वीरशैवानन्दचन्द्रिकायां वादकाण्डे नवमं प्रकरणम् ॥
गुरो रुद्राक्षमहिमा बहुधा हर्षयन्मनः ।
बोधनीयमितो यत्तत्पुनः प्रक्रम्यतां त्वया ।
राजन् पञ्चाक्षरीनाम्नो मन्त्ररत्नस्य वैभवम् ।
कथयामि सदिष्टार्थप्रधानः प्रणवं शृणु ॥
पठितपञ्चमप्रपाठकाष्टकयजुर्वेदे चतुर्थकाण्डमध्यमानुवाकाव स्थितः पञ्चाक्षरमन्त्रः सर्वदेवर्षिसिद्धसाध्यदानवमानवाभीष्टफलभोगमोक्षदानोदर्कतया सर्वैरुपासनीयः सप्तकोटिमहामन्त्रेष्वतिशयेन परतत्वप्रतिपादकः प्रणवसहितः षडक्षरोमन्त्रः ।
तथा हि सिद्धान्तशेखरे-
शिवतत्वात्परं नास्ति यथा तत्वान्तरं महत् ।
तथा पञ्चाक्षरीमन्त्रान्नास्ति मन्त्रान्तरं महत् ॥
सूक्ष्मागमे-
अल्पवर्णसमायुक्तमधिकार्थमसंशयम् ।
सारात्सारतरं शैवं वाक्यं मोक्षैकसाधनम् ॥
[[१६७]]
सर्वसिद्धिप्रदं दिव्यं सर्वतत्वप्रकाशकम् ।
आद्यं बीजमिदं देवि विद्यानामाप्य शेषतः ॥
सूक्ष्मात्सूक्ष्मतरं चैव वटवीजं यथा भुवि ।
मन्त्रोऽयं वाचि यस्यास्ति स एवाहं न संशयः ॥
ग्रन्थान्तरे-
विद्यासु श्रुतिरुत्कृष्टा तत्रैकादशनी श्रुतौ ।
तत्र पञ्चाक्षरी तस्यां शिवित्यक्षरद्वयम् ॥
शिवरहस्ये-
अनेन मनुना लिङ्गं सम्पूज्याष्टशतं जपेत् ।
तेन सर्वे महामन्त्रा जप्ता एव न संशयः ॥
अनेन मन्त्रितं भस्म धारयेत्स्नानपूर्वकम् ।
गङ्गादिसर्वतीर्थेषु स्नातो भवति मानवः ॥
ऊं कारः सर्वमन्त्राणां मन्त्रराट्परिकीर्तितः ।
पञ्चाक्षरयुतो देवि साक्षात्सायुज्यकारणम् ॥
लोके पञ्चाभिधेयानि प्रसिद्धानि विशेषतः ।
ज्ञेयानि तानि सर्वाणि पञ्चाक्षरमयानि हि ॥
चिराभ्यस्तेन योगेन षडक्षरमयेन च ।
जीवन्मुक्त इति ज्ञेयो मदनुग्रहभाग्भवेत् ।
तस्मात्सर्वं परित्यज्य जपेत्पञ्चाक्षरं शुभम् ॥
वेदाः साङ्गाः पुराणानि मन्त्राश्च बहवस्तथा ।
आगमा विविधा देवि विद्यास्थानानि यानि च ॥
पञ्चाक्षरे प्रलीयन्ते निर्गच्छन्ति पुनस्ततः ।
[[१६८]]
एतां पञ्चाक्षरीविद्यां हृद्यां मम समाश्रिताः ॥
कलावपि प्रमुच्यन्ते महात्मानो दृढव्रताः ।
महापातकविच्छित्यै शिव इत्यक्षरद्वयम् ॥
अलं नमस्क्रियायुक्तो मुक्तये कल्पितो मनुः ।
इत्यादिपुराणागमवचनैः सर्वोत्कृष्टशिवतत्वसाम्येन सर्वमन्त्रोत्कृष्टत्वस्य, सर्वविद्योत्कृष्टश्रुतिमध्यपठितरुद्राध्यायमध्यगततया शिवशब्दान्वितत्वस्य, स्वजपेन सर्वमन्त्रजपफलदातृत्वस्य, स्वमन्त्रितभस्मस्नानेन सर्वतीर्थस्नानफलप्रापकत्वस्य, स्वस्य पञ्चवर्णविशिष्टतया पञ्चसङ्ख्याविशिष्टतया वेदागमस्मृतिपुराणप्रसिद्धपञ्चमहाभूत-पञ्चतन्मात्र-पञ्चतत्व- पञ्चब्रह्ममन्त्र-पञ्चवक्त्र-पञ्चाग्निपञ्चप्राण-पञ्चज्ञानेन्द्रिय- पञ्चकर्मेन्द्रियपञ्चकला-पञ्चशक्ति-पञ्चकोशादिरूपत्वस्य, वेदादिसर्वविद्यास्थानोत्पत्तिलयाधिष्ठानत्वस्य, पापभूयिष्ठे कलावपि मुक्तिसाधकत्वस्य, महापातकनिर्वर्तकनमःशब्दसमभिव्याहृतशिवशब्दयुक्ततया मुक्तिसाधनत्वस्य च श्रवणात्पञ्चाक्षरीमन्त्रः सर्वमन्त्रोत्कृष्टो वैदिकैर्मुमुक्षुभिरुपास्यः ॥
