वीरशैवानन्दचन्द्रिकायां वादकाण्डे पञ्चमं प्रकरणम् ।
अश्रौषं जङ्गमोत्कर्षमहृष्यं नितरां गुरो ।
मदीयं हृदयं जातमाश्चर्यरसनिर्भरम् ॥
निरूपणीयं यत्पश्चात्सङ्कीर्तय तदद्य मे ।
वदामि शृणु राजेन्द्र पादोदकमहोन्नतिम् ॥
सकलश्रुतिस्मृतिपुराणागमेतिहासेषु परमश्रेयःसाधनतया शिवप्रसादस्य देवृषिगणसेव्यत्वाद्यथातथैव शिवपादोदकस्यापि निखिलकलुषनिवृत्तिद्वारा सकलश्रेयःसाधनतया प्रतिपाद्यते ॥
तथा हि-
पृथिव्यां यानि तिर्थानि या नद्यः पुण्यदाः शुभाः ।
मत्पादे स्थापिता नित्यं तद्धार्यञ्च पदोदकम् ॥
शिवरहस्ये-
मम पादोदकं पुण्यं सदा धार्यं मदाश्रितैः ।
त्र्यक्षा दशभुजा ज्ञेया मम तुल्यपराक्रमाः ॥
[[१११]]
आदित्यपुराणे-
अभिषिक्तजलं प्रातः पिबेन्नित्यं दिनेदिने ।
शूलकुष्ठाद्यपस्मारज्वराणां भेषजं प्रिये ॥
हिमोदकं महातीर्थं गङ्गा च यमुना नदी ।
सदा सन्निहितास्त्वैताः शम्भोः पादोदके मुने ॥
अगम्यागमनाश्चैव पापाचाररताश्च ये ।
तेऽपि पूता भवन्त्याशु शिवपादाम्बुधारणात् ॥
पादोदकं धरेद्यस्तु लिङ्गमूर्तेः शिवस्य यत् ।
प्रक्षालयति तत्तस्य ब्रह्महत्यादिपातकम् ॥
ब्रह्माण्डपुराणे-
कुरुक्षेत्रे नैमिषे च भूमिभागे च ये शुभाः ।
पादतीर्थोदकस्यैते कलां नार्हन्ति षोडशीम् ॥
अकालमृत्युमथनं सर्वव्याधि विनाशनम् ।
सर्वपापप्रशमनं शम्भोः पादोदकं शुभम् ॥
सर्वमङ्गलमाङ्गल्यं सर्वपावनपावनम् ।
सर्वतीर्थफलं सद्यः प्राप्यते मूर्ध्नि धारणात् ॥
पादोदकं पुरभिदः पाशजालहरं परम् ।
पाणिशुक्तिभिरादाय पपुः कामं गणेश्वराः ॥
शम्भोः पादोदकं पीत्वा पश्चादशुचिशङ्कया ।
यद्याचामति मोहेन तं विद्याद्ब्रह्मघातिनम् ॥
आदित्यपुराणे-
पादौ प्रक्षाल्य देवस्य कराभ्यां कमलेक्षण ।
अभ्युक्षेदात्मनो मूर्धन्यतिथेश्च गुरोस्तथा ॥
[[११२]]
शिवरहस्ये-
मत्प्रसादोदकं पुण्यं सदा धार्यं मदाश्रितैः ।
त्र्यक्षा दशभुजा ज्ञेया मम तुल्यपराक्रमाः ॥
इत्यादिबोधायनसूत्रशिवरहस्यादित्यस्कान्दादिपुराणवचनैः शिवपादोदकस्येतिकर्तयतापूर्वकं विधानात्, भूतलस्थिताशेषतीर्थाश्रयत्वात्, शिवसारूप्यप्राप्तिसाधनत्वात्, सकलरोगनिवर्तकौषधरूपत्वात्, सर्वमहापातकोपपातकनिवर्तकत्वात्, सकलप्रमथगणसेवितत्वात्, मुमुक्षुभिः शिरसि धार्यत्वं पेयत्वञ्च प्रतिपाद्यते ।
तस्मादवश्यं शिवपादोदकं मुमुक्षुभिः सेवनीयम् ॥
ननु-
सालग्रामशिलावारि पापहारि विशेषतः ।
आजन्मकृतपापानां प्रायश्चित्तं विधीयते ॥
