०४

वीरशैवानन्दचन्द्रिकायां वादकाण्डे चतुर्थं प्रकरणम् ।

श्रीमद्गुरो त्वया सम्यग् लिङ्गधारणवैभवम् ।
उदीरितं सप्रपञ्चं श्रुत्वा व्याप्तोऽस्मि हर्षतः ॥
ततः परं निरूप्यं यत्तनिन्नरूपय विस्तरात् ।
शृणु राजन् ब्रवीम्यद्य स्फुटं जङ्गमवैभवम् ॥

अनादिभक्तपश्चिमहृदयस्थचिन्मयनिरञ्जनतत्त्वस्य विचारः प्रस्तूयते ॥
आगमपुराणवचनैरनादिभक्तपश्चिमहृदयचिन्मयमण्डलत्रयमध्यस्थचित् पद्मान्तश्चित्प्रणवाभ्यन्तरस्थितशून्यलिङ्गनिष्कललिङ्गप्रणवलिङ्गादिप् रवर्तकनिर्गुणनिराकारोपासकोपासनार्थकल्पिताकारसकलचेतनाचेतनप्रप ञ्चनिर्माणपारीणचिच्छक्तिसामरस्यसम्पन्ननिरञ्जनजङ्गमतत्त्वस्योत्कृष्।
तत्वं प्रतिपाद्यते, तथा हि-

पश्चादनादिभक्तस्य हृत्पद्मस्यान्तरे सदा ।
चिन्मण्डलत्रयोपेतप्रणवासनमध्यगः ॥
निरञ्जनः सप्रणवस्वरूपोऽत्र निगद्यते ।
निराकृतं रञ्जनं यन्मायामोहविजृम्भितम् ॥

[[१०४]]

येन स्वरूपसिद्धेन स भवेद्धि निरञ्जनः ।
इदं तस्य निरालम्बस्वरूपं समुदीरितम् ॥
चतुर्वेदाश्च तद्गर्भं पुराणं तस्य मध्यमम् ।
योगिनो मुनयः सर्वे जङ्गमाङ्घ्रिसमाश्रिताः ॥
तस्य देहे समस्तानि भुवनानि चतुर्दश ।
पादयोरतलं विन्द्यात्पदोर्ध्वे वितलं तथा ॥
जङ्घयोः सुतलं ज्ञेयं जानुदेशे महातलम् ।
तलातलं तदूर्वोश्च गुह्यस्थाने रसातलम् ॥
कटिबन्धेषु पातालं सप्तलोका इतीरिताः ।
भूलोको नाभिमध्ये तु भुवर्लोकोऽस्य चोदरे ॥
हृदये चापि स्वर्लोको जनलोकः शिरोधिगः ।
ताल्वोश्चापि तपो लोकः सत्यलोको ललाटके ॥
महो लोकस्तस्य मूर्ध्नि चतुर्दश समीरिताः ।
ब्रह्माण्डं मुकुटं तस्य वदनं गगनं शृणु ॥
तद्बाहवो दिशः सर्वा नेत्रे चन्द्रदिवाकरौ ।
शरीरं व्योमरूपं च पातालं पादपङ्कजम् ॥
करस्थले शून्यलिङ्गं मेघः सर्वजटाः शुभाः ।
चन्द्रज्योत्स्ना विभूतिश्च देवाः सर्वे क्रियामयाः ॥
नक्षत्राणि च पुष्पाणि रुद्राक्षाः कुलपर्वताः ।
सागरो जलपात्रं च कन्था सृष्टिमयं जगत् ॥
आसनं पृथिवी तस्याप्यहोरात्रं गुहामठाः ।
त्रिकालज्ञानसौभाग्यमृतवः षट्स्थलं प्रिये ॥

[[१०५]]

शेषस्तस्य कटीसूत्रं ज्ञानमुद्रा च वाङ्मयी ।
मेरुर्दण्डो गुणः सूत्रं गोत्रं शिवकुलं भवेत् ॥
वनस्पतिश्च लोमानि एवमेतानि पार्वति ।
इदं तस्य तु साकारं स्वरूपं परिकीर्तितम् ॥

