वीरशैवानन्दचन्द्रिकायां वादकाण्डे अष्टमं प्रकरणम् ॥
विस्मयापादकं स्वामिन् भस्मोत्कर्षं विभावयन् ।
अहं महत्तरानन्दमविन्दं दयया तव ॥
यदन्यदभिधातव्यं भवता तदुदीर्यताम् ।
श्रुणु राजेन्द्र रुद्राक्षमहोत्कर्षं प्रकीर्त्यते ॥
रुद्राक्षधारणस्यापि सकलमहापातकोपपातकनिवर्तकत्वेन चित्तशुद्धिद्वारा ब्रह्मविद्याङ्गत्वं सकलश्रुतिस्मृतिपुराणागमेषु बहुशः प्रतिपादितमिति मुमुक्षुभिर्वीरशैवैस्तद्धारणमवश्यं कर्तव्यम् ॥
बृहज्जाबालोपनिषदि- अथ हैनं भगवन्तं कालाग्निरुद्रं भुसुण्डः पप्रच्छ कथं रुद्राक्षोत्पत्तिस्तद्धारणात्किं फलमिति ।
तं होवाच भगवान् रुद्रः- पुरा त्रिपुरवधायोन्मीलिताक्षोऽहन्तेभ्यो जलबिन्दवो भूमौ पतितास्ते रुद्राक्षा जाताः सर्वानुग्रहार्थाय तेषां नामोच्चारणेन दशशतगोदानफलं भवति, दर्शनस्पर्शनाभ्यां द्विगुणं त्रिगुणं फलं भवति ।
अत ऊर्ध्वं वक्तुं न शक्नोमि ।
[[१५८]]
तत्रैते श्लोकाः-
कस्माज्जातन्तु किं नाम कथं वा धार्यते नरैः ।
कति वैषां मुखान्यत्र के मन्त्राः कथयस्व मे ॥
दिव्यवर्षसहस्राणि चक्षुरुन्मीलितं मया ।
उभाभ्यां चारुपक्ष्मभ्यां पतिता जलबिन्दवः ॥
तत्राश्रुबिन्दवो जाता महारुद्राक्षवृक्षकाः ।
स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् ॥
हन्याद्रात्रौ दिवा पापं दिवा रात्रिकृतं हरेत् ।
लक्षन्तु दर्शनात्पुण्यं कोटिस्तत्स्पर्शनादपि ॥
तस्य कोटिशतं पुण्यं लभते धारणान्नरः ।
लक्षकोटिसहस्राणि लक्षकोटिशतानि च ॥
तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् ।
रुद्राक्षाणान्तु भद्राणां धारणे स्यान्महाफलम् ॥
धात्रीफलप्रमाणन्तु श्रेष्ठमेतदुदाहृतम् ।
बदरीफलमात्रन्तु मध्यमं प्रोच्यते बुधैः ॥
अधमं चणमात्रं स्यात्प्रक्रियैषा मयोच्यते ।
ब्राह्मणाः क्षत्रि?आः वैश्याः शूद्राश्चेति शिवाज्ञया ॥
वृक्षा जाताः पृथिव्यान्तु तज्जातीयाः शुभाक्षकाः ।
श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकः ॥
पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्रा उदाहृताः ।
ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान्राजा तु धारयेत् ॥
पीतान् वैश्यस्तु बिभृयात्कृष्णान् शूद्रस्तुधारयेत् ।
ताम्राः स्निग्धा दृढा स्थूलाः कण्टकैः सहिताः शुभाः ॥
[[१५९]]
क्रिमिदष्टं छिन्नभिन्नं कण्टकैर्हीनमेव च ।
