वीरशैवानन्दचन्द्रिकायां वादकाण्डे दशमं प्रकरणम् ॥
कलकेतब्रह्मनाम्ना पुरा शीलवता स्फुटम् ।
स्थापितं बसवेशादिप्रमथानां सभान्तरे ॥
गुरुवर्य त्वया प्रोक्तमष्टावरणवैभवम् ।
निपीय बहुधा कर्णपुटाभ्यां हर्षितोऽभवम् ॥
कथञ्चिदविरुद्धानां वैदिकानाञ्च युक्तिभिः ।
मतानां वेदशास्त्रार्थगर्भिताभिर्न्नीराकृतिः ॥
व्यतानि तत्प्रकारं मे प्रदर्शय यथाक्रमम् ।
राजन्मनीषा भवतः सन्तोषं पोपुषीति नः ॥
महादेवदयालब्धमीदृक्षं बुद्धिकौशलम् ।
आदाववैदिकमतनिराकरणमारभे ॥
प्रत्यक्षसर्वानुभवप्रसिद्ध्रमेयजाते सति मन्मतेऽपि ।
श्रुत्यागमाद्येषु निजानुकूलर्थं प्रकल्प्यान्यविलोभनार्थम् ॥
[[१८१]]
भो शीलवद्वर्य समीर्य किञ्चिन्मतं स्वकीयं परिहासयोग्यम् ।
भवेत्कथङ्कारमिहेन्द्रजाल्वरूप एतद्भवदिष्टसिद्धिः ॥
इतीदृशं भृङ्गिवरेण साधु लोकायतानां मतमीर्यमाणम् ।
वदामि राजेन्द्र वितन्द्रचित्तो नयाधुना श्रोत्रपथातिथित्वम् ॥
तत्र लोकायतार्हतबौद्धभेदेन त्रीण्यवैदिकानि मतानि ।
चार्वाकाः
तत्र लोकायतापरपर्यायाश् चार्वाका इत्थम् आहुः-
भूतानि
पृथिव्यप्तेजोवायवश् चत्वारि भूतानि, नान्यत् ।
स्वभावतस् तद्-विकारा एव घटादयः ।
आत्मा
शिशुत्व-बालत्व-कुमारत्व-वृद्धत्व-विशिष्टो देह एव आत्मा ।
तद्विलक्षण आत्मा नास्ति ।
यदि देहाद्भिन्न आत्मास्तीत्य् अभ्युपगम्येत
तदा राजभटैर्नीयमान इव
कृताक्रन्दः कश्चिद् देहभिन्नो यमभटैर्नीयमान उपलभ्येत, नोपलभ्यते,
ततो देह एवात्मा ।
चैतन्यस्योत्पत्तिः
जडभूतसमुदायविकारे देहे पूगपर्णचूर्णाम्बुसंयोगाद्राग इव स्वतश्चैतन्यमुत्पद्यते ।
सत्यजीवनमेव संसारः स्वाभाविकः, नान्याधीनः ।
मुक्तिः
अनिच्छतोऽपि मृतिरूपा मुक्तिः स्वत एव प्राप्या ।
पण्डितेन तदर्थं व्यर्थायासो न विधेयः ।
अदृष्टपापपुण्यधर्माधर्माः न
प्रत्यक्षोपलभ्यमाना घटादय एव वास्तवाः ।
अदृष्टम् अदर्शनाद् एव हेतोर् नाभ्युपगम्यते ।
परैर् अपि धर्माधर्मरूपम् अदृष्टं दृष्टम् इति न व्यवह्रियते,
दृष्टत्वादृष्टत्वयोर्विरोधात् ।
न च “कार्य-भूत-सुख-दुःखानुभव-वैचित्र्य-दर्शनात्
तत्-कारणत्वेन धर्माधर्मरूपादृष्टकल्पना न्याय्ये"ति वाच्यं,
स्वभावविशेषवशादेव सुख-दुःखानुभव-वैचित्र्योपपत्तेः
शश-शृङ्गायमाण-तद्-इतर-धर्माधर्म-रूपादृष्ट-कल्पनापेक्षाभावात् ।
+++(किञ्च धर्माचारादिरक्षाहेतुना सन्तति-परिसरादेः सुख-दुःखोत्पत्तिर् दृश्यत एव, येन प्रत्यक्षशरणैर् अपि धर्माद्य्-अभ्युपगन्तव्यम्। )+++
[[१८२]]
अत एव बके धावल्यम्, काके कार्ष्णम्, शुके हरितत्वम्, मयूरपिच्छे वर्णवैचित्र्यम्, कोकिले पञ्चमस्वरः, कृकवाकौ ताम्रचूडत्वम्, भुजङ्गेषु चक्षुःश्रवस्त्वम्, क्रमेलके दीर्घ-कण्ठत्वञ्च स्वभाव-विशेषवशाद् एवोपपद्यते ।+++(5)+++
अन्यथा तत्-तद्-वैचित्र्य-मूलत्वेन बहूनां धर्माधर्मरूपादृष्टविशेषाणां कल्पनापत्तेः ।
एवं पृथिव्यां काठिन्ये, जले शैत्ये, वह्नावूर्ध्वज्वलनोष्णस्पर्शयोः, वायावनुष्णाशीतस्पर्शे च स्वभावव्यतिरेकेण किञ्चित्कारणं न पश्यामः ।
तस्माद्विहितनिषिद्धकर्मकल्पितं पुण्यापुण्यरूपमदृष्टं न कल्पनीयमेव ।
यदीप्सितं तदेव विहितं कर्म, यद्यनीप्सितं तत्प्रतिषिद्धं कर्म ।
एताभ्यां कर्मभ्यां जायमानमदृष्टं नोपलभ्यते ।
स्वर्ग-नरकादि न
प्रत्यक्षसुखदुःखानुभवसाधनाद् अस्माल्-लोकाद्भिन्नं स्वर्गनरकाख्यं लोकान्तरं सुखदुःखानुभवास्पदं वर्तत इति धूर्तकल्पितः प्रकार एव ।
मृष्टान्नयुवतीक्षौमचन्दनादिनिषेवणम्, सुदेशो वा स्वर्गः ।
शत्रुरोगदन्याद्युपद्रवो दुष्टदेशो वा नरकः ।
न तपोव्रतादि
यदि दूरस्थं जलं तीर्थं स्यात्,
मृद्-दारुशिला-ताम्रादिप्रतिमा देवता स्यात्
तर्हि तीर्थस्नानान् मीनोऽपि शुचितामापद्येत;+++(5)+++
तत्र ध्यानाद् बकोऽपि विमुच्येत;
मौनाचरणान् मूकोऽपि मुनिः स्यात्;
उद्गानात् क्रोष्टा ऽप्य् आत्म-विद् भवेत्;
नखलोमनि कृन्तनाभावाद् भल्लूकोऽपि ब्रह्मचर्यं विन्देत;+++(5)+++
ज्वलद्-अग्नि-मध्य-प्रवेशाच् छलभोऽपि महाव्रतं प्राप्नुयात्;
कमठो+++(=कूर्मो)+++ ऽपि स्त्री-सङ्गाभावाज् जितेन्द्रियताम् आसादयेत्;
पवनाशनाद् भुजगोऽपि योगितां यायात्;
बधिरादयोऽपि गीतवादित्र-श्रवणादि-वैमुख्येन विरागिताम् आपद्येरन्;
कपोतः सिकताहारेण,
चातको जलबिन्दुपानेन,
वानराद्याः फलाशनेन,
गवाद्यास् तृणभक्षणेन,
पिपीलिकाः कणभोजनेन च तपस्वितां प्राप्नुयुः ।
किङ्च जलका रक्तपानेन,
पशवः पक्षिणो मृगाश् चागम्या-गमनेन, अ-भक्ष्य-भक्षणेन च नारकितां विन्देरन् ।
+++(शास्त्राणि मानुषविषयाणीति तु वैदिकाः। न च तपस्विता यत्-तद्-आचरणमात्रम् इत्य् उक्ता। अयं तर्ह्य् अनुक्तस्यैव निरासः। )+++
नैतावता तेषां सुखदुःखसाधने पुण्यपापे कल्पनीये ।
तस्माद् यमनियम-व्रतोपवासादि-रूपैस् तपोभिः
काय-क्लेशसाधनैर्निरर्थकः श्रमो न कार्यः ।
[[१८३]]
सत्यवादिता
अत एव शरीरभिन्नः कश्चिदात्मा ऽस्ति,
स च पुण्यकर्मविशेषात्स्वर्गं व्रजति;
पापकर्मकरणान्नरकं याति,
पुण्यपापमिश्रणान्महीं प्राप्नोतीत्य् असङ्गतं वादं कल्पयद्भिर्
