वीरशैवानन्दचन्द्रिकायां वादकाण्डे षष्ठं प्रकरणम् ॥
पादोदकस्वीकरणविधिमुत्कर्षपूर्वकम् ।
आचकर्णञ्च कर्णाभ्यां श्रीगुरो भवदीरितम् ॥
मदीयं हृदयं जातमानन्दभरतुन्दिलम् ।
यदन्यच्छ्रवणार्हं मे तन्मह्यमुमवर्णय ॥
वेदागमपुराणानां मतेनालोच्य युक्तिभिः ।
चित्ते कुरु महीपाल प्रसादोत्कर्ष उच्यते ॥
परमपुरुषार्थभूतनिश्रेयसप्रेप्सुभिः प्राक्तनानेकजन्मार्जितसुकृतपरिपाकपरिशुद्धबुद्धिभिः सकलशिष्टाचारसम्प्रदायानुष्ठानगरिष्ठैः सद्भिः शिवप्रसादस्वीकारः कर्तव्यः ॥
तथाहि जाबालशाखायां श्रूयते-
रुद्रेण भुक्तमश्नन्ति रुद्रेण पीतं पिबन्ति रुद्रेणाघ्रातं जिघ्रन्ति तस्माद् ब्राह्मणाः प्रशान्तमनसो निर्माल्यमेव भक्षयन्तीति ॥
तथैव स्कान्दे-
शिष्टाः शान्ताश्च रुद्रेण भुक्तमेव हि भुञ्जते ।
घ्रातमेव हि जिघ्रन्ति पीतमेव पिबन्ति च ॥
इति श्रुति समानार्थकमुपबृंहणवचनम् ॥
एवं कठशाखायां-
[[१२२]]
त्रिगुप्सातमश्नीयाद्यादिपाप्मना शिवानर्पितमश्नीयात्तदेनो भुङ्क्ष्व क्रिमिं भुङ्क्ष्व मलं भुङ्क्ष्व अघं भुङ्क्ष्व अधो गच्छाधो गच्छेति ।
अस्यार्थः- तिस्रो गावो नेत्राणि यस्य स त्रिगुस्त्रिनेत्रः तेन त्रिगुणा त्रिनेत्रेण प्सातं भक्षितं स्वीकृतमिति यावत्, प्सा भक्षण इति धातोः कर्मणि निष्ठा ।
अश्नीयाद्भक्षयेत् ।
पाप्मना पापेन शिवानर्पितम् अश्नीयात् भक्षयेद्यदि, एनः महापापं भुङ्क्ष्व भुञ्जीयात् ।
अघमित्युपपातकं भुङ्क्ष्व भुञ्जीयात् ।
“व्यत्ययो बहुल” मित्यनुशासनाच्छन्दसि लकारपुरुषव्यत्ययः; एवमग्रेपि ।
अधो गच्छाधो गच्छेति वाक्यद्विरुक्त्या असकृदधो गमनस्य विवक्षितत्वात् ॥
तथा शतरुद्रीये श्रूयते- यच्छञ्च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीताविति ॥
अस्यार्थः- हे रुद्र तव प्रणीतौ प्रजायां यो मनुः पञ्चाक्षरीलक्षणो मन्त्रस्तेन त्वाम् आयजे ।
यद्यस्माद्रुद्रप्रसादरूपमध्यमपिण्डभक्षणादहमुत्पन्नस्ततस्त्वं पिता ततस्त्वत्प्रसादमश्याम, तेन शं स्वर्गादिलक्षणं सुखञ्च योः परमात्मरूपञ्च प्राप्नुयामिति ॥
तथा ऋग्वेदे यजुर्वेदे च श्रूयते- त्वादत्तेभी रुद्र शन्तमेभिः शतं हि मा अशीय भेषजेभिरिति ॥
अस्याः श्रुतेरर्थः- हे रुद्र त्वादत्तेभिः त्वया दत्तैः पादोदकपुष्पान्नरूपैः प्रसादैः शन्तमेभिः अतिसुखकरैः भेषजेभिः औषध प्रायैः शतं हि मा अशीय ।
शतायुः प्राप्नुयामिति ।
