१३

वीरशैवानन्दचन्द्रिकायां वादकाण्डे त्रयोदशं प्रकरणम् ॥

ततः किं भृङ्गिणाऽरब्धं सभायां तत्र सद्गुरो ।
किमुत्तरं तदाऽदायि तेन शीलावता वद ॥
राजन्नशेषविद्याब्धि संवर्धनकलानिधे ।
इदमाकर्णय श्रीमन् भृङ्गिशीलवतो र्वचः ॥
मीमांसकमतं श्रौतमपि युक्त्या प्रमाणतः ।
दूषितं तावता नैव भवत्पक्षव्यवस्थितिः ॥
मतमन्यत्प्रवक्ष्यामि स्मृत्यर्थाश्रयसङ्गतम् ।
अव्यक्तकर्तृतावादि शृणु शीलवदग्रग ॥
इति भृङ्गीवरारब्धं सभायां कापिलं मतम् ।
दूषणं शीलवत्प्रोक्तं वदामि सकलं क्रमात् ॥

कापिलाः पुनरेवमुपवर्णयन्ति-

अव्यक्तं बुद्धिरहङ्कारो रूपरसगन्धस्पर्शशब्दाख्यानि पञ्चतन्मात्राणि चेति प्रकृतयः ।
घटपटादिवन्नव्यज्यत इत्यव्यक्तमिति व्युत्पत्या “अनादि मध्यं महतः परं ध्रुवं प्रधानमेतत्प्रवदन्ति सूरयः” ।

[[२२१]]

किञ्च शूक्ष्मं लिङ्गमचेतनमनादिनिधनं तथा प्रसवधर्मि ।
निरवयवमेकमेव हि साधारणमेतदव्यक्त" मिति ।
एतदेवाव्यक्तं प्रधानं ब्रह्मबहुधानकमक्षरं क्षेत्रं तमः प्रसूनमिति पर्यायशब्दैरभिधीयते ।
बुद्धिस्त्वेवमेवमेतन्नान्यथा गौरेवायं नाश्वः, स्थाणुरेवायं न पुरुष इत्यध्यवसायात्मिका ।
अध्यवसायात्तु गवादिषु प्रवत्तिः ।
अस्या बुद्धेर्धर्मो ज्ञानं वैराग्यमैश्वर्यमिति सात्विकानि चत्वारि रूपाणि; अधर्मोऽज्ञानमवैराग्यमनैश्वर्यमिति तामसानि चत्वारि रूपाणीत्येवमष्टौ रूपाणि ।
श्रुतिस्मृतिशिष्टाचाराविरुद्धः शुभलक्षणोऽधर्मविपर्ययो धर्मः ।
तत्वभावभूतानां सम्यग्बोधः शब्दादिविषयेषु प्रसक्तिरज्ञान विपर्ययो ज्ञानम् ।
वैराग्यं रागविपर्ययः ।
अणिमाद्यष्टगुणा अनैश्वर्य विपर्यय ऐश्वर्यम् ।
श्रुतिस्मृतिशिष्टाचारविरुद्धोऽशुभलक्षणो धर्म विपर्ययोऽधर्मः ।
तत्वभावभूतानामनवबोधो ज्ञानविपर्ययोऽज्ञानम् ।
शब्दादिषु विषयेष्वभिषङ्गो वैराग्यविपर्ययोऽवैराग्यम् ।
अणिमादिराहित्यमैश्वर्यविपर्ययोऽनैश्वर्यम् ।
धर्मज्ञानवैराग्यैश्वर्यनिमित्तैः क्रमेणोर्ध्वगमनं मोक्षप्रवृत्तिविलयोऽप्रतिहतगतिश्च, अधर्मादिभिरधोगतिश्च फलानि भवन्ति ।
एवं बुद्धेरष्टौ रूपाणि मनो मतिर्बुद्धिः ख्यातिः प्रज्ञा धृतिः प्रज्ञानमिति पर्यायशब्दैर्व्यवह्रियन्ते ।
अहमाकर्णयेऽहं रूपयेऽहं रसयेऽहं जिघ्राम्यहं स्पृशाम्यसौ मया हत इत्येवमाद्यभिमानोऽहङ्कार इत्युच्यते ।
अवैकारिकस्तैजसो भूतादिरिति पर्यायशब्दैरहङ्कार एवाभिधीयते ।
शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति तन्मात्राणि ।
तत्र शब्दतन्मात्राच्छब्दसामान्योपलब्धिः ।
नतूदात्तानुदात्तस्वरितकम्पितषड्जर्षभगान्धारादिशब्दविशेषोपलब्धि ः ।
तथा स्पर्शतन्मात्रस्पर्शसामान्योपलब्धिः, नतु मृदुकठिनशीतोष्णादिस्पर्शविशेषोपलब्धिः ।
तथा रूपतन्मात्राद्रूपसामान्योपलम्भः, नतु शुक्लकृष्णहरितपीतादिरूपविशेषोपलम्भः ।
तथा रसतन्मात्राद्रससामान्योपलम्भः, नतु कटुतिक्तादिरसविशेषोपलम्भः ।
गन्धतन्मात्राद्गन्धसामान्यप्रतिपत्तिः,

[[२२२]]