गारुडे-
पादोदकं पिबेन्नित्यं नैवेद्यं भक्षयेद्धरेः ।
यदीयं भुक्तनैवेद्यं पादाम्बुकुसुमं जलम् ॥
धर्ममर्थञ्च कामञ्च मोक्षञ्च कुरुते क्रमात् ।
अग्राह्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम् ॥
सालग्रामस्य संसर्गात्सर्वं याति पवित्रताम् ।
इतिवचनैः शिवनिर्माल्यस्य शिवपादोदकस्य च सालग्रामनिवेदनसहितस्यैव ग्राह्यत्वश्रवणात्केवलं निर्माल्यादिकं सर्वथा न ग्राह्यम् ।
तथैव केवलशिवपादोदकस्वीकारनिषेधः श्रूयते ॥
तथाहि-
सालग्रामादिभिः शम्भोर्वेष्टितस्य यदर्पितम् ।
तद्भोक्तव्यं द्विजैर्नित्यं तत्तोयमपि धारयेत् ॥
[[११३]]
शिवे निवेदितं भक्तं सालग्रामाद्यवेष्टिते ।
हेयं तद्भोजने चान्द्रायणकृन्नात्र संशयः ॥
अन्यथा मांसतुल्यं स्यात्तत्तोयमसृजा समम् ।
इत्यादिवचनैः केवलशिवपादोदकस्य प्रत्यवायसाधनत्वेनापरिग्राह्यत्वश्रवणात्, विष्णुपादोदकस्य सकलपापनिवर्तकत्वेन श्रवणात्, सालग्रामसहितशिवाभिषेकोदकस्य ग्राह्यत्वं केवलशिवाभिषेकोदकस्यासृक्सदृशतया अग्राह्यत्वं सिद्धमिति शिवपादोदकं न ग्राह्यमिति चेन्न, केवलशिवपादोदकस्य बोधायनेन ग्राह्यत्वप्रतिपादनात् ।
तथाहि-
अथातो महादेवस्य पादोदकविधिं व्याख्यास्यामः ।
भगवतः पादौ प्रक्षाल्य शङ्खं पात्रं वापूर्य गन्धादिभिरभ्यर्च्याथाभिमन्त्रयेत् “इमं मे गङ्गे यमुने” इत्यादिना ।
सर्वो वै रुद्रः, कद्रुद्रायेतिद्वाभ्यां मार्जनं कृत्वा ऋतं सत्यं परं ब्रह्मेति प्राशयेत् ।
य एव कुर्यात्स्वकुलजान्दशपूर्वान्दशापरानात्मानञ्च तारयेदित्याह भगवान्बोधायनः ॥
इति ॥
एतदुपबृंहणे पुराणागमवचनानि, आदित्यपुराणे-
पादौ प्रक्षाल्य देवस्य कराभ्यां कमलेक्षण ।
अभ्युक्षेदात्मनो मूर्धन्यतिथेश्च गुरोस्तथा ॥
स्कान्दे-
सर्वतीर्थाभिषेका द्या शुद्धिर्मनसि जायते ।
गुरोरङ्घ्रिजलस्पर्शात्सा स्मान्मूर्ध्नि धारयेत् ॥
पृथिव्यां यानि तीर्थानि या नद्यः पुण्यदाश्शुभाः ।
मत्पादे स्थापितं नित्यं तस्माद्धार्यं पदोदकम् ॥
[[११४]]
शिवरहस्ये-
मत्प्रसादोदकं पुण्यं सदा धार्यं मदाश्रितैः ।
त्र्यक्षा दशभुजा ज्ञेया मम तुल्यपराक्रमाः ॥
सिद्धान्तशेखरे-
अविद्यामूलनाशाय जन्मकर्मनिवृत्तये ।
ज्ञानवैराग्यसिद्ध्यर्थं गुरोः पादोदकं पिबेत् ॥
आदित्यपुराणे-
अभिषिक्तजलं प्रातः पिबेन्नित्यं दिने दिने ।
शूलकुष्ठाद्यपस्मारज्वराणां भेषजं प्रिये ॥
स्कान्दे-
