वीरशैवानन्दचन्द्रिकायां वादकाण्डे तृतीयं प्रकरणम् ।
वीरशैवगुरूत्कर्षं गुरुवादोक्तिविस्तरैः ।
श्रुत्वा हृष्टोऽभवं स्वामिन्यदन्यत्तच्च कीर्तय ॥
शृणु राजन् वदाम्यद्य लिङ्गधारणवैभवम् ।
वादरूपेण सुश्राव्यं श्रुत्यागमवचोन्वितम् ॥
वीरशैवमतप्रवृत्तानां लिङ्गाङ्गसामरस्यानुसन्धानस्यैव मोक्षजनकत्वेनापेक्षिततया तत्रेष्टलिङ्गधारणस्यान्तरङ्गत्वेनाभ्यर्हितत्वात्तद्धारणे बहूनां प्रमाणानां जागरूकत्वाल्लिङ्गधारणमवश्यं कर्तव्यम् ॥
तथाहि वातुलतन्त्रे-
अतिस्थिरेण मनसा यावज्जीवं जगद्गुरोः ।
शिवस्य लिङ्गं धत्ते यस्तदेतत्परमं व्रतम् ॥
पारमेश्वरे-
सदा विभूतिसम्पर्कात्सदारुद्राक्षधारणात् ।
धारणान्मम लिङ्गस्य सोऽहमेव न संशयः ॥
[[५६]]
विभूतिर्यस्य फालेऽस्ति कण्ठे लिङ्गं मदात्मकम् ।
रुद्राक्षधारणं देहे सोऽहं देवि न संशयः ॥
विभूतिरपि रुद्राक्षं लिङ्गं यस्य त्रयं तनौ ।
स साक्षाद्रुद्र ईशानि सोऽहमेव न संशयः ॥
सिद्धान्तशेखरे-
लिङ्गञ्च त्रिविधं प्रोक्तं स्थूलं सूक्ष्मं परात्परम् ।
इष्टलिङ्गमिदं स्थूलं तद्बहिर्धारयेत्तनौ ॥
प्राणलिङ्गन्तु तत्सूक्ष्मं यदन्तर्भावनामयम् ॥
परात्परन्तु यत्प्रोक्तं तृप्तिलिङ्गं तदुच्यते ।
भावनातीतमव्यक्तं परं ब्रह्म शिवाभिधम् ॥
इष्टलिङ्गमिदं साक्षादनिष्टपरिहारकम् ।
धारयेदवधानेन शरीरे सर्वदा बुधः ॥
वातुलतन्त्रे-
मूर्ध्नि वा कण्ठदेशे वा कक्षे वक्षस्स्थलेऽपि वा ।
कुक्षौ हस्तस्थले वापि धारयेल्लिङ्गमैश्वरम् ॥
धारयन्नियते देशे पवित्रं लिङ्गमैश्वरम् ।
मूत्राद्युत्सर्जने याने भोजने च सदा शुचिः ॥
गच्छंस्तिष्ठन् स्वपन् जाग्रदुन्मिषन्निमिषन्नपि ।
शुचिर्वाप्यशुचिर्वापि लिङ्गं सर्वत्र धारयेत् ॥
इत्याद्यागमवचनप्रामाण्यानुसारेण मुमुक्षुभिर्वीरशैवव्रतपरायणैः,
तनुत्रयगतानादिमलत्रयमसौगुरुः ।
दीक्षात्रयेण निर्दह्य लिङ्गत्रयमुपादिशत् ॥
[[५७]]
इति वचनावगतवेधामन्त्रक्रियारूपभेदभिन्नदीक्षात्रयेण स्थूलसूक्ष्मकारणशरीरत्रयानुस्युताणवमायेयकार्मिकरूपमलत्रयोन्मू लनपूर्वकं तनुत्रयस्य त्यागाङ्गभोगाङ्गयोगाङ्गत्वमापाद्य गुरुरिष्टलिङ्गप्राणलिङ्गभावलिङ्गस्वरूपमुपदिष्टवानिति लिङ्गधारणस्य परमपुरुषार्थसाधकत्वं प्रसाधयत्सु वचनेषु विश्वासपूर्वकं लिङ्गधारणस्यावश्यकार्यत्वं, तस्य च सार्वकालिकशुचित्वापादकत्वेन सदा धार्यत्वं, लिङ्गधारण व्रतानुष्ठाननिष्ठस्य साक्षाच्छिवरूपत्वं, व्रतस्य च यावज्जीवसम्बन्धित्वमित्यादिकं प्रतीयत इत्यवश्यं लिङ्गधारणं कर्तव्यम् ॥
नन्वन्तर्लिङ्गधारणमेवाभ्यर्हितम् ।
तथाहि सिद्धान्तसारे-
आराधयामि मणिसन्निभमात्मलिङ्गं मायापुरीहृदयपङ्कजसन्निविष्टम् ।
श्रद्धानदीविमलचित्तजलाभिषेकै- र्नित्यं समाधिकुसुमैरपुनर्भवाय ॥
सिद्धान्तशिखामणौ-
चिद्रूपं परमं लिङ्गं शाङ्करं सर्वकारणम् ।
यदस्य धारणं चित्ते तदान्तरमुदाहृतम् ॥
चिद्रूपं हि परं तत्त्वं शिवाख्यं विश्वकारणम् ।
निरस्तविश्वकालुष्यं निष्कलं निर्विकल्पकम् ॥
सत्तानन्दपरिस्फूर्तिसमुल्लासकलामयम् ।
अप्रमेयमनिर्देश्यं मुमुक्षुभिरुपासितम् ॥
परं ब्रह्म महालिङ्गं प्रपञ्चातीतमव्ययम् ।
तदेव सर्वभूतानामान्तरस्थानगोचरम् ॥
[[५८]]
मूलाधारे च हृदये भ्रूमध्ये सर्वदेहिनाम् ।
जोतिर्लिङ्गं सदा भाति तद्ब्रह्मेत्याहुरागमाः ॥
दह्रं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम् ।
तत्रापि दह्रं गगनं विशोकं तस्मिन्यदन्तस्तदुपासितव्यम् ॥
इत्यादिना हृत्पुण्डरीकान्तरवर्तिनो जोतिर्लिङ्गस्य भावनारूपेण धृतस्य मानसिकैरेवोपचारैः मुमुक्षुभिर्देवृषिभिर्योगिभिश्चोपास्यमानत्वेन मोक्षप्रदत्वं सर्वजनप्रसिद्धमिति तद्धारणेनैवेष्टसिद्धेर्बहिर्लिङ्गधारणं न कर्तव्यमिति चेन्न,
बाह्ये जाग्रदवस्थायामनुभूतार्थ एव हि ।
अन्तः स्वप्नदशायान्तु यथैव परिदृश्यते ॥
तथान्तर्यजनं नित्यं बहिर्यजनपूर्वकम् ।
बहिर्यागविहीनश्चेदन्तर्यागो न सिध्यति ॥
तद्बाह्याङ्गे चान्तरङ्गे परमप्रीतिपूर्वकम् ।
