१२

वीरशैवानन्दचन्द्रिकायां वादकाण्डे द्वादशं प्रकरणम् ॥

अनन्तरं गुरो किं वा प्रक्रान्तं भृङ्गिणा तदा ।
किं वा शीलवता तत्र सम्यगुत्तरितं वद ॥
स्वशेमुषीनिर्जितनिर्जरेन्द्र गुरुप्रभूतप्रतिभाविशेष ।
राजन्निधेहीदमशेषमेव चित्ते तदाश्चर्यरसं विधत्ते ॥
निगमागमपद्धतेर्विरुद्धम् भवतीत्येव हि दूषितं मतं प्राक् ।
भवताऽऽर्हतसौगताभिधानम् न तवाभीष्टमनेन सिद्धिमेति ॥
अधुनामतमन्यदीरयामि श्रुतिबोध्यार्थविचारणानुकूलम् ।
अयि शीलवदग्रतस्सर त्वम् भव संश्रुत्य चिरं प्रमोदमानः ॥

[[२०८]]

इति भृङ्गिवरेण सप्रमोदम् धुरि मीमांसकसम्मतं मतं यत् ।
उपपादितमत्र दूषणं यद्रचितं शीलवता ब्रवीति तत्तत् ॥

अथातो धर्मजिज्ञासा ।
प्रमाणस्वरूपसाधनफलैर्धर्मो विचारणीयत्वेन प्रतिज्ञातः ।
तत्र प्रमाणानि चोदनार्थवादमन्त्रनामधेयानि ।
चोदनाप्रतिपाद्योऽर्थ इति धर्मलक्षणम् ।
तत्र चोदना “ज्योतिष्टोमेन स्वर्गकामो यजेते” त्येवमादिर्लिङ्गलोट्तव्यप्रत्ययात्मकः ॥
अर्थवादश्चतुर्विधः-निन्दा प्रशंसा परकृतिः पुराकल्पश्च ।
तत्र निन्दा- “जर्तिलयवाग्वा जुहुयात्, गवीधुकयवाग्वा जुहुयात्” इति वाक्य विहितस्य जर्तिलयवागूहोमस्य, “अथ खल्वाहुः- अनाहुतिर्वै जर्तिला गवीधुकाश्चे” त्यनाहुतित्ववचनम् ।
अनया निन्दया अजक्षीरहोमस्य प्राशस्त्यं प्रतिपाद्यते ॥
प्रशंसा- “वायुर्वै क्षेपिष्ठा देवता” इत्येवमादि, क्षिप्रदेवतासाध्यकं कर्म क्षिप्रमेव फलं दास्यतीति प्राशस्त्य प्रतिपादकम् ॥
पूर्वं विहितस्य वायुदेवताकयागस्य “इति ह स्माह वट्कुर्वाष्णिर्माषान्मे पचते"ति परकृतिः ।
“प्राचीनवंशकरोतीत्ये” वमादिः पुराकल्पोऽनुष्ठेयार्थस्मारकः ।
“इमामगृभ्णन् रशनामृतस्य” इत्येवमादिर्मन्त्रः ।
वाजपेयेन श्येनेनेत्येवमादिः कर्म नामधेयम् ।
एवं श्रुतिप्रमाणं चतुर्विधम् ।
स्मृतिप्रमाणं द्विविधम्-धर्मशास्त्रात्मकं प्रयोगनिर्णायकञ्च; मानवादिस्मृतिर्धर्मशास्त्रम्, शिक्षाकल्पव्या- करणादिः शब्दनिर्णायकः ।
आचारो द्विविधः- शब्दप्रयोगाचारः, अर्थप्रयोगाचारश्चेति ।
तत्र प्रथमो व्याकरणबोधायत्तः सुशब्दप्रयोगः, द्वितीयस्तु वसन्तोत्सवादिर्धर्मशास्त्रविरुद्धः ।
एवं धर्मप्रमाणानि प्रतिपादितानि ॥
तत्र प्रमाणाभासा जैनबौद्धचार्वाकागमपाञ्चरात्रपाशुपतशाक्तकौलवामादयः ॥
ननु पाञ्चरात्रपाशुपतादीनां प्रमाणत्वेन कैश्चिच्छिष्टैरङ्गीकृतत्वेन

[[२०९]]

प्रमाणाभासत्वं कथं, तद्विहिताचारस्य कैश्चिच्छिष्टैरनुष्ठीयमानत्वाच्चेति चेन्न, तेषां धर्मशास्त्रपुराणादिषु निन्दितत्वेनाप्रमाणत्वात् ।
तदुक्तं कूर्मपुराणे-

कापालं पाञ्चरात्रञ्च यामलं वाममार्हतम् ।
एवंविधानि चान्यानि मोहनार्थानि तानि तु ॥
एवं शास्त्रानुयोगेन मोहयन्तीह मानवान् ।
मायानिष्ठानि शास्त्राणि मोहायैषां भवान्तरे ॥