देहान्ते स्वर्गादिर् भवतीत्य् आशा-मोदकाशनैर्
वस्तुतो +++(मिथ्या-वचनात्)+++ नास्तिकैर् आस्तिकम्-मन्यैर् धूर्तैः
सत्य-वादी चार्वाको नास्तिक इति व्यवह्रियते ॥
यथा सुशिक्षितोऽपि शिल्पी
घटं पटयितुं न क्षमते
तथा स्वमनीषा-मात्रेण धूर्त-जनो
ऽस्मान् यथार्थवादिनो नास्तिकान्कर्तुं न शक्नोति ।
शब्दतोऽपि शरीरात्मता
यद्यपि प्रत्यक्ष-प्रमाणाविषयं स्वर्गादिकं नास्त्येव,
तथापि परप्रसिद्ध्यैव परो बोधनीय इति न्यायम् अवलम्ब्य
पराभिमतं परलोकमङ्गीकृत्य
पराभिमतं शब्द-प्रामाण्यम् अङ्गीकृत्य देहात्मत्वं प्रसाध्यते ।
तथाहि-
छान्दोग्ये “इन्द्रो ह वै देवानामभिप्रवव्राज विरोचनोऽसुराणा” मित्युपक्रम्य, “द्वात्रिंशद्वर्षाणि ब्रह्मचर्यमुवासे” त्युक्त्वा, “य आत्मे” त्यादिना प्रेतस्य शरीरं भिक्षया वसनेनालङ्कारेणेति संस्कुर्वन्ति, एतेन ह्यमुं लोकं जेष्यन्तो मन्यन्त” इत्यन्तेन विरोचनेन देहात्मविद्या प्राप्तेपि श्रवणात् ।
तथा तत्तिरीयेऽपि- “अयमात्मा इदं पुच्छं प्रतिष्ठे"ति, “अर्धो वा यस्य आत्मनो यत्पत्नी"त्यत्र, तथा शूलगवाक्ये कर्मणि शिंशुमारशरीरे “यस्मै नमस्तच्छिर” इत्यादिनापि देह एवात्मशब्देनाभिधीयते ।
मतान्तराङ्गीकारः
तथा माध्वमतानुसारिभिश् चिद्देह एव आत्मेति व्यवस्थाप्यते ।
तथा सर्वम् आत्मेति वदतां सार्वात्म्य-श्रुतेः
घटादौ बाधितार्थकत्वेन शरीरमात्रे आत्मत्वस्य पर्यवसानात् ।
अन्यथा ग्रावाणः प्लवन्त इत्यादि-वाक्यवद् अप्रामाण्य-प्रसङ्गः ।
अहं स्थूलः कृशः सुखी दुःखीत्यादि प्रत्यक्षबाधितम् अनण्व्-अस्थूलम् अह्रस्वम् इत्यादिकं भेदप्रत्यक्षानुभव-बाधिताभेदवन् नेतव्यम् ।
संसार-नित्यता
यदि देहाद्भिन्न आत्मा,
स चानादिरित्यङ्गीक्रियेत तदा नित्यमुक्तस्वभावस्य तस्यागन्तुकः संसारः किं निबन्धनः ।
यदि च संसारोऽप्यनादिस्
तदा आत्मवत् संसारस्यापि नित्यत्वम् आपद्येत ।
[[१८४]]
यदि चेत् प्रवाहानादित्वं तदा प्रलयेऽपि नाशो न स्यात् ।
यदि प्रलयस्यापि प्रवाहानादित्वं तदा जगतः स्थितिरेव न स्यात् ।
तथाहि-
“ब्रह्मणा सह ते सर्वे
सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः
प्रविशन्ति परं पदम् "
इति स्मृतेः पूर्वम् अतीतानां ब्रह्मणां मुक्तिसमये
अनन्तानां जीवानां सहैव मुक्तेरवश्यं वक्तव्यत्वेन
मुक्तानाञ्च जीवानां पुनः संसृतिसम्बन्धस्य
भवद्-उक्त-रीत्यैव वक्तुम् अशक्यत्वेन
इदानीं संसारस्थितेरेव दुर्निरूपत्वात् ॥
यदि बहूनां प्रागतीतानां ब्रह्मणां सत्यलोकादौ स्वानन्दानुभवमात्रमङ्गीकृत्य प्राप्तेऽपि विधित्वे तेषामद्यापि न सार्वात्म्येन मुक्तिस्तन्मुक्तिसहभावो वावश्यं भावी, अनन्तजीवमुक्तिप्रतिरोधिसंसारस्थितेरित्यङ्गीक्रियेत तदानीमल्पायुषां जीवानां प्राचीनानन्तजन्मसु बहुतरकायक्लेशात्मकविहिताचारानुवर्तनपूर्वकस्थूलसूक्ष्मोपासनासहित् अमुक्तिसाधनीभूतश्रवणमनननिदिध्यासनेषु बहुशः कृतेष्वपि मुक्तेरभावादग्रेऽपि तेषु साधनेषु सत्स्वपि मुक्तिरेव न स्यात् ।
तादृशमुक्तेराशामोदकायमानत्वात् ।
अतेवैकमुक्तौ सर्वमुक्तिप्रसङ्गाद्वसिष्ठवामदेवादावेकस्यापि न मुक्तिः ।
ब्रह्मण्येकस्मिन् साधनभरिते कामचारिणामपि मूढानां सुलभा तेन सह सार्वात्म्यरूपा मुक्तिः ।
अतस्तत्साधनविशेषप्रतिपादकश्रुतिस्मृतिपुराणेतिहासादिकं सर्वं धूर्तप्रकल्पितमिति स्थितिः ।
ततो देहातिरिक्तात्मपक्षे बहूनां दूषणानां जागरूकतया शरीरमेवात्मा नान्य इति सिद्धम् ।
श्रुतिर् न प्रमाणम्
श्रुत्यादीनां प्रामाण्येऽपि व्यर्थश्रम-पर्यवसायित्वेन कामचारोपपत्तेः,
प्रत्यक्षबाधितार्थ-धूर्त-प्रकल्पित-प्रामाणिकत्व-भ्रान्तिर्
लोकप्रतारण-मात्रम् ।
अत एव “प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते” इति पौराणिकोक्तिः सङ्घटतेतराम् ।
अपिच प्रतिमन्वन्तरं सत्कर्मभिर्होमार्चनध्यानरूपैः सम्भाविता
इन्द्रादयो देवता मुनयो वसवो रुद्रा आदित्याश्च
स्वायम्भुवादिषु भिन्नाः;
ततस् तत्-प्रकाशक-मन्त्राः पृथक्पृथग् वक्तव्या
इति विश्वामित्रादिभी रचितो दशमण्डलो हि ऋग्वेदः ।
शास्त्रान्तरं न प्रमाणम्
अन्यश्च वेदव्यासादिभिः कणादगौतमादिभिः प्रणीतः परमात्मप्रणीत इति मृषोक्तिः ।
[[१८५]]
श्रुतौ प्रत्यक्ष-विरोधः
प्रत्यक्षबाधितार्थोऽयं वेदः कथमात्मोदितो भवेत् ।
अजायां ब्राह्मणस्य दक्षिणे हस्ते दर्भस्तम्बे अप्सु वा जुहुयादित्युपक्रम्य
अग्नाव् एवास्याग्निहोत्रं भवतीत्य् अजाविप्रकर-दर्भस्तम्ब-जलानाम् अग्निभिन्नानां प्रत्यक्षबाधिताग्नित्व-प्रतिपादनम्,
“दग्धो यज्वा यज्ञायुधी स्वर्गं व्रजेद्” इति स्वर्गगमनम्,
अग्नौ दग्धस्य हविषो
दावाग्निदग्धानां भूरुहां भूरिफलापादनवत् स्वर्गसाधनत्वम्,
“उत्ताना वै देवगवावहन्ती"ति गवाम् उत्तानगमनं,
“शृणोत ग्रावाण” इति ग्राव्णां श्रोतृत्वम्,
“अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः” इत्याद्ययोग्यार्थकथनम् ॥
देव-मिथ्यात्वम्
किञ्चाग्नीन्द्रादयो देवा न सन्ति,
यदि सन्ति हविरिव ते नश्येयुः,
अशरीरा यदि ते कथं हविर्भुञ्जीरन् ?