कर्तव्यं स्वेष्टलिङ्गस्य पूजनञ्च मनीषिभिः ॥
गवां सर्पिः शरीरस्थं न करोत्यात्मपोषणम् ।
निस्सृतं कर्मणा बाह्ये पुनस्तासान्तु भेषजम् ॥
एवमन्तश्शरीरस्थः परात्मा परमेश्वरः ।
विनार्चनां बहिर्देवो हितं न कुरुते नृणाम् ॥
इति वचनादादौ सगुणमाश्रित्य पश्चान्निर्गुणमाश्रयेदिति न्यायेनेष्टलिङ्गप्राणलिङ्गभावलिङ्गानां सकल-सकलनिष्कल- केवलनिष्कल स्वरूपाणामिष्टलिङ्गस्यानन्दानुभवनिर्गुणाराधनयोरधिष्ठानत्वेन,
[[५९]]
इष्टलिङ्गं प्राणलिङ्गमेकीकृत्य यजेत्सुधीः ।
मणिमालां मातृमालामेकीकृत्य जपेत्पुनः ॥
मणिमालेष्टलिङ्गस्य मातृकाप्राणलिङ्गके ।
इत्युक्तेः प्राणलिङ्गेष्टलिङ्गपूजनं समुच्चित्य कर्तव्यम् ।
एतादृशपूजाहीष्टलिङ्गधारणं विना नोपपद्यत इति लिङ्गधारणं कर्तव्यम् ॥
ननु लिङ्गधारणादीनामेतद्वचनानुरोधेन तान्त्रिकैरेवानुष्ठेयत्वेन श्रुतिस्मृतीतिहासपुराणेष्वप्रतिपादनेन चावैदिकत्वाद्वैदिकानुष्ठेयत्वं नास्ति ।
तथाहि-
वेदमार्गप्रच्युतानां तन्त्रमार्गप्रवेशनम् ।
स्त्रीशूद्रब्रह्मबन्धूनां तन्त्रमार्गाधिकारिता ॥
श्रुतिपथगलितानां मानवानां हि तन्त्रम् ।
श्रुतिपथनिरतानां तत्सदा नैव सेव्यम् ॥
श्रुतिभ्रष्टः श्रुतिप्रोक्तप्रायश्चित्ते भयं गतः ।
क्रमेण श्रुतिसिध्यर्थं मनुष्यस्तन्त्रमाश्रयेत् ॥
तन्त्रेषु दीक्षितो मर्त्यो वैदिकं न स्पृशेत्सदा ।
वैदिकश्चापि तन्त्रेषु दीक्षितं न स्पृशेत्सदा ॥
राजा तु वैदिकान्सर्वांस्तान्त्रिकानखिलानपि ।
असङ्कीर्णतया नित्यं स्थापयेन्मतिमत्तमः ॥
इत्यादि स्मरणाल्लिङ्गधारणं वैदिकैर्नानुष्ठेयमिति चेन्न, वैदिकानां पौराणिकानाञ्च वचनानां बहूनां जागरूकत्वात् ।
तथाहि शिवरहस्ये-
शिवलिङ्गे शरीरस्थे शिववत्तोपपद्यते ।
तच्छिवानुभवप्रेप्सुश्शिवलिङ्गं हि धारयेत् ॥
[[६०]]
शाङ्करसंहितायां-
स्वप्नकाले कृतं पापं ब्रह्महत्यादिकं च यत् ।
यथा प्रबोधसमये तन्मिथ्या भवति स्वयम् ॥
तथा कृतं महापापं लिङ्गधारणतः पुरा ।
तत्सर्वं विलयं याति लिङ्गधारणतः परम् ॥
मल्लिङ्गं मस्तकाद्यङ्गे धृत्वा शक्रपुरोगमाः ।
देवा मां लिङ्गमध्यस्थं सम्पूज्य स्वं पदं ययुः ॥
पुनस्तत्रैव-
हस्तसिंहासने लिङ्गमप्रमादेन धारयेत् ।
प्रमादात्पतिते लिङ्गे सह प्राणान्परित्यजेत् ॥
प्रकरणान्तरे-
काङ्क्षन्ति सर्वे पितरः कुलीनाः सम्भूय पुत्राः शिवभक्तियुक्ताः ।
सन्तो भवेयुः परिशुद्धभावा स्तेषामथैको बिभृयाच्चलिङ्गम् ॥
गारुडे-
अधमाधमभावानां पापिनां चाभिचारिणाम् ।
यमलोकाद्भयं नास्ति सदा वै लिङ्गधारणात् ॥
स्कान्दे-
ऊं मिति ब्रह्मपरमं लिङ्गाकारं महेश्वरम् ।
सर्वावस्थासु सर्वेषु कालेषु निमिषार्धतः ॥
अवियोगेन भुक्तिञ्च मुक्तिमिच्छन्द्विजोत्तमः ।
धारयेत्पञ्चसु स्थानेष्वस्मिन् संलग्नमानसः ॥
[[६१]]
इत्यादि शङ्करसंहिताशिवरहस्यगारुडादिपुराणवचनैः श्रुत्यर्थोपबृंहणरूपैर्लिङ्गधारणस्य शिवचिन्तानैरन्तर्यसम्पादकत्वेन पूर्वकृतपापनिवर्तकत्वेन देवानां स्वस्वपदप्रापकत्वेन स्वोद्धाराय पितृभिराकाङ्क्षणीयत्वेन स्वस्मिन् प्रमादस्यानिष्टसम्पादकत्वेन च प्रतिपादनात् लिङ्गधारणं वैदिकमेव ॥
ननु पुराणेष्वेव लिङ्गधारणनिषेधकानां बहूनां वचनानां विद्यमानत्वात्कथं लिङ्गधारणं वैदिकमित्युच्यते ? तथाहि हेमाद्रौ प्रायश्चित्तकाण्डे नारदीये-
चक्राङ्किततनुर्यत्र राजन् लिङ्गाङ्कितोपि वा ।
जपेच्च पौरुषं सूक्तमन्यथा रौरवं व्रजेत् ॥
देवीपुराणे-
लिङ्गं द्विजो मुदा धृत्वा स्वदेहे भयवर्जितः ।
स एव नरकस्थायी यावदाभूतसम्प्लवम् ॥
स्कान्दे-
द्विजो यदि स्वदेहे तु लिङ्गं धृत्वा स्वकामतः ।
स भुक्त्वा नरकानुग्रानन्ते मातङ्गगतां व्रजेत् ॥
शिवपुराणे-
द्विजो यः स्वतनौ धृत्वा लिङ्गं शुद्रार्पितं मुदा ।
तस्य वै निष्कृतिर्नास्ति संस्कारैर्बहुभिर्नृप ॥
पद्मपुराणे-
शृणु राम महाबाहो लिङ्गञ्चक्रादिधारिणाम् ।
शूद्रधर्मरतानाञ्च तेषां नास्त्यपुनर्भवः ॥
विप्रस्यैतद्विगर्ह्यत्वात्प्रायश्चित्तमुदीरितम् ।
आदौ कृत्वा मनःकर्म षडब्दं कृछ्रमाचरेत् ॥