तस्मात् शिवप्रसादो मुमुक्षुभिः सकलशिष्टैः यथासम्प्रदायं सेवनीयमिति ॥
ननु तत्र बहुषु स्मृत्यागमपुराणेषु निर्माल्यं निन्द्यते ।
तथाहि वासिष्ठसंहितायां-
निवेदितञ्च यद्द्रव्यं पुष्पं फलमथापि वा ।
तन्निर्माल्यमिति प्रोक्तं यत्नेनैव विवर्जयेत् ॥
भूमौ वा निखनेत्तत्तु वह्नौ वाप्सु विनिक्षिपेत् ।
इति ॥
[[१२३]]
पाञ्चरात्रे विष्णुसंहितायां-
निर्माल्यं न स्पृशेद्दद्यालङ्घयेद्वाशनं कुतः ।
सर्वेषामपि देवानां निर्माल्यमशुचि स्मृतम् ॥
इति ॥
भागवते एकादशस्कन्धे-
अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदितम् ॥
इति ॥
पाञ्चरात्रसंहितायां- पञ्चविंशे जीर्णोद्धारपटले-
यदेव देवपूजायां विनियुक्तमनिन्दितम् ।
तदेव दूषितं पश्चान्निर्माल्यमिति निन्द्यते ॥
अनर्हं मम नैवेद्यं पादाम्बु कुसुमं दलम् ॥
इति ॥
मनुस्मृतौ च-
शुद्रान्नं सूतकस्यान्नं नैवेद्यं श्राद्धमेव च ।
पतितान्नं समूहान्नं राजान्नं चैव वर्जयेत् ॥
इति ॥
शिवपुराणे-
निर्माल्योल्लङ्घने दोषो धारणे च विशेषतः ।
इति ॥
तथा शिवरहस्येऽपि-
निर्माल्यञ्च निवेद्यञ्च विशेषेण विवर्जयेत् ।
रुद्रोपभुक्तं निर्माल्यं न तथा देवतान्तरैः ॥
नैवेद्यं विष्णुना भुक्तममृतञ्चान्यदैवतैः ।
निर्माल्यञ्च निवेद्यञ्च भुक्त्वाचान्द्रायणं चरेत् ॥
इत्यादिवचनजातेन शिवोपभुक्तविष्णूपभुक्तयोर्निर्माल्यनैवेद्याख्ययो र्द्वयोरपि स्पर्शनधारणभक्षणाद्ययोग्यत्वं प्रतिपादितम् ।
विशिष्य च शिवनिर्माल्यस्यापरिग्राह्यत्वं स्पष्टं प्रतिपाद्यते ।
तथाहि हेमाद्रौ
[[१२४]]
प्रायश्चित्तकाण्डे देवलः-
शम्भो र्निवेदितं भक्तं तत्तीर्थं शाकमेव वा ।
विप्रः कदा न भुञ्जीयाद्भुक्त्वा कृच्छ्रं समाचरेत् ॥
इति ॥
मार्कण्डेये-
शिवे निवेदितं भक्तं प्रत्येकं देवतां विना ।
द्विजोऽज्ञानाद्यदा भुङ्क्ते तदा तप्तं समाचरेत् ॥
इति ॥
कालिकापुराणे-
स्पृष्ट्वा रुद्रस्य निर्माल्यं सवासा आप्लुतः शुचिः ।
इति ॥
स्कान्दे-
शिवनिर्माल्यभोक्तारः शिवनिर्माल्यलङ्घकाः ।
शिवनिर्माल्यदातारः स्पर्शस्तेषां न पुण्यदः ॥
लोभान्न धारयेच्छम्भोर्निर्माल्यं न च भक्षयेत् ।
न स्पृशेदपि पादेन लङ्घयेद्वापि नारद ॥
ज्योतिर्लिङ्गं विना लिङ्गं यः पूजयति मानवः ।
तस्य नैवेद्यनिर्माल्यभक्षणात्तप्तकृच्छ्रकम् ॥
इति बहुप्रमाणव्यतिकरानुयोगेन शिवनिर्माल्यस्य अग्राह्यत्वं सिद्धमिति चेन्न, अत्र निर्माल्यस्वीकारविधितन्निषेधप्रवृत्तानामागमपुराणवचनानां परस्परविरोधेनाप्रामाण्यप्रसक्तावप्रामाण्यस्वीकारानौचित्यादुभयेषा।