शब्दरूपा यदि
हविर् भुक्त्वा ऽतः कथं फलदाः स्युः ?
अर्थरूपाश् चेत् “अद्भ्यः स्वाहा, ओषधिभ्यः स्वाहा, वनस्पतिभ्यः स्वाहे"ति हविः सम्प्रदान-जलादयो जडाः कथं फलं दद्युः ?
तत्राग्नाव् अब्-देवतागमाद् अग्निर् नश्येत्,
ओषध्यादयो दह्येरन्,
अब्-आदीनाम् अनागमे च सम्प्रदानाभावात् कर्मणो वैयर्थ्यमापतेत् ।+++(5)+++
तथा “सर्वस्मै स्वाहे"त्यादौ सर्वस्यापि सम्प्रदानत्वात् को दाता किं हविः कस्मै फलं दद्यात् ?+++(5)+++
तस्मात् प्रत्यक्षाविषयीभूता देवता नायान्ति,
न हविर्भुञ्जते,
न फलं ददतीति
यागात् स्वर्गो भवतीत्य् आशा-मात्रम् ।
ततः सर्वमपि कर्म हविर्दाहायैव
न स्वर्गफलायेति तत्वम् ॥+++(5)+++
न दारु-शुलादौ
तथा यदि दारुशिलालोहप्रतिमादिषु देवता स्यात्
सा परिच्छिन्ना अपरिच्छिन्ना वा ?
नाद्यः- यौगपद्येन सर्वमूर्तिसम्बन्धाभावात् ।
एकस्यां प्रतिमायां सान्निध्यादेकेनव पूज्या,
प्रतिपूरुषं प्रतिगृहं पूजा वैफल्यं स्यात् ।
न द्वितीयः- देवतासान्निध्यस्य सह-ज-सिद्धत्वेन
संस्कार-विशेष-सहित-प्रतिष्ठादि-वैय्यर्थ्यात् ।
न च प्रतिष्ठामात्रेणाभिमान-विशेषः सिध्यतीति वाच्यं,
अचेतन-प्रतिमादौ चेतन-रूपदेवता कथम् अहम् इति अभिमन्येत ?
तथा सति पुरुषवद् गमनागमनादि-व्यवहारापत्तेः ।
[[१८६]]
यदि स्वाकृतिमति चित्रे राजा ऽहम् इत्यभिमन्येत
तादृश-बुद्धेः प्रतिष्ठाऽनपेक्षणात् ।
न वा चित्रे राज-प्रतिष्ठां कुर्वन्ति ।
काष्ठ-मथन-सम्भूत-वह्निवत् प्रतिष्ठया चितिर् उदेतीति चेत्
तर्हि निवेदितं सर्वमन्नं भुज्येत
ततः पूर्ववद् एव विद्यमान-मृच्छिलादारुविकारेषु स्वभोगायैव धूर्तैर्व्यर्थैव पूजा कल्प्यते ।+++(5)+++
श्राद्ध-पूजादि-वैयर्थ्यम्
अत एव वञ्चकैर् नित्यनैमित्तिकङ्कृतं
पितृतृप्तिकरं श्राद्धादिकं स्वभोगायैव कल्प्यते,
नेहान्येन भुक्ते सत्य् अन्यस्योदरं पूर्यते ।
जीवति ब्राह्मणे भुक्तवति वा विद्यमानस्वपित्राद्युदरं पूर्येत ।
किं चाब्दान्तरे प्रमितानां
बहुकालानन्तरं जीवते दीयमानम् अन्नादिकं तृप्तिकरञ्च स्यात्,
एवमेव ज्वलते दीपाय दत्तं घृततैलादिकं
परुत् परारि वा नष्ट-दीप-वृद्ध्यै प्रकल्पयेत ।+++(5)+++
तस्माद्यथा जतुगृहे दग्धान्पाण्डुपुत्रान् श्रुत्वा
धृतराष्ट्रकृतं श्राद्धादिकं व्यर्थं
तथेतरद् अपि श्राद्धादिकं पितृवर्गोद्देश्येन क्रियमाणं व्यर्थम् ।+++(5)+++
धर्मो विचित्रः
हिंसा-धर्मता
स्व-बन्धु-रक्षणासक्तैः हिंसाऽसमर्थैर् अहिंसा धर्म इत्युच्यते ।
हिंसा तु धर्म एव ।
अत एव श्रुत्यापि विविधहिंसा विधीयते ।
जामदग्न्यो जननीं,
धृष्टद्युम्नो गुरुं द्रोणं,
अर्जुनः सोदर्यं,
कृष्णो बन्धून्,
अभयम् अपि दत्वेन्द्रो वृत्रासुरं,
कार्तवीर्यो धेन्वर्थं जमदग्निञ् चावधीत्यादि प्रत्यक्षमुपलभ्यते ।
ततः समर्थस्य हिंसैव परमो धर्मः ।+++(5)+++
अनृत-धर्मता
तथा अनृतमपि धर्मः ।
“वर्णिनां हि वधो यत्र
तत्र साक्ष्य् अनृतं वदेद् "
इति श्रवणान् “नानृतं वदेद्” इति तु प्रतारणमात्रम् ।
कार्यार्थम् अनृतमेव वदेत् ।
ब्रह्मास्त्रार्थं कर्णेन,
जयार्थं युधिष्ठिरेण,
कौरवनाशार्थं भीमसेनेन,
सुभद्रार्थं धनञ्जयेन चानृतम् एवोक्तम् इति प्रसिद्धेः ।
स्तेयम्
तथा स्तेयम् अपि धर्मः ।
अस्तेयं धर्म इति स्वद्रव्यरक्षणासक्तकल्पनामात्रम् ।
चौर्येणापि स्वेष्टं सम्पादनीयम् ।
युयुम् इन्द्रो ह्य् अचूचुरत्,
शम्बरः प्रद्युम्नम्,
अनिरुद्धं चित्रलेखा,
सीतां दशाननोऽपजहार,
षण्डत्व-गोपन-परा जना ब्रह्मचर्यं स्वीकुर्वन्ति ।+++(5)+++
अशक्तस्य वैराग्य-कथा
अष्टाचत्वारिंशदब्द-पर्यन्तं ब्रह्मचर्य-स्वीकारं
महाव्रते ब्रह्मचारी पुंश्चलीयोग-प्रतिपादनात् त्यजति ।
एवं कुटुम्बभरणासमर्था अपरिग्रहमिच्छन्ति ।
[[१८७]]
अतोऽगस्त्य-सौभरि–जरत्कारु–प्रमुखा
अपरिग्रहं परित्यज्य स्त्रीपरिग्रहम् अकुर्वन् ।
एवं क्षुत्क्षामोदरैर् दरिद्रैः सुवर्णभूमिगोवस्त्रमृष्टान्न-दानं वर्णितम् ।
