
तस्माद्गौतमकणादमते जडचेतनविवेकः, तद्द्वारा जीवेश्वरविभागः, तद्द्वारा बन्धमोक्षव्यस्था च न सम्भवतीति प्रदर्शितत्वादेतच्छास्त्रद्वयं जनमोहनाय प्रणीतमिति मन्तव्यम् ॥
अत एव श्रुतिस्मृतिपुराणादिषु तन्निन्दा श्रूयते ।
तथाहि- ङैषा तर्केण मतिरापनेया” इति श्रुतेः ।
“तर्काप्रतिष्ठानादि” ति व्याससूत्रम् ।
“तर्कोऽप्रतिष्ठः श्रुतयोऽपि भिन्ना महामुनीनां मतयोऽपि भिन्नाः ।
धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः” इति महाभारते यक्षं प्रति धर्मराजोक्तिः ।
“हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ।” इति याज्ञवल्क्यः ।
“आन्वीक्षिक्यां सदा सक्तं नरं श्वानं च तं विदुः ।” इति पद्मे शुकं प्रति व्यासोक्तिः ।
ङासूयकायानृजवे न वा निर्दग्धकारिणे ।
न तर्कशास्त्रदग्धाय न वाच्यं पिशुनाय चे"ति ।
“क्रूरोऽल्पविद्यो व्यसनी कृतघ्नो दम्भी पुनर्भूर्गुरुभक्तिशून्यः ।
मात्सर्ययुक्तो व्यसनी प्रसक्तो भवेत्प्रतिष्ठादिषु तार्किकश्चे"ति शैवतान्त्रिकोक्तिरिति सङ्क्षेपः ॥
इति वीरशैवानन्दचन्द्रिकायां वादकाण्डे तर्कमतनिरूपणतन्निराकरणप्रकारो नाम पञ्चदशं प्रकरणम् ॥
[[२६०]]