ननु नारायणाष्टाक्षरीरामषडक्षरीनरसिंहमन्त्रादिमहामन्त्राणां वेदमध्यवर्तिनां मुमुक्षूपास्यत्वेन श्रवणात्कथं पञ्चाक्षरीमन्त्रस्यैव प्राशस्त्यम् ? तथाहि द्वात्रिंशदुपनिषन्मध्यप्रविशद्दशोपनीषद्व्यतिरिक्त नारायणोपनिषदि- ऊं मित्येकाक्षरं, नम इति द्वे अक्षरे, नारायणायेति पञ्चाक्षराणि ।
एतद्वै नारायणस्याष्टाक्षरं पदम् ।
यो वै नारायणस्याष्टाक्षरं पदमध्येति, अनपब्रुवः सर्वमायुरेति, विन्दते प्रजापत्यं रायष्पोषं गौपत्यं ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुते ॥
इति नारायणोपनिषत्प्रतिपाद्यत्वेन शोऽमृतत्वमश्नुत" इति मोक्षसाधनत्वश्रवणात् ॥
[[१६९]]
माघमाहात्म्ये-
गर्भजन्मजरारोगदुःखसंसारबन्धनैः ।
न बाध्यते नरो नित्यं नारायणमनुस्मरन् ॥
इतिहासोत्तमे-
जप नारायणमनुं पठ तन्नाममङ्गलम् ।
पाहि प्रपन्नजनतां ब्रूहि तथ्यं हितं नृणाम् ॥
गायत्र्यास्त्रिगुणं विष्णुं ध्यायन्नष्टाक्षरं जपेत् ।
प्रणम्य देवान्विप्रांश्च गुरुंश्च हरिपार्श्वगान् ॥
रामतापनीये-
श्रीरामस्य मनुं काश्यां जजाप वृषभध्वजः ।
मन्त्रान्तरसहस्रञ्च जपहोमार्चनादिभिः ॥
पद्मपुराणे शिवराघवसंवादे-
मुमूर्षोर्मणिकर्णिक्यामर्धोदकनिवासिनः ।
अहं दिशामि ते मन्त्रं तारकब्रह्मसञ्ज्ञितम् ॥
श्रीराम राम रामेति ह्येतत्तारकमुच्यते ।
अतस्त्वं जानकीनाथ परब्रह्म सुनिश्चितम् ॥
इत्यादिना नारयाणाष्टाक्षरस्य जननमरणादिसकलदुःखनिवर्तकत्वेन तथा अवश्यजप्यत्वेन विधानात्, गायत्रीदृष्टान्तेन तज्जपनैयत्यप्रतिपादनाच्च सर्वोत्तमत्वम् ।
एवं रामषडक्षर्याश्च मुक्तिप्रदत्वेन सकलजनसम्प्रतिपन्नवाराणसीक्षेत्रे “अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवती” तिश्रुतेः, “अत्रैव भगवान् रुद्रस्तारकं ब्रह्म व्याचष्ट” इति लघुजाबालश्रुतेश्च मोक्षसाधनत्वेन मुमुक्षुकर्णोपदेशयोग्यतारकमन्त्र-
[[१७०]]
त्वेन तदुपबृंहणपद्मपुराणवचनेन पर्यवसितत्वात्, तथैव नृसिंहमन्त्रस्यापि पूर्वतापिन्यां मोक्षसाधनत्वप्रतिपादनाच्च, कथं पञ्चाक्षरी मन्त्रस्यैव सर्वातिशायित्वमिति चेदत्रब्रूमः- सकलसूत्रकारमूर्धन्यबोधायनापस्तम्बसत्याषाढभरद्वाजवैखानसा ग्निवेश्यसञ्ज्ञकषट्सूत्रकारविधीयमानाग्नेयव्रतानुष्ठानपूर्वकका।
न्डोपकरणोत्सर्जननियमपुरस्सराध्येतव्यतैत्तिरीयशाखोपलभ्यमानत्वात्, “एकादशगुणान्वापि रुद्रानावृत्य धर्मवित् ।
महापापैरपि स्पृष्टो मुच्यते नात्र संशयः ॥
वेदमेकगुणं जप्त्वा तदह्नैव विशुध्यति ।