वापी-कूपादि स्वार्थाय
मार्गश्रमासहिष्णवः पान्था
देवालय-वापी-कूप-तटाकाराम-प्रपा-सत्रादिकरणं प्रशंसन्ति ।
वापीकूपतटाकादिषु पशु पक्षिमृगादीनां जलपानेन कर्तुर्महत्पुण्यं भवेदित्यपि न,
वापीकूपतटाकादिषु तत्र यदा प्रमादेन पतेयुः पशवस्
तदा “यावन्ति पशुरोमाणि तावन् नरकमृच्छती"ति श्रवणाद् अत्र कर्तुः,
देवालये सुप्तस्य शिथिल-तद्-आलय-पाषाण-पतनान् मरणे ब्राह्मणस्य देवालय कर्तुः,
भोक्तुः पुरुषस्याजीर्णाद् गल-लग्नाद् बलाद् वा मरणम् मृष्टान्नदातुः,
एवं परिग्रहीतुर् धन-लुब्धैर् दस्युभिर् मरणेऽपि
मृति-कारणी-भूत-शस्त्र-निर्माणाच् छस्त्रकर्तुर् इव
धन-वस्त्रादि-दातुस् तन्-मरण-निमित्ततया गो-वध–ब्रह्म-हत्यादि-पातक-प्रसङ्गः ।
पातिव्रत्यम् मातृरक्षायै
एवं श्वेतकेतुकल्पितः पातिव्रत्यसङ्कल्पो
मातृसंरक्षणायेति सम्भवपर्वणि एकषष्ठितमेऽध्याये कुन्तीम्पाण्डुराह-
अथ त्विमं प्रवक्ष्यामि पूर्वं धर्मं निबोध मे ।
पुराणमृषिभिर्दृष्टं सर्वधर्मभृतां वरैः ॥
अनावृताः किल पुरा स्त्रियश्चासन्वरानने ।
कामचारप्रचारिण्यः स्वतन्त्रा श्चारुहासिनि ॥
तासां व्युच्चरमाणानां कौमारे सुभगे पतीन् ।
नास्त्यर्धमस्तु स तदा स हि धर्मः सनातनः ॥
तञ्चैव धर्मं धर्मज्ञे तिर्यग्योनिगताः प्रजाः ।
पालयन्ति वरारोहे यथावदसितेक्षणे ॥
उत्तरेष्वपि रम्भोरु कुरुष्वद्यापि वर्तते ।
स्त्रीणामनिग्रहो धर्मः स एव हि सनातनः ॥
[[१८८]]
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥
एवं तृष्णातुराणाञ्च पुरुषं पुरुषं प्रति ।
अगम्यागमनं स्त्रीणां नास्ति नित्यं शुचिस्मिते ॥
पुत्रं वा किल पौत्रं वा कासाञ्चिद्भ्रातरं तथा ।
रहसीह नरं दृष्ट्वा योनिरुत्स्विद्यते तदा ॥
एतत्स्वाभाविकं स्त्रीणां न निमित्तकृतं शुभे ॥
इति ॥
किञ्च पाराशरस्मृतौ-
नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ ।
पञ्चत्स्वापत्सु नारीणां पतिरन्यो विधीयते ॥
इति ॥
अत्र परिसङ्ख्या तु न भवति किन्त्ववश्यविधेया सैव ।
कलौ पाराशरस्मृतिरिति कलियुगविषयत्वेनास्य युगान्तरविषयत्वकल्पनायोगात् ।
यद्यपि श्वेतकेतुना ऋत्वतिक्रमेणान्यगमने
आद्यप्रभृति हि स्त्रीणां भ्रूणहत्यापातकं स्याद् इत्युक्तं
तदपि तद्युक्त्य्-अङ्गीकार एव,
भूयसाम् ऋतुकालानाम् अतिक्रमणद् बह्व्यो भ्रूणहत्याः प्रसज्येरन् ।
सन्तत्युच्छेदोऽपि स्यात् ।
श्रुत्युक्तस्यापि ब्राह्मणालम्भनादेः परित्यागं कुर्वता श्वेतकेतूक्तस्य परित्यागे को दोषः ।
एवं मुन्यन्तरोक्तानामर्थानामनाचारेऽपि न दोषः ।
“न च +++(??=)+++ङैका द्वौ पती विन्दत” इति वेदविरोध इति वाच्यं,
तस्यार्थवादत्वाङ्गीकारात् ।
अन्यत्र श्रुतावेव
गायत्र्या एकस्या
वसूनां त्रिष्टुभो रुद्राणां जगत्या आदित्यानाम्
अरुन्धत्या ऋषीणां पत्नीत्वश्रवणात् ॥
तथा द्रौपद्याः पञ्चपत्नीत्वं स्वधायाः पितृणाञ्च पत्नीत्वं प्रसिद्धम् ॥
स्त्रीमात्रसाधारण्येन सोमगन्धर्ववह्नीनां पत्नीत्वं श्रूयते ।
अगम्यागमनम्
एवम् अगम्यागमन-व्यवस्थाप्य्
असमर्थ-जन-कल्पितैव -
चन्द्रो गुरुपत्नीं,
विश्वामित्रो मेनकां,
वसिष्ठो मदयन्तीं,
दीर्घतपाश्शूद्रां,
पराशरः सत्यवतीं,
व्यासः शूद्रां, गतवान् ।
[[१८९]]
न च “कलाव् एवागम्या-गमनं दोषाय, न युगान्तर” इति वाच्यम्,
एवं विषयव्यवस्थापको वेदो हि न श्रूयते ॥
ब्रह्मस्वापहारः
ब्रह्मस्वापहारो दोषायेत्यप्य् अविचारित-रमणीयम्,
पुरा बलिना वामनाय ब्रह्मचारिणे सर्वापि भूमिर्दत्ता,
सैव भूः परशुरामेणाश्वमेधे दक्षिणात्वेन कश्यपाय दत्ता,
अत एव काश्यपीति भूमेर्नाम प्रसिध्यतीति ब्रह्मस्वापहारित्वं सिद्धम् ।
यस्य द्रव्यं तस्यैव फलाय कल्पितम् इति नियमाद्
भूमौ सर्वैः क्रियमाणः सर्वोऽपि धर्मः कश्यपस्य स्यात् ।+++(5)+++
न च “सा भूमिः कश्यपेनान्येभ्यो दत्ता,
अतो न पूर्वोक्तदोष” इति वाच्यम् -
सा किं कश्यपेन क्षत्रियेभ्यो दत्ता वा ब्राह्मणेभ्यो वा ?
