वीरशैवानन्दचन्द्रिकायां वादकाण्डे एकादशं प्रकरणम् ॥
हे शीलवद्वर्य भवद्वचोभि- र्लोकायतानान्तु मतं समग्रम् ।
उद्भावनं तत्र च दूषणाना- माकर्ण्य विस्मेरमना अभूवम् ॥
श्रुत्यागमविरुद्धत्वादेव तस्य हि दूष्यता ।
भवता कल्पिता सास्तामन्यदागममूलकम् ॥
मतमस्ति क्षितावर्हन्देवो यस्य प्रवर्तकः ।
यस्य सर्वज्ञ इत्याख्या शिवस्यैव त्वयापिच ॥
लिख्यते पठ्यते नित्यमादावमरकोशगा ।
त्वदागमे याति समूलभावम् यतस्त्वहिंसानृतवर्जनाद्याः ।
जिनागमोक्ता बहवोऽथ धर्मा- स्तिष्ठेयुरेते परतः कथं वा ॥
[[१९९]]
इत्यालपन्नारभताभिधातुम् भृङ्गी क्रमार्दाहतसौगते च ।
राजन् शृणु त्वं प्रयतोऽस्मि हृष्टस्तव ब्रवीमि प्रणयातिरेकात् ॥
जैनापरपर्याया आर्हता इत्थं प्रतिपादयन्ति ।
जीवोऽजीवश्चेति द्वौ पदार्थौ ।
जीवश्चेतनः शरीरपरिमाणः सावयवः ।
अजीवः षड्विधः तत्र महीधरादिरेकः, आस्रवसंवरनिर्जरबन्धमोक्षाख्याः पञ्च ।
आस्रवत्यनेन जीवो विषयेष्विति आस्रव इन्द्रियसङ्घातः ।
संवृणोति गृह्णातीन्द्रियाणीति संवरः विवेकः ।
निश्शेषेण जीर्यत्यनेन कामक्रोधादिरिति केशोल्लुञ्छनतप्तशिलारोहाहिंसापञ्चमलधारणमयूरपिच्छधारणपा।
निपात्रभोजननग्नत्वादिकं तपो निर्जरः ।
कर्माष्टकेनापादिता जन्ममरणपरम्परा बन्धः ।
चत्वारि घातिकर्माणि पापविशेषरूपाणि, चत्वारि चाघातिकर्माणि पुण्यविशेषरूपाणि ।
विश्वमेवंरूपमेवेति निर्धारणात्मकं ज्ञानमैकान्तिकम् ।
जिनोक्तस्नानसन्तप्तपाषाणारोहणादिकं धर्मो न भवतीति विपर्ययो विपरीतज्ञानम् ।
यागीयवैधपशुहिंसादिकं धर्म इति ज्ञानमाज्ञानिकम् ।
सर्वाण्यपि दर्शनानि समानानीति विज्ञानं वैनयिकम् ।
एतानि पञ्च बन्धसाधनानि ।
श्रद्धाज्ञानवद्भिः साधुभिः क्रियमाणो हिंसादिपरित्यागादिनियमः सम्यक्चारित्रम् ।
तत्वार्थविषयिणी श्रद्धा सम्यग्दर्शनम् ।
तत्वार्थयथार्थज्ञानं सम्यग्ज्ञानम् ।
एतत्त्रयं मोक्षसाधनम् ।
एतदेव रत्नत्रयमित्युच्यते ।
आस्रवशब्दितस्येन्द्रियसङ्घातस्य निरोधः संवरः, तस्य हेतुः सम्यग्गुप्तिः ।
सा त्रिधा मनोगुप्तिः, वचोगुप्तिः, कायगुप्तिश्चेति ।
एवं गुप्त्या प्रवृत्तीनां निग्रहे सति संवरो जायते ।
संवराच्च निर्जरो जायते ।
स द्विविधः, स्वतः परिपाकजन्यः अकालेऽपि तपस्सामर्थ्यजन्यश्चेति ।
एवमेतादृशनिर्जरेण पूर्वोक्तकर्माष्टकजनितबन्धनिवृत्तौ सत्यां निगीर्ण-
[[२००]]
निश्शेषपूर्वसञ्चितकर्मण आत्मनः स्वतः परिपक्वतपनातपसम्पर्कस्फुटदेरण्डफलाद्विमुक्तकोशोत्पतद्बीजवदूर्ध्व् अगमनेन स्वात्म्यसम्पतिर्मोक्षः ॥