[[६२]]
तेभ्यो गृह्णन् द्विजः कामात्सुवर्णं पादमेव वा ।
तत्परिग्रहशुध्यर्थं प्राजापत्यं समाचरेत् ॥
इत्यादिवचनाल्लिङ्गचक्राङ्कधारणे प्रायश्चित्तविधानात्, तेभ्यः प्रतिगृहितृर्णां प्रायश्चित्तविधानात्, निषिद्धचक्राङ्कनसाहचर्याच्च, लिङ्गधारणस्याकर्तव्यत्वं सिद्धमिति चेन्न, लिङ्गधारणनिषेधकवचनानां लिङ्गधारणविधायकवचनानाञ्च परस्परविरोधे सति लिङ्गधारणविधायकवचनानां वेदमूलकत्वेन प्राबल्याल्लिङ्गधारणनिषेधकवचनानां वेदामूलकतया दुर्बलत्वात् ।
तप्तचक्राङ्कनसाहचर्येण तेषां पाशुपतविहिततप्तलिङ्गाङ्कनविषयतया वा योजयितुं शक्यत्वात् ।
तदुक्तं पूर्वतन्त्रे “विरोधेत्वनपेक्षं स्यादसतिह्यनुमानम्” “हेतुदर्शनाच्च” इति ।
तत्र हि “औदुम्बरीं स्पृष्ट्वोद्गायेत्” इति श्रुतिः “औदुम्बरीसर्वावेष्टयितव्ये"ति स्मृतिः ।
अनयोर्विरोधे सति किं समप्राबल्येन विकल्पः, उत श्रुतेः प्राबल्यात् स्मृतिविहितस्यार्थस्य बाध इति विशये प्राप्ते पूर्वपक्षः-वैदिकैः स्मर्यमाणत्वात्तत्परिग्रहदार्ढ्यतः सम्भाव्यवेदमूलत्वात् स्मृतीनां वेदमूलतेति सर्ववेष्टनस्मृतेरपि वेदमूलत्वात्सर्ववेष्टनं कर्तव्यम् ।
“औदुम्बरीं स्पृष्ट्वोद्गाये"दिति श्रुतिविहितत्वात्स्पर्शनमपि कर्तव्यम् ।
उभयोरेकदा कर्तव्यतायां प्राप्तायां विरोधे सति व्रीहियववत्तुल्यबलत्वाद्विकल्प इति प्राप्ते राधान्तः- प्रत्यक्षश्रुतिविरुद्धायाः स्मृतेर्न स्वातन्त्र्येण प्रमाण्यं किन्तु मूलश्रुतिं कल्पयित्वा प्रामाण्यं वक्तव्यम्, तत्र प्रत्यक्षश्रुतिविरोधे मूलभूतश्रुत्याकाङ्क्षया स्वार्थे प्रामाण्यं नास्ति ।
अतो विकल्पोऽपि न सङ्गच्छते, श्रुतेस्तु स्वतन्त्रतया प्रामाण्यं स्वार्थे झटिति सङ्गच्छते ।
तेन विलम्बितप्रवृत्तिकस्मृतिबाधकत्वं श्रुतेः स्वतः सिद्धमेव ।
तदुक्तं भगवद्भिर्भट्टपादैः-
यावदेकं श्रुतौ कर्म स्मृतौ चान्यत्प्रतीयते ।
तावत्तयोर्विरुद्धत्वे श्रौतानुष्ठानमिष्यते ॥
[[६३]]
इति ।
तन्न्यायेनात्रापि लिङ्गधारणस्य प्रत्यक्षश्रुतिविहितत्वेन प्रामाण्ये दृढीकृते सति लिङ्गधारणस्य प्रत्यक्षनिषेधकवचनानामप्रामाण्यम् ।
अथवा तप्तचक्राङ्कनसमभिव्याहारादवैदिकपाशुपतानुष्ठीयमानतप्तलिङ्गा” न्कनपराणि ।
अथवा वीरशैवदीक्षाविरहिततया आगमोक्तलिङ्गधारणानधिकारपराणि ॥
ननु लिङ्गधारणं श्रुतिविहितमित्युक्तं तादृशश्रुतेरनुपलभ्यमानत्वात्कथं वैदिकत्वमितिचेन्न पैङ्गायनश्रुतेर्मूलत्वात् ।
तथाच श्रुतिः-
येह वा अमृतं सत्येन धीराः सुकृतस्य लोके ग्रीवायां बद्धा अपि कक्ष आसनि ।
अतिपाप्मानमतिमृत्युं तरन्ति ॥
अस्याः श्रुतेरर्थः- ये धीराः सुकृतस्यलोके= मनुष्यलोके, सत्येन= शपथेन, अमृतं= लिङ्गं “ब्रह्म प्रजननं काटं पवित्रममृतं स्रपः ।
प्रस्तरो जनिम प्राणो देवो लिङ्गं तथैव च ।
पर्यायवाचका ह्येते लिङ्गस्य परमात्मनः ।” इति वैदिक निघण्टोः ।
ग्रीवायां= कण्ठे कक्षे, आसनि= मुखे, अपि शब्दो वाऽर्थकः, बद्धा= बध्नन्तः वर्तन्त इति शेषः ते पाप्मानं= पापं, अतितरन्ति, मृत्यं= अज्ञानमतितरन्तीति ।
बद्धा इत्यत्र शतृप्रत्ययस्थाने क्तप्रत्ययश्छान्दसः ।
कण्ठाद्यन्यतमस्थानेषु सकलपापनिवृत्यर्थं संसारमूलानाद्यविद्यानिरवशेषनिवृत्यर्थं लिङ्गधारणमवश्यं मुमुक्षुभिः कर्तव्यमित्यस्याः श्रुतेः तात्पर्यम् ।
तस्मादवश्यं वैदिकैर्लिङ्गधारणं कर्तव्यम् ॥
ननु पैङ्गायनशाखायाः कल्पसूत्रकारैः प्रमाणत्वेनोदाहृतत्वेऽपि पठ्यमानेष्वाम्नायेष्वश्रवणादनाश्वास इति चेन्न, पठ्यमान शाखास्वेव तैत्तिरीयादिषु लिङ्गधारणे असाधारण्येन तत्पराणि वाक्यानि श्रूयन्ते ।
[[६४]]
तथाहि-
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्य्येषि विश्वतः ।
अतप्ततनूर्नतदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत ॥
इति ॥
अस्याः श्रुतेरयमर्थः- हे ब्रह्मणस्पते= चतुर्मुखनियन्तः महादेव, “ब्रह्माधिपतिर्ब्रह्मणोऽधिपति” रिति श्रुतेः ।
त्वं विश्वतः= विश्वस्य षष्ठ्यर्थे तसिः, प्रभुः ।