नाद्यः, क्षत्रियाणां प्रतिग्रहानर्हत्वात् ।
न द्वितीयः, ब्रह्मस्वापहारत्वानपायेन पूर्वोक्तदोष-तादवस्थ्यात् +++(क्षत्रिया भूवन्त इति)+++ ॥
किञ्च “ब्रह्मस्वं पुत्रपौत्रक” मितिवचनाद् ब्रह्मस्वापहारतत्पराणां क्षत्रियाणां पुत्रपौत्रादिसन्ततिविच्छेददर्शनात् ।
वर्णाश्रमधर्माः
एवं वर्णाश्रमधर्मविभागोऽपि मूढजनकल्पितः ।
तथाहि- कश्यपपुत्राद्विवस्वतो देवशिल्पिसुतायामुत्पन्नो वैवस्वतमनुः कथं क्षत्रियः स्यात् ?
तादृशमनुवंशे जाता हरितादयः कथं वा ब्राह्मणाः स्युः ?
वसिष्ठान् मदयन्त्याम् उत्पन्न आश्मको नाम राजा कथं वा अजायत ?
ययातेः क्षत्रियाद्विप्रकन्यायां देवयान्यां प्रतिलोमजो यदुर्नाम कथं क्षत्रियः स्यात् ?
शुद्रायामुत्पन्नाः कक्षीवदादयो वा कथं ब्राह्मणाः स्युः ?
वेनाख्यस्य नृपस्य पुत्रयोर्मध्ये कथमेको निषादः, अन्यः पृथुः क्षत्रियः कथं वा स्यात् ?
ब्रह्मचारी जामदग्न्यः अनधिकार्यपि कथमश्वमेधं कृतवान् ?
स्वाग्रजस्य विवाहाभावेऽप्यनुजो भीमसेनो हिडिम्बां कथमग्रहीत् ?
विश्वामित्रश्चण्डालं त्रिशङ्कुं कथं वा यज्ञे न्ययोजयत् ।
तस्माद्वर्णाश्रमविभागोऽपि नादरणीयः ।
अननुष्ठेयता
लोके बहवो नियमाः श्रूयन्ते ।
तत्रावहिता अपि कांश्चिन् नियमांस्त्यजन्ति,
साकल्येनानुष्ठातुं ब्रह्मणापि न शक्यते, तस्मात्पतनमावश्यकम् ।
शूद्र एव साधुः ।
[[१९०]]
ये केशवेन प्रतारिता जैना बौद्धा
धूर्तप्रतारिता लोकाश्च
दुर्धरे सङ्कटे पतिताः सन्तो
भक्त्या व्यर्थानि व्रतानि कुर्वन्ति ।
चार्वाकाणामस्माकं मते तु नैतादृशो नियमः ।
अन्येषु मतेषु नियमानां बहूनां श्रवणेन
तदाचरणाभावे पापसम्भवात्
पतनमेवेति कदापि न मुक्तिः ।
अस्मन्मते तु तादृशनियमाभावात्
पापप्रसक्तेर् अभावाद्
अनिच्छतोऽपि मुक्तिर्भवति ।
सुख-प्राधान्यम्
ब्राह्मणादिषु भगिनी-श्वश्रू-स्नुषा-जाया-शब्दैर् व्यवहर्तव्यासु स्त्रीषु
समदर्शी लोकायतः स्थितोऽन्येभ्यः समयिभ्यो विशिष्यते ।
अत एव मनुनापि “अप्यकार्यशतं कृत्वा भर्तव्याः स्त्रीसुतादय” इति वचनेन
स्वपोष्य-स्त्री-सुतादि-भरणार्थे ऽप्य् अकार्य-शत-करणाभ्यनुज्ञानाद्
आत्मार्थे अकार्यकरणं कैमुत्यन्यायेना सिद्धम् ॥+++(5)+++
तस्मात् यावज्-जीवं सुखानुभवाय
ऋणं कृत्वापि सुखं भोक्तव्यम्,
न तेन शरीरत्यागानन्तरं दुःखप्रसक्तिः,
सुखदुःखानुभोक्तृशरीरस्य भस्मीभूतत्वेन
पुनरावृत्यभावरूपस्य मोक्षस्य जातत्वात् ।
तस्माद् यावज्जीवमग्निहोत्रानुष्ठानं, साङ्गवेदत्रयाध्ययनं,
त्रिदण्डादि-सन्यास-व्रतानुष्ठानं, भस्मरुद्राक्षादि-धारणं
श्वेतमृत्तिका-गोपीमल–तुलसी-मणि-धारणादिकं,
बुद्धि-पौरुष-हीनानां जीवन-साधन-सम्पादनार्थम् एवेति सिद्धमिति ।
तद् एतन् मूढसम्मोहनमात्रम् ।
चार्वाक-प्रत्याख्यानम्
देहात्मत्वम्
तत्रादौ देहात्मत्वम् अत्यन्तासम्भावितम् ।
शरीरस्यैवात्मत्वे बालभावे
दृष्टिपथम् अवतीर्णस्य पदार्थस्य,
यौवनदशायं युवभावे ऽनुभव-पथङ् गतस्य,
स्थविरभावे स्मरणं नोदयम् आसादयेत्,
शरीराणाम् उपचयापचयैर् उत्पाद-विनाश-शालितया बालादि-शरीरापेक्षया स्थविरशरीरस्य च परस्परं भिन्नत्वात् ।
न च “तेषां परस्परं भिन्नत्वेऽपि
पूर्व-पूर्व-शरीरोत्पन्न-संस्कारेण
द्वितीयादि-शरीरेषु संस्कारोत्पत्त्या बाल-भावानुभूतस्यानन्तरं युव-भावादिषु स्मरणं सम्भवती"ति वाच्यम्,
अनुकलमुपचयापचयदर्शनेन प्रतिक्षणं भिन्नेषु तेषु संस्कारोत्त्पत्य्-अभ्युपगमे
अनन्त-संस्कार-कल्पनायां महद्-गौरवम् आपतेत् ॥
किञ्च यदि देह एव आत्मा
तदा बालस्य स्तन्यपानादौ प्रवृत्तिर् न स्यात्,
इष्ट-साधनता-ज्ञानस्य प्रवृत्ति-हेतुत्वेन
तदानीम् अभिष्ट-साधनत्वानुभावकाभावात् ।
[[१९१]]
न च “शरीर-भिन्नात्मवादिनां भवताम् अपि स्तन्यपानादौ प्रवृत्त्य्-उपपादनं दुष्करम्” इति वाच्यम्,
जन्मान्तरीयानुभव-जन्यस्य जीव-निष्ठस्य संस्कारस्योद्बोधेन स्मृतिरूपेष्टसाधनताज्ञानेन प्रवृत्तिसम्भवात् ।
न “चैवं तर्हि जन्मान्तरानुभूतमन्यदपि चरितं स्मर्येते"ति वाच्यम्,
तत्संस्कारोद्बोधकाभावात् ।
बालस्य स्तन्यपानादौ तु जीवनादृष्टम् एव स्मृति-बीजस्योद्बोधकं कल्प्यते ।
तस्माद् देहातिरिक्त आत्मास्तीत्य् अङ्गीकरणीयः ।
अस्मिन्नर्थे गीतावचनं प्रमाणम्-
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णान्य्
अन्यानि गृह्णाति नवानि देही ॥
इति ॥
शब्द-प्रामाण्यम्
न च
प्रत्यक्षातिरिक्ताप्रामाण्यम् अङ्गीकुर्वाणं नास्तिकं प्रति
शब्द-प्रामाण्योपपादनं गगन-कुसुमे सौरभ-विशेष-वर्णनम् इवासम्भावितम्+++(5)+++
इति वाच्यम्, शब्दाप्रामाण्य-वादिनं भवन्तं पृछामो,
“भवदीयं शब्दो न प्रमाणम्” इति वचनं प्रमाणम् अप्रमाणं वा ?