रुद्रैकादशनीं जप्त्वा तत्क्षणादेव शुध्यती"ति सकलस्मृतिकर्तृचक्रवर्तियमात्र्यङ्गिरःशातातपयाज्ञवल्क्यादिभिर्धर्म” सास्त्रप्रणेतृभिर्महापातकनिवर्तकप्रायश्चित्तत्वेन रुद्रैकादशन्या विधानात्, विज्ञानेश्वरमाधवहेमाद्रिप्रभृतिभिर्व्याख्यातृभिरप्येवं विवरणाच्च, रुद्रैकादशन्याः सर्वोत्तमत्वं सिद्धम् ॥
ननूक्तरीत्या रुद्रैकादशन्याः सर्वोत्तमत्वे पञ्चाक्षर्याः किमागतमिति चेद्भ्रान्तोऽसि, सर्वस्या रुद्रैकादशन्याः प्राशस्त्ये सिद्धे तन्मध्यपठितस्य पञ्चाक्षरीमन्त्रस्य प्राशस्त्यं कैमुतिकन्यायेनैव शरीरे मूर्ध्न इव सिद्धम् ।
प्रत्युत पञ्चाक्षरीयोगेनैव रुद्रैकादशन्याः सर्वोत्तरत्वं प्रतिपाद्यते ॥
तथाहि-
पञ्चाक्षरी शिवपदेन विभाति रुद्रा- ध्यायस्तया स्फुरति तेन चतुर्थकाण्डः ।
काण्डेन सर्वयजुरेव विभाति तेन ऋक्साममध्यमणिना च विभान्ति वेदाः ॥
विद्यासु श्रुतिरुत्कृष्टा रुद्रैकादशनी श्रुतौ ।
तत्र पञ्चाक्षरी तत्र शिव इत्यक्षरद्वयम् ॥
सैषा पञ्चाक्षरीविद्या शतरुद्रीयमध्यगा ।
पञ्चाक्षरे महादेवो सर्वदा सुप्रतिष्ठितः ॥
इति ॥
[[१७१]]
तस्मात्पञ्चाक्षर्याः सर्वोत्तरत्वम् ।
नहि नारायणाष्टाक्षर्यादीनामेतादृशं माहात्म्यम्, नारायणोपनिषद्रामतापनीयनृसिंहतापनीयादीनामुपक्रमोत्सर्जनादिनिय् अमपूर्वकमध्ययनस्य बोधायनादिकल्पसूत्रकारैरविधानादवश्यमध्येतव्यत्वाभावात्, पञ्चसंस्कारसंस्कृतवीरवैष्णवस्यापि पञ्चाक्षरीमन्त्राध्ययनाभावे स्त्येनक्लीबपतितनास्तिकनिन्दितकर्माभ्यासिनिराकृताद्येकोनपञ्चाशदपाङ्क्त् एयमध्ये परिगणनादापाङ्क्तेयत्वप्रसङ्गाच्च ।
नारायणोपनिषद्रामतापनीयनृसिंहतापनीयाध्ययनविधेरभावात्तदन ध्ययने प्रत्यवायाभावाच्च ।
प्रत्युत “यः स्वशाखां परित्यज्य शाखामन्यां समाश्रयेत् ।
शाखाषण्डः स विज्ञेयः सर्वकर्मबहिष्कृतः” इति यजुरध्ययनं परित्यज्य नारायणोपनिषदध्ययने शाखाषण्डत्वापाताच्च ।
तस्मात्पञ्चाक्षर्या अवश्याध्ये यत्वादनध्ययने प्रत्यवायविधानाच्च ।
सर्वोत्तरत्वं सिद्धम् ।
ननूक्तरीत्या बहुनायासेन पञ्चाक्षर्या अवश्याध्ययनीयत्वेऽपि कर्मकाण्डपठितमन्त्रान्तरवद्यज्ञानाङ्गत्त्वेन नश्वरस्वर्गादिफलसाधनतया मोक्षहेतुत्वाभावेन च कथं प्राशस्त्यमिति चेन्न,
विविक्तदेशे निर्दोषे निर्भये निरुपद्रवे ।
पद्मासने समासीनः प्राङ्मुखो वाप्युदन्मुखः ॥
समःकायशिरोग्रीवस्त्वरालस्यादिवर्जितः ।
शिवं ध्यायन् जपेद्योगी जीवन्मुक्तो न संशयः ॥
मुमुक्षूणां यथा शम्भुः संसारभयमोचकः ।
इति मोक्षसाधकत्वश्रवणात्कर्मकाण्डमन्त्रापेक्षया वैलक्षण्यात् ।
न च श्रुतावेव नारायणाष्टाक्षर्यादिमन्त्रस्य “ततोऽमृतत्वमश्नुत” इत्यादिना मोक्षसाधनत्वश्रवणात्, एवं पञ्चाक्षरीमन्त्रस्य श्रुतौ मोक्षसाधनत्वाश्रवणान्मोक्षसाधनत्वं सन्दिग्धमेवेति चेन्न, अथ हैनं ब्रह्मचारिण ऊचुः किं जप्येनामृतत्वं ब्रूहीति स