म् प्रामाण्यं विषयव्यवस्थाकल्पनेन सम्पादनीयम् ।
सा च व्यवस्था न केवलं यौक्तिकी, किन्त्वागमस्मृतिपुराणमूला ।
तथा च वचनानि निर्माल्यञ्च षड्विधमित्युक्तं शैवतन्त्रे-
देवस्वं देवताद्रव्यं नैवेद्यञ्च निवेदितम् ।
चण्डद्रव्यञ्च निर्माल्यं निर्माल्यं षड्विधं भवेत् ॥
[[१२५]]
ग्रामक्षेत्रादिदेवस्वं देवद्रव्यं पटादिकम् ।
नैवेद्यं कल्पितं तस्मै देवोच्छिष्टं निवेदितम् ॥
चण्डद्रव्यन्तु तद्दत्तं निर्माल्यं प्रेरितं बहिः ।
पिण्डिकास्थन्तु निर्माल्यमपि देवे विसर्जिते ॥
इति ॥
पिण्डिकापीठम्, अतः पीठस्थितं पुण्यतीर्थादिकं देवविसर्जनानन्तरमपि निर्माल्यमित्यविगानेन शिष्टाः स्वीकुर्वन्ति ।
अत्र निर्माल्यपदं देवसम्बन्धिद्रव्यसामान्ये तद्विशेषे बहिः प्रेरितरूपे षष्ठे च प्रभेदे प्रवर्तते ।
तस्माद्विशिष्य शिवनिर्माल्यं सर्वथा शिष्टै र्न ग्राह्यमिति ॥
अत्र विचार्यते- शिवनिर्माल्यं कथमसेव्यम्, श्रुतिनिषिद्धत्वाद्वा, स्मृतिपुराणागमनिषिद्धत्वाद्वा, विधायकाभावाद्वा ? नाद्यः शिवप्रसादो न सेव्य इति श्रुतिनिषेधादर्शनान् ।
प्रत्युत पूर्वोदाहृतश्रुतिषु प्राशस्त्येन शिवनिर्माल्यस्वीकारस्यावश्यकत्वप्रतिपादनात् ।
न द्वितीयः, स्मृत्या निषेधस्यानधिकारिविषयत्वेन व्यवस्थायाः कल्पनीयत्वात् ।
अन्यथा प्रसादस्वीकारस्यावश्यग्राह्यत्वप्रतिपादनपराणां भूयसां वचनानामप्रामाण्यमाश्रयणीयं स्यात् ।
न तृतीयः, ङिर्माल्यं धारयेन्मूर्ध्नि नैवेद्यं चापि भक्षयेत् ।
तत्प्रसादोदकं पीत्वा गाणापत्यमवाप्नुयात् ॥" इत्यादिशिवधर्मादिपुराणवचनानां शतशः श्रूयमाणत्वात् ॥
तथाहि श्रुतिः-
त्वादत्तेभी रुद्र शन्तमेभिः शतं हि मा अशीय भेषजेभिः ।
व्यस्मद्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वाविषूचीः ॥
एतदर्थप्रतिपादनप्रवृत्तं ब्रह्माण्डपुराणे शैवसंहितायां व्यासजैमिनिसंवादे व्यासवचनम्-
ऋक्सूक्तस्यास्य गूढार्थं कथयाम्यहमादरात् ।
हे रुद्र त्वा त्वयाशीय भुक्त्वा धत्तेभिरादरात् ॥
[[१२६]]
दत्तैः प्रसादितैः शन्तमेभिः सुखतमैस्तथा ।
व्यासंसाराख्यरोगस्य भेषजेभिस्तदौषधैः ॥
संसारस्य विरोधित्वात्प्रोक्तैः संसारभेषजैः ।
इत्थम्भूतैस्त्वत्प्रसादैरतिशुद्धैः शतं हि माः ॥
शतं समा अवितरमनन्यं स्वीयमुन्नतम् ।
