वीरशैवानन्दचन्द्रिकायां वादकाण्डे सप्तमं प्रकरणम् ॥
प्रसादवैभवं स्वामिन् दयया भवदीरितम् ।
श्रुत्वा प्रसादं प्राप्येव नितरामस्मि नन्दितः ॥
यद्बोधनीयं तत्प्रेम्णा कुरु कर्णपथातिथिम् ।
भूतेर्विभूतिं राजेन्द्र निस्तन्द्रः शृणु कीर्तये ॥
निःश्रेयसैकसाधनब्रह्मविद्यान्तरङ्गचित्तशुद्धिसम्पादकत्वेन वैदिकशिवपूजाङ्गत्वेन च भस्मधारणं कर्तव्यम् ।
तत्र श्रुतिः ।
तैत्तरीयोपनिषदि गुरूणां शिष्यं प्रत्यावश्यकधर्माचरणोपदेशप्रकरणे शत्यं वद धर्म चरे" त्यारम्भ “यान्यनवद्यानि कर्माणि तानि सेवितव्यानी"ति अनवद्यानां कर्मणां सेवनीयत्वमु उक्त्वा ङो इतराणी” ति वैदिकेतरपाञ्चरात्रादिप्रतिपादितोर्ध्वपुण्ड्रधारणादीनामसेवनीयतय अ हेयत्वमुक्त्वा च तत्रैवावश्यकर्तव्याचारविधानप्रकरणे शत्यान्न प्रमदितव्यम्, कुशलान्न प्रमदितव्यं, भूत्यै न प्रमदितव्य" मित्यनेन भस्मधारणस्य अप्रमादेन कर्तव्यत्वविधानात् ।
न च भूत्यै न प्रमदितव्यमित्यत्र भूतिशब्दस्यैश्वर्यपरत्वेन व्याख्यातुं शक्यत्वात्कथं भस्मपरत्वमभिधीयते ? “भूतिर्भस्मनि सम्पदी” तिकोशेन सम्पदर्थस्यापि
[[१३४]]
वक्तुं शक्यत्वादिति वाच्यम्, भगवता सूत्रकृता बोधायनेन भूतिशब्दस्य भस्मपरत्वेनैव सूत्रितत्वात् ।
तथाहि-
अथातो भस्मधारणविधिं व्याख्यास्यामो भूत्यै न प्रमदितव्यमिति विज्ञायते तथाप्युदाहरन्ति-मध्यमानामिकाङ्गुष्ठैस्त्रिपुण्ड्रं भस्मना कृतम् ।
तत्त्रिपुण्ड्रं भवेच्छस्तं महापातकनाशनम् ॥
इति ॥
अथ त्रियम्बकमिति सर्वाङ्गं सम्मृजेत्पूतो भवति, दशपूर्वान् दशापरानात्मानं चैकविंशतिं पङ्क्तिञ्च पुनाति ब्रह्मणः सायुज्यं सलोकतामाप्नोत्यथ यदिदं भस्मोद्धूलनमापादतलमस्तकं सर्वकर्मसु कर्तव्यमित्याह भगवान् बोधायनः ॥
इति ॥
सत्यधर्माच्च कुशलाद्भस्मनोद्धूलनादपि ।
त्रिपुण्ड्रधारणाच्चैव स्वाध्यायाध्ययनादपि ॥
दैवाच्च पितृकार्याच्च न प्रमाद्येदिति श्रुतिः ॥
इति ॥
तथा कालाग्निरुद्रोपनिषदि-
अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छाधीहि भगवन् त्रिपुण्ड्रविधिं सतत्वं किं द्रव्यं कियत् स्थानं कति प्रमाणं का रेखा के मन्त्राः का शक्तिः किं दैवतं कः कर्ता किं फलमिति च ।
तं होवाच भगवान् कालाग्निरुद्रः ।
यद्द्रव्यं तदाग्नेयं भस्म, सद्योजातादिपञ्चब्रह्ममन्त्रैः परिगृह्य, अग्निरिति भस्मेत्यनेन चाभिमन्त्र्य, मानस्तोक इति समुद्धृत्य, मानोमहान्तमिति जलेन संसृज्य, त्रियायुषमिति शिरोललाटवक्षःस्कन्धेषु त्रियायुषैस्त्र्यम्बकैस्त्रिशक्तिभिस्तिर्यक् तिस्रो रेखाः प्रकुर्वीत व्रतमेतच्छाम्भवं सर्ववेदेषु वेदवादिभिरुक्तं भवति तस्मात्तत्समाचरेन्मुमुक्षुरपुनर्भवाय ॥
अथ सनत्कुमारः पप्रच्छ प्रमाणमस्य त्रिपुण्ड्रधारणस्य त्रिधा रेखा
[[१३५]]
भवत्याललाटादाचक्षुषोरामूर्ध्नोराभ्रुवोर्मध्यतश्च प्रथमा रेखा सा गार्हपत्यश्चाकारो रजो भूर्लोकः स्वात्मा क्रियाशक्तिः ऋग्वेदः प्रातः सवनं महेश्वरो देवतेति ।
यास्य द्वितीया रेखा सा दक्षिणाग्निरुकारः सत्वमन्तरिक्षमन्तरात्मा चेच्छाशक्तिः यजुर्वेदो माध्यन्दिनं सवनं सदाशिवो देवतेति, यास्य तृतीया रेखा साऽऽहवनीयो मकारस्तमो द्यौर्लोकः परमात्मा ज्ञानशक्तिः सामवेदस्तृतीयं सवनम्, महादेवो देवतेति ।
एवं त्रिपुण्ड्रं भस्मना करोति यो विद्वान् ब्रह्मचारी गृही वानप्रस्थो यतिर्वा स समस्तमहापातकोपपातकेभ्यः पूतो भवति, स सर्वेषु च तीर्थेषु स्नातो भवति, स सर्वान् देवान् ज्ञातो भवति, स सर्वान् वेदानधीतो भवति, स सन्ततं सकलरुद्रमन्त्रजापी भवति, स सकलभोगभुग्देहं त्यक्त्वा शिवसायुज्यमेति न स पुनरावर्तते न स पुनरावर्तत इत्याह भगवान् कालाग्निरुद्रः यस्त्वैतद्वाधीते सोऽप्येवमेव भवतीत्यों सत्यमित्युपनिषत् ॥
इति ॥
एतमेव भस्मधारणावश्यकताप्रतिपादकानि स्मृतीतिहासपुराणवचनानि बहूशः श्रूयन्ते ।
तथाहि शिवराघवसंवादे-
तद्भस्मधारणं शस्तं सर्वं तद्द्वत्त्रिलिङ्गकम् ।
ब्रह्मविष्णुमहेशानां त्रियज्ञानाञ्च साधनम् ॥
गुणलोकत्रयाणाञ्च धारणं तेन वै कृतम् ।
धार्यं पञ्चदशस्थाने शुद्धं भस्माभिमन्त्रितम् ॥
कण्ठोपरि कृतं पापं नष्टं स्यान्मुखधारणात् ।