[[१७२]]
होवाच याज्ञवल्क्यः शतरुद्रीयेनेति ।
एतानि वा अमृतानामधेयानि एतेषु वा अमृतो भवति ॥
इति लघुजाबालोपनिषद्वचनेन ।
यः शतरुद्रीयमधीते सोऽग्निपूतो भवति, स वायुपूतो भवति, सुरापानात्पूतो भवति, कृत्याकृत्यात्पूतो भवति, सर्वबन्धनान्मुक्तो भवति, तस्मादविमुक्तमाश्रितो भवत्यत्याश्रमी सर्वदा सकृद्वा जपेत् ।
अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् ।
तस्मादेवं विदित्वैवं कैवल्यं पदमश्नुते कैवल्यं पदमश्नुते ॥
इति कैवल्योपनिषद्वचनेन च, शतरुद्रीयस्य मोक्षसाधनत्वस्य स्फुटतरं श्रूयमाणत्वेन पञ्चाक्षरीमन्त्रस्य मोक्षसाधनत्वे कस्यापि विवादाभावात् ।
किञ्च सकलतत्वोतीर्णनिर्गुणपरशिवतत्वप्रतिपादकानितरसाधारणमाहात्म्यबो धकशिवशब्दसमभिव्याहृतत्वात्पञ्चाक्षरीमन्त्रस्य सर्वोत्तमत्त्वम् ॥
शिवशब्दोऽत्र शोभनवचनः, श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभ" मित्यमरकोशात् ।
शिवाः शोभनाः सर्वज्ञत्वादयो गुणा अस्य सन्तीति शिवः ।
अर्शादेराकृतिगणत्वादच् प्रत्ययः ।
हेत्वलङ्कारविधया अभेदोपचाराद्वा सर्वज्ञतादयश्चाङ्गाव्ययभेदेन द्विविधाः शिवपुराणागमप्रसिद्धाः ।
यथोक्तं-
सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च विभो र्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ॥
ज्ञानं विरागतैश्वर्यं तपः सत्यं क्षमा धृतिः ।
स्रष्टृत्वमात्मसम्बोधो ह्यधिष्ठातृत्वमेव च ॥
[[१७३]]
अव्ययानि दशैतानि नित्यं तिष्ठन्ति शङ्करे ॥
इति ॥
यद्यपि परशिवस्य निष्कलत्वाद्गुणास्तस्मिन् न सम्भवन्ति ।
ङिष्क्रियं निष्कलं शान्तं निरवद्यं निरञ्जन"मिति श्रुतेः, शिवतत्वं महासेन निष्कलन्त्विति कीर्तित"मिति वातुलशुद्धवचनाच्च ।
तथापि शृष्ट्यर्थं सर्वतत्वानां लोकस्योत्पत्तिकारणात् ।
योगिनामुपकाराय स्वेच्छया गृह्यते तनु"रिति, तथा “योगिनाञ्च यतीनाञ्च ज्ञानिनां मन्त्रिणामपि ।
जपपूजानिमित्ताय निष्कलं सकलं भवे"दिति च तत्रैव वातुलशुद्धवचनात्तदाश्रितपराशक्तिकल्पितान् गुणानादाय तथा व्यपदेशः ॥
अथवा स्वयमेव शिवः शोभनत्वात् ।
शोभनत्वञ्च सर्वजीववर्त्याणवकार्मणमायेयाख्यानादिमलत्रयाभावरूपनैर्मल्यलक्।
सणं शुद्धत्वम् ।
अणु= र्जीवः, तस्यानादिर्जीवतापादकोऽविद्यासम्बन्ध आणवं मलम्; अनादिकर्मफलं वासनारूपं कार्मणं मलम्; अस्ति प्रकाशत इति व्यवहारसामग्र्यां सत्यां, नास्ति न प्रकाशत इति व्यवहारसामग्र्यामसत्याञ्च नास्ति न प्रकाशत इति व्यवहारयोग्यत्वरूपमावरणं मायेयं मलमिति सकलशिवागमप्रसिद्धम् ।
तादृशमलत्रयाभावात्परमात्मनि अकर्मवश्ये सर्वज्ञे निर्मलता सम्भवति ।
यथोक्तं वायुसंहितायाम्-
अथवाशेषकल्याणगुणैकघन ईश्वरः ।
शिव इत्युच्यते सद्भिः शिवतत्वार्थवेदिभिः ॥