प्राणलिङ्गाङ्गसम्बन्धिपादप्रक्षालनोदकम् ।
लिङ्गाङ्गसङ्गसहितः पिबेत्तत्तस्य पुण्यदम् ॥
आदित्यपुराणे-
लिङ्गोदकञ्च पादाम्बु प्रसादाम्बु च तत्त्रिधा ।
नमस्कृत्यापि शिरसा धार्यं पेयं शिवार्थिभिः ॥
दास्यमार्गप्रपन्ना ये श्रौतपाशुपते स्थिताः ।
तैरेव पेयं धार्यञ्च घ्रातव्यञ्च मुमुक्षुभिः ॥
वीरागमे-
स्वर्णोदकसहस्रैश्च रत्नोदकशतैरपि ।
स्नापिते चरपादाम्बु विना लिङ्गे निरर्थकम् ॥
चरपादोदकस्नानं विशिष्टं मम कथ्यते ।
एतद्भक्तिविशिष्टस्य रोचते मम पूजनम् ॥
[[११५]]
इष्टलिङ्गप्रतिष्ठायां श्रीरुद्राच्छतरुद्रियात् ।
अभिषेको न कर्तव्यः कर्तव्यः पादतीर्थतः ॥
पादतोयञ्च निर्माल्यं प्रसादञ्च चरस्य तु ।
योऽपि लिङ्गार्पितं भुङ्क्ते स रुद्रो नात्र संशयः ॥
शिवरहस्ये-
प्रसादान्नं पादतीर्थं कृत्वा लिङ्गार्पितं सदा ।
यः सेवेत स भक्तानां मम रूपस्तु पार्वति ॥
नन्दिकेश्वरप्रस्तावे-
पादोदकप्रसादान्नं नित्यमासेवतां नृणाम् ।
दशपातकनाशस्तु कथ्यते गणपुङ्गवाः ॥
शिवरहस्ये-
पाकारः परमं ज्ञानं दोकारो दोषनाशनः ।
दकारो जन्म दहति ककारः कर्मनाशनः ॥
वीरागमे-
गङ्गादिसर्वतीर्थानि मालिन्यं घ्नन्ति बाह्यकम् ।
जङ्गमस्य पदाम्भोजसलिलं पापनाशनम् ॥
प्रायश्चित्तं यदि प्राप्तं कृच्छ्रं वाप्यघमर्षणम् ।
स प्रसादोदकं पीत्वा शुद्धिमाप्नोति तत्क्षणात् ॥
स्कान्दे-
धृतलिङ्गस्य मर्त्यस्य पदप्रक्षालनोदकम् ।
पापशुद्धिप्रदं प्रोक्तं तत्तीर्थं शिखिवाहन ॥
ब्रह्माण्डपुराणे-
शिवात्मकपदद्वन्द्वप्रक्षालनजलं नराः ।
ये पिबन्ति पुनस्तन्यं न पिबन्ति कदाचन ॥
[[११६]]
शिवरहस्ये-
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः ।
गुरुपादोदकं चित्रं संसारद्रुमनाशनम् ॥
जङ्गमाङ्घ्रिस्थतोयोत्थबिन्दुसंयुतमारुतम् ।
बुभुजे भुजगस्तेन दृष्टश्चोरो विमुक्तवान् ॥
इति बोधायनसूत्रपुराणागमवचनैः केवलशिवपादोदकस्य निःश्रेयससाधनतया सेव्यत्वं प्रतिपाद्यते ॥
ननु विष्णुपादोदकस्य ग्राह्यत्वं केवलशिवपादोदकग्रहणस्य प्रत्यवायसाधनत्वं श्रूयत इति पूर्वोक्तदोषतादवस्थ्यमिति चेन्न, भगवद्बोधायनसूत्रवचनेन केवलशिवपादोदकग्राह्यत्वे निश्चिते बहुपुराणागमवचनैर्दृढीकृते च सति, केवलशिवपादोदकनिषेधवचनं “न हि निन्दा” न्यायेन सालग्रामोदकस्य प्राशस्त्यपरं, न तु निन्दापरम् ।
तदुक्तं दशमे- जर्तिलयवाग्वा जुहुयात्, गवीधुकयवाग्वा जुहुयात्, न ग्राम्यान्पशून् हिनस्ति, नारण्यान् ।