कण्ठे च धारणात्कण्ठभोगादिकृतपातकम् ॥
[[१३६]]
बोह्वोर्बाहुकृतं पापं वक्षसा मनसा कृतम् ।
नाभ्यां नाभिकृतं पापं पृष्ठे पृष्ठकृतं हरेत् ॥
पार्श्वयोर्धारणाद्राम परस्त्र्यालिङ्गनादिजम् ।
भस्मासनो भस्मशय्यो भस्मोद्धूलितविग्रहः ॥
भस्मस्नानात् सदा पापैर्मुच्यते नात्र संशयः ।
वायवीयसंहितायाम्-
भस्मच्छन्नो द्विजो विद्वान्महापातकसम्भवैः ।
दोषैर्विमुच्यते सद्यो मानवो नात्र संशयः ॥
तस्मात्सर्वेषु लोकेषु वीर्यवान् भस्मसंयुतः ।
रुद्राग्नेर्यत्परं वीर्यं तद्भस्म परिकीर्तितम् ॥
भस्मनिष्ठस्य दह्यन्ते दोषास्तस्याग्निसङ्गमात् ।
भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः ॥
भस्मना दिग्धसर्वाङ्गो भस्मदीप्तत्रिपुण्ड्रकः ।
भस्मस्नायी च पुरुषो भस्मनिष्ठ इति स्मृतः ॥
भूताःप्रेताः पिशाचाश्च रोगाश्चातीव दुःस्सहाः ।
भस्मनिष्ठस्य सान्निध्याद्विद्रवन्ति न संशयः ॥
भासकं भसितं प्रोक्तं भस्म कल्मषभर्त्सनात् ।
भूतिर्भूतिकरी पुंसां रक्षा रक्षाकरी यतः ॥
परमास्त्रञ्च शैवानां भस्म तत्पारमेश्वरम् ।
लैङ्ग्ये-
स्मरणादेव रुद्रस्य यथा पापं विनश्यति ।
तथास्य धारणादेव सर्वं पापं विनश्यति ॥
[[१३७]]
यद्यकार्यसहस्राणि कृत्वा यः स्नाति भस्मना ।
तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम् ॥
कृत्वापि चातुलं पापं मृत्युकालेऽपि यो द्विजः ।
भस्मस्नायी भवेत्सोऽपि सर्वपापाद्विमुच्यते ॥
भस्मस्नानविशुद्धात्मा जितक्रोधो जितेन्द्रियः ।
मत्समीपं समागत्य न भूयो विनिवर्तते ॥
धृतत्रिपुण्ड्रः पूतात्मा मृत्युं जयति मानवः ।
त्रिपुण्ड्रं यद्यधृत्वा तु कुर्याद्यत्कर्म तद्वृथा ॥
भस्मनोद्धूलनं तिर्यक् त्रिपुण्ड्रं मुक्तिसाधनम् ।
एतदाग्नेयकं स्नानमुदितं परमर्षिभिः ॥
सर्वकर्मसमृध्यर्थं कुर्यादादाविदं बुधः ।
अन्यथा सर्वकर्माणि न फलन्ति कदाचन ॥
कात्यायनस्मृतौ-
श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने ।
धृतत्रिपुण्ड्रः पूतात्मा मृत्युं जयति मानवः ॥
वर्णानामाश्रमाणाञ्च मन्त्रतोऽमन्त्रतोपि च ।
त्रिपुण्ड्रोद्धूलनं प्रोक्तं जाबालैरादरेण तु ॥
सद्योजातादिभिर्मन्त्रैर्भूत्या तिर्यक् त्रिपुण्ड्रकम् ।
धूलनं चाचरेदेवं मुमुक्षुर्ज्ञानसिद्धये ॥
इत्यादिश्रुतिस्मृतीतिहासपुराणवचनैर्भस्मधारणस्य सर्वपापनिवर्तकत्वं सर्वकर्मसमृद्धिसम्पादकत्वम्, अकरणे कर्मवैयर्थ्यापादकत्वञ्च प्रतीयते ॥
[[१३८]]
ननु-
जाह्नवीतीरसम्भूतां मृदं फाले बिभर्ति यः ।
बिभर्ति रूपं सोऽर्कस्य तमोनाशाय वै स्मृतम् ॥
ऊर्ध्वपुण्ड्रं मृदा सूत्रे ललाटे यस्य दृश्यते ।
स चण्डालोऽपि शुद्धात्मा पूज्यते न हि संशयः ॥
यज्ञो दानं तपो होमः स्वाध्यायः पितृतर्पणम् ।
वृथा भवति विप्रेन्द्र ऊर्ध्वपुण्ड्रं विना कृतम् ॥
पूजाकाले च होमे च सायं प्रातः समाहितः ।
नामान्युच्चार्य विधिवद्धारयेदूर्ध्वपुण्ड्रकम् ॥
ऊर्ध्वपुण्ड्रधरो मर्त्यो वर्तते यत्र कुत्रचित् ।
तद्देश एव विप्रेन्द्र काशीक्षेत्रसमो भवेत् ॥
मार्गशीर्षमाहात्म्ये-
शृणु ब्रह्मन् प्रवक्ष्यामि त्रिविधं नाम धारणम् ।
तुलसीमृत्स्नया सार्धं श्रीगोपीचन्दनेन च ॥
हरिचन्दनतः कार्यं पुण्ड्रं तत्र विचक्षणैः ।
गोपीचन्दनमाहात्म्यं निबोध गदतो मम ॥
श्रीकृष्णतुलसीमूलमृदमादाय भक्तिमान् ।
धारयेदूर्ध्वपुण्ड्राणि हरिस्तस्मै प्रसीदति ॥
यो मृत्तिकां द्वारवतीसमुद्भवां करे समादाय ललाटपट्टके ।
पुमान् करोतीह सदोर्ध्वपुण्ड्रकम् क्रियाफलं कोटिगुणं तदा भवेत् ॥
[[१३९]]
क्रियाविहीनं यदि कालवर्जितम् कृत्वा ललाटे यदि गोपिकामृदम् ।
प्राप्नोति तत्कर्मफलं सदाऽव्ययम् गोपीपतेः पुण्यतमः प्रसादतः ॥
गोपीचन्दनसम्भवं सुरुचिरं कृत्वा ललाटे द्विजो नित्यं धारयते यदि प्रतिदिनं रात्रौ सदा सर्वथा ।
यत्पुण्यं कुरुजाङ्गले रविगृहे माघ्यं प्रयागे तथा तत्प्राप्नोति ततोऽधिकं मम गृहे सन्तिष्ठते देववत् ॥
यस्मिन् गृहे तिष्ठति गोपिचन्दनम् कृत्वा ललाटे मनुजो बिभर्ति चेत् ।
तस्मिन्गृहेऽहं निवसामि सर्वदा श्रिया समेतो मुदितश्चतुर्मुख ॥
यो धारयेद् द्वारवतीसमुद्भवम् पुण्यं पवित्रं कलिकल्मषापहम् ।