वीरशैवं भक्तजनं चातय स्वात्मना सह ॥
योजयायं यदस्मद्वेषोहङ्कृतिविवर्जितः ।
व्यंहो विगतपापाघो व्यमीवा भक्तिसंयुतः ॥
अविषूचीस्तमेवापि भवेत्तद्वत्कृपानिधे ॥
इति ॥
यजुर्वेदे-
रुद्रेणान्नममृतं देवा वै भोक्तुकामा वेदाश्च कामयन्ते ॥
इति ॥
अस्यार्थः- रुद्रेण परमेश्वरेण अन्नमिति अद= भक्षण इति धातोः कर्मणि निष्ठा तद्रूपमन्नं न विद्यते मृतं मरणं येन तदमृतम्, तस्मात्कारणात्प्रसादं देवा वै भोक्तुकामा वेदाश्च कामयन्ते, विष्ण्वादयो देवा ऋगादयो वेदाश्च तत्प्रसादममृतम् अनुभवितुमभिलषन्तीत्यर्थः ॥
तथैव श्रुत्यन्तरे-
इमं पशुं पशुपते ते अद्य बध्नाम्यग्रे सुकृतस्य मध्ये अनुमन्यस्व सुयजा यजाम जुष्टन्देवानामिदमस्तु हव्यम् ॥
इति ॥
शिवोपभुक्तस्य सर्वजनोपादेयत्वे स्विष्टकृदाहुतिविधायिका श्रुतिः प्रमाणम्-
यदग्नये स्विष्टकृदवद्यति भागधेयेनैव तद्रुद्रं समर्थयति ।
सकृत्सकृदवद्यति ।
सकृदिव हि रुद्रः उत्तरार्थादवद्यति ।
एषा वै रुद्रस्य दिक् ।
स्वायामेव दिशि रुद्रं निरवदयते ॥
इति ॥
[[१२७]]
अस्यार्थः- यत्-यस्मात्कारणात् स्विष्टकृते सुष्ठु इष्टं हुतं पूर्वहुतं द्रव्यं करोतीति स्विष्टकृदग्निः रुद्रः अवद्यति ।
हविः खण्डनं करोति, दो= अवण्डन इति धातोर्लट् ।
तस्मात् स्विष्टकृत्वकरणात् पूर्वाहुतिसार्थकीकरणात् भागधेयेन भागेन स्वार्थे भागशब्दाद्धेयप्रत्ययः ।
रुद्रं समर्थयति सम्पूरयति ।
सकृत् सकृत् एकवारमेकवारमेवावद्यति विभजति ।
सकृदिव हि रुद्रः सकृत् क्रियमाणानां सर्वेषां रुद्र एव स्वामी उत्तरार्थात् हविष ईशान्यभागात् अवद्यति ।
ईशान्यभाग एव रुद्रस्य दिगिति लोकप्रसिद्धमित्यर्थः ।
तथाच स्विष्टकृत्वकरणात् सकृदवदानादैशान्यां दिशि अवदानाच्च रुद्रोपभुक्तत्वं सिद्धम् ।
स्विष्टकृदनन्तरमेव सर्वेषां हविषां सर्वेषामृत्विजां यजमानस्य च प्राशनविधानात् शिवप्रसादसेवनमावश्यकम् ।
नन्वत्र स्विष्टकृद्विधायकवाक्यस्याग्निपरत्वात् रुद्रपराणामुपरितनानां वाक्यानामर्थवादरूपत्वात्कथं शिवपरत्वेन निर्णयः क्रियत इति चेन्न, शन्दिग्धे तु वाक्यशेषा"दित्यधिकरणे यथा “अक्ताः शर्करा उपदधाती” त्यत्राञ्जनसाधनद्रव्यं किमित्यपेक्षायां घृततैलवसादीनामञ्जनसाधनानां प्रतीयमानत्वेन निर्णयाभावात् “तेजो वै घृत"मिति वाक्यशेषाद्घृतेनैवाञ्जनं कृत्वा उपधानं कर्तव्यमिति निर्णयः तथा अर्थवादस्थितेनापि रुद्रशब्देन अग्निशब्दस्यापि रुद्रपरत्वं निर्णीयते ।
