वीरशैवानन्दचन्द्रिकायां वादकाण्डे चतुर्दशं प्रकरणम् ॥
श्रीमद्गुरो ततः किं वा प्रक्रान्तं भृङ्गिणा वद ।
यद्दूषितं शीलवता तदपि त्वमुदीरय ॥
वदामि भूपालक भृङ्गिणा यत् प्रक्रान्तमित्थं हि मतं विविच्य ।
यद्दूषणं तत्र च शीलिनोक्तं तत्तत्समाकर्ण्य भव प्रहृष्टः ॥
अव्यक्तसञ्ज्ञा प्रकृतिर्जगत्याः कर्त्रीति पक्षः स मयोदितो यः ।
दोषैर्न्निरस्तो भवताद्यशीलिन् नाचेतनस्यास्ति हि कर्तृतेति ॥
या शक्तिराद्या त्रिपुरेत्युमेति श्रुतिप्रसिद्धा जगदम्बिकेति ।
तामेव सृष्ट्यादिमकृत्यकर्त्रीं ब्रुवन्ति येतन्मतमीरयामि ॥
[[२३६]]
तद्दूष्यते शाक्तमतं कथं वा पश्यामि युष्मत्प्रतिभाविशेषम् ।
पूर्वोक्ततत्तन्मतवच्च शीलिन् नापाततो दूषणयोग्यमेतत् ॥
यतोवेत्याद्यनेकस्मृतिनिचयप्रतिपादितजगदाविर्भावहेतुभूतं किमिति जिज्ञासमाना बहुधेशाधीनेनैवतत्वेनामनन्ति ॥
तत्राद्वितीयानिर्वाच्यशक्तिभाजामेव तेषां स्रष्टृत्वादिकं घटते नान्येषामिति बहुधा श्रुत्यागमादिप्रतिपाद्या परमेश्वर्येव निखिलजगद्धेतुत्वेन प्रतिपाद्यते ।
तथाहि- श्रीनवार्णोपनिषदि श्रूयते- शर्वे वै देवा देवीमुपतस्थुः ।
काऽसित्वं महादेवीति ।
साऽब्रवीदहं ब्रह्मस्वरूपिणी ।
मत्तःप्रकृतिपुरुषात्मकं जगच्छून्यं चाशून्यं चाहमहमात्माहमखिलं जग"दित्यादिना परब्रह्मरूपत्वस्य कार्यभूतप्रपञ्चप्रविष्टपरमेश्वर्युत्पादकत्वस्यापि श्रवणात् ।
न च प्रकृत्यवच्छिन्नः परमेश्वर एव जगत्कर्ता, न केवला परा शक्तिरेवेति वाच्यं, “मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वर” मिति प्रकृत्यवच्छिन्नेश्वरस्यापि जनकत्वं श्रुत्या प्रत्यपादीति तदनुपपत्तेरभावात् ।
किञ्च मार्कण्डेयपुराणे सप्तशत्याम्-
सा चाह धूम्रजटिलमीशानमपराजिता ।
दूत त्वं गच्छ भगवन् पार्श्वे शुम्भनिशुम्भयोः ॥
ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ ।
त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः ॥
इत्याद्यारभ्य-
यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ।
शिवदूतीति लोकेऽस्मिन् ततः सा ख्यातिमागता ॥
इत्यादिना शिवस्य भगवतीदूतत्वप्रतिपादनाच्च ।
किञ्च तत एव
[[२३७]]
देव्या “एकैवाहं जगत्यत्र द्वितीया का ममापरे” ति स्वस्या अद्वितीयत्व प्रतिपादनाच्च ।
न च द्वितीया का ममापरेत्यनेन स्त्रीलिङ्गापराशब्देन स्वभिन्नशक्तेरेवाभावः प्रतीयते न शिवादिपुरुषव्यक्तेरिति वाच्यम्, ङपुंसकं पुमान् स्त्र्यस्मि स्थावरोऽस्म्यथ जङ्गम" इति श्रुत्या स्त्रीत्वपुंस्त्वाद्यविच्छिन्नवस्तुजातस्य स्वानतिरेकप्रतिपादनात् ।
न च नारायणोपनिषदादौ तस्य सर्वगत्वं प्रतीयत इति तद्विरोध इति वाच्यम्, “या ब्रह्मादिपिपीलिकान्तजननी"त्यादिना सर्वान्तर्गतविष्णुमातृत्वस्यापि श्रवणात् ।
“या देवी सर्वभूतेषु मातृरूपेण संस्थिते"ति वचनाच्च ।
अपिच “विसृष्टौ सृष्टि रूपा त्वं स्थितिरूपा च पालने ।
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मयी” ति ब्रह्मणैव देव्या सृष्टिस्थितितिरोभावादिकर्तृत्वप्रतिपादनाच्च ।