इत्यागमवचनसन्दर्भेण अनादिभक्तहृदयपाश्चात्यभागस्थितचिन्मण्डलत्रयोपेतप्रणवपीठमध्य् अस्य मायाविजृम्भणनिराकरिष्णुतया निरञ्जनजङ्गमशब्दाभिधेयस्य निराकारसाकारस्वरूपद्वयानुरूपतया सर्व पदार्थयोजनाक्रमप्रतिपादनात्तस्यैव क्रियाकाण्डोक्तदशाङ्गसृष्ट्युद्धरणाख्यग्रन्थोक्तवचनपर्यालोचनया निर्गुणब्रह्मापरपर्यायानादिभक्तपश्चिमहृदयमध्यगतनिरञ्जनजङ्गम" सब्दिताच्चित्स्वरूपाद् ब्रह्मणः शून्यलिङ्गशब्दितस्य निर्गुणतत्वस्य, तस्मान्निष्कललिङ्गशब्दितस्य निर्गुणतत्वस्य, तस्माच्चिन्नादचिद्बिन्दुचित्कलात्मकाखण्डगोलकाकारतेजस्स्वरूपमहालिङ्गश् अब्दितस्य निर्गुणतत्त्वस्य, तस्मादनाहतनादाख्यावाग्जप्रणवलिङ्गशब्दितस्य निर्गुणतत्वस्य, तस्मात्सच्चिदानन्दनित्यपरिपूर्णत्वरूपपञ्चलक्षणलक्षितषडङ्गदशा व्ययाविष्टस्य नन्दि-भृङ्गि-वीरभद्र-घण्टाकर्ण-गजकर्ण-रेणुक- दारुकप्रमुखप्रमथनाथयूथध्यातव्यस्य निर्गुणशिवतत्वस्य, तस्मात्पञ्चसादाख्यपञ्चकलापञ्चशक्तिपञ्चमन्त्रपञ्चब्रह्मात्मकसकलन् इष्कलात्मकस्य सनकसनन्दसनत्कुमारसनत्सुजातादियोगिपुङ्गवसङ्घोपास्यस्य वशिष्ठागस्त्यनारदभरद्वाजात्रिगौतमभृगुकण्वदधीच्यादिमहर्षिनिव हमहनीयस्य सद्योजातादिमुखपञ्चकविशिष्टस्य सदाशिवतत्वस्य, तत्र चिच्छक्त्यादिशक्त्योर्निराकारत्वात्तद्वतोः शिवसादाख्यामूर्तसादाख्ययोर्निष्कलत्वे इच्छाज्ञानक्रियाशक्तीनां साकारत्वापादकगुणरूपत्वात्तद्वतां मूर्तकर्तृकर्मसादाख्यानां सकलतत्वे तस्मात्सदाशिवतत्वस्य सकलनिष्कलत्वे च सिद्धे तस्मात्सोमधारित्वादिमहालिङ्गान्तपञ्चविंशतिलीलामूर्तिप्रवर्तकस्य शुद्धस्फटिकसङ्काशस्य त्रिलोचनस्योमासमेतस्य मृगपरशुवराभयहस्तस्य

[[१०६]]

ब्रह्मविष्णुरुद्रादिसर्वसुपर्वोपास्यस्य महेश्वरतत्वस्य, तस्मादेकादशरुद्रनियामकस्य भवमृडहराभिधानव्यूहात्मकस्य रुद्रस्य, तस्मान्मत्स्यकूर्मादिदशावतारविशिष्टस्य शङ्खचक्रगदापद्मशंशोभिचतुर्भुजस्य, नीलोत्पलदलश्यामस्य लक्ष्मीपतेर्वैष्णवकोटिसंस्तूयमानस्य वैकुण्ठवासिनो नारायणस्य, तस्माच्चतुर्मुखस्य नवब्रह्मनियामकस्य सरस्वतीसमेतस्य सत्यलोकवासिनो ब्रह्मणः, तस्मात्पञ्चभूतपञ्चीकरणद्वाराण्डजस्वेदजोद्भिज्जजरायुजात्मकचेतनप् रपञ्चस्य गिरिनदीपाषाणद्यचेतनप्रपञ्चस्य चोत्पत्तिरिति सर्वतत्वोत्पत्तिकारणत्वं निरञ्जनजङ्गमस्य श्रूयत इति तस्य सर्वोत्तमत्वं मुमुक्षुवीरशैवप्राप्यत्वं प्रतीयते ॥
ननु निरञ्जनजङ्गमसकाशाच्छून्यलिङ्गनिष्कललिङ्गादीनां शिवतत्वपर्यन्तानां निर्गुणानां निरवयवानां व्यापकानां सृष्टिः सृज्यमानत्वञ्च प्रतिपाद्यमानं कथं सङ्गच्छत इति चेदुच्यते- निरवयवान्निरञ्जन जङ्गमतत्वान्निरवयवानां शून्यलिङ्गादीनामुत्पत्तिर्न सङ्गच्छत इति यदुक्तं तदतिमन्दम् ।