“रुद्रो वा एष यदग्नि"रिति अग्ने रुद्रत्वप्रतिपादनात्, स्विष्टकृत्वकरणसामर्थ्याच्च ।
ननु भागधेयेनेत्यत्र यागहोमप्रतिपादकशब्दाभावाद्रुद्रोपभुक्तत्वं हविषः कथमितिचेन्न “पूषाप्रपिष्टभाग” इत्यत्र भागब्दस्य त्यागवचनतया तृतीयाध्याये पौष्णाधिकरणे व्यवस्थापितत्वात्तन्न्यायेनात्रापि भागशब्दस्य यागपरत्वम् ।
किञ्च संस्रावहोमे मन्त्रस्य तदङ्गस्य विश्वेदेवपरत्वेऽपि शर्वे वै रुद्रा आदित्याः संस्रावभागाः
[[१२८]]
तेषां तद्भागधेयं तानेव तेन प्रीणाती"ति भागशब्देनैव वसुरुद्रादित्यदेवताकत्वेन निर्णयात् ॥
ननु “रुद्रो वा एष यदग्नि"रित्यादीनां बहुषु स्थलेषु श्रूयमाणानां वाक्यानाम् अर्थवादरूपत्वेन स्वार्थे तात्पर्याभावात् कथं रुद्रपरत्वमिति चेन्न, “अभ्यासे हि सति भूयस्त्वमर्थस्य भवति नाल्पत्वमपि, प्रागेवोपचरितार्थत्वमिति” उत्तरतन्त्रे ब्रह्मसूत्रभाष्यटीकायां भामत्याम् आचार्यवाचस्पतिमिश्रैर्महावाक्यानां तत्वमसीत्यादीनामद्वैतपरत्वप्रतिपादनात् ॥
ननु स्विष्टकृद्यागाङ्गमन्त्रस्याग्निपरत्वेन केवलाग्निशब्दश्रवणाद्ब्राह्मणपर्यालोचनयास्य होमस्य रुद्रदेवताकत्वं कथमिति चेन्न, संस्रावहोमाङ्गभूतमन्त्रस्य विश्वेदेवपरत्वेपि ब्राह्मणपर्यालोचनया वसुरुद्रादित्यपरत्वेन निर्णीतत्वात् तथैव लोकेऽनुष्ठानस्य दृश्यमानत्वात् ।
तद्वदत्रापि अग्निशब्दस्य रुद्रपरत्वेन निर्णयः ।
अस्पष्टार्थतया विद्यमानस्य मन्त्रस्य ब्राह्मणरीत्या निर्णय आवश्यकः ।
“ऐन्द्र्या गार्हपत्यमुपतिष्ठत” इत्यत्र ब्राह्मणवशेन गार्हपत्योपस्थाने असमर्थस्यापि लक्षणां परिकल्प्य, “वचनात्त्वयथार्थमैन्द्री स्या” दित्यधिकरणे निर्णीतत्वेन ब्राह्मणस्यैवार्थनिर्णायकत्वात् ॥
नन्वेवं तत्र तत्र ऋचि विद्यमानस्याग्निशब्दस्य सर्वस्यापि उक्तरीत्या रुद्रपरत्वेऽग्निपरत्वमेव न स्यादिति चेन्न, यत्राग्निशब्दस्य रुद्रपरत्वे आहत्यवचनं लिङ्गं प्रकरणं वा वर्तते तत्रैव तत्परत्वेन निर्णयेनातिप्रसङ्गाभावात् ।
अन्यथा उत्तरतन्त्रे उपक्रमोपसंहाराभ्याम् अनन्यसाधारणलिङ्गेन तात्पर्येण च ब्रह्मपरत्वे निर्णीतानामाकाशप्राणज्योतिर्वैश्वानरादिशब्दानां तस्यां तस्याम् ऋचि विद्यमानानाम् एतेषां तत्तद्देवतापरत्वं न स्यात् ।
किञ्च स्मार्ते नित्यकर्मणि सप्तपाकयज्ञान्तर्गतीशानबलावापस्तम्बेन ऋषिणा भगवता श्थालीपाकं ब्राह्मणान् भोजयेत् ।