अनन्तज्ञानानन्तगुणाधारः परमात्माभिधेयः, प्रयोजनञ्च व्यवहारेण षड्द्रव्यपञ्चास्तिकायसप्ततत्वनवपदार्थमोक्षमार्गस्वरूप परिज्ञानम् ।
निश्चयेन च निजनिरञ्जनशुद्धात्मसंवित्तिसमुत्पन्ननिर्विकारपरमानन्दैकलक्षणसुख अमृतास्वादरूप स्वसंवेदनज्ञानम् ।
परमनिश्चयेन च तत्फलरूपा केवलात्मज्ञानानन्तगुणाविनाभूतनिजात्मोपादानसिद्धान्तसुखावाप्तिः ।
प्रत्यक्षानुमानागमाभिधानानि भगवत्पादैरर्हत्परमेष्ठिभिः प्रत्यपादिषत ।
अस्ति च परलोकः ॥
अच्युताद्याः प्रेरणान्ताः षोडशोपर्युपरि वर्तमानाः स्वर्गाः ।
तदुपरि विमानानि त्रीणि ।
तदुपरि च ज्योतिर्मयी मोक्षशिला ।
तत्र खलु विमुक्तजीवाकारो भगवान् दानशीलक्षान्तिवीर्यध्यानशान्तिबलोपायप्रणिधानज्ञानरूपदशबलवि लसितो दिव्यचक्षुर्दिव्यश्रोत्रपूर्वनिवासानुस्मृतिपरचित्तज्ञानास्रवक्षयर्धिरूप षडभिज्ञासध्रीचीनः सकललोकजेतृमारविजयी श्रीमदाचार्योपाध्यायसाधुपरमेष्ठी विबुधतरुमध्यपारिजातो देदीप्यते ।
त एते सप्तपदार्थाः सप्तभङ्गीरूपेण न्यायेन व्यवस्थाप्यन्ते ।
स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्तिचावक्तव्यश्च, स्यान्नास्तिचावक्तव्यश्च, स्यादस्ति च नास्तिचावक्तव्यश्चेति सप्तभङ्गीनयः ।
अस्यायमर्थः स्याच्छब्द ईषदर्थवाची ति"नन्तप्रतिरूपको निपातः ।
प्रतिवादिनो हि चतुर्विधाः- सद्वादिनः, असद्वादिनः, सदसद्वादिनः, अनिर्वचनीयवादिनश्चेति ।
ते पुनरप्यनिर्वचनीयमतेन मिश्रितानि सदभिमानानि मतान्यादाय सदनिर्वचनीयवादिनः, असदनिर्वचनीयवादिनः, सदसदनिर्वचनीयवादिनश्चेति त्रिविधाः ।
तानेतान्सप्तविधान्वादिनः प्रति सप्तविधाः प्रयोक्तव्याः सद्वादी समागत्यार्हतं प्रति किन्त्वन्मते मोक्षोऽस्तीति पृच्छति, तत्रार्हत उत्तरं ब्रते स्यादस्तीति; असद्वादिनं प्रति स्यान्नास्तीति;
[[२०१]]
सदसद्वादिनं प्रति स्यादस्ति नास्तिचेति; अनिर्वचनीयवादिनं प्रति स्यादवक्तव्य इति; सदनिर्वचनीयवादिनं प्रति स्यादस्ति चावक्तव्यश्चेति; असदनिर्वचनीयवादिनं प्रति स्यान्नास्ति चावक्तव्यश्चेति; ।
सदसदनिर्वचनीयवादिनं प्रति स्यादस्ति च नास्ति च वक्तव्यश्चेति तावता वादिनः सर्वे निविण्णाः सन्तो नोत्तरं प्रतिपद्यन्ते ।
अतोऽस्य सप्तभङ्गीरूपस्य साधकन्यायस्य सद्भावाज्जीवादीनां सप्तपदार्थानां सिद्धिः ।
तस्मादस्मन्मतमव्याहतमनुबन्धचतुष्टयसत्वादादर्तव्यमिति ॥
इत्यार्हतानां सिद्धान्तपद्धतिः ॥
मुक्तकच्छा अरुणाम्बरा बाह्यास्तित्ववादिनो बौद्धास्तु प्रत्यक्षानुमाने द्वे प्रमाणे ।