अथो खल्वाहुरनाहुतिर्वै जर्तिलागवीधुकाश्चेति ।
अजाक्षीरैर्जुहोतीत्यत्र विकल्पेन जर्तिलगवीधुकयवाग्वोर्होमे अजाक्षीरेण साकं व्रीहियववद्विकल्पो वा उत सर्वेषामेकवाक्यतां कृत्वा अजाक्षीरमात्रस्य शतरुद्रीयहोमसाधनत्वं वेति विशये तत्र पूर्वपक्षः-उभयत्रापि लिङ्गश्रवणादुभयोरपि होमसाधनत्वेन विधेयत्वावश्यम्भावाद्व्रीहियववच्छतरुद्रीयहोमे विकल्प इति प्राप्ते तत्र राद्धान्तः- एकवाक्यत्वे सम्भवति भिन्नवाक्यत्वस्यान्याय्यत्वेन विकल्पस्याष्टदोषदुष्टत्वेनात्यन्तान्याय्यत्वाच्चैकवाक्यतया अजाक्षीरमात्रस्य होमसाधनत्वमवश्यमङ्गीकर्तव्यम् ।
नव “जर्तिलयवाग्वा वा जुहुया"दिति विधिश्रवणात्तस्यैव “अनाहुति र्वै जर्तिलाश्च गवीधुकाश्चे"ति निन्दाश्रवणात्कथमेकवाक्यता सम्भवतीति वाच्यं, नहि लिङ्गश्रवणमात्रेण विधानमङ्गीकर्तव्यं, किन्तु अर्थप्राप्त्यप्राप्तिपर्यालोचनया ।
[[११७]]
अत एव “उपांशु याजमन्तरा यजती"ति लिटो लेट्त्वपरिणामेन विधायकत्वमङ्गीकृत्य प्रत्यक्षविधित्वेन श्रूयमाणानां “विष्णुरुपांशु यष्टव्यो जामित्वाय, प्रजापतिरुपांशु यष्टव्यो जामित्वाय, अग्निष्टोम उपांशु यष्टव्यो जामित्वाये"ति विधीनां त्रयाणामपि अनुवादकत्वमङ्गीकृतम् ॥
अत एवोत्तरतन्त्रे समन्वयसूत्रटीकायां भामत्यामाचार्यवाचस्पतिमिश्रैः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कर्तव्य इति तव्यप्रत्ययानाम् उपांशु याजतव्यप्रत्ययवद्विधायकत्वं, गान्धर्वशास्त्राभ्यासात् षड्जादिसाक्षात्कार इव श्रवणादीनामेव साक्षात्कारसाधनत्वेन प्राप्तत्वादितरेषामुपायानां तत्र प्रसक्तेरभावादित्यङ्गीकृतम् ॥
तद्वदत्र “जर्तिलयवाग्वा वा जुहुया"दिति लिङ्गोपि प्राशस्त्यपरत्वमङ्गीकर्तव्यम् ।
अनाहुतित्ववचनमपि विहितस्यार्थस्य निन्दापरं न भवति, किन्तु सन्निहितस्याजाक्षीरहोमस्यान्यनिन्दाव्याजेन प्राशस्त्यपरम् ।
अत एवोक्तं वाचस्पतिमिश्रैः- ङ हि सोमशर्मणि प्रकृते तद्गुणाभिधानं विष्णुशर्मणो गुणवत्तां परिसञ्चष्ट” इति ॥
अत एव हरिवंशारम्भे- “असत्सल्लापकान्तारपरिवर्तनपांसुलाम् ।
वाचं शौरिकथालापगङ्गयैव पुनीमह” इति विष्णुमात्रकथारूपस्य हरिवंशस्य स्तुतौ कर्तव्यायां भारते असत्सल्लापकान्तारत्वनिन्दा भारताध्ययनात्पुण्यादपि पादमधीयते ।
श्रद्धादानस्य पूयन्ते सर्वपापान्यशेषतः “वेदानध्यापयामास महाभारतपञ्चमान्” “चत्वार एकतो वेदा भारतं चैवमेकतः ।