ते पवित्रं= लिङ्गं, पवित्रशब्दस्य लिङ्गार्थकत्वे वैदिकनिघण्टुः प्रागुक्तः ।
विततं= विस्तृतं, शिवशक्त्यात्मकलिङ्गाकारतयाव्याप्तमित्यर्थः ।
अतः, गात्राणि= स्थूलसूक्ष्मकारणशरीराणीन्द्रियादीनि च, इष्टलिङ्गप्राणलिङ्ग भावलिङ्गाद्यात्मना पर्येषि= व्याप्नोषि, अतप्ततनुः= वीरशैवदीक्षासंस्काररहितः, अत एवामः= अपक्वः संस्कारवर्जित इत्यर्थः ।
तत्= लिङ्गं, नाश्नुते= न प्राप्नोति, तद्धारणाधिकारी न भवति, तस्माल्लिङ्गाङ्गसामरस्यरूपमुक्तियोग्यो न भवतीत्यर्थः ।
शृतासः= दीक्षासंस्कारेण पक्वाः, मलपाकसहिता इत्यर्थः ।
इत्= इष्टलिङ्गम्, वहन्तः= उक्तस्थानेषु धारयन्तः, तत्= लिङ्गं सर्वव्यापकं लिङ्गम्, समाशत= प्राप्नुवन्तीति ।
तस्मात् प्रत्यक्षपठ्यमानश्रुतिविहितत्वाल्लिङ्गधारणं वैदिकत्वात्कर्तव्यम् ॥
ननु श्रुतिरियं लिङ्गधारणप्रतिपादिका न भवति, किन्तु तप्तचक्राङ्कनस्यावश्यकर्तव्यताप्रतिपादिका ।
तथाहि-पवित्रन्त इत्यस्यायमर्थः- हे ब्रह्मणस्पते विष्णो, त्वं प्रभुः सन् विश्वतो गात्राणि पर्येषि व्याप्नोषि ।
ते विततं विस्तृतं पवित्रं चक्रम्, “पवित्रं चरणं चक्रं लोकद्वारं सुदर्शनम् ।
पर्यायवाचका ह्येते चक्रस्य परमात्मनः ॥” इति कोशात् ।
यदस्ति तेन अतप्ततनुः, अत एवामः अपरिक्षीणपापः, तत् मोक्षं नाश्नुते ।
इत्= एवम्प्रकारं तच्चक्रम्, वहन्तः शृतासः परिपक्वाः, तत्समाशत तत्फलं प्राप्नुवन्ति ।
अस्मिन्नर्थे मन्त्रान्तरञ्च प्रमाणम्-
[[६५]]
चरणं पवित्रं विततं पुराणम् येन पूतस्तरति दुष्कृतानि ।
तेन पवित्रेण शुद्धेन पूता अतिपाप्मानमरातिं तरेम ॥
तेनाङ्कनेन पूताः पाप्मानमरातिं शत्रुञ्च अतितरेम, येन चक्राङ्कनेन पूताः दुष्कृतानि पापानि तरन्ति तच्चरणं चक्रं पवित्रं शुद्धिकारणं विततं विस्तृतम्, पुराणम् अनादिप्रवाहागतमिति द्वितीयमन्त्रार्थः ॥
मन्त्रान्तरञ्च-
लोकस्य द्वारमर्चिष्मत्पवित्रं जोतिष्मद्भ्राजमानं महस्वत् ।
अमृतस्य धारा बहुधा दोहमानं चरणं नो लोके सुहितान् दधातु ॥
इति ॥
अस्यार्थः- लोकस्य स्वर्गलोकस्य द्वारं साधनं, अमृतस्य धारा बहुधा दोहमानं नानाप्रकारमोक्षस्यापि साधनभूतं, अर्चिष्मत् शोभमानं, ज्योतिष्मत् ज्वालाकिरणप्रकाशैर्युक्तं, भ्राजमानम् अग्नितापनानन्तरमत्यन्तज्वालाकलितम्, पवित्रं परिशुद्धिकारणं, चरणं चक्रं नः अस्माकं लोके सुहितान्दधात्विति ॥
एतासां श्रुतीनां मध्ये पवित्रश्रुतेरपि तप्तचक्राङ्कनपरत्वात्कथमस्याः श्रुतेर्लिङ्गधारणे विनियोग इति चेन्न, “ब्रह्मणस्पत्यां बभ्रुकर्णीमालभेत्” इति श्रुतिविहितपशुयागे विहितमन्त्रस्य कथं तप्तचक्राङ्कनपरत्वेनार्थनिर्णयः क्रियते ? कथञ्च तप्तचक्राङ्कनपरत्वे अर्थसङ्गतिर्वर्तते ? तथाहि- अत्र विनियुक्तमन्त्रस्यापि लिङ्-लोट्-तव्य-प्रत्ययाभावेऽपि विधायकत्वं कल्प्यम् ।
पवित्रशब्दस्यापि व्याकरणादिप्रसिद्धपरिशुद्धिवाचकत्वं विहायाप्रसिद्धनिघण्टुकल्पनापुरस्सरमप्रसिद्धार्थचक्रवाचकत्वं कल्प्यम् ।
ब्रह्मणस्पत्यां बभ्रुकर्णीमालभेतेति विध्यनन्तरवाक्यशेषे “ब्रह्मणस्पते ब्रह्मणोपसमृध्या” इति श्रुतेर्ब्रह्मपरत्वं वक्तव्यम् ।
भागवते द्वितीयस्कन्धे
[[६६]]
तृतीयाध्यायादौ “ब्रह्मवर्चसकामस्तु यजेत् ब्रह्मणस्पति” मित्यत्र चतुर्मुखपरत्वेन व्याख्यातत्वेन, तस्य ब्रह्मपरत्वम् ।
“ब्रह्मा देवाना” मित्यनन्तरश्रुतिमहिम्नापि तत्परत्वावश्यकत्वञ्च ।
तद्विहाय स्वकल्पिताचारस्थापनाय विष्णुपरत्वं कल्प्यम् ।
यदस्ति तेनेति पदत्रयाध्याहारः ।
तप्ततनुरित्यत्र करणाकाङ्क्षायां केवलस्य चक्रस्य देहदाहकत्वाभावादग्नितप्तेनेत्यध्याहार्यम् ।
तनुशब्दस्य देहमात्रपरत्वे देहमात्रदाहे जीवनमेव न स्यादिति तनुशब्दस्य तदेकदेशभूतभुजमूललक्षकत्वं कल्प्यमित्याद्यनेकदोषदुष्टत्वम् ॥