अनादिमलसंश्लेषयोगाभावात्स्वभावतः ।
अत्यन्तपरिशुद्धात्म्येत्यतोऽयं शिवम् उच्यते ॥
इति ॥
तथा तत्रैव प्रदेशान्तरेऽपि “विशुद्धः शिवभासत” इति ।
वातुलशुद्धेप्युक्तम् शुद्धत्वाच्छिव इत्युक्त” इति ॥
यद्वा शेतेऽस्मिन् सर्वमिति शिवः, सर्वकारणीभूतचिच्छक्तेरप्याधारतया परमशिवस्येव जगदाधारत्वात् ।
शर्वनीघृष्वरिष्वलष्वशिवपट्व-
[[१७४]]
प्रह्वेष्वा अस्वतन्त्र" इति तन्त्रपदवाच्यकृद्भिन्नाधिकरणे औणादिकनिपातनात्साधुः ।
“यो योनिं योनिमधितिष्ठत्येको यस्मिन्निदं सञ्चविचैति विश्वम् ।
तमीशानं वरदं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेती"ति श्रुतेः ॥
अथवा शाम्यतीति शिवः ।
शिवादयश्चे"ति जैनेन्द्रव्याकरणसूत्रेण क्वनिपीत्वाल्लोपयोश्च रूपमिति निर्विकार इत्यर्थः ।
ङिष्क्रियं निष्कलं शान्तम् ।
त्रिलोचनं नीलकण्ठं प्रशान्त"मिति च श्रुतेः ॥
अथवा वष्टीति शिवः, वश= कान्ताविति धातो पचाद्यचि पृषोदरादित्वाद्वर्णव्यत्यये अकारस्य इकारादेश च सति शिव इति रूपम् ।
“हिसि धातोः सिंहशब्दो वशकान्तौ शिवस्मृतः ।
वर्णव्यत्ययतः सिद्धः कश्यपः पश्यको यथे"त्यभियुक्तोक्तेः ।
तस्य चेच्छाश्रय इत्यर्थः ।
यद्यपि कर्तरि कृदित्यनुशासनात्कर्तृत्वस्य च धात्वर्थविषयकृत्याश्रयत्वरूपत्वात्, प्रकृते पचाद्यच्प्रत्ययस्य आश्रयार्थकत्वमलभ्यम्, तथापि ज्ञानादिगोचरकृतेरभावेन ज्ञानादिबोधकधातूत्तरकर्तृप्रत्ययानां जानातीच्छति यतत इत्यादिषु आश्रयलक्षकतया सम्प्रतिपन्नत्वेन इच्छाश्रयत्वपर्यवसानात् ।
सा चेच्छा शिवस्य चिद्रूपायाः पराशक्तेरभेद एव ।
“परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञान-बलक्रिया च” इति श्रुतेः; वातुलशुद्धेऽपि-
तच्छिवे तु परा शक्तिः सहस्रांशसमुद्भवा ।
पराशक्तेः सहस्रांशादादिशक्तिसमुद्भवः ॥
आदिशक्तिसहस्रांशादिच्छाशक्तिसमुद्भवः ।
इच्छाशक्तिसहस्रांशाज्ज्ञानशक्तिसमुद्भवः ॥
ज्ञानशक्तिसहास्रांशात्क्रियाशक्तिसमुद्भवः ।
इत्यभिधानात्;
शक्तिराज्ञा परा शैवी चिद्रूपा पारमेश्वरी ।
शिवेऽवतिष्ठत्यखिलं यया करणभूतया ।
[[१७५]]
तस्याङ्कमण्डलारुढा शक्तिरिच्छाह्वया परा ।
महालक्ष्मीरिति ख्याता श्यामा सर्वमनोरमा ॥
इति शिवपुराणवचनाच्च ॥
परन्तु पराशक्त्याश्रयस्य परमशिवस्य साक्षादेव तदाश्रयत्वे वक्तव्ये तदभेदात्कथञ्चित् समर्थनीयस्य इच्छाशक्त्याश्रयत्वकथनम् ॥
अथवा वष्टि लोकहितमिति शिवः, रूपसिद्धिः प्राग्वत् ।
समेधयति यन्नित्यं सर्वार्थानामुपक्रमम् ।
शिवमिच्छन्मनुष्याणां तस्मादेवं सदाशिवः ॥
इति महाभारतोक्तेः ॥
यद्वा शिवं मङ्गलं करोतीति शिवः, शिवशब्दात्तत्करोतीति ण्यन्तात्पचाद्यचि रूपम् ।
तथा च श्रुतिः- शिव एको ध्येयः शिवङ्करः सर्वमन्यत्परित्यज्ये"ति ।