व्रणयुक्तवृत्तं च षड् रुद्राक्षाणि वर्जयेत् ॥
ग्रहणे विषुवे चैव अयने सङ्क्रमे तथा ।
दर्शे च पूर्णिमायाञ्च पुण्येषु दिवसेषु च ॥
रुद्राक्षधारणात्सद्यः सर्वपापक्षयो भवेत् ।
इत्यादिबृहज्जाबालोपनिषद्वचनै रुद्राक्षाणां त्रिपुरवधाय तदेक निविष्टदृष्टेर्महादेवस्य नयनत्रयनिष्यन्दिभिरुदकबिन्दुभिरुत्पत्तिमत्वेनातिपावनत्वस्य, नामोच्चारणदर्शनस्पर्शनैः सहस्रगुणगोदान फलस्य धारणेन चेयत्तानवच्छिन्नफलत्वस्य शिवसायुज्यप्राप्तितात्पर्य पर्यवसितस्य सर्वपापक्षयद्वारा परमपुरुषार्थसाधनत्वस्य प्रतिपादनान्मुमुक्षुभिर्धारणीयत्वं सिद्धम् ॥
ननु रुद्राक्षाणामिवान्येषामपि पद्माक्षादीनां मन्त्रजपसङ्ख्येयत्ता परिगणनसाधनत्वेन प्रातिस्विकतत्तत्फलविशेषः श्रूयते ।
तथा हि-
शङ्खाक्षमणयः श्रीदाः स्फाटिका मोक्षदायकाः ।
पद्माक्षाः पुष्टिलक्ष्मीदा रुद्राक्षा भुक्तिमुक्तिदाः ॥
पुत्रजीवभवाः पुत्रपशुधान्यसमृद्धिदाः ।
विद्रुमा वश्यधनदाः सौभाग्यार्थाश्चमौक्तिकाः ॥
पापापहाः कुशमयाः कामदाः स्वर्णरौप्यजाः ।
प्रवालमुक्तास्फटिकै र्जपकोटिफलप्रदाः ॥
तुलसीमणिना यच्च गणितन्त्वक्षयं भवेत् ।
तुलसीकाष्ठसम्भूतां यो मालां वहते द्विजः ॥
अप्यशौचोप्यनाचारो ममैवेति न संशयः ।
धात्री फलकृतामाला तुलसीकाष्ठसम्भवा ॥
[[१६०]]
दृश्यन्ते यस्य देहे तु स वै भागवतो नरः ।
तुलसीकाष्ठसम्भूतां यो मालां वहते नरः ॥
फलं यच्छाम्यहं तस्मै प्रत्यहं द्वारकोद्भवम् ।
निवेद्य भक्त्या मे मालां तुलसीकाष्ठसम्भवाम् ॥
वहते यो नरो भक्त्या तस्य नास्तीह पातकम् ।
अहं प्रीतमनास्तस्य मम भक्तवरो हि सः ॥
तुलसीकाष्ठसम्भूतां मालां वक्षसि धारयन् ।
बाहौ करे च मर्त्यश्च शूद्रो विप्रसमो भवेत् ॥
तुलसीकाष्ठमालाभिर्भूषितः पुण्यमाचरेत् ।
तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः ॥
दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं तृणं यथा ।
यद्गृहे तुलसीकाष्ठं पत्रं शुष्कमथार्द्रकम् ॥
तद्गृहे तु भवेन्नैव पापं सङ्घटते कलौ ।
पद्माक्षैर्निर्मिता भक्त्या फलैर्धात्र्या च पुण्यदा ॥
सा चोर्ध्वपुण्ड्रशङ्खाद्यैः युक्ता तु तुलसीदलैः ॥"
इत्यादिधर्मशास्त्रकारलिखितैर्वचनैः पद्माक्षादीनां प्रतिनियतफलसाधनत्वेन धार्यत्वश्रवणात् ।