नित्यं ललाटे मम मन्त्रपावितम् यमं न पश्येदपि पापसंयुतः ॥
ऊर्ध्वपुण्ड्रः समः सौम्यो ललाटे यस्य दृश्यते ।
स चण्डालोऽपि पूतात्मा पूज्य एव न संशयः ॥
अस्नातो यः क्रियां कुर्यादशुचिः पापसंयुतः ।
गोपीचन्दनसम्पर्कात्पूज्य एव न संशयः ॥
अशुचिर्वाप्यनाचारो महापापसमन्वितः ।
शुचिरेव भवेन्नित्यमूर्ध्वपुण्ड्राङ्कितो नरः ॥
[[१४०]]
ऊर्ध्वपुण्ड्रविहीनस्य स्मशानसदृशं मुखम् ।
अवलोक्य मुखं तेषामादित्यमवलोकयेत् ॥
रुद्रार्चनं त्रिपुण्ड्रस्य धारणं यत्र दृश्यते ।
तच्छूद्राणां विधिः प्रोक्तो न द्विजानां कदाचन ॥
न भस्म धारयेद्विप्रः परमापद्गतोऽपि वा ।
इत्यादिपुराणवचनैरूर्ध्वपुण्ड्रस्य सेतिकर्तव्यताकस्य अभ्युदयप्रापकतया सर्वपापनिवर्तकतया च बहुतरं श्रूयमाणत्वात्, भस्मधारणस्य शुद्रादिकर्तव्यताप्रतिपादनाच्च, ऊर्ध्वपुण्ड्रधारणमेव कर्तव्यं न भस्मधारणमिति चेन्न, ऊर्ध्वपुण्ड्रधारणादीनां गौतम-दधीचि-दुर्वासो-भृगु- ब्रह्मोपमन्युनन्दिकेश्वरप्रमुखदेवमुनिशापदग्धद्विजविषयत्वस्य बहुशः सूतसंहितायादिश्रुतिस्मृतिपुराणेषु श्रूयमाणत्वादवैदिकतान्त्रिकद्विजाधमानामेवोर्ध्वपुण्ड्रधारणं न तु वैदिकानामिति सिद्धम् ।
ऊर्ध्वपुण्ड्रधारणनिषेधः पराशरे-
ऊर्ध्वपुण्ड्रं त्रिशूलञ्च वर्तुलं चतुरस्रकम् ।
अर्धचन्द्रादिकं चिह्नं वेदनिष्ठो न धारयेत् ॥
जन्मना लब्धजातिस्तु श्रौतं पन्थानमाश्रितः ।
पुण्ड्रान्तरं भ्रमाद्वापि ललाटे नैव धारयेत् ॥
ख्यातिलाभादिसिद्ध्यर्थमपि विष्णवागमादिषु ।
स्थितं पुण्ड्रान्तरं नैव धारयेद्वैदिको जनः ॥
न दाहयेद् द्विजश्रेष्ठं न दहेच्चक्रपूर्वकैः ।
अङ्कितो यः स्वदेशात्तं राजा शीघ्रं प्रवासयेत् ॥
अतीव पतितानां हि स्वपदेनाङ्कनं नृणाम् ।
विधीयते न शुद्धानामतः शुद्धं न चाङ्कयेत् ॥
[[१४१]]
अध्यापने चाध्ययने श्रौतस्मार्तादिकर्मसु ।
सम्भाषणे च सम्बन्धेनाधिकारी हि लाञ्छितः ॥
शङ्खचक्राद्यङ्कनञ्च नृत्तगीतादिकं तथा ।
हीनजातेरयं धर्मो न जातु स्याद् द्विजन्मनः ॥
स्कान्दे मुक्तिखण्डे-
पाञ्चरात्रे च कापाले तथा कालामुखेऽपि च ।
बौद्धेऽपि चार्हते चैव वामे पाशुपतेऽपि च ॥
शाक्ते च दीक्षिता यूयं भवत ब्राह्मणाधमाः ।
इति गौतमशापः ।
सूतसंहितायां यज्ञवैभवखण्डे द्वात्रिंशत्तमाध्याये सूतः-
अद्य वक्ष्ये महादेव श्रद्धाभावस्य कारणम् ।
मनुष्याणां मुनिश्रेष्ठाः शृणुत श्रद्धया सह ॥
इत्यारभ्य,
तद्ज्ञात्वा तु मुनिः श्रीमान् गौतमो मुनिसत्तमः ।
महाक्रोधेन संयुक्तः शशाप ब्राह्मणाधमान् ॥
महादेवस्वरूपे च महादेवस्य विग्रहे ।
महादेवस्य भक्तौ च महादेवस्य नाम्नि च ॥
महादेवस्य विज्ञाने महादेवपरिग्रहे ।
महादेवस्य च स्थाने महादेवस्य कीर्तिषु ॥
महादेवप्रधाने च महादेवाश्रमेषु च ।
महादेवस्य चोत्कर्षे त्रिपुण्ड्रोद्धूलनादिषु ॥
रुद्राक्षधारणे रुद्रलिङ्गस्यैव तु पूजने ।
रुद्रालयदिदृक्षायां रुद्रयात्रादिकर्मसु ॥
[[१४२]]
यद्यत्तु रुद्रसम्बन्धि तत्र तत्रापि दुर्जनाः ।
भवेत विमुखा यूयं सर्वदा ब्राह्मणाधमाः ॥
श्रुतिस्मृतिपुराणोक्तेष्वर्थेषु निखिलेष्वपि ।
भवेत विमुखा यूयं सर्वथा ब्राह्मणाधमाः ॥
विष्णवादिदेवताः सर्वा विशिष्टाः शङ्करादिति ।
भ्रान्तिविज्ञानसम्पन्ना भवत ब्राह्मणाधमाः ॥
वर्तुलाश्वत्थपत्रार्धचन्द्रदीपादिलिङ्गिनः ।
भवेत श्रद्धया सार्धं सततं ब्राह्मणाधमाः ॥
पाञ्चरात्रे च कापाले तथा कालामुखेऽपि च ।
शाक्ते च दीक्षिता यूयं भवत ब्राह्मणाधमा ॥
पाखण्डेषु तथान्येषु मार्गेष्वश्रौतकेषु च ।
श्रद्धया दीक्षिता यूयं भवत ब्राह्मणाधमाः ॥
बहुनोक्तेन किं साक्षाच्छिवे संसारमोचके ।
तत्सम्बन्धिषु सर्वेषु श्रुतिस्मृत्युदितेषु च ॥
युष्माकं वंशजातानां युष्माकञ्च तथैव च ।
श्रद्धाभावः सदैवास्तु शापस्तीव्रः कृतो मया ॥
आदित्यपुराणे दक्षयज्ञे ब्राह्मणान्प्रति दधीचिशापः-
एतेषु ब्राह्मणाः सर्वे यद्द्विषन्तो महेश्वरम् ।
भवन्तु वेदबाह्यास्ते पापोपहतचेतसः ॥
पाखण्डाचारनिरताः सर्वे निरयगामिनः ।
साम्बपुराणे दक्षयज्ञे दधीचिशापः-
त्रिपुण्ड्रधारणे भस्मगुण्ठने वेदमन्त्रिते ।
भवेत विमुखा यूय युष्माकं वंशजास्तथा ॥
[[१४३]]