नतु सुरभित्वासुरभित्वरूपगन्धविशेषप्रतिपत्तिः ।
तन्मात्राणि विशेषाणि महाभूतप्रकृतयः भोग्यान्यणव इति पर्यायशब्दर्व्यवह्रियन्ते ।
एवमव्यक्तबुध्यहङ्कारतन्मात्रसञ्ज्ञिता अष्टौ प्रकृतय उपपादिताः ॥
अथ श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं वाक्पाणिपादपायूपस्थं मनश्चेत्येकादशेन्द्रियाणि ।
पृथिव्यप्तेजोवाय्वाकाशाख्यानि महाभूतानि चेति षोडशविकाराः ।
शब्दस्पर्शरूपरसगन्धाः श्रोत्रादीनां पञ्चानामिन्द्रियाणां विषयाः ।
वचनादानगमनविसर्गानन्दा वागादीनां कर्मेन्द्रियाणां पञ्चानां विषयाः ।
मनसस्सङ्कल्पविकल्पादयो विषयाः ।
इन्द्रियाणि करणानि वैकारिकाणि खानि नियतानि पदानि आरयः अक्षाणीति पर्यायशब्दैर्व्यवह्रियन्ते ।
धारणभावेन प्रवर्तमाना स्वेतरभूतचतुष्टयोपकारिणी शब्दस्पर्शरूपरसगन्धाख्यपञ्चगुणयुक्ता पृथिवी; सङ्गहभावेन प्रवर्तमानाः स्वेतरभूतचतुष्टयोपकारिण्यः शब्दस्पर्शरूपरसाख्यचतुर्गुणयुक्ता आपः; पाचकभावेन प्रवर्तमानं स्वान्यभूतचतुष्टयोपकारकं शब्दस्पर्शरूपरसाख्यगुणत्रययुक्तं तेजः; वाहकभावेन प्रवर्तमानः स्वातिरिक्तभूतचतुष्टयोपकारकः शब्दस्पर्शवान्वायुः; अवकाशदानेन प्रवर्तमानः स्वातिरिक्तभूतचतुष्टयोपकर्ता शब्दैकगुणवानाकाशः ।
भूतानि विशेषा विकारा आकृतयस्तनवो विग्रहाः शान्ता घोरा मूढा इति पर्यायशब्दैर्व्यवह्रियन्ते ।
इत्येवं षोडश विकाराः ।
अनादिः सूक्ष्मः सर्वगतः चेतनो निर्गुणो नित्यो द्रष्टा भोक्ता कर्ता क्षेत्रविदमलोऽप्रसवधर्मा च पुरातनत्वात्पुरिशयनात्पुरोहितवृत्तित्वाच्च पुरुष इत्युच्यते ।
आदिमध्यान्तशून्यत्वादनादिः ।
निरवयवत्वादतीन्द्रियत्वाच्च सूक्ष्मः ।
सर्वं प्राप्तमनेन, अस्य गम्यं नास्तीत्यतश्च सर्वगतः ।
सुखदुःखमोहोपलब्धिमत्वाच्चेतनः ।
सत्वरजस्तमांस्यस्मिन्न सन्तीत्यतो निर्गुणः ।
अकृतकत्वादनुत्पाद्यत्वाच्चनित्यः ।
प्रकृतिविकारानुपलभत इति द्रष्टा ।
चेतनभावात्सुखदुःख विज्ञानाच्च भोक्ता ।
उदासीनत्वादगुणत्वाच्चाकर्ता ।
क्षेत्रं स्वगुणगतं वेत्तीति क्षेत्रेभ्यो गुणगतं वेत्तीति वा क्षेत्रवित् ।
शुभाशुभकर्मास्य

[[२२३]]

नास्तीत्यमलः ।
निर्बीजत्वान्न किञ्चिदुत्पादयतीत्यप्रसवधर्मा ।
एवमेषः साङ्ख्यपुरुष आत्मा पुमान् बहुलो जन्तुर्जीवः क्षेत्रज्ञो नरः कविर्ब्रह्माक्षरः प्राणोऽज इत्यादिपर्यायशब्दैर्व्यह्रियते ।
एवमष्टौ प्रकृतयः षोडशविकाराः पुरुषश्चेति पञ्चविंशतितत्वानि ।
तथाचोक्तं साम्प्रदायिकैः-

मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥
इति ॥
पञ्चविंशतितत्वज्ञो यत्रकुत्राश्रमे रतः ।
मुण्डी जटी शिखी वापि मुच्यते नात्र संशयः ॥
इति च ॥

एतस्य पुरुषस्य यदि कर्तृत्वं तदा शुभान्येव कुर्यात्, नाशुभानि कर्माणि ।
नास्मिन्वृत्तित्रयं दृश्यते, किन्तु प्रकृतिगुणानामेव सत्वरजस्तमसां चराचरकर्तृत्वं सिद्धम् ॥
तदाहुः सम्प्रदायविदः-

धर्माख्यं साहित्यं यमनियमनिषेवणं प्रसङ्ख्यानम् ।
ज्ञानैश्वर्यविरागाः प्रकाशनं सात्विकी वृत्तिः ॥
रागः क्रोधो लोभः परपरिवादोऽतिरौद्रतातुष्टिः ।
विकृताकृतिपारुष्यं प्रख्यातैषा रजो वृत्तिः ॥
उन्मादमदविषादा नास्तिक्यं स्त्रीप्रसङ्गिता निद्रा ।
आलस्यं नैर्घृण्यं त्वशौचमिति तामसी वृत्तिः ॥
अतस्त्वकर्ता पुरुषः समीरितः प्रवर्तमानः प्रकृतेरिमान्गुणान् ।
रजस्तमोभ्यां विपरीतदर्शना- दहङ्करोमीत्यबुधोऽभिमन्यते ॥
इति ॥

[[२२४]]

तृणकुब्जीकरणासमर्थोऽपि सर्वञ्चेदं मयाकृतमितिवदन्नभिमानादबुद्ध उन्मत्तवद्भवति ।
भवति चात्रागमः-