बाह्य आभ्यन्तरश्चेति द्वौ समुदायौ, तत्र बाह्यो भूगिरिनदीसमुद्रादिः, आन्तरश्चित्तचैत्तात्मकः ।
तदेतत्समुदायद्वयमेवाशेषं जगत् ।
तत्र बाह्यसमुदायस्य परमाणवः कारणं; ते च परमाणवश्चतुर्विधाः ।
केचित्खराः पार्थिवाख्याः; अपरे स्निग्धाः आप्याख्याः; अन्ये चोष्णास्तैजसाख्याः, अन्ये चेरणात्मका वायवीयाः ।
तेभ्यश्चतुर्विधेभ्यः परमाणुभ्यो युगपत्पुञ्जीभूतेभ्यो बाह्यः समुदायो जायते ।
अन्तरस्य च समुदायस्य स्कन्धपञ्चकं कारणम् ।
रूपस्कन्धो, विज्ञानस्कन्धो, वेदनास्कन्धः, सञ्ज्ञास्कन्धः, संस्कारस्कन्धश्चेति पञ्चस्कन्धाः ।
तत्र चित्तेन निरूप्यमाणाः शब्दस्पर्शादयो रूपस्कन्धः; तदभिव्यक्तिर्विज्ञानस्कन्धः; तज्जन्यदुःखं वेदनास्कन्धः; देवदत्तादिनामधेयं सञ्ज्ञास्कन्धः; एतेषां वासना संस्कारस्कन्धः ।
तेभ्यः पञ्चभ्यः स्कन्धेभ्यः पुञ्जीभूतेभ्य आन्तरसमुदायो जायते ।
एतेषु स्कन्धेषु आत्मशब्दः प्रगीयते ।
वस्तुतः क्षणिकस्वप्रकाशालयसंविदाकार एव आत्मा ।
क्षणिका एव सर्वे भावाः ।
चक्षुरायतन-श्रोत्रायतन-घ्राणायतन- जिह्वायतन-कायायतन-मन आयतन-रूपायतन-शब्दायतन-गन्धायतन- रसायतन-स्पर्शायतन-धर्मायतनरूपाणि द्वायशायतनानि ।
देहेन्द्रियबुद्धयः क्षणिकाः; तत्र प्रमाणम्-
[[२०२]]
क्षाणादूर्ध्वं न तिष्ठन्ति शरीरेन्द्रियबुद्धयः ।
दीपार्चिरिव वर्तन्ते स्कन्धाः क्षणविलम्बिनः ॥
प्रत्यक्षं जायते चित्तं जातं जातं प्रणश्यति ।
नष्टं नावर्तते किन्तु जायते च पुनः पुनः ॥
अधिकारानुगुण्येन बौद्धशास्त्रं चतुर्विधम् ।
प्रत्यक्षगम्यं बाह्यार्थं बौद्धस्सौत्रान्तिकोऽब्रवीत् ॥
बुध्याकारानुमेयार्थो बाह्यो वैभाषिकोदितः ।
बुद्धिमात्रं वदत्यत्र योगाचारो न चापरम् ॥
न सन्नासन्न सदसन्न चोभाभ्यां विलक्षणम् ।
चतुष्कोटिविनिर्मुक्तं तत्वं माध्यमिका विदुः ॥
इति ॥
समग्रैश्वर्यधर्मयशः श्रीवैराग्यमोक्षरूपभगालयः सर्वज्ञो बुद्धो मोक्षसाधनं शास्त्रं प्रणीतवान् ।
तदिदं शास्त्रं परिग्राह्यमिति ॥
इति बौद्धानां वेदागमविरुद्धानां मतप्रक्रिया ॥
इत्येवं भृङ्गिणा प्रोक्तमार्हतं सौगतं मतम् ।
आकर्ण्य शीलवान् सर्वं निराकर्तुं प्रचक्रमे ॥
भृङ्गिन्निदं मद्वचनं निधेहि चित्ते सकृत्तेन समाहितः स्याः ।
साम्यं भवेत्किं वद नीलकण्ठ- पदोक्तयोश्चन्द्रकिचन्द्रमौल्योः ॥
आर्हतं मतमिहादिममन्त्यम् सौगतं मतमिति क्रमतो द्वे ।
युक्तिभिस्तु निगमागमयुग्भि- र्दूषयामि परिभावय चित्ते ॥
[[२०३]]
इत्यूचिषा शीलवता सभायाम् सम्यङ्निराकर्तुमुदीरितानि ।