सुरर्षिभिः समायातैस्तुलामारोपितं पुरा ॥
महत्वे च गुरुत्वे च भ्रियमाणं ततोधिकम् ।
महत्वाद्भारवत्वाच्च महाभारतमुच्यते” इत्यादिभारत प्राशस्त्यप्रतिपादकबहुवचनविरोधात्, हरिवंशस्तुतिपरा, न तु भारतनिन्दापरा ॥
तन्न्यायेनात्रापि शिवपादोदकस्य निन्दा बोधायनसूत्रतदनुसारिबहुवचनविरोधात्सालग्रामोदकप्राशस्त्यपरा, न
[[११८]]
तु केवलशिवपादोदकनिन्दापरेति शिवपादोदकं मुमुक्षुभिर्वैदिकैर्ग्राह्यमिति सिद्धम् ॥
ननु शिवपादोदकग्रहणप्राशस्त्यप्रतिपादकवचनसन्दर्भमध्ये शिवपादोदकवद्गुरुचरपादोदकयोः प्राशस्त्यप्रतिपादकानां वचनानामश्रवणात्तन्मध्ये शिवपादोदकस्यैव सोपमर्दं सयुक्तिकं ग्राह्यत्वमिति गुरुचरपादोदकयोः कथं तत्साम्येन ग्राह्यत्वं, गुरुचरणयोः शिवसमानत्वाश्रवणादिति चेन्न, गुरुचरयोः शिवाभेदेन प्रतिपादनस्य बहुषु वचनेषु दर्शनात् ।
तथाहि-
किरणागमे-
जानीयात्सच्चिदानन्दान्देशिकेश्वरजङ्गमान् ।
नित्यं पूर्णं तत्प्रसादं स्वात्मभावेन भावयेत् ॥
सिद्धान्तशिखामणौ-
एक एव शिवः साक्षात्सर्वानुग्राहकः प्रभुः ।
गुरुजङ्गमलिङ्गात्मा वर्तते भुक्तिमुक्तिदः ॥
शिवरहस्ये-
लिङ्गस्यादिष्टरूपन्तु जङ्गमः प्राणलिङ्गकम् ।
भावलिङ्गं गुरुः प्रोक्तस्त्रिविधन्त्वेकमुच्यते ॥
सर्वलोकोपकाराय यो देवः परमेश्वरः ।
चरत्यतिथिरूपेण नमस्ते जङ्गमात्मने ॥
इत्यादिपुराणवचनैर्गुरुचरयोः शिवाभेदप्रतिपादनात्, शिवपादोदकवद्गुरुचरपादोदकस्यापि ग्राह्यत्वं सिद्धमेव ॥
तद्ग्रहणप्रकारस्त्वित्थं, पारमेश्वरतन्त्रे-
प्रणम्य स्वगतं भूयः पादप्रक्षालनं चरेत् ।
प्रथमं पूजयेद्गन्धपुष्पधूपादिभिः क्रमात् ॥
[[११९]]
पुनः सम्पूजयेद्गन्धपुष्पैः सङ्क्षालयेत्ततः ।
पिबेत्सङ्क्षालितं तोयं पीत्वा शिरसि धारयेत् ॥
न पातयेदधो बिन्दुं पादप्रक्षालनाम्भसः ।
अङ्गुष्ठे भावयेद्रुद्रं तर्जन्यां शङ्करं स्मरेत् ॥
मध्यमायां महादेवमनामिक्यां त्रियम्बकम् ।
कनिष्ठिकायामीशानं पादोपरि कपर्दिनम् ॥
पादाधः पञ्चवदनं गुल्फयो रुद्रभर्गकौ ।
सर्वं लिङ्गमयं ध्यात्वा पादौ जङ्गमलिङ्गिनः ॥
इत्यादिवचनजातेन गुरुचरयोः पादाङ्गुल्याद्यवयवेषु रुद्राद्यनेकशिवमूर्तिविशेषाभिन्नत्वेन भावनानन्तरं षोडशोपचारपूजापूर्वकं पादोदकग्रहणार्थं पादाभिषेकोदकमेकस्मिन्पात्रे सावधानं सङ्गृह्य गन्धाक्षतादिभिरभ्यर्च्य एकपात्रस्थितं पादोदकं पुरातनबसवेश्वरप्रमुखप्रमथसम्प्रदायानुरोधेन वीरशैव-दीक्षित- भक्तमाहेश्वराः क्रमेणैकैकशः “ऋतं सत्य” मिति पिबेयुः ।