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥
अनादित्वान्निर्गुणत्वात् परमात्मायमव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥
इति ॥

सुखदुःखमोहसङ्करविशुद्धिकरणनियमजन्ममरणानां नानात्वाल्लोकाश्रमवर्णभेदाच्च बहवः पुरुषाः ।
यद्येकः पुरुषः स्यादेकस्मिन् सुखिनि सर्वे सुखिनः स्युः, एकस्मिन् दुःखिनि सर्वे दुःखिनः स्युः, एकस्मिन् मूढे सर्वे मूढाः स्युः, एकस्मिन् सङ्कीर्णे सर्वे सङ्कीर्णाः स्युः, एकस्मिन् शुद्धे सर्वे शुद्धाः स्युः, एकस्य करणापाटवे सर्वेषां करणापाटवं स्यात्, एकस्मिन् जाते सर्वे जायेरन्, एकस्मिन्मृते सर्वे म्रियेरन्, नास्ति चैवम् ।
अत आकृतिगर्भाशयभावसगतिशरीरविभागलिङ्गबहुत्वाच्च पुरुषा बहव इति साङ्ख्याचार्याः कपिलहरिहरहिरण्यगर्भपञ्चशिखपतञ्जलिप्रभृतयो वर्णयन्ति ॥
त्रिगुणा एव त्रैगुण्यमिति व्युत्पत्त्या सत्वरजस्तमांस्येव त्रैगुणयमित्युच्यते ।
तत्र प्रसादलाघवाभिसम्प्रीतितुष्टितितिक्षासन्तोषादिलक्षणमनन्तभेदं समासतः सुखात्मकं सत्वम् ।
शोकतापस्वेदस्तम्भोद्वेगरोषद्वेषादि लक्षणमनन्तभेदं सङ्क्षेपणदुःखात्मकं रजः ।
छादनावरणबीभत्सदैन्यगौरवालस्यनिद्राप्रमादादिलक्षणमनन्तभेद।
म् सङ्ग्रहेण मोहात्मकं तमः ।
तत्र सम्प्रदायविद आहुः-

सत्वं प्रकाशकं विद्याद्रजो विद्यात्प्रवर्तकम् ।
विनाशकं तमो विद्यात् त्रैगुण्यं नामसञ्ज्ञितम् ॥
इति ॥

[[२२५]]

अव्यक्तान्महतः परेण पुरुषेणाधिष्ठिता बुद्धिः, अष्टगुणाया बुद्धेरहङ्कारः स्यात्, वैकारिकतैजसभूतादिलक्षणभेदेन त्रिविधादहङ्कारात्क्रमेण वैकारिकादिन्द्रियाणां, भूतादेस्तन्मात्राणां, तैजसादिन्द्रियाणां तन्मात्राणां क्रमेणोत्पत्तिः सञ्चर इत्युच्यते ।
अथ भूतानां तन्मात्रेषु, तन्मात्राणां चेन्द्रियाणां चाहङ्कारे, अहङ्कारस्य च बुद्धौ, बुद्धेश्चाव्यक्ततत्वे कुतश्चिदनुत्पन्ने, आप्रलयनिलयः प्रतिसञ्चर उच्यते ।
बुद्धिरध्यात्मं बोद्धव्यमधिभृतं ब्रह्मा तत्राधिदैवतम् ।
अहङ्कारोऽध्यात्ममभिमन्तव्यमधिभूतं रुद्रस्तत्राधिदैवतम् ।
श्रोत्रमध्यात्मं श्रोतव्यमधिभूतमाकाशस्तत्राधिदैवतम् ।
एवं त्वक्स्पर्शयितव्यवायवः, चक्षुर्दर्शयितव्यसूर्याः, जिह्वारसयितव्यवरुणाः, नासाघ्रातव्यपृथिव्यः, वाग्वक्तव्याग्नयः, पाण्यादातव्येन्द्राः, पादगन्तव्यविष्णवः, पायुत्स्रष्टव्यमित्राः, उपस्थानन्दयितव्यप्रजापतयः, बुद्धेरहङ्कारस्य ज्ञानेन्द्रियकर्मेन्द्रियान्तःकरणभेदेन त्रिविधस्य करणजातस्य चाध्यात्माधिभूताधिदैवतानि ज्ञेयानि ।
तथाहुः-

तत्वानि यो वेदयते यथाव- द्गुणस्वरूपाण्यधिदैवतञ्च ।
विमुक्तपापो गतदोषसङ्गो गुणांस्तु भुङ्क्ते न गुणैः स भुज्यते ॥
इति ॥

अभिबुद्धिर्बुद्धिक्रियाभिमान इच्छा कर्तव्यता क्रियेति पञ्चाभिबुद्धयः ।
अभि मुखीबुद्धिरभिबुद्धिः इदं कर्तव्यमित्यध्यवसायो बुद्धिक्रियाः; करोमीत्यहङ्कारक्रियाभिमानः, इच्छा वाञ्छा, सङ्कल्पो मनसो बुद्धेः क्रिया, शब्दादिविषयालोचनश्रवणादिलक्षणाकर्तव्यता बुद्धीन्द्रियाणां क्रिया, वचनादिलक्षणा कर्मेन्द्रियाणां क्रिया ।
एवमेताः पञ्चाभिबुद्धयः ॥
धृतिः श्रद्धा सुखाविदिषा विविदिषेति पञ्च कर्मयोनयः ।
ताश्च-

[[२२६]]