किञ्च दक्षिणामूर्तिरूपेण परमेश्वरेण दक्षिणामूर्तिध्याने “स्फाटिकीमक्षमालाञ्च ज्ञानमुद्रां च पुस्तक”" मिति वचनेन धृतत्वम्, वाग्देवतया “दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाने” त्यादिना धृतत्वम्, नारदेन मुनिना “विभान्तमच्छस्फटिकाक्षमालये” त्यादिना धृतत्वम्, अम्बास्तवे-
शरज्ज्योत्स्नाशुभ्रां शशियुतजटाजूटमुकुटां वराभीतित्राणस्फटिकघुटिकापुस्तककराम् ।
[[१६१]]
सकृन्नत्वा स्तुत्वा कथमपि सतां सन्निदधते ।
मधुक्षीरद्राक्षामधुरिमधुरीणा भणितयः ॥
यः स्फाटिकाक्षगुणपुस्तककुण्डिकाढ्याम् व्याख्यानमुद्रितकरां शरदिन्दुशुभ्राम् ।
पद्मासनाञ्चहृदये भवतीमुपास्ते मातः स विश्वकवितार्किकचक्रवर्ती ॥
इति च देव्या धृतत्वम्, श्फाटिको मोक्षदायक" इति प्रतिपदोक्तत्वेन मोक्षदायकत्वञ्च श्रूयते ।
अथ कथं रुद्राक्षधारणस्यैव मोक्षसाधनत्वमिति चेन्न, रुद्राक्षाणां साक्षात्परमेश्वरनयनजलबिन्दुसन्दोहप्रभवत्वेन धारणीयत्वेन फलविशेषसाधनत्वेन परिगणितानां पद्माक्षादीनां मध्ये परमोत्कर्षस्य श्रूयमाणत्वात् ।
तथाहि स्कान्दे-
त्रिपुरस्य वधार्थाय देवानां रक्षणाय च ।
धनुर्वेदमयं धृत्वा देवानां मातरं पराम् ॥
गायत्रीं बाणमुद्धृत्य सर्ववेदमये रथे ।
दिव्यं वर्षसहस्रन्तु चक्षुरुन्मीलितं सदा ॥
पुटाभ्यां चारुपक्ष्मभ्यां निपेतुर्जलबिन्दवः ।
तदम्बुबिन्दवो जाता महारुद्राक्षवृक्षकाः ॥
सुरासुरगणानाञ्च वन्दनीयः शिवो यथा ।
अवध्यः सर्वभूतानां रुद्रवद्विचरेद्भुवि ॥
यस्तु रुद्राक्षवृक्षस्य फलान्यङ्गेषु धारयेत् ।
निकषे हेमरेखाभा यस्य रेखा प्रदृश्यते ॥
तदक्षमुत्तमं विद्यात्तद्धार्यं शिवपूजकैः ।
पृष्ठे ब्रह्मा हरिर्नाले तदग्रे च सदाशिवः ॥
[[१६२]]
केसरे सर्वदेवाश्च तस्माद्रुद्राक्षमुत्तमम् ॥
रुद्राक्षान् कण्ठदेशे दशनपरिमितान् मूर्ध्नि षट्त्रिंशदेवं षट् षट् कर्णप्रदेशे करयुगलपदे द्वादश द्वादशैव ।
बाह्वोरिन्दोः कलाभिः परिगुणितमथैकाक्षमेकं शिखायां वक्षस्यष्टोत्तरं यः कलयति शतकं स स्वयं नीलकण्ठः ॥
लैङ्ग्ये-
रुद्राक्षं धारयेद्विप्रः सन्ध्यादिषु च कर्मसु ।
तत्सर्वं समवाप्नोति कोटि कोटि गुणं सदा ॥
स्नाने दाने जपे होमे वैश्वदेवे सुरार्चने ।
प्रायश्चित्ते तथा श्राद्धे दीक्षाकाले विशेषतः ॥
अरुद्राक्षधरो भूत्वा यत्किञ्चित्कर्म वैदिकम् ।
कुर्याद्विप्रस्तु यो मोहान्नासावाप्नोति तत्फलम् ॥
खादन्मांसं पिबन् मद्यं सङ्गच्छन्नन्त्यजेष्वपि ।