क्षैत्रपत्यं प्राश्नन्तीति” सर्वेषां
[[१२९]]
स्कन्दपार्वतीनन्दिकेश्वरादिबहुविधप्रमथगणक्षेत्रपालानां बलिस्थापनानन्तरं शिष्टस्यान्नस्य ब्राह्मणभोजनार्हत्वेन स्वस्य प्राशनीयत्वेन विधानाच्च ॥
ननु स्विष्टकृदाहुतौ चतुरवत्तमात्रस्य हुतत्वे तस्यैव रुद्रसम्बन्धित्वेन प्राशनायोग्यतया शिष्टस्य प्राशनयोग्यस्य देवता सम्बन्धाभावेन निवेदितान्नवैषम्येन शिवनिवेदितान्नभोजनसाधकयुक्तित्वेन कथमुपन्यस्तम्, एतेन ईशानबलिविषयोऽपि निरस्तप्राय इति चेन्मैवम्, स्विष्टकृदाहुतौ चतुरवत्तमात्रस्य होमे शिष्टस्य हविषो देवतासम्बन्धोऽस्त्येव ।
लोकेऽपि स्त्रीशेषशूद्रशेषादौ तत्सम्बन्धस्य विद्यमानत्वादेव निषेधः प्रवृत्तः ।
तस्माच्छिष्टस्य हविषः देवतासम्बन्धोऽस्ति ।
प्रत्युत शिष्टस्यान्नस्य देवतासम्बन्धिताविषये आहत्य श्रुतिरेव वर्तते ।
स्त्रीशेषशूद्रशेषोदाहरणप्रदर्शनन्तु सर्वजनस्पष्टीकरणायाभ्युच्चयत्वेन लिखितम् ।
तथाहि “आग्नेयं चतुर्धा करोती"ति विहितम् ।
चतुर्धाकरणन्तु ऋत्विजां प्राशनार्थं तथाच श्रुतिः- चत्वारोह्येते हविर्यज्ञस्य ऋत्विजः, ब्रह्मा होताध्वर्युरग्नीत् ।
तमभिमृशेत्, इदं ब्रह्मणः, इदं होतुः, इदमध्वर्योः, इदमग्नीध इति ।
आग्नेयं चतुर्धा करोतीत्यत्र चतुरवत्तमात्रस्य अग्नये हुतत्वेन शिष्टस्य तत्सम्बन्धाभावात्, अग्निरूपदेवतासम्बन्ध प्रतिपादकश्रुतिनिर्वाहार्थं तत्सम्बन्धोऽस्तीत्यवस्यमङ्गीकरणीयम् ।
न च देवतासम्बन्धे आग्नेयमिति तद्धितप्रत्ययो न भवति ।
किन्तु सर्वत्र “अग्निकलिभ्यां ढग्वक्तव्य” इति वार्तिकात्तस्येदमिति सम्बन्धार्थे ढक्प्रत्ययः ।
सम्बन्धमात्रन्तु चतुरवत्तावदानप्रकृतित्वरूपपरम्परयापि भवतीति वाच्यम्, सास्य देवतेति देवतार्थ एवायं तद्धितः ।
अत एवाग्निषोमीयस्य पुरोडाशस्याग्निसम्बन्धित्वे विद्यमानेऽपि देवतासम्बन्धाभावाच्चतुर्धाकरणं नास्ति ।
समर्थः पदविधिरित्यधिकारान्निरपेक्षाग्निदेवताकत्व एव तद्धितप्रत्ययविधानेनाग्नीषोमीये सापेक्षाग्निदेवताके आग्नेयमिति वक्तुमशक्यत्वात्,
[[१३०]]
अग्नीषोमीये पुरोडाशे चतुर्धाकरणं नास्तीति तृतीयाध्याये चतुर्धाकरणाधिकरणे प्रतिपादितम् ।
तस्माच्छिष्टस्य तद्देवतासम्बन्धोऽस्त्येव ।
स तु सम्बन्धः साक्षात्सम्बन्ध एव न तु चतुरवत्तावदानप्रकृतित्वरूपपरम्परासम्बन्धः, शबरस्वामिभाष्यकृन्मते “तदुक्ते श्रवणाज्जुहोतिरासेचनाधिकः स्या” दित्यधिकरणे त्यागपूर्वकप्रक्षेपस्यैव होमत्वेन निर्णयात् ।