वाचि कर्मणि सङ्कल्पे प्रतिष्ठां याभिरक्षति ।
तन्निष्ठा तत्प्रतिष्ठा च धृतेरेतद्धि लक्षणम् ॥
अनसूया ब्रह्मचर्यं यजनं याजनं तपः ।
दानं प्रतिग्रहो होमः श्रद्धाया लक्षणं स्मृतम् ॥
सुखार्थी यस्तु सेवेत विद्याकर्मतपांसि च ।
प्रायश्चित्तपरो नित्यं सुखेयं परिकीर्तिता ॥

विषधूममूर्छितवदविदिषा ।
विविदिषा च ध्यायिनां प्रज्ञायोनिः ।
तदाहुः-

एकत्वञ्च पृथक्त्वञ्च नित्यञ्चेदमचेतनम् ।
सूक्ष्मसत्कार्यसङ्क्षोभ्यं ज्ञेया विविदिषा हि सा ॥
इति ॥

कार्यकारणक्षयकरी विविदिषा प्राकृतिकी वृत्तिः ।
धृतिः श्रद्धा सुखाविदिषा च चतस्रो बन्धाय, विविदिषा मोक्षायेति कर्मयोनयः ॥

प्राणोऽपानः समानश्चोदानाख्यो व्यान एव च ।
इत्येते वायवः पञ्च शरीरेषु शरीरिणाम् ॥

मुखनासिकयोरधिष्ठाता वायुः प्राणनात्प्रक्रमणाच्च प्राणः, अपनयनादधोगमनाच्च नाभेरधिष्ठाता वायुरपानः, समानयनात्सममननाच्च हृदधिष्ठाता वायुः समानः, ऊर्ध्वगमनादुत्क्रमणाच्च कण्ठाधिष्ठाता वायुरुदानः, विक्षेपणाद्विजृम्भणाच्च सन्ध्यधिष्ठाता वायुर्व्यानः ।
ते पञ्च वायवः ॥
वैकारिकस्तैजसो भूतादिः सानुमानो निरनुमानश्चेति पञ्चकर्मात्मानः शुभकर्मकर्ता, अशुभकर्मकर्ता, मूढकर्मकर्ता, शुभमूढकर्मकर्ता, अशुभमूढकर्मकर्ता चेति क्रमेण वेदितव्यम् ।
तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्रश्चेति पञ्चपर्वाविद्या ।
तमो नामाष्टसु प्रकृतिष्वव्यक्तबुध्यहङ्कारपञ्चतन्मात्रसञ्ज्ञितास्वनात्म-

[[२२७]]

स्वात्मज्ञानाभिमानस्ततोऽष्टधाणिमाद्यष्टगुणैश्वर्यप्राप्तयेऽभिमानो ऽष्टधामोहः ।
दृष्टानुश्रविकेषु दशसु विषयेषु निवृत्तेषु मुक्तोऽहमित्यभिमानो दशधा महामोहः ।
अणिमाद्यष्टैश्वर्यदशविधविषयशब्दादिप्रतिहतस्य दुःखोदयोऽष्टादशधा तामिस्र इत्युच्यते ॥
अष्टैश्वर्येषु विषयेषु च सिद्धे मरणकाले विषादोऽष्टादशधान्धतामिस्र इत्युच्यते ।
एवमेषा पञ्चपर्वाविद्या चतुष्षष्टिधा भवति ।
एकादशेन्द्रियवधाः सप्तदशबुद्धिवधाः ।
सैषाष्टाविंशतिधा शक्तिः ।
यथा- श्रोत्रे बाधिर्य्यम्, जिह्वायां जाड्यं, त्वचि कुष्ठम्, चक्षुष्यान्ध्यम, नासिकायामघ्राणता, वाचि मूकत्वम्, पादयोः पङ्गुत्वम्, हस्तयोः कुणित्वम्, पायावुदावर्तत्वम्, उपस्थे क्लैब्यम्, मनस्युन्मादः ।
अथ सप्तदशबुद्धिवधाः- तास्तुष्टिविपर्ययाः ।
यथा-नास्ति प्रधानमिति प्रतिपत्तिरनन्ता, एवमहमज्ञ इत्यज्ञानतामसलीला, तथाहङ्कारस्यादर्शनमारोप्येणैव सन्ति पञ्चतन्मात्राणि भूतकारणानीत्यदृष्टिः, शर्वं खल्विदं ब्रह्मे"ति वेदान्तोक्तविषयाणां प्रवृत्तिरनुत्तरा, रक्षणेतु प्रवृत्तिः सुपारा, क्षये दोषमपश्यतो धने प्रवृत्तिरनुनेत्रा, भोगशक्तिः समारित्वका, हिंसादिदोषमपश्यतो भोगारम्भोऽनुत्तमाम्भसिका ॥
अथाष्टधा सिद्धिविपर्ययाः- नानात्वमोहमानसैकत्वमाविर्भूतमतारमुच्यते; शब्दमात्रश्रवणाद्विपरीतग्रहणमसुतारम्, यथा नानात्वज्ञो मुक्त इति; श्रुत्वा विपरीतप्रतिपन्नो नानात्वज्ञोह्यमुक्त इत्यध्ययनश्रवणाभिज्ञानिविष्टस्यापि जडत्वादसच्छास्त्रोपहतत्वाद्वा पञ्चविंशतितत्वज्ञानसिद्धिर्न भवति तदज्ञानमतारतारम् ।
कस्यचिदाध्यात्मिकेन दुःखेनाभिभूतस्यापि संसारेऽनुद्वेगादजिज्ञासोर्न ज्ञानसिद्धिः ।
तदज्ञानमप्रमाणम् ।
एवं प्रमुदितम् आमोदमानं चानयोर्द्रष्टव्यम् ।
सुहृदुपदिष्टेऽप्यनिश्चयबुद्धिरज्ञानमरम्यकमसम्यग्वचनमपि ।
पराङ्मुखैः गुरौ दुर्भगस्य न ज्ञानसिद्धिः, तदज्ञानमसदाप्रमुदितम् ।
एवमेताः सिद्धिविपर्यया असिद्धयोऽष्टौ विज्ञेयाः ।
तथा चतुष्षष्टिसिद्धिविपर्यायाः सप्तदशबुद्धिवधा एकाद-