वेदबाह्येषु तन्त्रेषु पाञ्चरात्रादिषु द्विजाः ।
भवेत दीक्षिता यूयं सर्वदा ब्राह्मणाधमाः ॥
अङ्गेषु चाङ्किता यूयं शङ्खचक्रगदादिभिः ।
भवत श्रद्धया सार्धं वेदबाह्या द्विजाधमाः ॥
ऊर्ध्वपुण्ड्रे तथा शूले वर्तुले चतुरस्रके ।
चिह्ने वेदविरुद्धे तु भवेत ब्राह्मणाधमाः ॥
पराशरोपपुराणे द्वितीयाध्याये ब्रह्मविष्ण्वोः परस्परशापप्रकरणे विष्णुं प्रति ब्रह्मवचनम्-
क्रोधेन महताविष्टो ब्रह्मा सर्वजगत्पतिः ।
शशाप विष्णुं गर्भस्थो भव त्वमतिमोहितः ॥
त्वद्भक्ता ब्राह्मणाः साक्षात्त्रिपुण्ड्रे भस्मगुण्ठने ।
भवेयुर्विमुखा नित्यं वेदसिद्धे विमुक्तिदे ॥
त्वदीये पाञ्चरात्रे च तन्त्रे भागवते तथा ।
दीक्षिताश्च हरे नित्यं भवेयुर्निर्भयाः पुनः ॥
स्कान्दे कालिकाखण्डे भृगोः स्वपत्नीघ्नं विष्णुं तद्भक्तान्प्रति च शापः-
एकदण्डास्त्रिदण्डाश्च ये च भक्ता हरे त्वयि ।
तेऽद्य पाखण्डिनः सन्तु द्रष्टृर्णां नरकप्रदाः ॥
दुर्वाससो मुनेः शापात्कुपितस्य महात्मनः ।
कण्वशापात्भृगोः शापादुपमन्योश्च शापतः ॥
ब्रह्मशापात्तथा विप्र नन्दिकेश्वरशापतः ।
द्विजानां दाक्षिणात्यानां पापोपहतचेतसाम् ॥
[[१४४]]
शिवे भस्मनि रुद्राक्षे किञ्चिच्छ्रद्धा न विद्यते ।
वैदिकाचारनिर्णये भस्ममाहात्म्यप्रस्तावे-
श्रुत्युक्तभस्मरुद्राक्षरुद्राध्यायशिवद्विषः ।
वेदमार्गपरिभ्रष्टा भविष्यन्ति कलौ युगे ॥
महापातकयुक्तानां जन्तूनां पूर्वजन्मसु ।
त्रिपुण्ड्रोद्धूलने द्वेषो जायते सुदृढं बुधाः ॥
तत्रैव ब्रह्मगीतायाम्-
महापापवतां पुंसां शिवज्ञानस्य साधने ।
सर्वाङ्गोद्धूलने तिर्यक् त्रिपुण्ड्रस्य च धारणे ॥
रुद्राक्षधारणे रुद्रलिङ्गस्यैव तु पूजने ।
प्रद्वेषो जायते नित्यं शिवशब्दजपेऽपि च ॥
स्कान्दे मुक्तिखण्डे
यस्य स्याद्भस्मनि द्वेषः त्रिपुण्ड्रोद्धूलनेऽपि च ।
उत्पत्तौ तस्य साङ्कर्यमनुमेयं विपश्चितः ॥
तेषां चण्डालतो जन्म सम्यगूह्यं विपश्चिता ।
श्रुतौ चैव महादेवे त्रिपुण्ड्रे भस्मगुण्ठने ॥
श्रद्धां न कुरुते मर्त्यः पुण्यलेशविवर्जितः ।
पापिष्ठानां मनुष्याणां त्रिपुण्ड्रोद्धूलने श्रुतौ ॥
महादेवे च विद्वेषः स्वत एव हि जायते ।
भस्मना वेदसिद्धेन त्रिपुण्ड्रस्य च धारणम् ॥
विना वेदोदिताचाराः स्मार्ताश्चानर्थकारणम् ।
त्रिपुण्ड्रधारणं मुक्त्वा कर्माणि कुरुते तु यः ॥
[[१४५]]
तेनैवाचरितं सर्वं व्यर्थञ्चानर्थकारणम् ।
त्रिपुण्ड्रहीनं विप्रस्य स्मशानसदृशं मुखम् ॥
चक्राङ्कननिषेधः स्मृतिचन्द्रिकायाम्-
श्रौतस्मार्तपरो विप्रो नाङ्कयेदङ्गमङ्कनैः ।
अपि विष्णवादि सम्बद्धैस्तप्तैर्वा पतितो भवेत् ॥
अज्ञानादथवा लोभाद्रागतो वा सुदर्शनम् ।
धत्ते कुलघ्नं तं दृष्ट्वा सवासा जलमाविशेत् ॥
चक्राङ्किततनुर्वापि राजन् लिङ्गाङ्कितोऽपि वा ।
नाधिकारी स विज्ञेयः श्रौतस्मार्तेषु कर्मसु ॥
शङ्खं चक्रञ्च लिङ्गञ्च यो मूढो धारयेत्तनौ ।
पाखण्डः स हि विज्ञेयः सर्वकर्मबहिष्कृतः ॥
उद्धूलनं त्रिपुण्ड्रञ्च मनसाऽपि न लङ्घयेत् ।
श्रुत्या विधीयते यस्मात्तत्त्यागी पतितो भवेत् ॥
ऊर्ध्वपुण्ड्राङ्किताश्वत्थपत्रवर्तुललिङ्गधृत् ।
त्रिपुण्ड्रधारणादेव भस्मना पूयते नरः ॥
अतः किं शङ्खचक्राद्यैः शरीरे देवतायुधैः ।
रुद्रं पुरुषसूक्तञ्च जपेत्तिर्यक् त्रिपुण्ड्रकम् ॥
धृत्वाथ भस्मना विप्रो ब्रह्महत्यां व्यपोहति ।
स्वल्पं भस्म द्विजश्रेष्ठाः बहुधा परिकीर्तितम् ॥
श्रौतमेकं तथा स्मार्तमपरं पण्डितोत्तमाः ।
श्रौतं भस्म द्विजा मुख्यं स्मार्तं गौणं प्रकीर्तितम् ॥
[[१४६]]
अन्यच्चापि द्विजा भस्म लौकिकं केवलं परम् ।
श्रौतं भस्म तथा स्मार्तं द्विजानामेव कीर्तितम् ॥
अन्येषामेव सर्वेषामपरं भस्म कीर्तितम् ।
सर्वाङ्गोद्धूलनैश्चैव तथा तिर्यक् त्रिपुण्ड्रकैः ॥
भस्म धार्यमिति प्रोक्तं मुनिभिः सर्वमानवैः ।
धारणं मन्त्रतः प्रोक्तं द्विजानां मुनिपुङ्गवाः ॥
केवलं धारणं विप्र अन्येषामपि कीर्तितम् ।
अग्निरित्यादिभिर्मन्त्रैर्जाबालोपनिषद्गतैः ॥
सप्तभिर्धूलनं कार्यं भस्मना सजलेन च ।
त्रियायुषेण मन्त्रेण द्विजास्तिर्यक् त्रिपुण्ड्रकम् ॥
धार्यं प्रोक्तं द्विजश्रेष्ठैर्धार्मिकैर्वेदपारगैः ।