पराशरोपपुराणे-

पाञ्चरात्रं प्रशंसन्ति केचिद्भागवतं मुने ।
केचिच्छाक्तं प्रशंसन्ति केचिद्वामं तथैव च ॥
अन्यानि यानि शास्त्राणि विरुद्धानि महामुने ।
स्वतः प्रमाणभूतेन वेदेनाकृतकेन वै ॥
तान्येव श्रद्धया युक्ताः परिगृह्य द्विजातयः ।
आचरन्ति महापापा युगान्ते समुपस्थिते ॥

ब्रह्मवैवर्तेच-

विड्भक्षाश्चैव ये केचित्कपालकृतभूषणाः ।
शैवाः पाशुपताश्चान्ये पाञ्चरात्रास्तथापरे ॥
तथाऽन्ये च दुरात्मानः सर्वेऽप्यसुरदैवताः ।
पाशब्देन त्रयीधर्मो जगतः पालनान्मतः ॥
तं खण्डयन्ति यस्मात्ते पाखण्डास्तेन हेतुना ।

सूतसंहितायाञ्च-

पाञ्चरात्रादिमार्गाणां वेदमूलत्वमास्तिकाः ।
नहि स्वतन्त्रास्तेनैते भ्रान्तिमूलनिबन्धनाः ॥

[[२१०]]

तत्रैव स्थलान्तरे-

वामपाशुपतादीनामश्रौतानां परिग्रहः ।
पाञ्चरात्रादयश्चापि ज्ञानानुत्पत्तिकारणम् ॥

तथैव कौर्मे स्थलान्तरे-

वामपाशुपताचारास्तथा वै पाञ्चरात्रकाः ।
भविष्यन्ति कलौ तस्मिन् ब्राह्मणाः क्षत्रियास्तथा ॥
ज्ञाने कर्मण्युपरते लोके निष्क्रियतां गते ।
कीटमूषिकसर्पाश्च दर्शयिष्यन्ति मानवान् ॥

इत्येवमादीनि परस्सहस्रं वचनानि विद्यन्ते, विस्तरभयान्नेह लिख्यन्ते ।
पूर्वोत्तरमीमांसारीत्या च पाञ्चरात्रादिकमप्रमाणम् ।
तदुक्तं भट्टाचायैर्विरोधाधिकरणे “यान्येतानि त्रयीविद्भिर्न परिगृहीतानि किञ्चित्तन्मिश्रधर्मच्छायापतितानि लोकोपसङ्ग्रहपूजालाभख्यातिप्रयोजनपराणि त्रयीविपरीतानि दृष्टशोभादिफलानि प्रत्यक्षानुमानोपमानार्थापत्तिप्राययुक्तिमूलोपनिबद्धानि पाञ्चरात्रपाशुपतशाक्यनिर्गन्धादिपरिगृहीतधर्माधर्मनिबन्धनानि पुरुषचिकित्सावशीकरणोच्चाटनोन्मादनादिसमर्थकतिपयमन्त्रौषधादिका दाचित्कसिद्धिनिदर्शनबलेन अहिंसासत्यवचनशमदमदयादानादिश्रुतिस्मृतिसंवादिस्तोकार्थगन्धवासि तजीविकाप्रायार्थान्तरोपदेशीनि, यानि च बाह्यानि म्लेच्छाचारमिश्रकुभोजनाचरणनिबन्धनानि, तेषामेवैतच्छृतिहेतुदर्शनाभ्यामनपेक्षणीयत्वं प्रतिपाद्यते ।
यदि हानादरेणैषां न साध्येताप्रमाणता ।
अशक्यैवेति मत्वान्ये भवेयुः समदृष्टयः ॥
शोभासौकर्यहेतूक्तिकलिकालवशेन च ।
यच्चोक्तपशुहिंसादित्यागभ्रान्तिमवाप्नुयुः ।
त्रयीमार्गस्य सिद्धस्य ये ह्यत्यन्तविरोधिनः ।
अनिराकृत्य तान् सर्वान् धर्मशुद्धिर्न लभ्यते ॥” इति ॥
ननु श्रुतिस्मृतिविरुद्धपाञ्चरात्रादीनामप्रामाण्येऽप्यविरुद्धांशे प्रामा-

[[२११]]

ण्यमस्त्वितिचेत् ।
शिष्टाकोपेऽविरुद्धमितिचेत्” इति सूत्रार्थ आक्षेपः ।
तत्रोत्तरम् ङ शास्त्रपरिमाणत्वा"दिति ।
शास्त्रस्य परिमितत्वादित्यर्थः ॥
तथाहि- “अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश ॥” इति शास्त्रस्य परिमितत्वप्रतिपादनात् ॥
नहि येनकेनचित्प्रमितो धर्मः फलं दास्यति, किन्तु वेदतन्मूलस्मृतितदुपबृंहणपुराणतदङ्गप्रमितो धर्मः ।
तस्मात् शमदमादिकं श्रुतिस्मृत्यविरुद्धं तत्र स्थितमपि शुनक भस्त्रिकाक्षिप्तक्षीरवदनुपभोग्यमविस्रम्भणीयञ्च ।
अहिंसासत्यवचनादिषु लोकविख्यातेषु धर्मेष्वपि विधानसमये मन्वादिवाक्यमुदाहृत्यैव धर्मविधानं कार्यम् ।
न त्विदानीन्तनरचितप्रतिसंस्कृतैः ।
तदुक्तमाचार्यैः-