महाभारतेऽपि-
समा भवन्ति मे सर्वे दानवाश्चामराश्च ये ।
शिवोऽस्मि सर्वभूतानां शिवतत्वं तेन मे सुराः ॥
इति ।
तदयमत्र सङ्ग्रहश्लोकः-
शेतेऽस्मिन् जगदीहते दिशति च श्रेयः प्रजानामसौ शान्तिं याति समस्तमङ्गलगुणग्रामस्य सीमायते ।
इच्छाशक्तिमुपैति निर्मलतरश्चास्ते प्रकृत्येति च व्याचष्टे शिवनाम यस्य चरितं तस्मै परस्मै नमः ॥
इति ॥
यावन्तोऽर्था दर्शितास्तावत्स्वपि तात्पर्यं शिवपदस्यास्ति, स्तोत्रार्थं प्रवृत्ते तस्मिन् बहुप्रकारस्तुतिक्रोडीकारस्य नानाकथाशेषकाव्यस्थपदेषु तत्कार्योचितार्थक्रोडीकारस्यैव गुणत्वात् ।
एवमेतेषां योगार्थानां रूढिमच्छब्देन प्रतिपादनं रूढिवद्योगार्थानाम् आसाधारण्यख्यापनाभिप्रायकमिति युक्तमेव ।
केवलयौगिकानां भक्तवत्सलादिपदानामपि रूढनामसंवलितपाठनादेव तद्वद्योगार्थसाधारण्या-
[[१७६]]
भिप्रायकत्वं स्फुटमेव ।
तथाचात्रासाधारणयोगार्थपराणां भक्तवत्सलादिपदानां स्वार्थासाधारण्याभिप्रायः ।
यद्यप्यन्येऽपि भक्तवत्सलाः सन्ति, तथापि ते तु न शिववद्भक्तवत्सलाः, अस्य हि वात्सल्यमन्यादृशमिति दृष्ट्या समर्थने “भेदकातिशयोक्तिः स्यात्तस्यैवान्यत्ववर्णन, इत्युक्तलक्षणाभेदकातिशयोक्तिः ।
भक्तवात्सल्यं शिवस्यैवास्ति अन्यस्य तु कस्यापि नास्तीत्यपलापदृष्ट्या समर्थने “योगेऽप्ययोगः सम्बन्धातिशयोक्तिरितीर्यत” इत्युक्तलक्षणासम्बन्धातिशयोक्तिश्च व्यज्यत इति दिक् ।
सर्वेष्वपि नामसु तत्तद्गम्यमानाद्भुतादिरसस्य परमेश्वरविषयरतिभावाङ्गतया रसवदलङ्कारो वेदितव्यः ।
तत्रास्मिन्नामनि श्लेषालङ्कार एकः, “नानार्थसंश्रयः श्लेषोवर्ण्यावर्ण्योभयास्पद” इति तल्लक्षणात् ।
स च प्रथमः, वर्णैकविषयत्वात् ।
तथा शेतेऽस्मिन् जगदिति शिव इति व्युत्पत्तौ प्रसिद्धं यज्जगदतिविस्तृतं तदप्यस्मिन् शेते असम्बाधेन वर्तत इत्यर्थादधिकालङ्कारः ।
“पृथ्वाधेयाद्यदाधाराधिक्यं तदपि तन्मत"मिति तल्लक्षणात् ।
अत एव तादृशव्यापकताशालितानिबन्धनाद्भुतरसस्य परमेश्वरविषयरतिभावाङ्गतया रसवदलङ्कारः, “रसस्य पराङ्गत्वे रसवदलङ्कार” इति तल्लक्षणात् ।
शिवङ्कर इत्यर्थे कल्याणवाचिनः शिवशब्दस्य तज्जनके लक्षणया प्रयोग इति समर्थने हेत्वलङ्कारः, “हेतुहेतुमतोरैक्यं हेतुं केचित् प्रचक्षत” इति तल्लक्षणात् ।
न च शिवशब्दस्य मङ्गलवाचिनो लक्षणया तद्धेतौ नपुंसकलिङ्गतैव स्यान्न तु पुल्लिङ्गतेति वाच्यम्, लाक्षणिकानां शक्यलिङ्गनियमासिद्धेः ।
गङ्गायां घोष इत्यादिषु क्वचित्तत्सद्भावेऽपि गुणवचनानामत्वर्थलक्षणायां सर्वेषां पुंयोगलक्षणायाञ्च तादृशनियमाभावस्य सर्वसम्प्रतिपन्नत्वात् ।
न च पुंयोगस्थले न प्रकृतेर्लक्षणा, किन्तु स्त्रीप्रत्यय एव प्रकृत्यर्थसम्बन्धिनीं स्त्रियमाहेति वाच्यं, तथा सति तस्येदमिति तद्धितं नाप्राप्ते आरभ्यमाणे “नीषा तस्य बाधात् ।