मेधावीत्यादिभिर्मन्त्रैर्ब्रह्मचारी दिने दिने ॥
भस्मना सजलेनापि धारयेच्च त्रिपुण्ड्रकम् ।
त्रियम्बकेन मन्त्रेण प्रणवेन शिवेन च ॥
गृहस्थश्च वनस्थश्च धारयेच्च त्रिपुण्ड्रकम् ।
ऊङ्कारेण त्रिरुक्तेन सहंसेन त्रिपुण्ड्रकम् ॥
धारयेद्भिक्षुको नित्यमिति जाबालिकी श्रुतिः ।
ललाटे चैव दोर्द्वन्द्वे तथैवोरसि बुद्धिमान् ॥
त्रिपुण्ड्रं धारयेन्नित्यं भुक्तिमुक्तिफलप्रदम् ।
उद्धूलनं त्रिपुण्ड्रञ्च ज्ञानाङ्गत्वेन केवलम् ॥
आमनन्ति द्विजश्रेष्ठाः श्वेताश्वतरशाखिनः ।
अयमत्याश्रमो धर्मो यैः समाचरितो मुदा ॥
[[१४७]]
तेषामेव शिवज्ञानं संसारच्छेदकारणम् ।
उद्धूलनं त्रिपुण्ड्रञ्च मायापाशनिवृत्तये ॥
आमनन्ति मुनिश्रेष्ठा अथर्वशिरसि स्थिताः ।
व्रतं पाशुपतं येन सम्यगाचरितं बुधाः ॥
तस्य ज्ञानं विजायेत येन पापविमोचनम् ।
उद्धूलनं त्रिपुण्ड्रञ्च ज्ञानाङ्गत्वेन केवलम् ॥
आमनन्ति मुनिश्रेष्ठाः साक्षात्कैवल्यशाखिनः ।
अतोऽपि पाशविच्छेदज्ञानलाभाय सिद्धये ॥
उद्धूलनं त्रिपुण्ड्रञ्च मुमुक्षुः सम्यगाचरेत् ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥
महापातकनाशाय विधत्ते वैदिकं वचः ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥
तपस्त्वेनैव सर्वेषां विधत्ते वैदिकं वचः ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥
व्रतत्वेनैव सर्वेषा विधत्ते वैदिकं वचः ।
भस्मनोद्धूलनं चैवं तथा तिर्यक् त्रिपुण्ड्रकम् ॥
यज्ञत्वेनैव सर्वेषां विधत्ते वैदिकं वचः ।
भस्मनोद्धूलनं चैव तथा तिर्यक त्रिपुण्ड्रकम् ॥
ज्ञानार्थेनैव सर्वेषां विधत्ते वैदिकं वचः ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥
शिवेन विष्णुना चैव वज्रिणा ब्रह्मणा तथा ।
देवताभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥
यक्षराक्षसगन्धर्वसिद्धविद्याधरादिभिः ।
[[१४८]]
मुनिभिश्च धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥
ब्राह्मणैः क्षत्रियै र्वैश्यैः शूद्रैरपि च सङ्करैः ।
अपभ्रंशैर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥
भस्मनोद्धूलनं चैव यैः समाचरितं मुदा ।
त एव शिष्टा विद्वांसो नेतरे मुनिपुङ्गवाः ॥
उद्धूलनं त्रिपुण्ड्रञ्च श्रद्धया नाचरन्ति ये ।
तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ॥
उद्धूलनं त्रिपुण्ड्रञ्च श्रद्धया नाचरन्ति ये ।
ते महापातकैर्युक्ता इति शास्त्रस्य निश्चयः ॥
उद्धूलनं त्रिपुण्ड्रञ्च श्रद्धयानाचरन्ति ये ।
तैः समाचरितं सर्वं विपरीतफलाय हि ॥
भस्मधारणमाहात्म्यं मया वक्तुं न शक्यते ।
गुरुणापि च हे विप्राः कल्पकोटिशतैरपि ॥
ब्रह्मणा विष्णुना चैव रुद्रेणापि मुनीश्वराः ।
भस्मधारणमाहात्म्यं न शक्यं परिभाषितुम् ॥
त्रिपुण्ड्रधारणं मुक्त्वा मुक्तिमिच्छति यः पुमान् ।
विषपानेन नित्यत्वं कुरुते ह्यात्मनो हि सः ॥
त्रिपुण्ड्रोद्धूलने द्वेषस्तदनुष्ठानवर्जनम् ।
रुद्राक्षधारणाभावो ज्ञानानुत्पत्तिकारणम् ॥
स्कान्दे मुक्तिखण्डे ज्ञानानुत्पत्तिकारणाध्याये शिववचनम्-
वेदवेदान्तविद्वेषस्तदध्ययनवर्जनम् ।
वामपाशुपतादीनामश्रौतानां परिग्रहः ॥
[[१४९]]
पाञ्चरात्रादयश्चापि ज्ञानानुत्पत्तिकारणम् ।
उमादेव्या च लक्ष्म्या च वाण्यान्याभिर्द्विजोत्तमाः ॥
सर्वस्त्रीभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ।
पुण्यं भस्म परं ब्रह्म द्वयं संसारतारकम् ॥
तयोरन्यतरत्सेव्यं संसारभयभीरुभिः ।
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ॥
येन विप्रेण शिरसि धार्यते च त्रिपुण्ड्रकम् ।
मुण्डकोपनिषदि भस्मधारणवतामेव ब्रह्मविद्याधिकारित्वमुक्तम्-
तेषामैवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णमिति ॥
एतस्योपनिषद्वाक्यस्योपबृंहणं पुराणे-
शिरोव्रतविहीनस्तु सर्वधर्मसमन्वितः ।
अपि ब्रह्मात्मविद्यायां नाधिकारी न संशयः ॥
सौरसंहितायाम्-
अग्निरित्यादिभिर्मन्त्रैः षड्भिः शुद्धेन भस्मना ।
सर्वाङ्गोद्धूलनं कार्यं शिरोव्रतसमाह्वयम् ॥
इदं शिरोव्रतं चीर्णं विधिज्ञैः श्रद्धया पुनः ।
तेषामेव परा विद्या नान्येषामिति हि श्रुतिः ॥