प्रतिकञ्चुकरूपेण पूर्वशास्त्रार्थगोचरम् ।
यदन्यत्क्रियते तस्य धर्मं प्रत्यप्रमाणता ॥
इति ॥

तस्माद्वीरमाहेश्वरमतस्य “अमृतस्य देवधारणो भूयासम् ।
पवित्रन्ते विततं ब्रह्मणस्पते ।
नमो ब्रह्मणे धारणं मेऽस्तु ।” इत्यादि श्रुतिसिद्धत्वात्, पाशुपतानन्तर्भूतत्वाच्च प्रमाणवत्वमेव, नतु प्रमाणाभासगोचरत्वम् ।
तस्मात् प्रथमाध्यायस्य प्रमाणविचारपरत्वम् ॥
द्वितीयाध्यायस्य तु, धर्मभेदविषयकत्वम् ।
तथाहि- शब्दान्तराभ्याससङ्ख्यागुणसञ्ज्ञाप्रकरणान्तरादीनां धर्मस्वरूपभेदसिद्धिकारकत्वम् ।
तत्र “यजति, ददाति, जुहोती"त्यत्र शब्दान्तरात्कर्मभेदसिद्धिः ।
शमिधो यजति तनूनपातं यजती” त्यादावभ्यासात्कर्मभेदः ।
“तिस्र आहुतीर्जुहोती” त्यादौ सङ्ख्यया कर्मभेदः ।
शा वैश्वदेव्यामिक्षे" त्यादौ गुणात्कर्मभेदः ।
“अथैष ज्योतिः, अथैष विश्वज्योति” रित्यादौ सञ्ज्ञया कर्मभेदः ।
“मासमग्निहोत्रं जुहोती” त्यादौ प्रकरणान्तरात्कर्मभेदः ।
एवं द्वितीयाध्यायस्य कर्मभेदप्रतिपादकत्वमुक्तम् ।

[[२१२]]

तृतीयाध्यायस्य शेषत्वप्रतिपादकत्वमुच्यते ।
तथाहि- श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां शेषतायां प्रमाणत्वम् ।
“ऐन्द्र्या गार्हपत्यमुपतिष्ठत” इत्यादौ श्रुत्या गार्हपत्योपस्थानशेषत्वम् ।
“भक्षेहिमाविशे” त्यादौ शोमस्य तृप्यतु" इति पर्यन्तं मन्त्रस्य लिङ्गवशेन ग्रहणावेक्षणभक्षणेषु विनियोगः ।
“प्रजापतिर्वरुणायाश्वमनय"दित्यादौ एकवाक्यतया दातुरिष्टिकर्तव्यतानिर्णयः ।
प्रयाजानुयाजाज्यभागादीनां प्रकरणेन दर्शपूर्णमासयोर्विनियोगः ।
“उभावामिन्द्राग्नी” इत्येवमादीनां मन्त्राणां क्रमेण स्थानसादेश्यलक्षणेनैन्द्र्याग्न्येष्ट्यादिषु विनियोगः ।
अग्निचयनसन्निधौ विद्यमानानां “इन्द्राय राज्ञे सूकर” इत्येवमादीनां समन्त्रकाणां कर्मणाम् अश्वमेधाङ्गत्वमाश्वमेधिकमिति समाख्यया ।
एवं तृतीयाध्यायविषयः ॥
चतुर्थाध्यायविषयस्त्वेवम्- प्रथमं क्रत्वर्थपुरुषार्थविचारः प्रयुक्तिविवेकाय क्रियते ।
द्रव्यार्जननियमः ।
नेक्षेतोद्यन्तमादित्यमिति नियमः ।
पशुना यजेतेत्यत्र पशुगतैतत्वम् ।
एते क्रत्वर्थाः, पुरुषार्थावेति विचारः ।
ततः “तप्ते पयसि दध्यानयति, सा वैश्वदेव्यामिक्षावाजिभ्यो वाजिन” मित्यादौ प्रयोजकत्वाप्रयोजकत्वविचारः ।
ततः “यस्य वर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति” इत्यादौ फलविध्यर्थवादविचारः ।
ततः “राजसूयेन यजेत, वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेते"त्यादौ कालार्थाङ्गप्रधानविचारः ।
एवं चतुर्थाध्यायविचारः ॥
अनन्तरं पञ्चमाध्याये क्रमविचारः क्रियते ।
प्रथमं श्रुतिक्रमविचारः “अध्वर्युर्गृहपतिं दीक्षायित्वा ब्रह्माणं दीक्षयती” त्यादौ ।
ततोऽर्थक्रमविचारः, “अग्निहोत्रं जुहोति, यवागूं पचती” त्यादौ ।
ततः पाठक्रमविचारः शमिधो यजती"त्येवमाद्यौ ।
प्रवृत्तिक्रमः प्राजापत्यपशौ ।
मुख्यक्रमः प्रथममौषधतन्त्रप्रवृत्तिः ।
ततः श्रुत्यर्थपाठप्रवृत्तिः ।
मुख्यादीनां क्रमप्रमाणानां प्राबल्यदौर्बल्यविचारः ।
एवं पञ्चमाध्यायः ॥