नाद्यः, यदि प्रमाणं तदा शब्दप्रामाण्यं सिद्धमेव ।
न द्वितीयः, यदि शब्दो न प्रमाणम् इति वचनं न प्रमाणं
तदानीम् अपि शब्दस्य प्रामाण्यं सिद्धम् एव ॥
अनुमान-प्रामाण्यम्
एवम् अनुमानम् अपि प्रमाणम्-
देहो नात्मा दृश्यत्वात्, रूपत्वात्, भौतिकत्वात् ।
घटादिवत् ।
किञ्च देहः स्वभिन्नद्रष्टृको दृश्यत्वात्, घटवत् ।+++(5)+++
इत्य्-आद्य्-अनुमानेन देहानात्मकत्वस्यात्मनो देह-विलक्षणस्य च सिद्धेर्
देहाद् अन्य एव आत्मा ॥
इन्द्रियात्मत्वम्स्
न च “प्राणेन्द्रियादिसङ्घात एवात्मे"ति वाच्यम्,
अन्ध-बधिर-पङ्ग्व्-आदाव् एकैकेन्द्रियरहिते तत्सङ्घाताभावाद्
अनात्मत्वप्रसङ्गात् ।
देहात्मत्वम् न - प्रत्यभिज्ञानात्
न च
“देहो नात्मे"त्याद्यनुमानं न प्रमाणं
बालोऽहं स्थूलोऽहं कृशोऽहम् इत्यादिप्रत्यक्षानुभव-बाधाद्
इति वाच्यम्,
बालोऽहं न युवा न वृद्धश्च, युवाहं न बालो न वृद्धश्च, वृद्धोऽहं न युवा न बालश्
चेति प्रत्यक्षेण तस्य बाधितत्वात्,
[[१९२]]
“योऽहं बाल्ये पितराव् अन्वभूवं
सोऽहं स्थाविरे नप्तुर् ननु भवामी"ति प्रत्यभिज्ञानाच्च,
बाल्याद्यवस्थानुस्यूतदेहभिन्नात्मसिद्धेर्देहात्मज्ञानस्य भ्रमत्वेन बाधौचित्यात् ।
यदि देहादिभिन्न आत्मा न स्यात्
तर्हि प्रागुक्तप्रत्यभिज्ञानं न स्याद्
इत्य् अनुकूल-तर्क-सनाथेन
दृश्यत्वाद् इत्य्-आदि-साधनेन
देह-भिन्नोऽनादिर् अनश्वर आत्मा सिध्यति ।
योऽहं पुराद्राक्षं स एवाश्रौषम्,
स एवाहमेतर्हि स्मरामीति प्रत्यभिज्ञानाच्चेन्द्रियसङ्घातस्य नात्मत्वं, अन्यदृष्टश्रुतेऽन्यस्य स्मरणासम्भवात् ।
तस्माद् “अन्नमयादन्योऽन्तर आत्मे"ति श्रुतेः पञ्चकोश-विलक्षणश्चिद् रूपः सकल-द्रष्टात्मेत्य् अवश्यं वक्तव्यम् ॥
“अज्ञो जन्तुर् अनीशोऽयम्
आत्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्
स्वर्गं वा श्वभ्रमेव वा”
इति वचनादज्ञानावृतः सुखदुःखयोरस्वतन्त्रः सुकृतदुष्कृतानुरोधेनेश्वरप्रेरणाधीनः स्वर्गनरकसुखदुःखानुभववान् जन्तुरिति सिद्धम् ॥
अपूर्वम्
यदपि नष्टस्य ज्योतिष्टोमादेः कथं कालान्तरीयफलहेतुत्वमिति तद् असत्-
पूर्वानुभवनाशेऽपि संस्कारद्वारा स्मरणवज्
ज्योतिष्टोमादि-जन्यादृष्टद्वारा निखिलपुरुषार्थसिद्धेः ।
स्वकीयपूर्वानुभवस्य स्वकीय-स्मृतिजनकत्ववत्,
स्वोपार्जित-सत्-कर्मण एव स्वस्य फल-दातृत्वम्;
सुख-दुःखादि-वैचित्र्यञ् च कर्म-वैचित्र्य-निबन्धनम् ।
न च “कदाचित् क्रमताम् आकस्मिकत्वम्” इति वाच्यम्,
हेतुविरहेण घटाद्यनुदयात्,
संस्कारात् प्राक् स्मृत्य्-अनुदयाच्च,
ज्योतिष्टोमाद्य्-अनुष्ठानात् प्राक् स्वर्गानुदयः ।+++(5)+++
यदि प्राग् जनिः पश्चाद् अपि न जायेत +++(??)+++।
स्वस्मात् स्वाजनिर् इत्य् अपि न पौर्वापर्य-विरोधः ।
तस्मात् कारण-निरपेक्षा कार्योत्पत्तिर्
इत्य् असमञ्जसम् ।
स्वभावो न सुख-दुःख-वैचित्र्य-हेतुः
स्वभावोऽपि स्वस्य भावः स्वभावः,
नहि स्वस्मात् स्व-जनि-सम्भवः ।
यद्य् अन्यो हेतुः कर्म-वैचित्र्यम् एवैतदिति सिद्धम् ॥
स्वभावस्यैव हेतुत्वे कारणवैचित्र्याभावात्
सुखदुःखादौ सामान्यमेव स्यात्,
सार्वकालिकं तदपि वा स्यात् ।
तस्माद् आत्मनः कादाचित्कं सुखदुःखवैचित्र्यं प्राणिकर्मानुरूपमेव ॥
[[१९३]]
देहात्मवादो न वेदे
यदपि “परमात्मेदं पुच्छमी"त्य् आदि-वैदिकोक्तेर् एव देहात्मवादः सिध्यतीति
तद् अपि न -
यथा नानार्थक-गो-शब्दात्
भास्करे गोपतिशब्दप्रयोगोऽपि पशुगोचरो न भवति यथा मृदात्मा घट इति स्वरूपमात्रे प्रयुज्यमानोऽयमात्मशब्दोऽग्नमयादिकोशस्वरूपवाचकोऽप्यन्तेपुच्छब्रह्मादिनि ष्ठत्वेन निर्णीत इति न देहात्मपरः ।
तस्मादात्मेति कथितोऽपि देहो न चेतनः ॥
मुक्तिः
यद् अप्य् उक्तं
देहभिन्नस्यात्मनोऽनादिसंसारे मुक्तिरजाता चेद्
अग्रेऽपि तथा मुक्तिर्न स्याद्
इति
तदसत्, पूर्वं कदाप्य् अनुत्पन्नस्य देहस्योत्पत्तिवत्
पूर्वमनुत्पन्नाया मुक्तेर् इदानीम् उत्पत्तिसम्भवात् ।
एतेन देहस्योत्पत्ति-विलयवन् मुक्तेर् अप्य् उत्पत्तिविनाशापत्त्या देहविनाशो मुक्तिर् इति निरस्तं,
अपेतबन्धनो वत्सो मुक्त इति पदप्रयोगाच्च मुक्तो मृत इति नेमौ पर्यायशब्दौ ।
मृत्याव् आत्मानुमानम्
यदपि मरणकाले प्रत्यक्षेण बन्धुभिर्देहादन्यो न दृश्यत इति,
अत्रेदं वक्तव्यम्- प्रत्यक्षातिरिक्तानुमानप्रमाणस्यापलापायोगात् ।
अनुमान-प्रमाण्यम्
न चानुमानाप्रामाण्ये व्याघातो हेतुः, वाङ्मात्रेण व्याघातायोगात् ।
न च व्यभिचाराद्व्याघातः, शुक्तौ रजतप्रत्यक्षेऽपि व्यभिचारात् प्रामाण्याभावात् ।
तस्माद् अदृष्ट-विज्ञान-करणात् प्रमाणमिति निर्दोषकरणम् ।
श्रुतिः