वाक्यानि तावत्कुमतं वदामि राजन् शृणु त्वं विनिवेश्य चित्ते ॥
अत्राचक्ष्महे नायमभ्युपगमो युक्त इति कुतः, “एकस्मिन्नसम्भवात्” नह्येकस्मिन् धर्मिणि युगपत्सदसत्त्वादिविरुद्धधर्मसमावेशः सम्भवति शीतोष्णवत् ।
य एते सप्त पदार्था निर्धारिता एता वन्त एवं रूपाश्चेति ते तथैव वा स्युः, नैव वा तथा स्युः ।
इतरथा हि तथा वा स्युरतथा वेत्यनिर्धारितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात् ।
नन्वनेकात्मकं वस्त्विति निर्धारितरूपमेव ज्ञानमुत्पद्यमानं संशयज्ञानवन्नाप्रमाणं भवितुमर्हति ।
नेति ब्रूमः ।
निरङ्कुशं ह्यनेकान्तत्वं सर्ववस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तुत्वाविशेषात् स्यादस्ति स्यान्नास्तीत्यादिविकल्पोपनिपातादनिर्धारणात्मकतैव स्यात् ।
एवं निर्धारयितुर्निर्धारणफलस्य च स्यात्पक्षेऽस्तिता, स्याच्च पक्षे नास्तिता च ।
एवं सति कथं प्रमाणभूतः सन् तीर्थकरः प्रमाणप्रमेयप्रमातृप्रमितिष्वनिर्धारितासूपदेष्टुं शक्नुयात् ? कथं वा तदभिप्रायानुसारिणस्तदुपदिष्टेऽर्थेऽनिर्धारितरूपे प्रवर्तेरन् ? ऐकान्तिकफलत्वनिर्धारणे हि सति तत्साधनानुष्ठानाय सर्वो लोकोऽनाकुलः प्रवर्तते, नान्यथा ।
अतश्चानिर्धारितार्थं शास्त्रं प्रणयन्मत्तोन्मत्तवदनुपादेयवचनः स्यात्; तथा पञ्चानामस्तिकायानां पञ्चत्वसङ्ख्यास्ति वा नास्ति वेति विकल्प्यमाना स्यात्तावदेतस्मिन्पक्षे, पक्षान्तरे तु न स्यादित्यतो न्यूनसङ्ख्यत्वमधिकसङ्ख्यत्वं वा प्राप्नुयात् ।
न चैषां पदार्थानामवक्तव्यत्वं सम्भवति ।
अवक्तव्याश्चेन्नोच्येरन् ।
उच्यन्ते चावक्तव्यश्चेति विप्रतिषिद्धम् ।
उच्यमानाश्च तथैवावधार्यन्ते नावधार्यन्त इति च ।
तथा तदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति वा ।
एवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा
[[२०४]]
नास्ति वेति प्रलपन्मत्तोन्मत्तपक्षस्यैव स्यान्नप्रत्याययितव्यपक्षस्य ।
स्वर्गापवर्गयोश्च पक्षे भावः, पक्षे चाभावः ।
तथा पक्षे नित्यता, पक्षे चानित्यतेत्यनवधारणायां प्रवृत्त्यनुपपत्तिः ।
अनादिसिद्धजीवप्रभृतीनां च स्वशास्त्रावधृतस्वभावानामयथावधृतत्वप्रसङ्गः ।
एवं जीवादिषु पदार्थेष्वेकस्मिन् धर्मिणि सत्त्वासत्त्वयोर्विरुद्धधर्मयोरसम्भवात्, सत्वे चैकस्मिन् धर्म असत्वस्य धर्मान्तरस्याभावादसत्वे चैवं सत्वस्यासम्भवादसङ्गतमिदमार्हतं मतम् ।
एतेनैकानेकनित्यानित्यव्यतिरिक्ताव्यतिरिक्ताद्यनेकान्ताभ्युपगमा निराकृता मन्तव्याः ।