[[२१३]]

ततः षष्ठाध्याय एवम्- प्रथमं देवतिर्यङ्मनुष्याधिकारविचारः, ततो निषादसत्रयागाधिकारविचारः, ततो नित्यनैमित्तिककाम्याधिकारविचारः, पश्चात् प्रतिनिध्यधिकारविचारः, पश्चादभ्युदयेष्ट्यधिकारविचारः, पश्चादपच्छेदनिमित्तकाधिकारः, ततः सारस्वतसत्राद्यधिकारः, ततो विश्वजिदधिकारः ।
एवं षष्ठाध्यायेन अधिकारविचारः कृतः ॥
सामान्यातिदेशः सप्तमाध्यायार्थः ।
प्रथमं पारिप्लवविचारोऽङ्गानां, ततः “एतद्ब्राह्मणान्येव पञ्चहवींषी” त्येवमादौ विध्यतिदेशः, ततः कार्यमुखेन अङ्गातिदेशः ।
एवं सप्तमाध्यायः ॥
अष्टमाध्यायविचारः- विशेषातिदेशः प्रथमम्, सौर्ययागादीनां दर्शपूर्णमासप्रकृतित्वविचारः, पशोश्च ततोऽग्नीषोमीयस्य सवनीयपशुप्रकृतित्वम् ।
सवनीयस्य पश्वैकादशिनीप्रकृतित्वम् ।
पश्वेकादशिन्याः पशुगणप्रकृतित्वम् ।
अव्यक्तदेवताकानां यागानां सोमप्रकृतित्वम् ।
सोमस्यातिरात्रवाजपेयादिद्वादशाहादियागप्रकृतित्वम् ।
द्वादशाहो द्विविधः, अहीनः सत्रयागश्च ।
एककर्तृको बहुसुत्याकश्च, बहुयजमानकोऽनेकसुत्याकश्च ।
द्विरात्रत्रिरात्रादीनाम् अहीनद्वादशाहप्रकृतित्वम् ।
सत्राणाञ्च सत्रद्वादशाहप्रकृतित्वम् ।
संवत्सरसाध्यानां क्रतूनां कुण्डपायिनामयनादीनां गवामयनप्रकृतित्वम् ।
पशूनां सर्वेषां सान्नाय्यविकारत्वम् ।
एकदेवताकानां यागानां, आग्नेयविकारत्वम् ।
द्विदेवतानाम् अग्निषोमीयविकारत्वम् ।
एवमष्टमाध्यायप्रमेयम् ॥
अथ नवमाध्यायविषय उच्यते ।
उलूखलमुसलदृषदुपलव्रीह्यादिशब्दानाम् अपूर्वसाधनलक्षणाङ्गीकारः ।
अनन्तरं देवताङ्गत्वविचारः ।
ततोऽवहननाद्यूहविचारः ।
ततो द्वितीयपादे सामोहविचारः ।
ततो अध्रिग् प्रैषोहविचारः ।
एवं नवमोध्यायः ॥
ततो दशमाध्यायविचारः- आदौ कार्यमुखेन पदार्थातिदेशः ।
ततः कृष्णलचराववहनननिवृत्तिः ।
स्वयं दिने बर्हिषि लवननिवृत्तिः ।
शरमयं बर्हि र्भवती"त्यादौ कुशबाधः ।
गृहमेधीयादौ चोदकपरि-

[[२१४]]