सद्यो भवति पूतात्मा रुदाक्षे शिरसि स्थिते ॥
तस्मात्तं धारयेन्मर्त्यः सर्वकर्मसमृद्धये ।
रुद्राक्षमालिकां कण्ठे धारयन्भक्तिवर्जितः ॥
पापकर्मापि यो मर्त्यो रुद्रलोके महीयते ।
रुद्राक्षं धारयन् कण्ठे श्वापि वा म्रियते यदि ॥
सोऽपि रुद्रत्वमाप्नोति किं पुनर्मानुषादयः ॥
पाराशरोपपुराणे-
महादेवश्च विष्णुश्च ब्रह्मा तेषां विभूतयः ।
देवाश्चान्ये सदा भक्त्या खलु रुद्राक्षधारिणः ॥
[[१६३]]
गोत्रर्षयश्च सर्वेषां कूटस्थाः कुललक्षिताः ।
वेदोक्तवर्त्मना नित्यं खलु रुद्राक्षधारिणः ॥
तेषां वंशप्रसूताश्च मुनयः सकला अपि ।
श्रौतधर्मपराः शुद्धाः खलु रुद्राक्षधारिणः ॥
पापिष्ठानां मनुष्याणां रुद्राक्षाणाञ्च धारणे ।
श्रद्धा न जायते साक्षाद्वेदसिद्धे विमुक्तिदे ॥
वेदमार्गात्परे मार्गे स्वतन्त्रे पापकर्मणाम् ।
नराणां जायते वाञ्छा स्वभावेन च सत्तम ॥
वेदवादेतरासक्ता बहवो मुनिसत्तमाः ।
आज्ञया देवदेवस्य शिवस्य नरकं गताः ॥
वेदोदितसमाचारनिरता बहवो जनाः ।
प्रसादादेव रुद्रस्य विमुक्ता भवबन्धनात् ॥
यथा माता स्वपुत्राणां केवलं कृपयैव तु ।
रक्षिका तद्वदेवायं वेदः सर्वजनस्य तु ॥
यथा शत्रुजनः साक्षाद्बाधकः सर्वदेहिनाम् ।
तथा वेदेतरो मार्गो वैदिकस्य जनस्य तु ॥
तन्त्राणि तन्त्रनिष्ठानां रक्षकाण्यपि च क्रमात् ।
बाधकानि विशेषेण वेदमार्गैकवर्तिनाम् ॥
अतः श्रुत्यदितं कर्म गृह्णीयादेव वैदिकः ।
तन्त्रं सिद्धं न गृह्णीयान्मोहाद्वापि कदाचन ॥
यन्त्रतन्त्रानुरोधेन कथितं तत्परित्यजेत् ।
[[१६४]]
सत्याषाढसूत्रे- अथ ब्राह्मणक्षत्रियवैश्यशूद्रापभ्रंशसङ्करा वा सर्वेषां रुद्राक्षधारणम्, सर्वकर्मसु यत्नेन कर्तव्यम् ।
मुमुक्षुश्चेत्सततं धारयेत्पशुपाशविमोचनम् ॥
इत्यादिश्रुत्यागमस्मृतिपुराणै रुद्राक्षाणां धारणस्य साक्षात्परमेश्वरनयनजलबिन्दुसन्दोहप्रभवत्वेन, ब्रह्मविष्णुरुद्रादिसर्वदेवताधिष्ठातृत्वेन, तत्तत्सङ्ख्याविशिष्टतया तत्तत्स्थानधारणस्य शिवाभेदप्रापकत्वेन, नित्यनैमित्तिकादिधर्मानुष्ठानसमये धारणनैय्यत्यात्फलसाकल्यसम्पादकत्वेन, तद्व्यतिरेकेण अनुष्ठितानां धर्माणां नैष्फल्यापादकत्वेन, समस्तमहापातकोपपातकनिवर्तनद्वारा परिशुद्धिसम्पादकत्वेन, सर्वकर्मसमृद्धिसम्पादनद्वारा ब्रह्मविद्याङ्गत्वेन, पशुपाशविमोचकत्वेन च निश्रेयससाधनत्वस्य प्रतिपादनाद्रुदादिसर्वदेवृषिसेवितत्वेन, अनधिकारितान्त्रिकजनाविश्वसनीयत्वेन च रुद्राक्षधारणं मुमुक्षुभिरवश्यं कर्तव्यम् ।