एवं श्रुतिरपि स्वार्थे प्रमाणमेव, एतेन धूर्तप्रकल्पितो वेद इति निरस्तम् ।
ब्रह्मणः शास्त्र-योनित्वस्य भगवता बादरायणेन सूत्रितत्वात् ॥
अत्यन्तासत्य् अप्य् अर्थे
शब्दस्य ज्ञान-जनकत्व-स्वाभाव्यस्य प्रामाण्यस्यौदार्णकत्वे+++(=??)+++ सिद्धे
दोषाभावात् प्रामाण्यम् ।
अपारुषेयत्वम्
अत एव चोदना-लक्षणे धर्मे
वेदप्रामाण्यं भट्टाचार्यैः प्रपञ्चेनोदितम् ।
ततः, अपौरुषेयोऽयं वेदः,
शिवादयोऽस्य स्मर्तारो न कर्तारः ।
तस्य प्रयोगहेतुभूतवाक्यार्थज्ञानाजन्य-शब्दत्वेन अपौरुषेयत्वम् ।
निश्वसितमेतदृग्वेदो यजुर्वेदः सामवेदः ।
तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे ।
इत्यादिकमपि स्मर्तृत्वमात्रपरम् ।
तादृश-शास्त्रयोनित्वमेव भगवता बादरायणेनापि सूत्रितम् ।
[[१९४]]
मन्वन्तरादौ न भेदः
यच् चोक्तं
धूर्तप्रकल्पितो वेद इति,
प्रतिमन्वन्तरम् अन्य
इत्यादि तन्न शिवादीनां स्मर्तृत्वमात्रप्रतिपादनात् प्रतिमन्वन्तरं वेदराशेर्विद्यमानस्यैव त्रिधा चतुर्धाभिन्नस्य युगानुगुणेनाध्ययनसिध्यर्थं वेदव्यासादयोऽधिकारिणो महर्षयः परमेश्वरप्रसादाद्विभज्य तं प्रकाशयन्ति, नतूत्पादयन्ति ।
न चानन्ता वै वेदा इति वचनेन,
आरुणं काठकमिति समाख्यया च, प्रतिमन्वन्तरं वेदस्योत्पत्तिरुच्यत इति वाच्यम्,
सहस्रधा सामशाखा इत्यादिवचनप्राप्तशाखा-बहुत्व-प्रतिपादनपरं नतूत्पत्तिपरम् ।
काठकादिसमाख्या तु प्रोक्तृप्रत्ययपरा ।
अपारुषेयत्वम्
तथा च स्वतः प्रमाणमपौरुषो वेदो निर्मलः, प्रमाणान्तरनैरपेक्ष्यात् ।
नित्यत्वाद् एव दोषाभावाच् च वेदानां प्रामाण्यं सिद्धम् ।
तेन वेदे नाप्रामाण्य-शङ्कावकाशः ।
तथा च वक्त्र्-अनधीनत्वेन प्रामाण्ये सिद्धे
वेदस्याभ्यर्हितत्वम् ।
पौरुषेये तु प्रमाणान्तरापेक्षं प्रामाण्यम् ।
प्रमाणान्तराभावे पौरुषेयत्वम् एव नेष्यते ।
अपौरुषेयम् आप्त-प्रणीतत्वाभावेऽपि प्रमाणम् एव ।
पूर्ण-प्रमाणम्
नन्व् “एक-देश-संवादाद् वेद-प्रामाण्यम्”
इति बुद्धार्हद्-उक्तागमयोर् अप्य् एकदेश-संवादात् प्रामाण्यम्
इति चेत् सत्यं,
कारीर्य्-आद्य्-एक-देश-संवादात्
सर्वो वेद-भागः प्रमाणम् इत्य् अप्रतिपादनाद्
अदृष्टत्वेनापौरुषेयत्वेन स्वतः प्रमाणम् इत्य् अभ्यर्हितत्वात्,
एकदेशसंवादस्य प्रामाण्यसाधकत्वायोगात्,
अन्यथा विप्रलम्भक-वाक्यानाम् अप्य् एक-देश-संवादात् प्रामाण्यापत्तेः ।
संवादार्थं वेदोक्तमेव किञ्चित्किञ्चिद्बौद्धादावप्युक्तम् ।
बौद्धादिभ्यो भेदः
न च बौद्धोक्तमेव वेदेनानूदितमिति वाच्यं,
लोके रत्नाकरादेव रत्नानि लब्ध्वा रत्नवन्तो जना भवन्ति,
न ह्यन्यतो लब्ध्वा रत्नाकराः स्युः ।+++(5)+++
तथाच सर्वे समयाः वेदांशांशोपजीविनः ।+++(5)+++
नहि सनातनो वेदः श्रावकैकांशोपजीवी।
अस्मद्-आदिभिः क्वापि सर्वज्ञस्यादर्शनात्
बौद्धागमस्य सर्वज्ञाप्तमूलत्वं न सम्भवति,
न चासीद् इति कल्पना ऽपि निराकरणवच् छक्यते ।
न च बुद्धस्यागमनिर्माणात् सर्वज्ञता,
बौद्धागमयोर् अन्योन्याश्रयात्+++(=??-)+++ ।
किञ्च योऽयम् असर्वज्ञः स तत्-सर्वज्ञत्वं न विजानाति,
यः सर्वज्ञः स केनापि नावबुध्यते,
तं प्रति तद्-वाक्यानां प्रामाण्यं न सम्भवति ।+++(5)+++
मूल-ज्ञाने ऽन्य-वाक्यवद् राग-द्वेषादि-रहिते
निर्व्यापारत्वेन व्यवस्थिते
वैदिके विषये,
उपदेशश् च प्रतिबिम्बाहृते
अन्य-प्रणीत एव ।
[[१९५]]
चिन्तामणि-सन्निधानाद् इव पुंसः सान्निध्यमात्रेण सर्वज्ञत्वम् ।
एवम् इन्द्रियाद्य्-अपेक्षया
जीवस्य केवलं ज्ञानं
सूक्ष्मातीतादि-विषयक-ज्ञानञ् चागमं विना न सिध्यति ।
सर्वज्ञेन विनागमो न सिध्यति ।
एतेन नित्यागमावबोधो निराकृतः ।
वर्णाश्रमाचार-धर्मादि
एवं वेदानामेव प्रामाण्ये सिद्धे
वर्णाश्रमाचार-धर्म-नियमादयश् च स्वर्गापवर्ग-फलदाः ।
अर्थवादावगतिः
अग्नाव् एवास्याग्निहोत्रं हुतं भवतीति
कार्यशेषोऽर्थवादः
तथापि तस्य स्वार्थे नात्यन्तम् अप्रामाण्यम् ।
गुणानुवादभूतार्थरूपेण त्रैविध्यसम्भवात् ।
तथाचाभियुक्तसन्दर्भोऽपि-
“विरोधे गुणवादस्यानुवादोऽवधारणे ।
भूतार्थवादश्च तथा ह्यर्थवादस्त्रिधा मतः” ॥
इति ॥
“यथा आदित्यो यूप” इत्यादित्यवत्पूतत्वगुणवान् यूप इत्यर्थः ।
अग्निर्हिमस्य भेषजमिति लोकप्रसिद्धार्थानुवादो विध्युपयोगी ।
मेधातिथेर्जहारेन्द्र इत्यादि भूतार्थवादः ।
सिद्धार्थप्रमितौ मन्त्रनाम्नोरप्ययं न्यायो योज्यः ।
एवं कार्यशेषाणां प्रामाण्यम् ।
अनन्यशेषाणां वेदान्तानान्तु चिद्-आत्मके परमात्मनि सार्वात्म्य-बोधस्यानितरसापेक्षं सर्वोत्तर-प्रामाण्यम् ।
तस्मान् मन्त्रार्थ-वादानां