तथापि प्राष्टीति तद्धितान्तरूपासिद्धि
[[१७७]]
प्रसङ्गात् ।
अतः प्रकृतिरेव यदा तत्साहचर्यात्तत्सम्बन्धिन्यां स्त्रियां लक्षणया प्रवर्तते तदा स्त्रीलिङ्गायाः तस्यास्त्र्यधिकारविहितः स्वार्थिको “नीषिति सिद्धान्तः ।
स्पष्टञ्चैतत्प्रतिपादितं पुंयोगसूत्रे महाभाष्ये “अतस्मिंस्तच्छब्दश्चतुर्धा भवति ।
तात्स्यात्, ताद्धर्म्यात्, तत्सामीप्यात्, तत्साहचर्याच्चे"त्यादिना ।
एतच्च पदमञ्जर्यामपि स्पष्टम् ।
त्रयाणां चैतेषां संसृष्टिः ।
यद्वा एकवाचकानुप्रवेशलक्षणः सङ्करः ।
यद्यप्येकस्मिन्नेव संसर्गे लक्षणद्वययोगाद्यत्रालङ्कारद्वयं तत्रैव तयोरेकवाचकानुप्रवेशसङ्करः ।
यथा “हिमकरपरिरम्भादात्तनिष्यन्दपूरैः ।
शशिदृषदुपकॢप्तैरालवालैस्तरूणाम् ।
विफलितजलसेकप्रत्ययागौरवेण व्यरचि सुहृतचित्तस्तत्र भैमीवनेने"त्यत्र स्फटिकालवालानां चन्द्रिकासम्बन्धप्रयुक्तनिष्यन्दवर्णनसमृद्धिमद्वस्तुवर्णनरूपोदात्ताल” न्कारस्य, असम्बन्धे सम्बन्धरूपातिशयोक्तेश्च सत्वात्तयोरेकवाचकानुप्रवेशलक्षणसङ्कर इति ।
इह तु यद्यपि शेतेऽस्मिन् जगदिति शिव इति संसर्गे रसवदलङ्कारः ।
अस्मिन् संसर्गे संसर्गान्तरे च व्यासज्य वर्तते श्लेषः, संसर्गान्तर एव वर्तते हेत्वलङ्कार इति वर्तते वैषम्यं, तथाप्येकवाचकानुप्रवेश- सङ्करोऽव्याहत एव ।
तथाहि- उदाहृतश्लोकेऽपि सङ्कीर्यमाणालङ्कारयोरधिकरणीभूतसंसर्गैक्यं नोक्तसङ्करप्रयोजकम् ।
तथाहि सति एकवाचकानुप्रवेशसङ्करः, सामानाधिकरण्य सङ्कर इत्यादिरेव व्यपदेशः स्यान्न तु वाचकैक्यघटितोऽपि; किन्तु सङ्कीर्यमाणालङ्कारयोरधिकरणीभूतसंसर्गोपस्थापकैक्यमेवोक्तसङ्क् अरप्रयोजकम्, तस्यैवैकवाचकानुप्रवेशशब्दार्थानुगमात् ।
तच्च क्वचित्संसर्गैक्ये भवति, क्वचित्तद्भेद इत्यन्यदेतत् ।
प्रकृते एकस्मिन् शिवशब्दरूपे वाचके तदुपस्थाप्यसंसर्गद्वयाश्रयतया श्लेषः ।
तदुपस्थाप्यैक संसर्गनिष्ठतया रसवदलङ्कारावनुप्रविष्टाविति युक्तमेव तयोरेकवाचकानुप्रवेशः ।
आस्तामंशतस्तु रसवदलङ्काराधिकालङ्कारयोरेकवाचकानुप्रवेशसङ्कर इत्यलं प्रसक्तानुप्रसक्त्या ॥
[[१७८]]
इदञ्च श्रुतिसिद्धं नाम ।
ङमः शिवाय च शिवतराय च; तस्मात्सर्वगतः शिवः, न सन्नचासच्छिव एव केवल” इत्यादि बहुश्रुतिप्रसिद्धेः ।
माहात्म्यञ्चास्य श्रुतिसिद्धम् “अपि वा यश्चण्डालः शिव इति वाचं वदेत्तेन सह संवदेत्तेन सह भुञ्जीते"ति श्रुतेः ।
यद्द्व्यक्षरं नाम गिरेरितं नृणाम् सकृत्प्रसङ्गादघमाशु हन्ति तत् ।
पवित्रकीर्तिं तमलङ्घ्यशासनम् भवानहो द्वेष्टि शिवं शिवेतरः ॥
महापातकविच्छित्यै शिव इत्यक्षरद्वयम् ।
अलं नमस्क्रियायुक्तो मुक्तये कल्पितो मनुः ॥