काठके अपाघानामिकासु इष्टिषु पञ्चम्यां चितचरणं पञ्चममित्यादिप्रसिद्धस्य चरणशब्दस्य चर्यत इति चरणमिति कर्मवाचित्वेन प्रसिद्धस्य, “रमणीयचरणा अभ्याशोहयत्ते रमणीयां योनिमापद्येरन्, कपूयचरणा अभ्याशोह यत्ते कपूयां योनिमापद्येरन्, इत्यत्र “चरणादिति चेन्नोपलक्षणार्थेति कार्ष्ण्याजिनिः” शुकृतदुष्कृते एवेति तु बादरिः” इति सूत्राभ्यां ब्रह्ममीमांसायां तद्भाष्यव्याख्याने च चरणशब्दस्य कर्मपरत्वेन निर्णीतस्याप्रसिद्धार्थचक्रवाचित्वं कल्प्यम् ।
चरणपवित्रशब्दयोश्चक्रवाचकत्वेन पौनरुक्त्यं, येन पूत इत्यत्राप्रस्तुतचक्राङ्कनपरत्वञ्च कल्प्यमिति ॥
अत्रापि अग्नितप्तं चरणं, अग्नितप्तेन तेन पूतः, तेनाग्नितप्तेनेत्यध्याहारो विनियुक्तमन्त्रस्य विधिनियामकप्रत्ययाभावेऽपि विधायकत्वञ्च कल्प्यमिति सर्वमन्त्रेषु समानम् ।
एतादृशचरणसम्बन्धो यस्य कस्यचित्पुरुषस्य कल्प्यः, सकलस्मृतिपुराणेतिहासादिनिषिद्धार्थस्वीकारश्चेत्यादयो दोषास्तप्तमुद्राधारणवादिनां भवेयुः ।
तस्माच्चक्रधारणपरत्वेनोदाहृतश्रुतीनामर्थासङ्गतिः ॥
किञ्च चक्राङ्कननिषेधकस्मृतिपुराणवचनान्यपि बहूनि सन्ति ।
तथाहि- हेमाद्रौ प्रायश्चित्तकाण्डे, लिङ्गपुराणे च-
तापितः शङ्खचक्राभ्यां यस्य देहः प्रदृश्यते ।
स जीवन् कुणपस्त्याज्यः सर्वधर्मबहिष्कृतः ॥
[[६७]]
आदित्यपुराणे-
वेदेषु यज्ञभागेषु यस्य नास्त्यधिकारिता ।
स तापयित्वा चक्रादीन् धारयेत्स्वभुजद्वये ॥
ब्राह्मणो यदि मोहेन धारयेत्तप्तमुद्रिकाः ।
तस्य दर्शनमात्रेण कुर्यात्सूर्यावलोकनम् ॥
नारदीये-
ब्राह्मणस्य तनुर्ज्ञेया सर्वदेवमयी ततः ।
सा चेत्सन्तापिता तस्य किं वक्ष्यामि महैनसः ॥
आदित्यपुराणे-
ब्राह्मणो यदि मोहात्मा तापयेद्वह्निमुद्रया ।
न कर्मार्हो भवेदत्र स वै पाखण्डसञ्ज्ञितः ॥
पराशरोपपुराणे-
न दाहयेद् द्विजश्रेष्ठं न दहेच्चक्रपूर्वकैः ।
अङ्कितो यः स्वदेशात्तं राजा शीघ्रं प्रवासयेत् ॥
अध्यापने चाध्ययने श्रौतस्मार्तेषु कर्मसु ।
सम्भाषणे च सम्बन्धे नाधिकारी स लाञ्छितः ॥
आत्रेयधर्मशास्त्रे विष्णुः-
यथा स्मशानगं काष्ठमनर्हं सर्वकर्मसु ।
तथा चक्राङ्कितो विप्रः सर्वकर्मसु गर्हितः ॥
शङ्खचक्रं मृदा यस्तु कुर्यात्तप्तायसेन वा ।
स शूद्रवद्बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥
[[६८]]
बोधायनोऽपि-
नाङ्कयेन्न दहेद्देहं दहेच्चेत्कामचारतः ।
न स्वीकुर्वीत दग्धाङ्गं श्रौतस्मार्तेषु कर्मसु ॥
बाष्कलसंहितायाम्-
अङ्गेषु नाङ्कयेद्विप्रो देवतायुधलाञ्छनैः ।
अङ्कयेद्यदि वा मोहात्पतितो नात्र संशयः ॥
शङ्कचक्राद्यङ्कनञ्च नृत्तगीतादिकं तथा ।
हीनजातेरयं धर्मो न जातु स्याद् द्विजन्मनः ॥
पाखण्डं पतिताचारं तप्तचक्रधरं द्विजम् ।
सूत्रिकामग्निदं दृष्ट्वा सचेलो जलमाविशेत् ॥
तप्तचक्रधरा ये च तान् द्विजो नावलोकयेत् ॥
अन्यत्र च-
कुक्कुटश्च वराहश्च तप्तचक्राङ्कितस्तथा ।
रजस्वला च षण्डश्च पञ्चैन्ते श्राद्धदूषकाः ॥
ये वेश्यापतयो विप्रास्तप्तचक्रधराश्च ये ।
नास्तिकाः शूद्रदासाश्च ते वै भस्मान्तसूतकाः ॥
जटिनश्चैव मुण्डाश्च लूनकेशाः कपालिनः ।
तप्तचक्रधराश्चैव वेदनिन्दापरास्तथा ॥
एते मार्गपरिभ्रष्टास्तत्सङ्गात्पतितो द्विजः ।
स्पृष्ट्वैतानशुचीन् स्नात्वा घृतं प्राश्य विशुध्यति ॥
चक्राङ्किताय दत्तानि हव्यकव्यानि यानि वै ।
रक्षांसि तानि गृह्णन्ति न देवाः पितरो न च ॥
[[६९]]
पाखण्डिनश्च प्रथिता य वै चक्राङ्किता जनाः ।
पुण्यकर्मणि तेषां वै सन्निधिर्नेष्यते क्वचित् ॥
तप्तचक्राङ्कितं विप्रं न पश्येत्पुण्यकर्मणि ।
तत्सम्पर्कात्तथा भूमिः सहसा नैव शुध्यति ॥
ब्राह्मणः शङ्खचक्राद्यैरङ्कयन्नङ्गमङ्कनैः ।
अपि विष्ण्वादिसम्बद्धैस्तप्तैर्वा पतितो भवेत् ॥
अज्ञानादथ वा लोभाद्रागतो वा सुदर्शनम् ।
धत्ते कुलघ्नं तं दृष्ट्वा सवासा जलमाविशेत् ॥
सुदर्शनेन विलिखेद्भुजाग्रे सहसैव यः ।
वेदाग्निज्ञानवान्सोऽपि दहत्यासप्तमं कुलम् ॥
वह्निपुराणे-
पूर्वजाः स्वतनुं दग्ध्वा शङ्खचक्रादिभिः पृथक् ।
भवन्ति पतितास्सत्यं सर्वस्माद् द्विजकर्मणः ॥
तस्य वै निष्कृतिर्नास्ति स्नानदानजपादिभिः ।
तस्य निष्कृतिरुत्पन्ना पराशर्येण चोदिता ॥