[[२२८]]

शेन्द्रियवधाश्चेत्यशक्तिरष्टाविंशतिधा वर्णिता ।
अथ नवधा तुष्टिः- प्रकृतिं परमार्थत्वेन प्रतिपद्य परितुष्टो माध्यस्थ्यं लभते ।
तस्यास्तुष्टेरम्भ इति तान्त्रीकी सञ्ज्ञा सम्भवति ।
अपरो बुद्धिं परमार्थत्वेन प्रतिपद्य परितुष्टः, तस्यास्तुष्टेः सलिलमिति सञ्ज्ञा ।
अन्योऽहङ्कारं परमार्थत्वेनाभ्युपगम्य परितुष्टः, तस्यास्तुष्टेराप इति सञ्ज्ञा ।
इतरस्तन्मात्राणि भोग्यानि परमार्थत्वेन निश्चित्य परितुष्टः, तस्यास्तुष्टेर्वृष्टिरिति सञ्ज्ञा ।
एवमाध्यात्मिकाश्चतस्रस्तुष्टयः ।
एतासु चतुर्ष्वपि नास्ति मोक्षः, तत्वज्ञानस्याभावात् ।
बाह्यास्त्वर्जन्नरक्षणक्षयसङ्गहिंसादोषदर्शनाद्विषयोपभोगाः पञ्च तुष्टयो भवन्ति ।
अर्थानामार्जनदोषदर्शनात्प्रव्रजितस्तुष्टः ।
तस्य न मोक्षः, तत्वज्ञानाभावात्; सा पञ्चमी तुष्टिः सुतेत्यभिधीयते ।
अन्योऽर्थानां रक्षणदोषदर्शनात्प्रव्रजितस्तुष्टः ।
तस्यापि न मोक्षः, तत्वज्ञानाभावात्; सा षष्ठी तुष्टिः सुपरेत्यभिधीयते ।
अन्योऽर्थानां क्षयदोषदर्शनात्प्रव्रजितस्तुष्टः ।
तस्यापि न मोक्षः, तत्वज्ञानाभावात्; सा सप्तमी तुष्टिः सुनेत्रेत्यभिधीयते ।
अन्योऽर्थानां सङ्गदोषदर्शनान्निवृत्तस्तुष्टः ।
तस्यापि न मोक्षः, तत्वज्ञानाभावात्; साष्टमी तुष्टिः कुमारीचक्रकेत्यभिधीयते ।
अन्योऽर्थभूतानामर्थनिमित्तहिंसादिदोषदर्शनान्निवृत्तस्तुष्टः ।
प्रव्रजितस्यापि तस्य न मोक्षः, तत्वज्ञानाभावात्, सा नवमी तुष्टिरुत्तमाम्भसिकेत्यभिधीयते ।
इति नवतुष्टयः ॥
अथाष्टसिद्धयः- तत्वभावभूतेषु यच्छब्दमात्रस्य श्रवणं सा प्रथमा तारा ।
तत्वभावभूतेषु यदर्थस्याग्रहणं सा द्वितीया सुतारा ।
यदाध्यात्मिकस्य दुःखस्यापनोदं कृत्वा तत्वभावभूतेषु ज्ञानमुत्पद्यते सा च तृतीया सिद्धिस्तारतारेत्युच्यते ।
यदध्ययनेन ज्ञानमुत्पद्यते तत्वभावभूतेषु सा चतुर्थी सिद्धिः प्रमोद इत्युच्यते ।
यदाधिभौतिकस्य दुःखस्यापनोदं कृत्वा ज्ञानमुत्पद्यते तत्वभावभूतेषु सा पञ्चमी सिद्धिः प्रमुदितेत्युच्यते ।
यदाधिदैविकस्य दुःखस्यापनोदं कृत्वा ज्ञानमुत्पद्यते तत्वभावभूतेषु सा षष्ठी सिद्धिः प्रमोदमानेत्युच्यते ।

[[२२९]]

यत्स्निग्धसंसर्गव्यपायात् ज्ञानमुत्पद्यते तत्वभावभूतेषु सा सप्तमी रम्यकेत्यभिधीयते ।
यत् परिचर्यया दानेन च परितोषिताद्गुरोर्ज्ञानमुत्पद्यते तत्वभावभूतेषु साष्टमी सिद्धिः सदाप्रमुदितेत्युच्यते ।
एवमेता अष्टसिद्धयः ॥
अथ दशमूलकार्थाः-

अस्तित्वमेकत्वमपायवत्वम् पारार्थ्यमन्यत्वमकर्तृता च ।
योगे वियोगे बहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्तिः ॥