श्रीमन्महानादिभक्तः स्वप्रकाशकोऽद्वितीयकः ।
योऽसौ ब्रह्मेति सम्प्रोक्तः शिवतत्वार्थवेदिभिः ॥
तस्मात्स्वयं प्रादुरभूत्स निरञ्जनजङ्गमः ।
तच्छिखायां शून्यलिङ्गं सञ्जातं विश्वकारणम् ॥
तस्मान्निष्कललिङ्गात्तु महालिङ्गमभूत्स्वयम् ।
तस्मात्प्रणवलिङ्गन्तु सृष्ट्युन्मुखमजायत ॥
एतस्माच्छिवतत्वन्तु सादाख्यञ्च ततोऽभवत् ।
तस्मान्महेश्वरो जातस्तस्माद्रुद्रः समुद्भवः ॥
तस्माज्जनार्दनो जातस्तस्माज्जातः पितामहः ।
पितामहात्समुद्भूतं जगदेतच्चराचरम् ॥

[[१०७]]

इति कामिकाद्यागमसङ्गृहीतदशाङ्गसृष्ट्युद्धरणाख्यग्रन्थस्थितवचनानु रोधेन निरवयवान्निरञ्जनजङ्गमान्निरवयवानां शून्यलिङ्गादीनामुत्पत्तिरवश्यं प्रमाणबलादङ्गीक्रियते ।
अन्यथा पशुयागादीनामपि हिंसात्वं स्यात् ।
तथा हि- एकादशपशोरवदानानि तानि द्विरवद्यतीति, हृदयं जिह्वा वक्षो यकृद्वक्यौ सव्यं दोरुभेपार्श्वे गुदतृतीयमित्येकादशावदानेषु सत्सु अहिंसात्वं कथं स्यात् ।
परन्तु दीक्षितो “यदग्नीषोमीयं पशुमालभेत” इति श्रुत्या, “यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा ।
यज्ञो हि भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥” इतिस्मृत्या चाहिंसात्वमङ्गीकरोति ।
अत एव क्रत्वन्तर्वर्तिनी हिंसा अधर्मसाधिका, हिंसात्वात् क्रतुबाह्यहिंसावदित्यनुमाने निषिद्धत्वमुपाधिरिति प्रतिपाद्य हेतोः सोपाधिकत्वाद्व्यभिचारोन्नायकत्वेन साध्यासाधकत्वमङ्गीकृतन्तार्किकैः ।
अत एवाशौचाद्याचाराणां सकलजनानुष्ठेयेनां युक्तिं विना वचनमात्रप्रमाणकानां सर्वशिष्टजनाङ्गीकारो दृश्यते ।
अत एव नरकपालं शुचि प्राण्यङ्गत्वाच्छङ्खवदित्यनुमानं ङारं स्पृष्ट्वास्थिसस्नेहं सवासा जलमाविशे"दिति वचनबलाद्बाधितमङ्गीकृतं तार्किकैः ।
शङ्खास्थिपावनमपावनमस्थिनृणामित्थं स्थिते वचनमत्र परायणं न" इत्यभियुक्तवचनबलादेव शङ्थास्थ्निपावनत्वमपावनत्वञ्च मानुषास्थ्नामिति निर्णीयते ।
तस्मात्प्रमाणतरवचनगम्येऽर्थे युक्तिर्वक्तव्येति दुरभिमानमात्रम् ।
यद्येवं चन्द्रप्रादेशिकत्वस्य सर्वजनानभूयमानत्वेन सोपपत्तिकत्वादष्टाशीतिसहस्रयोजनात्मकचन्द्रमण्डलप्रतिपादकानां ज्योतिश्शास्त्रादिवचनानामप्रामाण्यं स्यात् ।
अतोऽत्रापि निरवयवान्निरवयवोत्पत्तौ परमाप्तपरशिवप्रणीतकामिकाद्यागमवचनमेव प्रमाणम् ।
किञ्चात्मनो निरवयवत्वादाकाशस्यापि निरवयवत्वात्तस्मात्तस्योत्पत्तिर्न स्यात् ।
न चेष्टापत्तिः, “तस्माद्वा एतस्मादात्मन आकाशः सम्भूत” इति श्रुतिविरोधापत्तेः ।
अपि चाकाशाच्छब्दस्योत्पत्तिर्न