एतच्छिरोव्रतं नाम श्रुतमाथर्वणश्रुतौ ।
स्कान्दे मुक्तिखण्डे-
एतच्छिरोव्रतं कुर्यात् सन्ध्याकालेषु सादरम् ।
यावद्विद्योदयं तावत्तस्य विद्याः खलूत्तमाः ॥
[[१५०]]
कौर्मे-
स्रष्टा सृष्टिच्छलेनाह त्रिपुण्ड्रस्य प्रशस्तताम् ।
ससर्ज स ललाटं हि तिर्यङ्नोर्ध्वं न वर्तुलम् ॥
धर्मसारसुधानिधौ-
त्रिपुण्ड्रकं सदा कुर्यान्मन्त्रपूतेन भस्मना ।
वेदोक्तेन विधानेन शिवसायुज्यमाप्नुयात् ॥
श्रुतिभास्करे-
वनस्पतिगते सोमे भस्मोद्धूलितविग्रहः ।
तं शङ्करं सकृदृष्ट्वा सर्वपापैः प्रमुच्यते ॥
श्रुतिसारसमुच्यये-
अशुचिर्वाप्यनाचारो मनसा पापमाचरन् ।
शुचिरेव भवेन्नित्यं त्रिपुण्ड्रस्य च धारणात् ॥
महाभारते-
आयुष्कामोऽथवा राजन् भूतिकामोऽथवा नरः ।
नित्यं वै धारयेद्भस्म मोक्षकामी च वै द्विजः ॥
नारदीयस्मृतौ-
त्रिपुण्ड्रं परमं ब्रह्म ब्रह्मविष्णुशिवात्मकम् ।
ये घोरा राक्षसाः प्रेता ये चान्ये क्षुद्रजन्तवः ॥
त्रिपुण्ड्रधारिणं दृष्ट्वा पलायन्ते न संशयः ।
तस्य व्यर्थमिदं जन्म यस्त्रिपुण्ड्रं न धारयेत् ॥
भूतिर्भूतिकरी पुंसां भूतिरंहो विनाशिनी ।
विभूतिरेणुमात्रेण सर्वस्नानफलं भवेत् ॥
यस्य फाले न वा भूतिर्नाङ्गे रुद्राक्षधारणम् ।
[[१५१]]
पञ्चाक्षरं न यो जापी तं त्यजेदन्त्यजं यथा ॥
चन्द्रिकायामाह्निके-
भस्मस्नानं जलस्नानादसङ्ख्येयगुणान्वितम् ।
तस्माद्वारुणमुत्सृज्य स्नानमाग्नेयमाचरेत् ॥
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ।
तत्फलं लभते सर्वं भस्मस्नानान्न संशयः ॥
नास्ति भस्मसमं तेजो नास्ति भस्मसमं तपः ।
ये भक्तास्तु महाभागा ये द्विजाः पापकर्मिणः ॥
तेऽपि भस्मविशिष्टाङ्गाः प्रयान्ति परमां गतिम् ।
यश्च फाले विना भूतिं विना रुद्राक्षधारणम् ॥
न शम्भोः सदने पूज्यः स विप्रः श्वपचाधमः ।
यतीनां ज्ञानदं प्रोक्तं वनस्थानां विरक्तिदम् ॥
गृहस्थाश्रमयुक्तानां धर्मवृद्धिकरं तथा ।
ब्रह्मचर्याश्रमस्थानां स्वाध्यायप्रदमेव च ॥
शूद्राणां पुण्यदं प्रोक्तमन्येषां पापनाशनम् ।
यस्य पङ्क्तौ द्विजो भुङ्क्ते शिवभक्तस्त्रिपुण्ड्रधृत् ॥
सतां पङ्किं पुनात्येकः सकलां चतुराननः ।
भस्मधारणमाहात्म्यं साकल्येन लिखेद्यदि ॥
त्रिलोकी तालपत्राणि नालमायुः शतं नृणाम् ।
इत्यादिश्रुतिपुराणवचनबलादायुर्भूतिमुक्तिप्रदतया आयुष्कामभूतिकाममुक्तिकामधार्यत्वस्य, भस्मधारणद्वेषे उत्पत्तिसाङ्कर्यमूलकत्वस्य, भस्मधारणश्रद्धाभावे प्राचीनानेकजन्मार्जितमहापातकमूलकत्वस्य, भस्मधारणपरित्यागपूर्वकसकलकर्मानुष्ठानवैयर्थ्यस्य,
[[१५२]]
सम्भावितब्रह्महत्यादिमहापातकपरिहारकप्रायश्चित्तरूपत्वेन सर्वव्रतदानतपोयज्ञानुष्ठानरूपत्वस्य, त्रिपुण्ड्रधारणानुगुणतया तिर्यक्त्वेन ललाटनिर्माणस्य स्रष्टुस्तात्पर्यविषयत्वस्य, अशुचित्वापादकव्यापारदशास्वपि शुचित्वप्रापकत्वस्य, भस्मधारणाभावे ज्ञानानुत्पत्तिकारणत्वस्य, राक्षसभूतप्रेतपिशाचादिनिवर्तकत्वेन सकलभीतिनिवारकत्वस्य, शिवविष्णुब्रह्मादिनिखिलदेवताधृतत्वस्य, सकलमुनिजनधृतत्वस्य, उमालक्ष्मीवाणीप्रमुखसुपर्वस्त्रीजनधृतत्वस्य, स्वधारणव्यतिरेकेण जन्मवैफल्यापादकत्वस्य, वेदमन्त्रैकसाध्यस्वधारणेतिकर्तव्यताकत्वस्य, अथर्वशिरोराजाबालकैवल्यकालाग्निरुद्रोपनिषत्प्रतिपदोक्तेतिकर्तव्यताकत्व स्य, शाम्भवव्रतत्वेन पाशुपतव्रतत्वेन शिरोव्रतत्वेन प्रतिपादितत्वेन ब्रह्मविष्णुशिवप्रमुखनिखिलबहिर्मुखानिरूपणीयमहिमाशालित्वस्य च प्रतिपादनाद्भस्मधारणमवश्यं कर्तव्यम् ॥
ननु “अग्निरित्यादिना भस्म गृहीत्वा विमृज्याङ्गानि संस्पृसेद्व्रतमेतत्पाशुपतं पशुपाशविमोक्षाये” त्यथर्वशिरसि पाशुपतविद्याप्रकरणे समाम्नातम् ।
भस्मोद्धूलनं प्रकरणवशात्तन्मात्राङ्गं, नतु सकलब्रह्मविद्याङ्गम् ।
नहि “पूर्वोऽतिथिभ्योऽश्नीया” दितिवैश्वानरविद्याप्रकरणे समाम्नातमतिथिभ्यः प्राक्भोजनं सकलब्रह्मविद्याङ्गमिति चेन्न, सकलब्रह्मविद्यापेक्षितचित्तशुद्धिरूपपापक्षयोपकारजनकं भस्मोद्धूलनं सकलब्रह्मविद्याङ्गम् ।
तस्य हि जाबालश्रुतौ “पापं नाशयते कृत्स्नमपि जन्मशतार्जित” मित्यादिना पापक्षयोपकारहेतुत्वस्यावधृतत्वात् ।