न च तद्ब्रह्म यतो विवर्तते जगदिति सामान्यतः नियन्तृत्वं किं परमवसेयमिति न नियम मिति वाच्यं, श्रूत्या पूर्वतन्त्रस्थप्रथमाध्याये नामधेयपादे “अक्ताः शर्करा” इत्यधिकरणे द्रव्यद्रव्यस्याञ्जनयोग्यतया घृततैलवसानामन्यतमेनाञ्जनमिति प्राप्ते “तेजो वै घृत” मिति वाक्यशेषेण घृतपरत्ववत्, सर्वस्यापि देवीपरत्वात् ।
किञ्च श्रुत्या कर्तृत्व- स्यान्यपरतया प्रतिपादितस्यागमः प्रमाणम्, तादृशश्रुत्यात्मकत्वञ्च देव्या एव ।
“या देवी सर्वभूतेषु श्रुतिरूपेण संस्थिते” ति प्रतिपादनात् ।
तथा च विष्णवादिकर्तृत्वस्य श्रुतिरूपया देव्यैव प्रतिपादनमर्थवादरूपमङ्गीकरणीयं, स्वतन्त्रत्वात् ।
अनुमानमप्यत्रप्रमाणम्- इदं जगद् देव्यैककर्तृजन्यं तदितराजन्यत्वे सति तज्जन्यत्वात् ।
यथा दहनेतराजन्यो धूमो दहनमात्रजन्य इत्यादि बहुविचारणीयं विस्तरभयादुपरम्यत इति पूर्वपक्षः ।
अत्रोच्यते- यत्तावदुक्तं नवार्णोपनिषद्वचनमेव शक्तेः कर्तृत्वे मानमिति तन्न, तत्रैव “मम योनिरप्स्वन्तः समुद्र” इति ।
अनेन मम योनिर्मम कारणभूतः परमेश्वरः अप्स्वन्तरुदकमध्ये वर्तत इति प्रतिपादनेन देव्या अस्वतन्त्रत्व प्रतीतेः ।
किञ्चेशानस्य देवीदूत-
[[२३८]]
त्वेऽपि शिवस्य देव्यधिष्ठातृत्वे बाधकाभावात् ।
“ईशानो जटिलः शम्भुस्तपश्यन्तमुपान्तिके ।
तं प्राह भगवान् शम्भुः पुत्र रक्ष मदालयम् ।
आनन्दकाननं नाम मम प्रेमविवर्धन” मित्यादिना, स ईशानः परमेश्वरेणैव मुक्तः सन् तत्र महालिङ्गं प्रतिष्ठाप्य तत्र तपः परमं ततापेति बहुधा ज्ञानवापीप्रशंसायां काशीखण्डेऽभिधानेनेशानाख्यागणविशेषपरत्वात् ।
न च सृष्ट्यादिकर्तृत्वं विरुद्धमिति वाच्यम् “मदधीना महाभागे मद्वीर्यपरिबृंहिता ।
सृज सर्वमिदं प्राग्वत्प्राणिजातं स्वकर्मत” इति शिवस्य वचनेनैव प्रेरिताया भगवत्याः सृष्टिहेतुत्वसम्भवात् ।
न चाधिकरणविरोधः, एवं सकलश्रुतीनां देवीपराणामन्यथात्वे सिद्धे तासामपीश्वरपरत्वे बाधकाभावात् ।
न चानुमानं प्रमाणम्, तदितराजन्यत्वस्यासिद्धत्वेनासिद्धिहेत्वाभासान्तर्गतत्वात्, शक्तिविशिष्टपरमेश्वरादेव जगदुत्पत्तिश्रवणाच्च ।
शिवस्य जगन्निर्मातृत्वे तु बहूनि प्रमाणानि सन्तीति सर्वमुपपन्नमिति सिद्धान्तः ॥
इति श्रीमद्-अनादि-निरञ्जन-जङ्गमापरावतार-
तोण्टद-सिद्धेश्वर-प्रसादासादित-
शाम्भवागमाम्बोधि-मथन-जनित-
निरुत्तरैकोत्तरशत-स्थल-भेद-भिन्न-षट्-स्थल–
तत्त्वबोध-सुधास्वादानन्द-सन्दोह-प्रदायकाचार्यवर्य-
श्रीमरितोण्टदार्य-विरचिते
यडव-मुरारि-कोटे-कोलाहलैकाङ्गि-वीर-
वैरि-सप्ताङ्ग-हरण-पश्चिम-समुद्राधीश्वर-
विशुद्ध-वैदिकाद्वैत-सिद्धान्त-प्रतिष्ठापनाचार्य-
केलदि-सदाशिव-राय-नायक-वंश-दुग्धार्णव-चन्द्र-
वीर-भद्र-धरणीन्द्र-धर्म्म-पत्नी-मल्लाम्बा-हृदयानन्द-
बसव-वसुधा-सङ्क्रन्दनोपदेशे
वीरशैवानन्द-चन्द्रिकायां वादकाण्डे शक्तिमतनिरूपणतन्निराकरणप्रकारो नाम चतुर्दशं प्रकरणम् ॥
[[२३९]]