अस्यार्थः- सङ्घातपरार्थत्वात् पुरुषाणामस्तित्वं सिद्धम् ।
कृतकृत्याया इव नर्तक्यास्तस्या निवृत्तिरित्यपायवत्वं सिद्धम् ।
भेदानां परिणामात्कारणमस्य व्यक्तमित्यार्थत्वेन प्रधानस्यास्तित्वं सिद्धम् ।
हेतुमदनित्यमित्येकत्वं सिद्धम् ।
नानाविधैरुपायैरिति परार्थत्वं सिद्धम् ।
त्रिगुणमविवेकिविषय इत्यन्यत्वं सिद्धम् ।
तस्माच्च विपर्यासादित्यकर्तृत्वं सिद्धम् ।
पुरुषस्य दर्शनार्थं कैवाल्यार्थं तथा प्रधानस्येति योगसिद्धिः ।
प्राप्ते शरीरभेदे चरितार्थत्वादिति वियोगसिद्धिः ।
जननमरणकरणानामित्यादिना पुरुषबहुत्वं सिद्धम् ॥
अथानुग्रहसर्गः- बाह्यान्पञ्चभ्यस्तन्मात्रेभ्यश्चोत्पाद्य, अनुग्रहसर्गध्यानोत्पत्युचितान् पुत्रान् दृष्ट्वा, तेभ्यस्तन्मात्रेभ्योऽनुग्रहसर्गमसृजद्ब्रह्मा ।
अथ चतुर्विधो भूतसर्गः- तत्राष्ट विकल्पाः- पैशाचं राक्षसं याक्षं गान्धर्वमैन्द्रं प्राजापत्यं सौम्यं ब्राह्ममिति ।
पञ्च तिर्यग्योनिसर्गः- पशुपक्षिमृगसरीसृपस्थावराः ।
महिष्यादिमूषिकान्ताः पशवः; गरुडादिमशकान्ताः पक्षिणः; सिंहादिसृगालान्ता मृगाः; शेषाद्यलगर्दान्ताः सरीसृपाः; पर्वतादितृणान्ताः स्थावराः; मानुष्यं चैकविधं ब्राह्मणादिचाण्डालान्तमिति भौतिकसृष्टिः ।
एतत्संसारमण्डलम् ॥

[[२३०]]

अथ त्रिविधो बन्धः- प्रकृतिबन्धो वैकारिकबन्धो दक्षिणाबन्धश्चेति ।
तत्राष्टधा प्रकृतिः ।
परत्वेनाभिमन्यमानस्य प्रकृतयः प्रकृतिबन्ध उच्यते ।
प्रव्रजितानां लौकिकानां वैकारिकेन्द्रियैर्वशीकृतानां शब्दादिषु विषयेषु प्रवृत्तानामजितेन्द्रियाणामज्ञानिनां काममोहितानां वैकारिको बन्ध इत्युच्यते ।
गृहस्थब्रह्मचारिभिक्षुवैखानसानां कामोपहतचेतसामभिमानपूर्वकारिणां दक्षिणां प्रयच्छतां दक्षिणाबन्ध इत्युच्यते ।
उक्तञ्च-

प्राकृतेन च बन्धेन तथा वैकारिकेण च ।
दक्षिणाभिस्तृतीयेन बद्धो जन्तुर्विवर्तते ॥

अथ त्रिविधो मोक्षः- ज्ञानोद्रेकादिन्द्रियवागुरोपशमात् कृत्स्नवासनाक्षयाच्च त्रिविधो मोक्षः ।
उक्तञ्च-

आद्यो विमोक्षो ज्ञानेन द्वितीयो रागसङ्क्षयात् ।
कृत्स्नक्षयात्तृतीयस्तु व्याख्यातं मोक्षलक्षणम् ॥

अथ त्रिविधं प्रमाणम्-दृष्टमनुमानमाप्तवचनञ्च ।
यावदिन्द्रियाणामर्थाः प्रत्यक्षाः तद्दृष्टम् ।
मेघोदयेन वृष्टिर्बलकादिभिस्सलिलं धूमेनाग्निः साध्यते तदनुमानम् ।
इन्द्रो देवानां राजा, उत्तराः कुरवः, सौवर्णो मेरुरित्याद्याप्तवचनम् ।
उक्रञ्च-

स्वकर्मणाभियुक्तो यो रागद्वेषविवर्जितः ।
ज्ञानवान् शीलसम्पन्न आप्तो ज्ञेयश्च तादृशः ॥

अथ त्रिविधं दुःखमाध्यात्मिकमाधिभौतिकमाधिदैविकञ्चेति ।
तत्राध्यात्मिकं द्विविधम्, शारीरं मानसञ्च ।
वातपित्तश्लेष्मवैषम्याद्दुःखं शारीरं ज्वरातिसारविषूचिकादि ।
कामक्रोधलोभमोहेर्ष्यादिकं मानसं दुःखम् ।
अथाधिभूतेभ्यो भवमाधिभौतिकम् ।
मनुष्यपशुपक्षिमृगसरीसृपस्थावरेभ्यो यद्दुःखं तदाधिभौतिकम् ।
अधिदेवेभ्यो भवमाधिदैविकम् ।
यक्षराक्षसविनायक-

[[२३१]]