अग्निरित्यादिमन्त्रविधेयं भस्मोद्धूलनं सकलब्रह्मविद्याङ्गम्, विद्याङ्गत्वे सति सकलब्रह्मविद्यापेक्षितोपकारजनकत्वात्, शमदमादिवत् ॥
“मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्याञ्च कृत्वा ।
भस्मच्छन्नो भस्मशय्याशयानो रुद्राध्यायी मुच्यते सर्वपापै ॥”
[[१५३]]
रिति शातातपस्मृतौ प्रायश्चित्तप्रकरणे स्वतन्त्रप्रायश्चित्ततया विहिते श्रीरुद्रजपे तदङ्गभस्मोद्धूलनादौ च विद्यापेक्षितोपकारजनके व्यभिचारवारणार्थं विद्याङ्गत्वे सतीति विशेषणम् ।
अतिथिप्राग्भोजनादौ व्यभिचारवारणार्थं विशेष्यम् ।
न चोदाहृतजाबालश्रुतेः स्वतन्त्रभस्मोद्धूलनविषयत्वसम्भवाद्विशेषणासिद्धिरिति शङ्कनीयम्, “अग्निरिति भस्म वायुरिति भस्मे” त्यादिभस्मोद्धूलनमन्त्राणाम् अथर्वशिरस्याम्नातानां जाबालश्रुतौ भस्मोद्धूलनार्थतया समाम्नानेन पाशुपतविद्याङ्गस्यैव भस्मोद्धूलनस्य पापक्षयद्वारकत्वं जाबालश्रुतावुच्यत इति मन्त्रप्रत्यभिज्ञाया अवगम्यमानत्वात् ॥
ननु प्रकरणनियन्त्रितं भस्मोद्धूलनं प्रकृतिविकृतिभावादिकमन्तरेणापेक्षामात्रान्न पारिप्लवं भवितुमर्हति ।
नहि सा उपदेशातिदेशप्रमाणेष्वन्तर्भवति, न च पाशुपतविद्या सकलविद्याप्रकृतिरिति वक्तुं शक्यम्, तस्यां विद्याङ्गविद्यासहकारिकर्मगतिचिन्तनादीनामनाम्नानात् ।
कृत्स्नविधानेन हि प्रकृतिर्भवति ।
न चेह प्रमाणान्तरं वास्ति ।
तस्मादप्रयोजकं त्वदनुमानमिति-भस्मोद्धूलनं न सकलब्रह्मविद्याङ्गं, विद्याविशेषप्रकरणनियन्त्रितत्वात्, अतिथिप्राग्भोजनवदिति चेन्न यदुक्तमपेक्षा नोपदेशातिदेशप्रमाणेष्वन्तर्भवति, न चेह प्रमाणान्तरमस्तीति यदयुक्तम्, अपेक्षायास्तु सामर्थ्य पर्यालोचनामूलतया लिङ्गान्तर्भावात् ।
तयैव खल्ववहननस्य यवादिसाधारण्यम्, अन्यथा व्रीह्युद्देश्येन विहितस्य तस्य कुतो यवसाधारण्यं स्यात् ? तयैव च विद्याविशेषप्रकरणाम्नातानां यज्ञदानतपःप्रभृतीनां शमदमादीनामर्चिरादिगतिपर्वणामन्येषाञ्चैतादृशानां सकलब्रह्मविद्यासाधारण्यम् ।
तस्मादपेक्षासामर्थ्यं तावदिहैकं प्रमाणं भवत्येव ।
तथा “व्रतमेतत्पाशुपतं पशुपाशविमोक्षाये"ति श्रुतिरपि तत्र प्रमाणम् ।
तत्र हि विमोक्षशब्देन विमुक्तिसाधनं विद्यामात्रमुच्यते यथा “एतावदरे खल्वमृतत्व"मित्यत्रामृतत्वशब्देन अमृतत्वसाधनमुच्यते ।
नहि विद्यैकसाध्यायां
[[१५४]]
विमुक्तौ भस्मोद्धूलनस्य साक्षात्साधनत्वं सम्भवति ।
तथा “तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्ण"मिति मुण्डकवाक्यमपि तत्र प्रमाणम् ।
तत्र हि शिरोव्रतशब्देनाथर्वशिरस्युक्तं पाशुपतव्रतं प्रत्यभिज्ञाप्यते ।
तस्मान्नाप्रयोजकं मदनुमानम् ।
त्वदनुमाने प्रकरणनियन्त्रितत्वं किं प्रकरणाम्नानमात्रम् उत प्रकरणिविद्याविशेषमात्रवशीकृतत्वम् ? आद्ये हेतुरप्रयोजकः, आधानप्रकरणाम्नातानां यज्ञपात्राणां “वारणो यज्ञावचरो वैकङ्कतो यज्ञावचर” इति वाक्यवशेन यज्ञाङ्गत्ववत्, श्रुतिलिङ्गवाक्यैः भस्मोद्धूलनस्य सकलविद्याङ्गत्वोपपत्तेः ।
विद्याङ्गविद्यासहकारिकर्मशमदमादिषु व्यभिचारी च ।
द्वितीये हेतुरसिद्धः ।
प्रकरणाद्बलवद्भिः श्रुतिलिङ्गवाक्यैः सर्वविद्याङ्गत्वापादनात् ।
ननु एकत्र निबद्धमन्यत्राप्यपेक्षामात्रेण पारिप्लवं भवति चेत्, चोदकप्रमाणविचार एव व्यर्थः स्यादतो न तन्मात्रं प्रमाणम् ।
न चावहननस्य अपेक्षामात्राद्यवसाधारण्यम्, किन्तु द्वितीया श्रुत्यवगतं व्रीहीणामवहननसाध्यत्वं प्राक्सिद्धव्रीहित्वाकारेण न सम्भवतीति तस्मात्साध्यतावच्छेदकत्वेनापूर्वीयत्वं लक्षणीयम् ।
किञ्च अवहननवाक्ये व्रीहीपदस्य लौकिकापूर्वीय- साधारण्येन व्रीहिमात्रपरत्वे भूतभाविविनियोगरहितेषु लौकिकव्रीहिषु अवहननस्यार्थकर्मत्वं, अपूर्वीयव्रीहिषु विनियुक्तसंस्काररूपतया गुणकर्मत्वमिति विधिवैरूप्यापत्तिः ।
लौकिकव्रीहिमात्रपरत्वे द्वितीया श्रुत्यवगतद्रव्यप्राधान्यभङ्गापतिरित्ति तत्परिहारार्थत्वेनाप्यपूर्वीयत्वं लक्षणीयम् ।
तत्र व्रीहित्वस्यापि विवक्षायां विशिष्टानुवाददोषः स्यादिति प्रवृत्तिनिमित्तैक्याद्यवसाधारण्यम् ।
यज्ञादीनां शमदमादीनाञ्च “विविदिषन्ति यज्ञने"त्यादौ तृतीया श्रुत्या शमाहितो भूत्वात्मन्येवात्मानं पश्ये” दित्यत्र क्त्वा श्रुत्या च सकलविद्यासाधारण्यम् ।