यच्चोक्तं पदार्थौ द्वावित्युक्त्वा तत्राद्यश्चेतनो जीवः शरीरपरिमाणः शरीराद्व्यतिरिक्त इति तदत्यन्तासङ्गतम् ।
जीवस्य शरीरपरिमाणत्वे शरीरवन्मध्यमपरिमाणवत्वे सावयवत्वात् ।
यत्सावयवं तदनित्यमिति व्याप्त्या अनित्यत्वापत्तेः ।
नचेष्टापत्तिः कृतहानाकृताभ्यागमप्रसङ्गात् ।
किञ्च कर्मवैचित्र्येण गजादिशरीरप्रविष्टस्यात्मनस्तत्परिमाणवतः पिपीलिकादिसूक्ष्मशरीरेषु प्रवेशो न स्यात् ।
ननु यन्मध्यमपरिमाणवत् तत्सावयवमित्यत्र नियामकाभावादप्रयोजको हेतुरिति चेन्न, यदि सावयवत्वं न स्यात्तर्हि मध्यमपरिमाणवत्वं न स्यात्, यथा आकाश इति विपक्षे बाधकतर्कस्य जागरूकत्वात् ।
किञ्च एकस्मिन्नपि जन्मनि जीवानां सावयवानामनन्तावयवाङ्गिकारेण कौमारे तेषामवयवानां सङ्कोचः कल्पनीयः स्यात्, यौवने च पूर्वं सङ्कुचितानां जीवावयवानां विकासः कल्पनीयः स्यात् ।
सङ्कचितानां जिवावयवानां शरीरमात्रपरिच्छिन्नानामानन्त्यं नोत्प्रेक्षितुं शक्यम् ।
अथैकस्मिन् जन्मविपर्यायेण बृहच्छरीरप्रतिपत्तौ केचिज्जीवावयवा उपगच्छन्ति, तनुशरीरप्रतिपत्तौ च केचिदपगच्छन्तीति चेन्न जीवस्य विकारित्वापत्तेः ।
अवयवोपगमापगमाभ्यामनिशमापूर्यामाणेऽपक्षीयमाणे च जीवे विक्रियावत्वस्यापरिहार्यत्वात् ।
न चेष्टापत्तिः, चर्मवदनित्यत्वप्रसङ्गात् ।
नच तत्रापीष्टापत्तिरिति वाच्यम्, बन्धमोक्षाभ्युपगमो हि बाध्येत् ।
कर्माष्टकपरिवेष्टितस्य जीवस्यालाबुवत्संसार-
[[२०५]]
सागरे निमग्नस्य बन्धनोच्छेदादूर्ध्वगामित्वं भवति ।
किञ्चान्यत् ।
आगच्छतामपगच्छताञ्चावयवानामागमात्ययाङ्गीकारादपायधर्मवत्वा देवानात्मत्वं शरीरवत् ।
ततश्चावस्थितः कश्चिदवयव आत्मेति स्यात् ।
नच स निरूपयितुं शक्यतेऽयमसाविति ।
किञ्चान्यत् ।
आगच्छन्तो जीवावयवाः कुतः प्रादुर्भवन्ति, अपगच्छन्तश्च क्व लीयन्त इति वक्तव्यम् ।
नहि भूतेभ्यः प्रादुर्भवेयुर्भूतेषु च विलीयेरन्, अभौतिकत्वाज्जीवस्य ।
नापि कश्चिदन्यः साधारणोऽसाधारणो जीवानामवयवाधारो निरूप्यते, प्रमाणाभावत् ।
किञ्चान्यत् ।
अनवधृतस्वरूपश्चैवं सत्यात्मा स्यात् ।
आगच्छतामपगच्छताञ्चावयवानामनियतपरिमाणवत्वात् ।
अत एवमादिदोषप्रसङ्गान्नपर्यायेणाप्यवयवोपगमापगमावात्मन आश्रयितुं शक्यते ।
अपिच अन्त्यस्य मोक्षावस्थाभाविनो जीवपरिमाणस्य नित्यत्वमिष्यते जैनैः, तद्वत्पूर्वयोरप्याद्यमध्यमयोर्जीवपरिमाणयोर्नित्यत्वप्रसङ्गादविशेषप्र सङ्गः स्यात् ।
एकशरीरपरिमाणतैव स्यान्नोपचितापचितशरीरान्तरप्राप्तिः ।