तदकरणे प्रत्यवायश्रवणात्, करणे चाभ्युदयश्रवणाच्च नित्यत्वम् ।
न च स्फाटिकादिमणीनामुदाहृतवचनैर्देवताधार्यत्वेन प्राशस्त्यं विशिष्टमिति वाच्यम्, फलविशेषप्रापकतत्तद्ध्येयवस्तुगुणविशेषत्वेन तद्धारणस्य नारदादिधारणस्य च लीलाविशेषपरत्वप्रतिपादनौचित्यात् ।
नच श्फाटिको मोक्षदायक" इति वचनेन तदनुसारिनारदादिमुनिधारणेन च मोक्षप्रदत्वं समानमिति वाच्यम्, स्फाटिकमणीनां मोक्षदायकत्वं पौराणिकं तत्रापि क्वाचित्कं, रुद्राक्षाणान्तु बहुतर- श्रुत्यागमस्मृतिपुराणेषु बहुतरं धारणमभ्यस्तम् ।
अतस्तदनुरोधात् स्फटिकधारणप्रतिपादकप्रमाणस्यैव दौर्बल्यमिति वस्तुस्थितिः ।
तथाचोतरतन्त्रे अभ्यासे सति हि भूयस्त्वमर्थस्य भवति नाल्पत्वमपि, प्रागेवोच्चरितार्थत्वम् ।
नवकृत्वस्तत्वमसीत्यभ्यासादद्वैतमेव महावाक्यार्थः ।
अन्यविषयत्वन्तु वक्तुं न शक्यत इति तस्य त्वमसि तेन त्वमसीतिलक्षणया विशिष्टा-
[[१६५]]
द्वैतपरत्वमपि कल्पयितुं न शक्यते ।
विभक्तिलोपोऽप्यविद्यमानो न कल्पनीयः ॥
अभ्यासाद्यथा आनन्दमयस्य परमेश्वरत्वं “एतमानन्दमयमात्मानमुपसङ्क्रामति, आनन्दो ब्रह्मेति व्यजानात्, आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन, को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्” इत्याद्यभ्यासैर्यथा आनन्दमयस्य परमेश्वरत्वं निर्णीतं तथात्रापिरुद्राक्षधारणे मोक्षः सिध्यतीत्यव्यवहितप्रतिपादितबहुतरश्रुतिस्मृतिपुराणवचनैरभ्यासात्प्रा बल्यं, स्फटिकमणिप्राशस्त्यस्य क्वाचित्कत्वेनाभ्यासाभावाद्दौर्बल्यञ्च सिद्धम् ॥
इति श्रीमद्-अनादि-निरञ्जन-जङ्गमापरावतार-
तोण्टद-सिद्धेश्वर-प्रसादासादित-
शाम्भवागमाम्बोधि-मथन-जनित-
निरुत्तरैकोत्तरशत-स्थल-भेद-भिन्न-षट्-स्थल–
तत्त्वबोध-सुधास्वादानन्द-सन्दोह-प्रदायकाचार्यवर्य-
श्रीमरितोण्टदार्य-विरचिते
यडव-मुरारि-कोटे-कोलाहलैकाङ्गि-वीर-
वैरि-सप्ताङ्ग-हरण-पश्चिम-समुद्राधीश्वर-
विशुद्ध-वैदिकाद्वैत-सिद्धान्त-प्रतिष्ठापनाचार्य-
केलदि-सदाशिव-राय-नायक-वंश-दुग्धार्णव-चन्द्र-
वीर-भद्र-धरणीन्द्र-धर्म्म-पत्नी-मल्लाम्बा-हृदयानन्द-
बसव-वसुधा-सङ्क्रन्दनोपदेशे
वीरशैवानन्द-चन्द्रिकायां वादकाण्डे अष्टमं प्रकरणम् ॥
[[१६६]]