तत्र हि विविदिषन्तीति पश्येदिति च विद्यामात्रमुपात्तम् ।
अर्चिरादिगतीनां सकलविद्यासाधारण्यमपि “तद्य इत्थं विदुर्ये चेमे अरण्ये श्रद्धा तप इत्युपासत” इत्यादिवाक्येन ।
श्रुति-
[[१५५]]
वाक्ये च प्रकरणाद्वलीयसी ।
तस्मादपेक्षामन्त्रेण न क्वापि विनियोगः ।
पशुपाशविमोक्षायेत्यत्र विमोक्षशब्दो न श्रुत्या सर्वसाधारणः तस्य मुक्तिवाचित्वात् ।
द्वारत्वेन विद्या निवेश्यते चेत्प्रकरणाविरोधेन प्रकृता पाशुपतविद्यैव तथा निवेशयितुमुचिता ।
तेषामेवैतामिति वाक्यं शिरस्यङ्गारधारणरूपमुण्डकाध्ययनाङ्गभूतव्रतमाचष्टे, न त्वथर्वशिरस्युक्तं पाशुपतव्रतम् ।
तत्राथर्वणिकानां शिरोव्रतशब्दप्रसिद्धेः ।
तस्मादप्रयोजकं त्वदनुमानम् ।
मद्धेतोर्द्वितीय एवार्थः ।
श्रुतिलिङ्गवाक्यविरोधाभावेन भस्मोद्धूलनस्य प्रकरणविद्याविशेषवशीकृतत्वोपपत्तेरिति चेन्न, अपेक्षासामर्थ्यं तावत्प्रमाणं भवत्येव ।
तद्बशादेव अकृत्स्नविधानानामन्यतो धर्मग्रहणं, तदपेक्षामूलमेव च चोदकवाक्यकल्पनं; प्रकृतिविशेषव्यवस्थार्थस्त्वाष्टमिको विशेषातिदेशविचारः ।
निरपेक्षस्याप्यन्यदीयधर्मग्रहणे सोमस्याप्यैष्टिकधर्मग्रहणं प्रसज्येत ।
अवहननस्य यवसाधारण्यमप्यपेक्षयैव नापूर्वीयत्वलक्षणया ।
लक्षणाहेत्वोस्त्वदुपन्यस्तयोरयुक्तत्वात् ।
तथाहि आद्यो हेतुस्तावदयुक्तः, साध्यतावच्छेदकानुपस्थितावपि स्वर्गज्योतिष्टोमयोरिव व्रीह्यवहननयोः शब्देन साध्यसाधनभावबोधनसम्भवात् ।
द्वितीयोऽप्ययुक्तः, अवहननवाक्यजन्यशाब्दबोधस्य व्रीहीत्वप्रकारकत्वेऽपि द्वितीया श्रुतिनिर्दिष्टव्रीहिगुणतया विधीयमानमवहननं भूतभाव्युपयोगरहितलौकिकव्रीहिविषयं भवितुं न योग्यमिति विधेयसामर्थ्याच्छाब्दबोधानन्तरमपूर्वीयव्रीहीणां विषयत्वावगतिसम्भवात् ।
“यस्योभावग्नी अनुगतावभिनिम्लोचेदभ्युदियाद्वा पुनराधेयं तस्य प्रायश्चित्ति"रित्यत्र हविरार्त्यधिकरणन्यायेनाग्न्युभयत्वस्याविवक्षायां, अग्न्यनुगतिमात्रस्य शाब्दबोधवेलायां निमित्तत्वावगतावपि निमित्ते विधीयमानमाधानं सहितयोरेवाग्न्योरुत्पादनक्षमं न त्वेकैकस्याग्नेरिति विधेयसामर्थ्यादुभयाग्न्यनुगमस्यैव निमित्तत्वपर्यवसानाङ्गीकारात् ।
“तप्ते पयसि दध्यानयती” त्यत्र शाब्दबोधस्य पयस्त्वमात्रप्रकारकत्वेऽपि शा वैश्वदेव्यामीक्षे"ति तदनन्तरवाक्ये तस्य
[[१५६]]
पयसो यागान्वयविधाने सति तत्सामर्थ्याच्छाब्दबोधान्तरं तदपूर्वसम्बन्धिनः पयसो विषयत्वावगतिरित्यवश्यवक्तव्यत्वाच्च ।
यज्ञादीनां शमदमादीनां च साधारण्यं न श्रुत्या, “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशकेने” तिश्रुतौ-तमेतं विविदिषन्तीति, “तस्मादेवं विच्छान्तोदान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्ये"दिति श्रुतोवेवं वित्पश्येदिति च प्रकृतविद्याविशेषसम्बन्धबोधनात्; किन्त्वपेक्षयैव ।
अर्चिरादिगतेरप्यपेक्षयैव सर्वसाधारण्ये सिद्धे “ये चेमे अरण्ये” इतिवाक्यं पञ्चाग्निविद्यायामर्चिरादिगतिसद्भावे दृष्टान्तार्थं, जीवगतागतविषया, न ब्रह्मविद्येति दिव्यवस्थानप्राप्तिफलाभावेन तस्यादेवयानगत्यभावप्रसक्तौ तत्सद्भावविधानार्थम् ।
“तद्य इत्थं विदु"रिति वचने प्रवर्तनीये तत्र दृष्टान्तार्थं दीपकालङ्कारेण ब्रह्मविद्या अपि सहोपात्ताः पशुपाशविमोक्षायेत्यत्र विमोक्षशब्दः श्रुत्यैव सर्वविद्यासाधारणः, तस्य भावार्थप्रत्ययान्तया मुक्ताविव, करणार्थप्रत्ययान्ततया विद्यायामपि शक्तिसद्भावात् ।
शिरोव्रतं विधिवद्यैस्तु चीर्ण"मिति वाक्यमथर्वशिरोवर्णितपाशुपतव्रतविषयमेव, सौरपुराणादिषु तथा व्याख्या- तत्वात् ।
उपबृंहणानुसारेण श्रुत्यर्थस्य ग्राह्यत्वात् ।
अध्यापकप्रसिद्धितः पुराणप्रसिद्धेर्वलवत्वात् ।
तस्मान्नाप्रयोजकत्वं मदनुमाने ।
त्वदनुमाने च हेत्वसिद्धिरिति ।
तस्मादुद्धूलनत्रिपुण्ड्रयोः सकलपापनिवर्तकत्वेन चित्तशुद्धिद्वारा ब्रह्मविद्याङ्गत्वेन मुमुक्षुवीरशैवधार्यत्वं सिद्धमिति सर्वं समञ्जसं भवतीति भस्मधारणवादः ॥
इति श्रीवीरशैवानन्दचन्द्रिकायां वादकाण्डे सप्तमं प्रकरणम् ॥
[[१५७]]