लोपादाज्यभागव्यतिरिक्ताङ्गबाधः ।
अनन्तरं चतुर्थ्यन्तशब्दविशिष्टार्थस्य देवतात्वम् ।
ततो नञर्थविचारः ।
ततः पर्युदासप्रतिषेधश्च, नहि निन्दान्यायः, सामान्यविशेषन्यायः ।
एवं दशमाध्यायः ॥
तत एकादशे तन्त्रविचारः ।
तन्त्रत्वम् अनेकप्रधानोद्देशेन सकृदङ्गानुष्ठानम् ॥
ततो द्वादशे प्रसङ्गविचारः ।
प्रसङ्गोनाम प्रधानोद्देशानुष्ठितानामारादुपकारकाङ्गानां प्रधानतन्त्रमध्यपतिताङ्गानुद्देशेन कृतानामपि तदुपकारकत्वम् ॥
एवं द्वादशाध्यायरूपिणी मीमांसा लेशतो निरूपिता ॥
तत्र देवताधिकरणं विना अन्येषां श्रुतिस्मृतिपुराणवाक्यार्थनिर्णायकत्वेन सर्ववादिसम्मतत्वेऽपि, शब्दविद्यायां स्फोटवाद इव देवताचैतान्यांशेऽति विरुद्धा मीमांसा ॥
एवं खलु तेषां तात्पर्यम्- शब्दविशिष्टार्थो देवता, चतुर्थ्यन्तशब्द एव देवतेति ।
इदमत्यन्तमयुक्तम् ।
तथाहि- “जगृहाते दक्षिणमिन्द्रहस्तम्, वज्रहस्तः पुरन्दरः, सहस्राक्षो गोत्रभिद्वज्रबाहुः, त्रिभिर्देवैस्त्रिदशता, वज्रबाहुर्जघानवृत्रम्, विदुरो ववारे"त्यादौ चेतनत्वेन स्पष्टतया प्रतीयमानत्वात् ।
“घृतप्रतीको घृतयोनिरेधिवृषोऽग्निः समिध्यते ।
अश्वो न देववाहनः” इत्यादौ चेतनत्वेनाग्नेः स्फुरणाभावाच्चेतनत्वे प्रामाण्यं नास्तीति न च वाच्यं, क्वचिदेवं सत्यपि “चत्वारि शृङ्गा स्त्रयो ऽस्य पादा” इत्यादौ पादशीर्षहस्तानां चेतनासाधारणधर्माणां सम्यग्बालानामपि ज्ञायमानत्वाद्देवताचैतन्यमस्त्येव ।
किञ्च ङमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमोनमः ॥” इतिमन्त्रे श तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीम्” इति स्पष्टं केनोपनिषदा हिमवत्पुत्रीत्वेन स्त्रीत्वेन प्रतिपादिताया उमायाः पत्युः शिवस्य चेतनत्वेन तत्रापि पुंस्त्वेन ज्ञायमानस्य ङमो रुद्राय मीढुषे” इति मन्त्रान्तरे दयालुत्वेनापि वेद्यमानस्य कथमचेतनत्वं वक्तुं शक्यम् ।
न च

[[२१५]]

उपनिषन्मन्त्रस्योपासनार्थसाकारदेवतापरत्वेऽपि कर्माङ्गमन्त्राणां तथात्वं नास्तीति वाच्यम्, कर्माङ्गभूतस्यैव शतरुद्रीयस्य “दरिद्रं नीललोहितः ।
नीलग्रीवो विलोहितः” इत्यादौ मन्त्रे चेतनपरत्वेन स्फुटं दर्शनात् ।
न च शब्दातिरिक्तदेवताङ्गीकारे “ईङ्काराय स्वाहा दद्भ्यः स्वाहा ।
हनूभ्यां स्वाहे"त्यादावपि शब्दातिरिक्तदेवताङ्गीकारापत्तिरितिवाच्यं, बाधकवशात्क्वचित्तदङ्गीकारेऽपि सर्वत्र तथाङ्गीकारे प्रमाणाभावात् ।
अन्यथा “आग्नेयीं कृष्णग्रिवीं” इत्यादौ स्त्रीपशोरालम्भनं न स्यात् ।
नदीकादम्बिनीखट्वावीथीत्यादौ स्त्रीलिङ्गस्या विवक्षितत्वेन प्रकृतेऽपि तथैवाङ्गीकारस्यावश्यकत्वात् ।
सिंहः सिंही कुक्कुटः कुक्कुटीत्यादौ “नीबादिभिः प्रत्ययैः स्त्रीत्वादिर्बोधितोऽस्तीति स्त्रीपशोरेव यद्यालम्भ इत्युच्यते तर्हि प्रकृतेऽपि दीयतां दृष्टिः ।
किञ्चैकत्वद्वित्वबहुत्वसङ्ख्यानामपि विभक्त्या प्रतिपादनं न स्यात्, दारा इत्यादौ व्यभिचारात् ।
तस्मात् क्वचिद्बाधकापादितस्यार्थस्य अबाधितस्थलऽप्यङ्गीकर्तव्यतास्तीति मूर्खप्रलपितमेव ।
अत ईङ्काराय स्वाहेत्यादौ देवताभावेऽपि “वज्रहस्तः पुरन्दर” इत्यादौ चेतनदेवतासिद्धौ बाधकं नास्त्येव ।
न च देवताचैतन्याङ्गीकारे “अग्निर्वैश्वानरो वह्नि” रित्यमरकोशे अग्निर्वैश्वानरादिशब्दानां पर्यायेण पाठात्, आग्नेयपुरोडाशयागे- वैश्वानरायेदं न ममेतीत्याद्यङ्गीकारापत्तिः, शब्दभेदेऽप्यर्थस्यैकत्वादिति वाच्यं, अतिरिक्तदेवताङ्गीकारपक्षऽपि शब्दविशिष्टस्यैव देवतात्वेन अतिप्रसङ्गानवकाशात् ।
ननु मन्त्रस्यानुष्ठेयार्थस्मरणद्वारा क्रत्वङ्गस्याक्रतुविधायकप्रयोगविध्येकवाक्यतापन्नस्वविधायकवाक्यस्य स्वोपकृतप्रधानयागतात्पर्यकस्य देवताचैतन्येऽपि तात्पर्ये सति तात्पर्यभेदप्रयुक्तवाक्यभेदः प्रधानविधेः स्यादितिचेन्न, इष्टत्वात् ।
नच वाक्यभेदो दोषावह इति वाच्यम्, विध्यावृत्तिरूपवाक्यभेदस्यैव दोषावहत्वात् ।
तथाहि- वाक्यभेदो द्विविधः- विध्यावृत्तिप्रयुक्तस्तात्पर्यभेदप्रयुक्तश्च ।
गृहं सम्मार्ष्टीत्यादौ गृहमुद्दिश्य सम्मार्जनविधाने गृहगतैकत्वस्यापि