विकेशं वापयित्वैनं पुनस्संस्कारमाचरेत् ।
गर्भगोलात्समुद्भृत्य गर्भाधानादिपूर्वकम् ॥
षोढावृत्यैव कृछ्राणां प्रायश्चित्तमुदीरितम् ।
इति तप्तचक्राङ्किताः परिषदुपस्थानपूर्वकं षडब्दं कृच्छ्राणि कृत्वा शुद्धिमाप्नुवन्ति, प्रायश्चित्ताकरणे तेभ्यः प्रतिग्रहेऽपि प्रायश्चित्तमुक्तम् ।
[[७०]]
कूर्मपुराणे-
अज्ञात्वा मुखजो यत्र मुद्रादग्धेभ्य आदरात् ।
सुवर्णमात्रसङ्ग्राही प्राजापत्यं समाचरेत् ॥
तदर्धेऽर्धं पुनः कृत्वा ह्यन्नमात्रमुपोषणम् ।
कृत्वा शुद्धिमवाप्नोति शुद्धिर्नान्यत्र दृश्यते ॥
इति ॥
एवं सन्तप्तचक्रादिधारणेऽयोग्यत्वं पातित्यं प्रायश्चित्तादिकञ्च स्मृतिपुराणेषु बहुशः प्रतिपादितम् ।
किञ्च पठ्यमानेषु कोशेषु “पवित्रं चरणं चक्र” मिति त्वदुक्तकोशवचनस्य कुत्राप्यदर्शनात् त्वदुक्तासत्यतान्त्रिकार्थमूढश्रद्धया लोकसम्मोहनाय त्वयैव तत्कल्पितम् ।
यद्यकल्पितमित्यभिमानस्तथापि नत्वदभिमतार्थसिद्धिः ।
प्रत्युत तवैव व्याघातः ।
तथाहि- ऋक्परिशिष्टे-सर्वपापनिवर्तकत्वेन पठ्यमानेषु मन्त्रेषु “पावकं चरणेभ्यस्तत्वावमानिभिरहं पुनामि” इति मन्त्रस्थितस्य चरणशब्दस्य भवदुक्तकोशानुसारेणार्थकल्पने तप्तमुद्राधारणे प्रायश्चित्तं कर्तव्यमिति मन्त्रार्थः पर्यवस्यति ।
तथाहि- चरणेभ्यः चकेभ्यः, निमित्तार्थे पञ्चमी ।
तप्तचक्राङ्कननिमित्तकं यत्पातकं तत्त्वावमानिभिः पुनामि, पापान्निवर्त्य आत्मानं पुनामित्यर्थः ।
धातोः सकर्मकत्वादात्मनः पाप निवृत्तिरर्थलभ्या ।
पवित्रशब्दस्य चक्रार्थकत्वे च व्याघातान्तरमापतति ।
तथाहि मन्त्रविनियोगप्रवृत्तानां कल्पसूत्रकाराणां बोधायनादीनां विनियोगं विना, मन्त्रार्थविवरणपराणां भट्टभास्करविद्यारण्यादीनां विवरणं विना, प्रसिद्धकोशवचनमन्तरा, उपबृंहणं विना, यदि स्वस्वबुध्यनुसारेण स्वस्वमताभिमानेन अर्थान्तरकल्पनं तदास्याः पवित्रश्रुतेरन्योऽप्यर्थः स्यात् ।
तथाहि- हे ब्रह्मणस्पते ब्राह्मणश्रेष्ठ, “ब्रह्मा विप्रः प्रजापति” रितिकोशात् ।
ते त्वं प्रथमार्थे षष्ठी ।
विश्वतः सर्वत्र, प्रभुः समर्थोऽसि, तान्त्रिकवचनैर्मोहं न प्राप्नोषीत्यर्थः ।
[[७१]]
किञ्च पवित्रं यथा भवति तथा, विततं विस्तृतानि, वचनव्यत्ययच्छान्दसः, गात्राणि पर्य्येषि प्राप्नोषि, गात्राणां पवित्रत्वन्तु “यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्रह्मणि वसन्ती"ति श्रुतिवचनात् ।
अतप्ततनुरित्यत्र अकारो विष्णुवाचकः, “अकारो ब्रह्मविष्णवीशकमठेष्वङ्गणे रणे” इति कोशात् ।
आय विष्णवे, तप्ततनुः बाहुमूले दग्धशरीरः, अत एव आमः- शमदमवैराग्याद्यसम्पन्नः, तत्परं पदं नाश्नुते न प्राप्नोति ।
शृतासः-तप्तचक्रेण पक्वाः, श्रै पाके इति धातोः क्तः, असुगागमश्छान्दसः, इत्-दाहजन्यं किणं वहन्तः, तत्पूर्वोक्तधात्वर्थं पाकं कुम्भीपाकमित्यर्थः ।
नामैकदेशे नामग्रहणं, सत्यभामेत्यत्र भामेतिवत् ।
समाशत-प्राप्नुवन्ति, तप्तशङ्खचक्रधारी पुमान्कुम्भीपाकं प्राप्नोतीति निष्कृष्टोऽर्थः ।
तस्मात् श्रुतेस्तप्तचक्राङ्कनपरत्वेन स्वानुकूलवर्णने बहुदोषदुष्टत्वेनास्मदुक्तलिङ्गधारणपरत्वकल्पनमेव साधीयः ॥
स्यादेतत्, पवित्रश्रुतेः प्रतिपादितानेकदोषदुष्टतया चक्राङ्कनपरत्वासम्भवेपि, अवैदिकशैवपाषण्डधर्मतप्तशूलाङ्कनपरत्वमपि नेतुं सुशकम् ।
तथाहि- पवित्रं त्रिशूलं, शूलं पवित्रं परमं महास्त्रं लवित्रमंहः पुरवैरिशस्त्रम् ।
एतान्यसाधारणनामधेयान्याहुस्त्रिशूलस्य शिवायुधस्य” इति पाशुपतागमवचनेन त्रिशूलस्य पवित्रशब्दवाच्यत्वं प्रसिद्धम् ।
हे ब्रह्मणस्पते शिव, “ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिरि"ति श्रुतिसिद्धं ब्रह्मपतित्वं शिवस्य ।
ते त्वत्सम्बन्धि यदस्ति, तेन अग्नितप्तेन शूलेन अतप्ततनुः, अतेवामः- अपक्वः तत्पाशुपतं पदं नाश्नुते ।
शृतासः तप्तशूलाङ्कनेन भुजमूले परिपक्वाः, अत एव इत्- दाहजन्यव्रणजनितं किणं वहन्तः, तत्पाशुपतपदं समाशत प्राप्नुवन्तीत्यर्थः ।