तदेकदेशभूतत्यागरूपमानसव्यापारविषयीभूतत्वस्य सर्वस्मिन् पुरोडाशे विद्यमानत्वात् ।
श्रीभट्टपादमते त्याग एव यागः स एव प्रधानम् ।
प्रक्षेपमात्रन्तु गुणस्त्यागस्याङ्गमिति स्पष्टमेव सर्वस्य पुरोडाशस्य त्यागविषयत्वम् ।
तस्माच्छिष्टस्य देवतासम्बन्धः साक्षात्सम्यगेवास्ति ॥
ननु श्रौतस्मार्तयोर्यागहोमयोर्विद्यमानत्वात् त्वदुक्तरीतिस्तन्मर्मारोहति, तावता शिवनिवेदनस्थले किमायातं यागहोमादीनामभावादिति चेन्न, यागस्यैव निवेदनशब्दार्थत्वात्, अन्यथा निवेदनशब्दार्थस्य निर्वोढुमशक्यत्वात् ।
तथाहि- निवेदनशब्दार्थः कः ? अन्नस्य देवतापुरतः स्थापनं वा, तद्विशिष्टमन्त्रोच्चारणं वा, उत तद्विशिष्टहस्तचेष्टाविशेषो वा, आहोस्वित्तद्विशिष्टघण्टानादो वा, तद्विशिष्टनेत्रनिमीलनं वा ? अथवा कोऽपि मानसाभिसन्धिः ? नाद्यः, पुरतः स्थापनमात्रेण निवेदितत्वप्रसिध्यभावात् ।
अन्यथा स्त्रीजनकृतदेवतापुरस्थापनमात्रेण निवेदनसिद्धेरितरव्यापारनैरर्थक्यं स्यात् ।
न द्वितीयः, तथासति व्याधिवशेन मन्त्रोच्चारणसमर्थस्य निरन्तरभक्तियुक्तस्य निवेदनकर्तृत्वं न स्यात् ।
न तृतीयः, व्याध्युपहतहस्तेन पुरुषेण क्रियमाणं हस्तचेष्टाविशेषाभावान्निवेदितं न स्यात्, तात्कालिकान्नस्थमशकमक्षिकाद्युत्सारणार्थहस्तव्यापारोऽपि निवेदनं स्यात् ।
न चतुर्थः, अन्यापहृतघण्टस्य पथि गच्छतो वा घण्टानादाभावान्निवेदनकर्तृत्वं न स्यात् ।
न पञ्चमः, अक्षिरोगदूषितस्य मशकपातभीत्या तत्कालनिमीलिताक्षस्य वा भक्तियुक्तस्य निवेदनकर्तृत्वं न स्यात् ।
तस्मादेतदुप- लक्षितो वा एतद्विशिष्टो वा
[[१३१]]
न मम त्वदीयमिदं त्वं भुङ्क्ष्वेतिमानसाभिसन्धिरेव निवेदनशब्दार्थः ॥
ननु तर्हि निवेदनयागशब्दयोः घटकुम्भादिशब्दवत्पर्यायत्वं स्यादिति चेत्, यागहोमशब्दवत् मुखभेदेन शब्दभेदसम्भवात् ।
यागो नाम देवतामुद्दिश्य न ममेति मानसिकोऽभिसन्धिविशेषः ।
होमो नाम देवतोद्देश्यकमानसद्रव्यत्यागपूर्वककायिकाग्न्याधारकद्रव्यप्रक्षेपः ।
निवेदनं नाम देवतोद्देश्यकद्रव्यत्यागविशिष्टक्रियाविशेषोपहितदेवताकर्तृकतृप्तिसाध् अकभुक्तिरूपमानसाभिसन्धिविशेषः ॥
तस्मात् शिवप्रसादस्य न्यायोपबृंहितैः श्रुतिस्मृतिपुराणागमवचनैः ग्राह्यत्वं सिद्धम् ॥
अस्मिन्नर्थे उपबृंहणभूतानि आगमपुराणस्मृत्यायुर्वेदादिवचनानि बहुशः श्रूयन्ते ।