ग्रहावेशनिमित्तं दुःखमाधिदैविकम् ॥
एवं त्रिविधेन दुःखेनाभिभूतस्य प्रव्रजितस्य जिज्ञासोत्पद्यते ।
तया च जिज्ञासया तत्वभावभूतानां विज्ञानम् ।
ज्ञानोद्रेकादिन्द्रियरागोपशमः ।
इन्द्रियारामोपशमाच्च कृस्त्नधर्माधर्मक्षयः ।
धर्माधर्मङ्क्षयाच्च पुरुषस्य कैवल्यमिति कपिलमुनिप्रणीतः सिद्धान्तः ॥
अत्रोच्यते- शदेव सौम्येदमग्र आसीदेकमेवाद्वितीय" मित्यादिना छान्दोग्योपनिषदा निखिलप्रपञ्चपूर्वकालवृत्तित्वेन कारणत्वेन श्रूयमाणं सत्पदवाच्यं ब्रह्मैव न प्रधानम्, अचेतने प्रधाने तदैक्षतेत्यादिना श्रुतस्य वीक्षणस्योत्पत्स्न्यमानकार्यानुकूलालोचनारूपस्य चेतनधर्मस्योपपादनायोगात् ॥
नन्वचेतनस्य प्रधानस्यैव जगदाकारेण परिणामो युक्तः, न चेतनस्य ।
परिणामो हि क्षीरस्य दधिभावेनावस्थानवन्मृत्पिण्डस्य घटभाववत् पूर्वभावपरित्यागेन रूपान्तरस्वीकारः ।
तथाच निर्विकारस्य चेतनस्य परमेश्वरस्य कारणविकृतिरूपः परिणामो युक्त इति न्यायविरोधः ।
“अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां सृजमानां सरूपा” मिति श्रुत्यन्तरे लोहितशुक्लकृष्णामिति लोहितादिवर्णैरनुमेयायाः साङ्ख्यप्रकृतेरेतत्साजात्येन बहुप्रजाजनकत्वं श्रूयते ।
तदानुरूप्येणात्रापि सत्पदवाच्यस्य प्रधानस्यैव जगत्पूर्वकालवृत्तित्वेन कारणत्वम् ।
अत एव तमोराहित्येन रजस्सत्वयोर्योगात् क्रमिकं क्रियाशक्तिमत्वं ज्ञानशक्तिमत्वञ्च युज्यत इति कार्यानुकूलक्रियाज्ञानवत्वरूपं कर्तृत्वं प्रकृते सिद्धम् ॥
ततः श्रुतत्वात्पूर्वोक्तपरिणमनन्यायानुरोधाच्च प्रधानस्यैव जगत्कारणत्वं सिध्यतीति चेन्न, अनुमानमात्रसमधिगम्यत्वादीक्षतिधर्मविरोधात्, परमेश्वरादुत्पन्नायाः षट्त्रिंशत्तत्वेष्वेकत्रिंशत्स्थानीयायाः प्रकृतेरचेतनत्वमिति “चमसवदविशेषादि"ति सूत्रभाष्येषूपपादनाच्च ।
रजस्सत्वरूपेण क्रियाशक्तिज्ञानशक्तिमत्वेन कर्तृत्वमपि न युज्यते ।
गुणत्रयात्मिकाया मायायास्तमोविरहेण सत्वरजसोः सम्बन्धायोगात् ।
नच

[[२३२]]

रजस्सत्वयोरुद्रेके तमसोऽनुद्रेकाद्भेदे सति क्रियाशक्तिज्ञानशक्तिसम्बन्धः प्रधानस्य युज्यत इति वाच्यम्, सत्वरजस्तमसां त्रयाणां गुणानां साम्यावस्था प्रकृतिरित्यङ्गीकारात् ॥
यच्चोक्तं निर्विकारस्य चेतनस्य जगदाकारेण परिणामाङ्गीकारे विकारित्वापत्तिरिति तदपि न, परमेश्वरस्य नामरूपविभागानर्हज्ञानशक्तिक्रियाशक्तिपरपर्यायसूक्ष्मचिदचिच्छक्तिव् ऐशिष्ट्यं कारणत्वम्; तस्यैवपरमेश्वरस्य नामरूपविभागार्हस्थूलचिदचिच्छक्तिनामकज्ञानक्रियाशालित्वं कार्यत्वम् ।
तथा च निर्विकारस्य परिणमनायोग इति परास्तम् ।
अयमेवाद्वैतिभ्योऽस्माकं विशेषः ॥
ननु शदेव सौम्येदमग्र आसी"दित्यादावेव कारेण वस्तुनि सन्मात्रे निर्विशेषत्वमवधार्यते ।
तथा च कारणावस्थायां निर्विशेषत्वे सति कथं सूक्ष्मप्रपञ्चवैशिष्ट्यमवगम्यत इति चेन्न, सदेवेत्येवकारो न सदात्मके ब्रह्मणि विशेषव्यवच्छेदफलकः ।
किन्तु “असद्वा इदमग्र आसीत् ।
ततो वै सज्जायते"त्यादिना श्रुतस्यासत्कारणवादस्य व्यवच्छेदकः ।
अपि च सदेव सौम्येदमग्र आसीदित्यादौ न निर्विशेषत्वम् ।
आसीदिति क्रियाविशेषोऽवगम्यते, अग्रशब्देन कालविशेषोऽभिधीयते, एकमेवेत्यवधारणमहिम्ना प्रपञ्चस्य अधिष्ठात्रन्तरव्यवच्छेदेन कर्त्तन्तरं निषिध्यते, अद्वितीयपदेन जगदुपादानकारणत्वमवगम्यते ॥
कार्यात्पूर्ववर्तिन एकत्वाश्रयस्य कारणत्वप्रतिपादनौचित्यात् ।
अत एव सर्वज्ञत्वसर्वशक्तिमत्वरूपविशेषमन्तरेणाभिन्ननिमित्तोपादानत्वरूपोभ् अयकारणत्वायोगात्सर्वज्ञत्वमनन्तशक्तिमत्वञ्च सिध्यति ॥
किञ्च प्रपञ्चपूर्वकालवर्तिनोऽस्य सत्पदवाच्यस्य प्रकृत्यर्थप्रत्ययार्थरूपस्य धर्मधर्मिभावेनोभयात्मकत्वमन्तरेणैकवस्तुपरत्वं नोपपद्यते ।
प्रकृत्या प्रत्ययेन च सत्पदवाच्यस्य वस्तुद्वयप्रतिपादनपरत्वौचित्यात् ।
शक्तिः शिवश्च सच्छब्दप्रकृतिप्रत्ययोदितौ ।
चिद्ब्रह्मसामरस्येन समस्त- जगदात्मका” विति स्मरणात् ।
सूक्ष्मचिदचिदपरपर्यायज्ञानक्रियाविशिष्टं लिङ्गतत्वमेव निखिलजगदभिन्ननि-