स्पष्टमन्यत् ।
तथा च प्रतिपादितार्थयोजनानुसारेण तप्तशूलाङ्कनस्यापि वैदिकानुष्ठेयता भवति ।
तप्तशूलाङ्कनं वैदिकैरनुष्ठेयम्, मन्त्रवर्णप्रतिपाद्यत्वात् ।
दर्भग्रन्थिविशेषवत् ।
इत्यनुमानमप्येतदनुकूलमिति चेदत्रोच्यते-
[[७२]]
अङ्गेषु नाङ्कयेद्विप्रो देवतायुधलाञ्छनैः ।
अङ्कयेद्यदि वा मोहात्पतितो नात्र संशयः ॥
नाङ्कयेन्न दहेद्देहं दहेच्चेत्कामचारतः ।
न स्वीकुर्वीत दग्धाङ्गं श्रौतस्मार्तेषु कर्मसु ॥
अङ्कितः शङ्खचक्राद्यैः शरीरे देवतायुधैः ।
त्रिपुण्ड्रधारणादेव भस्मना पूयते नरः ॥
श्रौतस्मार्तपरो विप्रो नाङ्कयेदङ्गमङ्कनैः ।
अपि विष्ण्वादिसम्बद्धैरन्यथा पतितो भवेत् ॥
चक्राङ्किततनुर्वापि राजन् लिङ्गाङ्कितोऽपि वा ।
नाधिकारी स विज्ञेयः श्रौतस्मार्तेषु कर्मसु ॥
इत्याद्यङ्कननिषेधकवचनानां विद्यमानत्वात् ।
“वितन्यमानमनु मन्त्रयते यजमान” इति दशापवित्राख्यसोमरसगालनक्षमवस्त्रविशेषानुमन्त्रणे “पवित्रन्त” इत्यस्य मन्त्रस्य विनियोगदर्शनात्, अस्मिन्नर्थे विनियोगाभावादुपबृंहणाभावाच्च, तप्तशूलाङ्कनपरत्वकल्पनमसमञ्जसमेव ।
अत एवावैदिकपाशुपतैकदेशिजनानुष्ठेयतप्तलिङ्गाङ्कनधारणमपि निरस्तम् ॥
अस्याः पवित्रश्रुतेः “वितन्यमानमनुमन्त्रयते यजमान” इति भगवता सूत्रकारेणापस्तम्बमुनिना दशापवित्राख्यसोमरसगालनक्षमवस्त्रविशेषानुमन्त्रणे विनियुक्तत्वात्; “पवित्रोऽग्नौ हरौ पूते क्लीबे ताम्रेऽप्सु गोमये ।
मन्त्रे दध्नि ब्रह्मसूत्रे साम्न्यर्के कलशे कुशे ।
दशापवित्रवस्त्रे च त्रिशूले देवतासु च ॥” इति दशापवित्रवस्त्रपरत्वेन वैजयन्तीनिघण्टुकारेण प्रयुक्तत्वाच्च, लिङ्गधारणपरत्वे कथमर्थोऽभिधीयते ? दशापवित्रवस्त्रपरत्वेनार्थविवरणञ्च युक्तम् ।
तथाहि- हे ब्रह्मणस्पते सोम, “वेदस्तत्वं तपो ब्रह्मे” त्यमरः ।
[[७३]]
यद्वा “ब्रह्मा विप्रः प्रजापति” रित्यनुशासनाद् ब्रह्मणः ब्राह्मणस्य पते, “यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् ।
स वै दुर्ब्राह्मणो ज्ञेयः सर्वकर्मबहिष्कृतः” ॥
इति स्मृति पर्यालोचनया, “इन्द्राग्नं पुनरुत्सृष्टमालभेत य आतृतीयात्पुरुषात्सोमं न पिबेद्विच्छिन्नो वा एतस्य सोमपीतिः” यो ब्राह्मणः सन्नातृतीयात्पुरुषात्सोमं न पिबतीत्यादि श्रुत्या त्रिपुरुषपर्यन्तं सोमपानाभावे प्रायश्चित्तविधानाच्च, दौर्ब्राह्मण्यनिवृत्तिद्वारा ब्राह्मण्यातिशयापादकत्वेन सोमस्य ब्राह्मणपतित्वमुपपद्यते ।
अत एव श्रुत्यन्तरञ्च- “तस्मात्सोमो राजा नो ब्राह्मण” इति ।
तस्मात् हे ब्रह्मणस्पते ब्राह्मणप्रभो सोम, ते तव पवित्रं दशापवित्राख्यं वस्त्रं विततं विस्तृतं त्वं प्रभुः पीतः सन् गात्राणि पर्येषि व्याप्नोषि ।
अतप्ततनुः “तपो नानशनात्पर"मिति स्मरणात्पयःपानमात्रस्य विधानेनानशनमेव तप इत्युच्यते ।
ततः अतप्ता अनशनात्मकेन तपसा अतप्ता तनूर्यस्य सः अतप्ततनूः पयोव्रताकर्ता अतेवामः सोमदीक्षारहितः तत्-कर्मफलं नाश्नुते न प्राप्नोति; शृतासः पयोव्रतेन परिपक्वाः इत्-एवं प्रकारेण कर्म वहन्तः तत्-कर्मफलं, समाशत प्राप्नुवन्ति ।
अत एव भगवानापस्तम्बः सूत्रकारो दीक्षाविषये प्रशंसामाह “यदा वै दीक्षितः कृशो भवति, अथ मेध्यो भवती"ति ।
तस्मादियं पवित्रश्रुतिर्लिङ्गधारणपरत्वेन कथं नेतुं शक्यत इति चेन्नैवम्, उपबृंहणवशेन श्रुत्यर्थनिर्णयस्यावश्यकत्वात् ।
लिङ्गधारणपरत्वेन बहूनां मन्त्रार्थप्रकाशकानां पुराणवचनानां श्रूयमाणत्वात् ।
न च सूत्रकारेण साक्षाद्विनियुक्ते मन्त्रे तत्समप्राबल्येन नोपबृंहणवचनमुच्यत इति वाच्यं, सूत्रवदुपबृंहणस्यापि चतुर्दशविद्यान्तःपातित्वेन वेदार्थनिर्णये समप्राबल्यात् ।
अत एव स्मृतिकारैः “इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रताद्वेदो मामयं प्रतरेदि"ति प्रतिपादितम् ।
अत एव छान्दोग्यश्रुतिरपीतिहासपुराणानां वेदत्वं प्रतिपादयति ।
“ऋग्वेदं यजुर्वेदं सामवेदमथर्वणञ्चतुर्थमितिहासपुराणं पञ्चमं वेदानां
[[७४]]