तद्-अर्थ-प्रतिपादने पूर्वोक्त-रीत्या प्रामाण्यं सम्भवति ।
एवं यज्ञायुधी स्वर्गं व्रजेदित्यत्रात्मनः शरीरद्वारा यज्ञायुधसम्बन्धः ।
आत्मशरीरस्य स्वर्ग-यानवद् उपचरितार्थ-प्रतिपादकत्वेन सङ्गच्छते ।
यद् उक्तमोषधिभ्य इत्यादि तन्न-
पुरन्दरो वज्रहस्त इत्यादिना श्रुतो विग्रहो हविषां भोग ऐश्वर्यं प्रसन्नता वरप्रदातृता चेति देवतायाश्चरूपपञ्चकम् इति बादरायणादिभिः स्वीकारादोषध्या अभिमानदेवताविषयकत्वेन प्रतिपादनात् ।
ऐश्वर्ययोगाद्देवतानां दाहचाक्षुषत्वाभावात् ।
धर्मो न कामाचारः
यच् चोक्तम् अजीर्णाद् ब्राह्मणबाधे कूपादौ पशु-पतने तद्धर्मकर्तुः पापमित्यादि तदसत्,
जलपाने पुण्यस्मरणात्, अन्नदाने चात्यन्तसुकृतश्रवणात्, पशोर्ब्राह्मणस्य वा तेन बाधे दुष्कृतानाम् आम्नायात्,
कुतर्कमात्रेण पुण्यपापे न स्तः ।
पत्य्-अन्तरस्वीकारः कलौ निषिद्धो ब्राह्मणालम्भनवत् ।
[[१९६]]
स्त्रीणामनिग्रहो महाजनापरिग्रहात्त्याज्यः, गौतमेनाहल्याशापात् ।
भीष्मेणाम्बा विसृष्टा,
पितृवाक्याद्रामो जननीं जघान,
देवरेण सुतोत्पत्तिर् इत्यादिना तेषां तेजोविशेषेण च प्रत्यवायो नास्तीति स्मरणात् ।
यत्किञ्चिदेतत् ।
व्यर्थहिंसायां दोषश्रवणात् हिंसापि न कार्या
सूतपौराणिक-हत्यादोषोपशान्त्यर्थं हलिनो भूभ्रमणदर्शनात्,
मुनिसुतहत्यया दशरथस्य पुत्रशोकस्मृतेः।
मृषावादेन कर्णस्य जामदग्न्यशापात्,
तथैव धर्मसूनोर्नरकदर्शनात्,
कामधेनुचौर्येण वसूनां मनुष्ययोनौ प्रवेशात्,
दत्तापहारेण नृगस्यान्धकूपे गोधात्वप्राप्तेः,
अहल्याधर्षणेनेन्द्रस्य तेजोहानेः,
शचीकामनया नहुषस्याजगरत्वप्राप्तेः,
परिग्रहेण सौभर्यादीनां तपोनाशात्,
पानवशेन यादवानां युगपन्मरणात्,
अत्यन्तस्त्रीसम्भोगेन विचित्रवीर्यस्य राजयक्ष्मपरिग्रहात्,
द्यूतव्यसनेन पाण्डवानां राज्यभ्रंशात्,
मृगयाव्यसनेन कल्माषपादस्य राक्षसत्वप्राप्तेः,
वेद-देव-द्विज-निन्दया देवापेः पातित्यात्,
समयातिक्रमेण शन्तनोर् गङ्गायाः परित्यागात्
द्रौपदीद्रोहेण जयद्रथस्य परिभवदर्शनाद् इत्यादेस्
तत्र तत्र पुराणेषु प्रतिपादनाद्धिंसादिकं न कार्यमित्यास्तां विस्तरः ।
यच्चोक्तम् अप्य् अकार्यशतं कृत्वा भर्तव्येत्यादि तदसत् ।
अवश्यरक्षणे तात्पर्यावधारणात् ।
“आपद्यपि च कष्टायां
शूद्रवृत्तिं न चाश्रयेद्”
इति निषेधात् ।
सर्वोपायभ्रष्टस्य प्राणात्ययो विधिर्
इति चान्द्रायणादिकृतोच्छिष्टकुलुत्थ-ग्रहणाद्य्-उपन्यासो निरस्तः ।
तस्मान्न कामचारः कर्तव्य इति सिद्धम् ।+++(5)+++
अयम् अत्र निष्कर्षः-
यजुरारण्यके “सत्यं वद धर्मं चर स्वाध्यायान्मा प्रमदः ।”
इत्यादिश्रवणात्, कठवल्ल्यां
“येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके ।
एतद्विद्याम् अनुशिष्टस् त्वयाहं वराणाम् एष वरस्तृतीयः” इति नचिकेतसा पृष्टेन यमेन
“तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् ।
अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥
न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव
[[१९७]]
कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः ।
दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥
न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ।
अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥”
इत्यादिना प्रतिपादितत्वात्, तथा
“अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥”
इति ब्रह्मोपासकानां योगिनाम् अर्चिरादिमार्गगमनस्य,
तथा यागादिसद्धर्मानुष्ठाननिष्ठानां धूमादिमार्गगमनस्य च एतद्भिन्नानां हिंसास्तेयपरदारगमनाद्य्-अधर्म-निरतानाम् अनेकविधतत्कर्मानुरूपघोरनरकयातनानुभवस्य बहुशः श्रुतिस्मृतिपुराणेतिहासादिषु श्रूयमाणात्वात् ।
अतः श्रुत्यागमस्मृतिपुराणेतिहासचोदितधर्माचरणं निःश्रेयससाधनं तन्निषिद्धाचरणञ्च सकलदुरितसाधन मास्थेयम् ।
अत एतद्विरुद्धं लोकायतमतं श्रेयोर्थिभिर् न परिग्राह्यम् इति सर्वम् अवदातम् ॥
इति श्रीमद्-अनादि-निरञ्जन-जङ्गमापरावतार-
तोण्टद-सिद्धेश्वर-प्रसादासादित-
शाम्भवागमाम्बोधि-मथन-जनित-
निरुत्तरैकोत्तरशत-स्थल-भेद-भिन्न-षट्-स्थल–
तत्त्वबोध-सुधास्वादानन्द-सन्दोह-प्रदायकाचार्यवर्य-
श्रीमरितोण्टदार्य-विरचिते
यडव-मुरारि-कोटे-कोलाहलैकाङ्गि-वीर-
वैरि-सप्ताङ्ग-हरण-पश्चिम-समुद्राधीश्वर-
विशुद्ध-वैदिकाद्वैत-सिद्धान्त-प्रतिष्ठापनाचार्य-
केलदि-सदाशिव-राय-नायक-वंश-दुग्धार्णव-चन्द्र-
वीर-भद्र-धरणीन्द्र-धर्म्म-पत्नी-मल्लाम्बा-हृदयानन्द-
बसव-वसुधा-सङ्क्रन्दनोपदेशे
वीरशैवानन्द-चन्द्रिकायां वादकाण्डे दशमं प्रकरणम् ॥
[[१९८]]