तत्रोच्छिष्टदोषो नास्ति, यथा सोमरसपानेन न सोमेनोच्छिष्टा भवन्तीत्यापस्तम्बसूत्रवचनेन ऋत्विग्भिर्बहुभिरेकस्मिन् चमसरूपपात्रविशेषे स्थितः सोमरसः पर्यायतः पीयत इति तत्रोच्छिष्टदोषो नास्ति ।
ननु ङ पर्युषितमश्नीयान्नोच्छिष्टं न कदर्थि"मित्यादिवचनैरुच्छिष्टग्रहणस्य निषेधश्रवणान्नञो निषेधार्थकत्वं वक्तव्यम्, निषेधस्य प्रसक्तिपूर्वकत्वादप्रसक्ते र्निषेधायोगात्प्रसक्तिरवश्यं वक्तव्या, सा च प्रसक्ति र्लौकिकी वैदिकी चेति उभयथाप्यस्ति ।
तत्र लौकिकी चेन्निषेधस्यात्यन्तिकनिवृत्तौ पर्यवस्यति, यथा न सुरां पिबेदित्यादौ ।
वैदिकी प्रसक्तिश्चेन्न निषेधे पर्यवस्यति, तद्यथा “अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति” इति ।
तद्वदत्रापि उच्छिष्टप्रसक्तेर्वाचनिकत्वेन लोकतोऽभावात्कथमात्यन्तिकनिवृत्तौ पर्यवसानम्,
[[१२०]]
अतो विकल्प इत्यङ्गीकार्यम् ।
स चाष्टदोषदुष्टत्वेनान्याय्य इति चेन्न, एकस्मिन्नेव विषये सामान्यविशेषभावं विना शास्त्रप्रसक्तौ विकल्पो युक्त एव, यथा ग्रहणाग्रहणयोः ।
सामान्यविशेषभावेन प्रसक्तिप्रतिषेधयोस्सतो र्न विकल्पः, प्रतिषेधाभावात् ।
यथा यजतिषु ये यजामहं करोति नानुयाजेष्वितिवत् ।
न सोमेनोच्छिष्टा इत्यत्र नञः पर्युदासार्थकत्वम्, न निषेधार्थकत्वम्, एवं पादोदकसेवनेप्युच्छिष्टदोषनिवर्तकनञः पर्युदासार्थकत्वमेव न निषेधार्थकत्वम् ।
तस्मात्पादोदकं सर्वै र्मुमुक्षुभि र्वीरशैवेरेकस्मिन्पात्रे पर्यायतो नित्यमेव ग्राह्यमिति सिद्धम् ॥
अनेनैव न्यायेन प्रसादग्रहणे च उच्छिष्टदोषो नास्तीति बहुप्रमाणमूलकाचारबलेन ज्ञातव्यमिति सर्वं समञ्जसम् ॥
इति श्रीमद्-अनादि-निरञ्जन-जङ्गमापरावतार-
तोण्टद-सिद्धेश्वर-प्रसादासादित-
शाम्भवागमाम्बोधि-मथन-जनित-
निरुत्तरैकोत्तरशत-स्थल-भेद-भिन्न-षट्-स्थल–
तत्त्वबोध-सुधास्वादानन्द-सन्दोह-प्रदायकाचार्यवर्य-
श्रीमरितोण्टदार्य-विरचिते
यडव-मुरारि-कोटे-कोलाहलैकाङ्गि-वीर-
वैरि-सप्ताङ्ग-हरण-पश्चिम-समुद्राधीश्वर-
विशुद्ध-वैदिकाद्वैत-सिद्धान्त-प्रतिष्ठापनाचार्य-
केलदि-सदाशिव-राय-नायक-वंश-दुग्धार्णव-चन्द्र-
वीर-भद्र-धरणीन्द्र-धर्म्म-पत्नी-मल्लाम्बा-हृदयानन्द-
बसव-वसुधा-सङ्क्रन्दनोपदेशे
वीरशैवानन्द-चन्द्रिकायां वादकाण्डे पञ्चमं प्रकरणम् ॥
[[१२१]]