[[२१६]]

विधानस्यावश्यकत्वाद्विध्यावृत्त्यैव द्वयोर्विधानात्, द्विरुच्चारणं दोषावहं भवति ।
तात्पर्यभेदे तु वाक्यस्यावृत्तिर्नास्त्येव ।
तद्यथा- “यदाग्नेयोऽष्टाकपालोऽमावस्यायाञ्च पौर्णमास्याञ्चाच्युतो भवती” त्यत्र द्रव्यदेवताकालविशिष्टयागविध्यङ्गीकारे सति विशिष्टतात्पर्यकस्य विधेर्विशेषणेष्वपि तात्पर्यात्, तात्पर्यभेदेऽपि विधिद्विरुच्चारणं नास्ति ।
एवमिहाप्यङ्गविधिसहितप्रयोगविधेरङ्गभूतस्य मन्त्रस्य शब्दरूपस्य स्वार्थे तात्पर्येऽपि न विध्यावृत्तिदोषः ॥
ननु देवतायाश्चैतन्याङ्गीकारे तस्या राजवत्स्वतः प्रधानत्वात्, द्रव्यवद्यागनिर्वर्तकत्वेन तदङ्गत्वं नस्यादिति चेन्न, यजमानस्य फलोप भोक्तुः सर्वप्रधानस्यापि यजेतेति विधिना सकर्तृत्वेनाक्षिप्तस्य स्वनिर्वर्तनसमर्थस्य यथा क्रत्वङ्गत्वमेवमिहापि सम्भवति ॥
नन्वङ्गत्वं यत्रास्ति न तत्र प्रधानत्वं यथा प्रयाजादीनां, यत्र प्रधानत्वं न तत्राङ्गत्वं यथा सोमयागस्येति कथमत्र द्वयमपि विरुद्धमङ्गीक्रियत इति चेन्न, विकल्पासहत्वात् ।
तथाहि- अन्यप्रतिपादनस्य तदन्यं प्रत्यङ्गत्वं नास्तीति किमुच्यते, उत यं प्रति प्रधानत्वं तं प्रत्यङ्गत्वं नास्तीति ? आद्ये ज्योतिष्टोमयागे व्यभिचारः, दीक्षणीयादिकं प्रति प्रधानस्यापि फलं प्रत्यङ्गत्वात् ।
न द्वितीयः, स्विष्टकृत्पशुपुरोडाशान्त्यप्रयाजादिषु व्यभिचारात्, स्विष्टकृद्यागस्याग्नेयाग्नीषोमीयानन्तरं क्रियमाणस्य प्रधानयागे कृते तद्देशसङ्कटताकर्तृस्थलान्तरप्रासनापेक्षिशिष्टहविर्व्ययरूपप्रतिप त्तिकरत्वेन हविरङ्गस्यापि यागरूपत्वेन यागरूपस्य शिष्टद्रव्यनिर्वर्त्यत्वेन प्रधानत्वञ्चास्ति ॥
तथैव पशुपुरोडाशस्यापि “यद्दैवत्यः पशुस्तद्वै ततो भवति” इति वचनेन पशुदेवतास्मरणकारित्वेन पशुदेवता गुणस्यापि यागमात्रस्य देवतानिर्वर्त्यत्वेनापि प्रधानत्वमप्यस्ति तथैवोत्तमप्रयाजस्यापि श्वाहाऽग्निं स्वाहा सोम” मिति मन्त्रवशेन देवतास्मरणद्वारा देवतार्थत्वेन तद्गणत्वेऽपि यागमात्रस्य देवता निर्वर्त्यत्वन्यायेन प्रधानत्वमप्यस्ति ।
इदं सर्वमपि “आश्रयिष्वविशे-

[[२१७]]