[[२३३]]

मित्तोपादानकारणं सत्पदवाच्यमिति वस्तुस्थितिः ॥
ननु निखिलजगदालोचनारूपस्येक्षणस्याचेतने प्रधानेऽसम्भवाच्चेतनमेव जगत्कारणमित्युपपन्नम् ।
समनन्तरसन्दर्भेण “तत्तेज ऐक्षत, ता आप ऐक्षत, बहुस्यां प्रजायेये"ति श्रुतौ तेजस अपां श्रूयमाणं गौणमीक्षणमीव सत्पदेन प्रधानस्यैव गौणेक्षणसम्भवादिति चेन्न, श आत्मा तत्वमसि श्वेतकेतो” इत्युपसंहारदशायां चेतनवाचिन आत्मशब्दस्य श्रवणात् ।
तेजस्यप्सु च न गौणमीक्षणम् ।
किन्त्वभिन्ननिमित्तोपादानकारणस्य लिङ्गतत्वस्यानुवृत्तेस्तदभिप्रायेण मुख्यमेवेक्षणम् ।
तथा च चेतनकर्तृकं गौणमीक्षणमभ्युपगम्य सद्द्रूपमचेतनं जगत्कारणमित्युपपादनमयुक्तम्, ईक्षणकर्तुरुपसंहारदशायामात्मशब्देन चेतनत्वप्रतिपादनात् ॥
ननु जीव एव सत्पदवाच्यः सन् जगत्कारणमिति चेन्न, “तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्य” इति सत्पदवाच्यविषयकानुसन्धानवन्मोक्षस्योपदेशात् ।
जीवादङ्गतत्वाद्भिन्नमेव लिङ्गतत्वं जगत्कारणमिति वस्तुस्थितिः ॥
किञ्च जीवनिष्ठस्य मोक्षो न प्रधानकारणवादोऽभिमतः ।
स आत्मा तत्वमसीति सत्पदवाच्याभेदः मोक्ष इत्युपदिश्यते ।
स च लिङ्गनिष्ठायैव भाव्यः ।
अपि चैकविज्ञानेन सर्वविज्ञानं प्रतिज्ञायते ।
सत्पदवाच्यलिङ्गतत्वज्ञानात्तत्कार्यतया निखिलचेतनाचेतनवस्तुविषयकज्ञानं भवतीति “येनाश्रुतं श्रुतं भवति, अमतं मतमविज्ञातं विज्ञात” मित्यादिनाभिधीयते ।
प्रधानस्य जगत्कारणत्वे तन्नोपपद्यते ।
चेतनात्मकस्य प्रपञ्चस्य जडप्रधानकारणत्वायोगात् ।
ननु जडस्य प्रधानस्य जगत्कारणत्वे विज्ञाते जडविकारास्पदं तत्कार्यमपि सर्वं विज्ञायते, मृदि ज्ञातायां तत्कार्यघटादौ मृण्मय इति ज्ञानवदितिचेन्न, श्वप्नान्ते मे सौम्य विजानीही” त्युपक्रम्य, “यत्रैतत्पुरुषः स्वपिति नाम सता सौम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याक्षते स्वं ह्यपीतो भवती” त्यन्तेन श्रुतिवाक्येन सता सम्पन्नस्य स्वस्य तस्मिन्नपि यः प्रलयोऽभिहितः

[[२३४]]

स चाचेतने प्रधाने न सम्भवतीति चेतनं लिङ्गतत्वमेव सच्छब्दवाच्यम् ।
अत एव “पुरुषो वै रुद्रः सन्महो नमः नम” इत्यादौ लिङ्गतत्वमेवाम्नायते ।
किञ्चात्मनः आकाश इत्यादिना उपसंहारात्सत्पदवाच्यस्य जगत्कारणत्वं तथैवाम्नायते ।
तस्माज्जडप्रकृतेर्जगत्कारणत्वायोगात् सत्पदवाच्यस्य चेतनस्यैव जगत्कारणत्वमिति निर्विवादम् ॥

इति श्रीमद्-अनादि-निरञ्जन-जङ्गमापरावतार-
तोण्टद-सिद्धेश्वर-प्रसादासादित-
शाम्भवागमाम्बोधि-मथन-जनित-
निरुत्तरैकोत्तरशत-स्थल-भेद-भिन्न-षट्-स्थल–
तत्त्वबोध-सुधास्वादानन्द-सन्दोह-प्रदायकाचार्यवर्य-
श्रीमरितोण्टदार्य-विरचिते
यडव-मुरारि-कोटे-कोलाहलैकाङ्गि-वीर-
वैरि-सप्ताङ्ग-हरण-पश्चिम-समुद्राधीश्वर-
विशुद्ध-वैदिकाद्वैत-सिद्धान्त-प्रतिष्ठापनाचार्य-
केलदि-सदाशिव-राय-नायक-वंश-दुग्धार्णव-चन्द्र-
वीर-भद्र-धरणीन्द्र-धर्म्म-पत्नी-मल्लाम्बा-हृदयानन्द-
बसव-वसुधा-सङ्क्रन्दनोपदेशे
वीरशैवानन्द-चन्द्रिकायां वादकाण्डे साङ्ख्यमतनिरूपणतन्निराकरणप्रकारो नाम त्रयोदशं प्रकरणम् ॥

[[२३५]]