इत्यादिश्रुतिभागवतपुराणेभ्य एतस्मिन्नेव नाम्नि, शिवनामघटिते पञ्चाक्षरमन्त्रे च जीवरत्नव्यवहारश्शिवागमविदाम् ।
“तस्मात्सह तया शक्त्या हृदि पश्यन्ति ये शिवम् ।
तेषां शाश्वतिकी शान्तिर्नेतरेषामिति श्रुति"रिति शिवपुराणोक्तरीत्या सकलश्रेयःकारणीभूतसकलतत्वोत्तीर्णश्रीसाम्बशिवप्रतिपादकतया चास्य नाम्रः सर्वातिशायित्वं सिद्धं, एतादृशशिवनामसमभिव्यवहारादपि पञ्चाक्षर्याः ॥
अपि च प्रणवावयवभूतब्रह्मविष्णुरुद्रेश्वरसदाशिवतदात्म्यापन्नतारकदण्ड् अकुण्डलार्धचन्द्रबिन्दुरूपाकृत्यभिन्ननकारमकारशिकारवाकारयकारवि शिष्टतया परतत्ववाचकप्रणवसारूप्यात्पञ्चाक्षर्याः, प्रणवस्य चाकारोकारबिन्दुनादकलासत्तात्मना षड्रूपस्य, निवृत्तिप्रतिष्ठाविद्याशान्तिशान्त्यतीतोत्तराख्यषट्कलात्मकस्य, क्रियाज्ञानेच्छादिपराचिदाख्यषट्शक्त्यात्मकस्य, कर्मसादाख्यकर्तृसादाख्यमूर्तसादाख्यामूर्तसादाख्यशिवसादाख्यमह असादाख्यनामषट्सादाख्यरूपस्य, सद्योजातवामदेवाघोरतत्पुरुषेशानगोप्याभिधानषण्मुखात्मकस्य, सुचित्तसुबुद्धिसुमनः सुज्ञाननिरहङ्कारसद्भावाह्वयषड्विधहस्तरूपस्य,
[[१७९]]
श्रद्धानिष्ठासावधानसमरसानन्दानुभवात्मकषड्भक्तिरूपस्य, आचारलिङ्गगुरुलिङ्गशिवलिङ्गचरलिङ्गप्रसादलिङ्गमहालिङ्गाभिधानष।
द्विधलिङ्गात्मकस्य, भक्तमहेश्वरप्रसादिप्राणलिङ्गिशरणैक्यरूपषड्विधाङ्गात्मकस्य, घ्राणरसनचक्षुस्त्वक्श्रोत्रमनोरूपषडिन्द्रियात्मकस्य, गन्धरसरूपस्पर्शशब्दतृप्तिरूपषड्विषयात्मकस्य, सर्वज्ञतानित्यतृप्त्यनादिबोधस्वतन्त्रतालुप्ततानन्तशक्तिसमाह्वयषडङ् गात्मकस्य, वर्णपदमन्त्रभुवनतत्वकलात्मकषड्विधाध्वरूपस्य, मूलाधारस्वाधिष्ठानमणिपूरकाना हतविशुध्याज्ञाभिधानषट्चक्रनिलयस्य, रुधिरमांसमदोऽस्थिमज्जाशुक्रनामकषड्धातुनिवासस्य, समष्टिव्यष्टिरूपत्वादितरेषां मन्त्राणामेतादृशमहिमातिशयाभावात्पञ्चाक्षर्या एव सर्वातिशायित्वम् ।
अत एव पञ्चाक्षर्यां जीवरत्नमिति व्यवहारः ।
प्रणवादित्वेन नमश्शब्दयोगेन वैदिकत्वेन च मन्त्रगीर्वाणमन्त्रदेवताप्रकाशकशारदातिलकप्रपञ्चसारादिमन्त्रशास् त्रनिबन्धनोक्तसिद्धसाध्यसुसिद्धारिचतुष्कातदवान्तरभेदचतुष्कराशिको।
स्ठनक्षत्रकोष्ठभूतकोष्ठृणृणीभावदशविधसंस्कारसुप्तादिदोष् अविचारनैरपेक्ष्यादपि सर्वोत्तरत्वम् ।
बालानामपि प्रथममक्षरप्रारम्भकाले ।
ऊं नमः शिवायेतिपञ्चाक्षरोपदेशस्यैव कमलाकरादिनिबन्धनकारैः कर्तव्यत्वेन विधानात्, ङमोऽन्तं प्रणवं विने"त्यादिना स्त्रीशूद्राणामपि वैदिकपाठव्यत्यस्तक्रमस्योपदेश्यत्वविधानात्सर्वेषां जप्यत्वविधानात्, क्रियाकारकयोजनयार्थवत्वाच्च ।
तस्मात्पञ्चाक्षरमन्त्रस्यैव सर्वोत्तरत्वमिति सर्वं रमणीयमिति पञ्चाक्षरमन्त्रविचारः ॥
इति श्रीवीरशैवानन्दचन्द्रिकायां वादकाण्डे नवमं प्रकरणम् ॥
[[१८०]]