षणभावोऽर्थः प्रतीयेते” त्यधिकरणे चतुर्थाध्याये स्पष्टम् ।
तस्मात्प्रमाणवशेन विरुद्धस्याप्यङ्गीकारसम्भवात्, अत्र देवतायाः प्रधानत्वेऽपि यागं प्रति गुणत्वमङ्गीक्रियत इति न कोपि विरोधो भवति ।
ननु देवताचैतन्याङ्गीकारेऽपि तस्य प्रधानत्वं कथम् ।
गुणत्वमेव यागनिर्वर्तकत्वेन अवश्यं वक्तव्यमिति चेन्न ।
चेतनत्वसिद्धिवेलायामेव प्रधानत्वस्यापि सिद्धत्वात् ।
यागादिकन्तु कर्माङ्गमेव ।
तद्यथा-लोके भृत्यसेवादिकं प्रधानराजप्रसादकारित्वेन राजार्थं, तद्वद्यागादिकं कर्मदेवताप्रसादद्वारा देवतार्थम् ।
नच शब्दगम्येऽर्थे प्रमाणं विना लोकदृष्टान्तेन सिद्धिः कथमिति वाच्यम्, “तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति, घृतं पीत्वा मधु चारु गव्यम्, पितेव पुत्रमभिरक्षतादिम” मित्यादिमन्त्रार्थवादानामनेकेषां प्रमाणां विद्यमानत्वात्, “क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते” इत्यादिकानां पुराणवचनानाञ्च सत्वात् ।
किञ्च प्रसन्नोऽस्य पशुपतिः पुत्रोऽस्य समुत्पन्न इति लोकव्यवहारादपि देवताप्रसादस्य फलजनकत्वम् ।
मन्त्रवर्णोऽपीममर्थमाह “मीढ्वस्तोकाय तनयाय मृडये” ति ।
अस्यार्थः- मीढ्वन्नितिवक्तव्ये “मिह= सेचन” इति धातोर्मीढ्व इति छान्दसं रूपम् ।
मीढ्वः- दयार्द्र हे शिव, तोकाय तनयाय पुत्ररूपापत्यायेत्यर्थः ।
“अपत्यं तोकं तयोः समे ।
आत्मजस्तनयः सृनु” रित्यप्यमरः ।
मृडय-सुखय ।
“मृड= सुखन” इति धातोर्णिजन्तस्य लोटि परस्मैपदी मध्यमपुरुषः ।
दयावन्, पुम्प्रजोत्पादनेन अस्मान् आनन्दयेत्यर्थः ।
कर्मणा जनितस्य परमेश्वरप्रसादस्यैव पुत्रफलजनकत्वम् ।
नतु केवलं जडस्य कर्मणः ।
देवग्रामोऽयं देवक्षेत्रमिति व्यपदेशादपि देवतायां प्रधान त्वम्, नतु गुणत्वम् ।
यागनिर्वर्तकत्वेन गुणत्वमप्यधिकम्, तावता न प्रधानत्वहानिर्देवतायाः ॥
ननु देवताचैतन्याङ्गीकारे बहुषु स्थलेषु यागेषु क्रियमाणेष्विन्द्रादि देवतानां प्रत्येकं प्रत्येकमेकरूपाणां युगपदाह्वाने सति कथं विरुद्धं गमनं सम्भवतीति चेन्न, स्वस्वतपोविशेषाश्वमेधादिक्रतुविशेषा-

[[२१८]]

नुष्ठानसम्पादितपरमेश्वरप्रसादानां तज्जनितनिरतिशयैश्वर्याणां युगपदनेककायव्यूहसम्बन्धसम्भवेन युगपदनेकस्थलेषु गमनस्यापि सम्भवान्न विरोधः ।
अथवा युगपदनेकभटकर्तृकनमस्कारोद्देश्यत्वमेकस्यैव राज्ञो लोके दृष्टम्, तद्वदेकैककायपरिगृहीतृर्णां देवानामनेककर्तृकयागोद्देश्यत्वसम्भवान्न विरोधः ।
तत्सर्वं “विरोधः कर्मण्णीति चेन्न, अनेकप्रतिपत्तेर्दर्शनात्” इत्युत्तरतन्त्रे देवताधिकरणे एवमेवाक्षिप्य समाहितम् ।
तस्माद्देवताचैतन्यं नास्तीतिवचनं स्वर्गस्य निरतिशयसुखत्ववचनवन्निर्युक्तिकं बहुप्रमाणविरुद्धञ्च ।
स्वर्गस्य निरतिशयप्रीतिविषयत्वं कथं विरुद्धमितिचेन्न, “इष्टापूर्तं मन्यमाना वरिष्टं नान्यछ्रेयो वेदयन्ते प्रमूढाः ।
नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति ॥
तस्मिन् यावत्सम्पातमुषित्वा यथैतमेवाध्वानं पुनर्निवर्तन्त” इत्यादि श्रुतिपर्यालोचनया श्वर्गेऽपि पातभीतस्य शताक्ष्णो नास्ति निर्वृतिः ।
ते तं भुक्त्वा स्वर्गलोकं शिशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ती” त्यादिस्मृतिपर्यालोचनया च स्वर्गसुखस्य स्वानुभवानन्तरं संसारसुखवदनर्थहेतोर्निरतिशयप्रीतिविषयत्वं कथं सम्भवति ? न चैतत्सुखापेक्षया अतिशयसुखसत्वे प्रमाणा भावादिदमेव सुखमनन्तरं सोपद्रवमपि स्वानुभववेलायामतिशयिततया अनुभवितृर्णां भासमानत्वान्निरतिशयमित्युच्यत इति वाच्यम्, विकल्पासहत्वात् ।
किमेतदधिकसुखे प्रमाणं नास्तीतीदं निरतिशयसुखमित्युच्यते, किंवाऽनुभवितृर्णां तथा भासमानमिति ? आद्ये दहरादिविद्याफलस्यापुनरावृत्याद्यनेकाभीष्टरूपस्य सत्वे प्रमाणानां बहूनां विद्यमानत्वात्स्वर्गस्य निरातशयत्वहानिः ॥
तथाहि- “अथ यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति, तेन पितृलोकेन सम्पन्नो महीयते” इत्युक्त्वानन्तरमेवमेव “अथ यदि मातृलोककामो भवति, भ्रातृलोककामो भवति, स्वसृलोक कामो भवति, स्त्रीलोककामो भवति, सखिलोककामो भवति, गन्ध-