अथवान्त्यस्य जीवपरिमाणस्यावस्थितत्वात्पूर्वयोरप्यवस्थितयोरवस्थितपरिमाण एव जीवः स्यात्, ततश्चाविशेषेण सर्वदैवाणुर्वा महान्वा जीवोऽभ्युपगन्तव्यो न शरीर परिमाणः ।
अतश्च सौगतवदार्हतमपि मतम् असङ्गतमित्युपेक्षितव्यम् ॥
एवं सौगतमतमपि नोपपद्यते ।
किमणूनां स्कन्धानां सङ्घातोत्पत्तौ निमित्तभूतश्चेतनः किमन्योऽस्ति, किं वा परमाणवः स्वयमेव संहन्यन्ते ? आद्येऽपि सचेतनः स्थायी वा क्षणिको वा ? स्थायित्वाङ्गीकारेऽपसिद्धान्तः ।
सर्वेषां भावानां क्षणिकत्वाङ्गीकारेण स्थायित्वानङ्गीकारात् ।
क्षणिकत्वे प्रथमं स्वयमलब्धात्मकः पश्चात्सङ्घातोत्पत्तिं करोतीति वक्तुमशक्यम् ।
द्वितीयत्वे चेतनाः स्कन्धाः अणवश्च नियामकं चेतनमन्तरेण प्रतिनियताकारेण कथं संहन्यन्ताम् ।
तस्मान्नयुक्तं समुदायद्वयम् ।
किञ्च सर्वेषां भावानां क्षणिकत्वमिति यदुक्तं तदत्यन्तासङ्गतं, मानाभावात् ।
न तावत्प्रत्यक्षं सोऽयं देवदत्त इति
[[२०६]]
प्रत्यभिज्ञाविरोधात् ।
नच सेयं दीपज्वाला, सैवेयं गुर्जरीतिवज्जात्यभेदमात्रविषयत्वेन व्यक्त्यैक्यासिद्धौ तस्या अप्रमाणत्वमिति वाच्यम्, तर्हि तज्जातीयोऽयमिति प्रतीतिः स्यात् ।
योऽयं पाटलिपुत्रे नगरे दृष्टो देवदत्तस्तमेव माहिष्मत्यां पश्यामीति व्यक्त्यालम्बनं प्रत्यभिज्ञानं स्यात् ।
कालदेशयोर्व्यक्तावेव साक्षात्सम्बद्धत्वेन जातेस्तथाविधसम्बन्धस्याभावात् ।
किञ्च प्रत्यभिज्ञा यदि जात्यालम्बनेत्युच्यते तदा त्वन्मते जातेरपि क्षणिकत्वेन प्रत्यभिज्ञाया उपपत्तिकल्पनमत्यन्तासङ्गतं स्यात् ।
नाप्यनुमानम्, तद्व्याप्यलिङ्गाभावात् ।
नापिशब्दः, भवन्मतरीत्या तस्यापि क्षणिकत्वेनावस्थानासम्भवेन प्रमाणत्वस्यात्यन्तासम्भावितत्वात् ।
तस्मात्सौगतमतं शास्त्रलोकानुभवविरुद्धमिति विद्वज्जनै र्वैदिकैरनादरणियमेवेत्यास्तां विस्तरः ॥
इति श्रीमद्-अनादि-निरञ्जन-जङ्गमापरावतार-
तोण्टद-सिद्धेश्वर-प्रसादासादित-
शाम्भवागमाम्बोधि-मथन-जनित-
निरुत्तरैकोत्तरशत-स्थल-भेद-भिन्न-षट्-स्थल–
तत्त्वबोध-सुधास्वादानन्द-सन्दोह-प्रदायकाचार्यवर्य-
श्रीमरितोण्टदार्य-विरचिते
यडव-मुरारि-कोटे-कोलाहलैकाङ्गि-वीर-
वैरि-सप्ताङ्ग-हरण-पश्चिम-समुद्राधीश्वर-
विशुद्ध-वैदिकाद्वैत-सिद्धान्त-प्रतिष्ठापनाचार्य-
केलदि-सदाशिव-राय-नायक-वंश-दुग्धार्णव-चन्द्र-
वीर-भद्र-धरणीन्द्र-धर्म्म-पत्नी-मल्लाम्बा-हृदयानन्द-
बसव-वसुधा-सङ्क्रन्दनोपदेशे
वीरशैवानन्द-चन्द्रिकायां वादकाण्डे अर्हत सौगतमतप्रक्रिया तन्निराकरणनामैकादशं प्रकरणम् ॥
[[२०७]]