[[१०८]]

स्यात् ।
तस्मादेतादृशयुक्तिबलाच्च निरवयवान्निरञ्जनजङ्गमान्निरवयवानां शून्यलिङ्गादीनामुत्पत्तिरवश्यमङ्गीक्रियते।
तस्मात्सर्वतत्वोत्तीर्णो निरञ्जनजङ्गम एव मुक्तप्राप्य इति स एव सर्वसेव्यः ।
नन्दिपुराणे-

अहं ममत्वशून्यत्वान्निजबोधैकरूपधृत् ।
स्वयमेव स्वयं भूत्वा चरतीति चरः स्मृतः ॥

पारमेश्वरे-

ईषणत्रयनिर्मुक्ता ज्ञानविज्ञानतत्पराः ।
दृढवैराग्यसम्पन्ना धीरास्ते शिवयोगिनः ॥

सिद्धान्तशिखामणौ-

स्वरूपज्ञानसम्पन्नो ध्वस्ताहम्ममताकृतिः ।
स्वयमेव स्वयं भूत्वा चरतीति चराभिधः ॥
अन्तर्धाय ललाटाक्षिशशाङ्कं सम्पिधाय च ।
अवामभागललनो जङ्गमः परमेश्वरः ॥

वीरागमे-

अहमेव महेशानि धृत्वा जङ्गमविग्रहम् ।
मद्भक्तानुग्रहार्थाय पर्यटामि महीतले ॥
हस्तपादादिसाम्येन मर्त्यान् रुद्रवपुर्धरान् ।
प्राकृतानेव मन्वाना नैव जानन्त्यपण्डिताः ॥
धारयेत्समताकन्थां क्षमाख्यं भस्मघुण्टिकाम् ।
दयाकमण्डलुं वत्स ज्ञानदण्डं मनोहरम् ॥
वैराग्यभिक्षापात्रञ्च भक्तिभिक्षाञ्च याचते ।

[[१०९]]

कन्थाकमण्डलुर्दण्डः खर्परो भस्म भस्त्रिका ॥
एताः पञ्च महामुद्रा जङ्गमानाञ्च लक्षणम् ॥

इत्यादिविविधवचनबलान्निरञ्जनजङ्गमस्य कन्थाकमण्डलुदण्डपात्रभस्मभस्त्रिकाख्यान्तरङ्गबहिरङ्गपञ्चमुद्रा समन्विताष्टावरणपञ्चाचारविशिष्टस्य विशिष्टाद्वैतज्ञानक्रियावतश्चरशब्दितस्य जङ्गमस्याभेदोऽङ्गीक्रियते ॥
तस्माच्चरशब्दितो जङ्गम एव सर्वोत्तमः, तस्यदर्शनस्पर्शनसम्भाषणसम्पूजनतच्चरणतीर्थप्रसादसेवनादीना ं मुक्तिसाधनत्वमिति सिद्धम् ॥

इति श्रीमद्-अनादि-निरञ्जन-जङ्गमापरावतार-
तोण्टद-सिद्धेश्वर-प्रसादासादित-
शाम्भवागमाम्बोधि-मथन-जनित-
निरुत्तरैकोत्तरशत-स्थल-भेद-भिन्न-षट्-स्थल–
तत्त्वबोध-सुधास्वादानन्द-सन्दोह-प्रदायकाचार्यवर्य-
श्रीमरितोण्टदार्य-विरचिते
यडव-मुरारि-कोटे-कोलाहलैकाङ्गि-वीर-
वैरि-सप्ताङ्ग-हरण-पश्चिम-समुद्राधीश्वर-
विशुद्ध-वैदिकाद्वैत-सिद्धान्त-प्रतिष्ठापनाचार्य-
केलदि-सदाशिव-राय-नायक-वंश-दुग्धार्णव-चन्द्र-
वीर-भद्र-धरणीन्द्र-धर्म्म-पत्नी-मल्लाम्बा-हृदयानन्द-
बसव-वसुधा-सङ्क्रन्दनोपदेशे
वीरशैवानन्द-चन्द्रिकायां वादकाण्डे चतुर्थं प्रकरणम् ॥

[[११०]]