तथाहि शिवधर्मोत्तरे-
निर्माल्यं धारयेन्मूर्ध्नि नैवेद्यञ्चापि भक्षयेत् ।
तत्प्रसादोदकं पीत्वा गाणापत्यमवाप्नुयात् ॥
स्कन्दपुराणे-
मत्प्रसादोदकं पुण्यं सदा धार्यं मदाश्रितैः ।
रोगिभिश्चविशेषेण रोगदग्धैश्च यत्नतः ॥
शिरसा धारयेद्भक्त्या यो निर्माल्यमलोभतः ।
अहमेव धृतस्तेन सोमः सोमकलाधरः ॥
शैवपुराणे-
शिवस्यैव तु निर्माल्यं भक्त्या धार्यं द्विजातिभिः ।
निर्माल्यं परमं पुण्यं नैवेद्यं पापनाशनम् ॥
ब्रह्मचारिगृहस्थानां यतीनां भुक्तिमुक्तिदम् ।
सिद्धान्तशिखामणौ-
भुञ्जीयाद्रुद्रभुक्तान्नं रुद्रपीतं जलं पिबेत् ।
रुद्राघ्रातं सदा जिघ्रेदिति जाबालिकी श्रुतिः ॥
[[१३२]]
आयुर्वेदे-
निर्माल्यसलिलं प्राश्य देवदेवस्य शूलिनः ।
क्षयकुष्ठज्वरश्वासैर्मुच्यते किल्बिषैरपि ॥
इत्यादिश्रुतिस्मृतिपुराणायुर्वेदवचनेषु शिवप्रसादस्वीकारस्य करणेऽभ्युदयस्य अकरणे प्रत्यवायस्य च श्रवणात्, सर्वदा स शिवभक्तैस्तत्परायणैरादरात्स्वीकार्यः ॥
नन्वेतादृशश्रुत्यागमस्मृतिपुराणादिवचनबलैः शिवप्रसादस्वीकारस्यावश्यकर्तव्यत्वेपि गुरुचरयोः प्रसादस्य स्वीकारविधायकवचनानामदर्शनात्कथं तत्प्रसादस्वीकारः क्रियत इति चेन्न, पादोदकस्वीकरणे शिवपादोदकस्येव गुरुचरपादोदकस्यापि शिवगुरुचराणां परस्पराभेदप्रतिपादकबहुवचनप्रमाणानुसारेण अवश्यस्वीकार्यत्वप्रतिपादनात् ।
तन्न्यायेन
प्रसादस्त्रिविधः प्रोक्तः शुद्धः सिद्धः प्रसिद्धकः ।
शुद्धो गुरुमुखात्प्राप्तः सिद्धो लिङ्गमुखात्तथा ॥
प्रसिद्धो जङ्गममुखात्प्रसादस्त्रिविधो मतः ।
इत्यादिविशेषवचनानुसारेण च शुद्धसिद्धप्रसिद्धाख्यस्त्रिविधः प्रसादो गुरुलिङ्गचरोपभुक्तो वीरशैवैः सर्वदा स्वीकरणीय इति सिद्धमिति निर्विवादम् ॥
इति श्रीमद्-अनादि-निरञ्जन-जङ्गमापरावतार-
तोण्टद-सिद्धेश्वर-प्रसादासादित-
शाम्भवागमाम्बोधि-मथन-जनित-
निरुत्तरैकोत्तरशत-स्थल-भेद-भिन्न-षट्-स्थल–
तत्त्वबोध-सुधास्वादानन्द-सन्दोह-प्रदायकाचार्यवर्य-
श्रीमरितोण्टदार्य-विरचिते
यडव-मुरारि-कोटे-कोलाहलैकाङ्गि-वीर-
वैरि-सप्ताङ्ग-हरण-पश्चिम-समुद्राधीश्वर-
विशुद्ध-वैदिकाद्वैत-सिद्धान्त-प्रतिष्ठापनाचार्य-
केलदि-सदाशिव-राय-नायक-वंश-दुग्धार्णव-चन्द्र-
वीर-भद्र-धरणीन्द्र-धर्म्म-पत्नी-मल्लाम्बा-हृदयानन्द-
बसव-वसुधा-सङ्क्रन्दनोपदेशे
वीरशैवानन्द-चन्द्रिकायां वादकाण्डे षष्ठं प्रकरणम् ॥
[[१३३]]