[[२१९]]

माल्यलोककामो भवति, गीतवादित्रलोककामो भवती” त्युक्त्वा तस्य तस्यानन्तरं सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्तीत्यादिकमुक्त्वा तेन मातृलोकेनसम्पन्नो महीयत इत्यादिकं फलं छान्दोग्ये प्रतिपाद्यते ।
पुनश्च तत्रैव “यं यं काममभिकामो भवति, यं जनपदमयं क्षेत्रभागं सोऽस्य सङ्कल्पादेव समुत्तिष्ठति, तेन सम्पन्नो महीयते ।
स एकधा भवति त्रिधा भवति चतुर्धा पञ्चधाष्टधा नवधा, तदैरम्मदीयं सरस्तदश्वत्थः सोमसवनस्ततदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम् ।
तत्पुरुषो मानवः ।
स एनां ब्रह्म गमयति, नच पुनरावर्तते, नच पुनरावर्तत” इति महत्स्वातन्त्र्यं, तज्जन्मानुभूतनष्टपितृमातृस्वसृभ्रातृपुत्रभार्यासखिसमागमः, अनेककायव्यूहपरिग्रहसामर्थ्यं, मनोध्यातेष्टप्राप्तिः, स्वेष्टदेशसञ्चारः, सोपास्येश्वरसारूप्यम्, तत्समीपावस्थानम्, तद्वत्सृष्टिसामर्थ्यमपुनरावृत्तिश्चेत्याद्यत्यद्भुतसुखावाप्तौ प्रमाणसत्वेन तत्सुखमपेक्ष्य तस्य स्वर्गरूपसुखस्य सुखत्वस्यैव वक्तुमशक्यत्वात् ।
न द्वितीयः, पामकषणजन्यसुखानां निरतिशयसुखत्वापत्तेः, तदनुभूतिकाले पामकषणसुखस्य निरतिशयत्वेनैवानुभूयमानत्वात् ।
तस्मात्स्वर्गस्य निरतिशयत्ववादो बालसम्मोहक इत्युपेक्षणीय इति सर्वं समञ्जसम् ॥

इति श्रीमद्-अनादि-निरञ्जन-जङ्गमापरावतार-
तोण्टद-सिद्धेश्वर-प्रसादासादित-
शाम्भवागमाम्बोधि-मथन-जनित-
निरुत्तरैकोत्तरशत-स्थल-भेद-भिन्न-षट्-स्थल–
तत्त्वबोध-सुधास्वादानन्द-सन्दोह-प्रदायकाचार्यवर्य-
श्रीमरितोण्टदार्य-विरचिते
यडव-मुरारि-कोटे-कोलाहलैकाङ्गि-वीर-
वैरि-सप्ताङ्ग-हरण-पश्चिम-समुद्राधीश्वर-
विशुद्ध-वैदिकाद्वैत-सिद्धान्त-प्रतिष्ठापनाचार्य-
केलदि-सदाशिव-राय-नायक-वंश-दुग्धार्णव-चन्द्र-
वीर-भद्र-धरणीन्द्र-धर्म्म-पत्नी-मल्लाम्बा-हृदयानन्द-
बसव-वसुधा-सङ्क्रन्दनोपदेशे
वीरशैवानन्द-चन्द्रिकायां वादकाण्डे मीमांसकमतनिरूपणतन्निराकरणप्रकारो नाम द्वादशं प्रकरणम् ॥

[[२२०]]