वेद"मिति तस्मादुपबृंहणस्यापि वेदार्थनिर्णायकत्वं कल्पसूत्रवदुपपद्यते ।
न च कर्मणि सूत्रेण विनियुक्तस्य मन्त्रस्योपबृंहणेनान्यत्रविनियोगः कथमुपपद्यत इति वाच्यं, अग्निचयनप्रकरणे-अजाक्षीरहोमे ईशानकोणे चरमेष्टिकायां कर्तव्ये होमे विनियुक्तानां शतरुद्रीयमन्त्राणां,
शतरुद्रं जपेद्यस्तु ध्यायमानो महेश्वरम् ।
सप्तसागरपर्यन्तं सशैलद्वीपकाननाम् ॥
दद्यात्काञ्चनसंयुक्तां भूमिमौषधिसंयुताम् ।
तस्मात्कोटिगुणं पुण्यं सकृद्रुद्रजपाद्भवेत् ॥
रुद्राध्यायेन ये देवं स्नपयन्ति महेश्वरम् ।
तज्जलैः कुर्वते स्नानं ये मृत्युं सन्तरन्ति ते ॥
शतरुद्राभिषेकेण शतायुर्जायते नरः ।
अशेषपापनिर्मुक्तः शिवस्य दयितो भवेत् ॥
सुरापः स्वर्णहारी च रुद्रजापी जले स्थितः ।
सहस्रशीर्षजापी च मुच्यते सर्वकिल्बिषात् ॥
इत्याद्युपबृंहणवशेन जपेऽभिषेके च विनियोगदर्शनात् प्रकृते पवित्रश्रुतेर्भिन्नकर्मणि विनियुक्तत्वेऽप्युपबृंहणवशाल्लिङ्गधारणे विनियोगस्सङ्घटते ।
तथाहि-
ब्रह्मणस्पतिरीशो वै ब्रह्मैतल्लिङ्गमुच्यते ।
पवित्रं तद्धि विख्यातं तत्सम्पर्कात्तनुः शुचिः ॥
इति स्कान्दपुराणे लिङ्गस्य यावज्जीवसम्बन्धेन शरीरपावित्र्यप्रतिपादकवचनस्य पवित्रश्रुत्युपबृंहणत्वमसाधारणम् ।
एतदुपबृंहणानुसारेण हे ब्रह्मणस्पते ईश्वर, कस्कादित्वात्सः ।
“ब्रह्माधिपति-
[[७५]]
र्ब्रह्मणोऽधिपति"रिति श्रुतेः ।
ते त्वत्स्वरूपं राहोश्शीरितिवदभेदे षष्ठी ।
पवित्रं लिङ्गं “ब्रह्म प्रजननं काटं पवित्रपमृतं स्रपः ।
प्रस्तरो जनिम प्राणो देवो लिङ्गं तथैव च ॥
पर्यायवाचका ह्येते लिङ्गस्य परमात्मनः” इति वैदिककोशात् ।
विततं सर्वत्र व्याप्तं यदस्ति, विश्वतः विश्वशब्देन विश्वान्तर्वर्तिनः पशुशब्दवाच्या ब्रह्माद्या जीवा लक्ष्यन्ते, चेतनाचेतनप्रपञ्चवाचकस्य विश्वशब्दस्य तदेकदेशे चेतने लक्षणायाः सम्भवात् ।
तदुक्तं- लिङ्गपुराणे
ब्रह्माद्याः स्थावरान्ताश्च देवदेवस्य शूलिनः ।
पशवः परिकीर्त्यन्ते संसारवशवर्तिनः ॥
तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः ।
इति ॥
पतित्वञ्चास्य- शर्वान् यच्च पशून्पाति तैश्च यद्रमते पुनः ।
तेषामपि पतिर्यच्च तस्मात्पशुपतिः स्मृतः” इति द्रोणपर्वणि शतरुद्रीयाध्याये नामनिर्वचनात्, पातीति पतिरिति रक्षणार्थकात्पाधातोर्डतिप्रत्यये पतिशब्दनिष्पत्तेर्व्याकरणसिद्धत्वात्, तदर्थस्य पालकत्वस्योक्तवचनेनैव स्फुटीकरणाच्च वेदितव्यम् ।
पवित्रश्रुतिस्थप्रभुशब्दार्थावधारणप्रवृत्तोपबृंहणस्कन्दपुराणव चनस्थितस्येशशब्दस्य “ईश्वरः पतिरीशिते” तिकोशपाठमहिम्ना आधिपत्यवाचकस्य, व्याकरण-महाभारतनिरुक्तिभ्यां पालकस्यापि वाचकेन पतिशब्देन समानार्थकत्वावश्यम्भावादाधिपत्यं पालनञ्च प्रभुशब्दार्थ इति वक्तव्यम् ।
तेषां जीवानां प्रभुः- अधिपतीरक्षकश्च त्वं पवित्रशब्दवाच्यलिङ्गरूपः ।
तादृशपशुशब्दवाच्यजीवपरिपालनप्रकारः प्रकाश्यते “गात्राणी” त्यादिना ।
गात्राणी स्थूलसूक्ष्मकारणशरीराणि, गात्रपदं ज्ञानेन्द्रियकर्मेन्द्रियान्तःकरणादीनामुपलक्षकम् ।
एतानि शब्दादिविषयेभ्यो विनिवर्त्य स्वयं तेष्वभिमानिदेवतात्वेनाचारादिलिङ्गात्मना स्थित्वा, तान् शब्दादीन्विषयान् स्वीकृत्य,
[[७६]]
पश्चात्प्रसादात्मकांस्तान्विषयांस्तेभ्योऽङ्गशब्दवाच्येभ्यः शुद्धान्तःकरणेभ्यो जीवेभ्यो दत्वा, पर्येषि-परिशुद्धप्रसादोपभोगिनः करोषि ।
अस्मिन्नर्थे प्रमाणं वातुलागमे-
इन्द्रियादागतं किञ्चिद्यत्सुखं तच्छिवार्पितम् ।
कृत्वा प्रसादो भोक्तव्यस्तदिन्द्रियमुखेन सः ॥
इष्टलिङ्गन्तु बाह्याङ्गे प्राणलिङ्गं तथान्तरे ।
भावलिङ्गं सदैवास्मिन्नात्माङ्गे सुप्रतिष्ठितम् ॥
हृदयाङ्गे महालिङ्गं श्रोत्राङ्गे सुप्रसादकम् ।
त्वगङ्गे चरलिङ्गञ्च दृगङ्गे शिवलिङ्गकम् ॥
जिह्वाङ्गे गुरुलिङ्गन्तु नासिकाङ्गे तथैव च ।
आचारलिङ्गमश्रान्तं सुप्रतिष्ठितमेव हि ॥
यथा ज्ञानेन्द्रियाङ्गेषु क्रमाल्लिङ्गं प्रतिष्ठितम् ।
तथा कर्मेन्द्रियाङ्गेषु क्रमाल्लिङ्गं प्रतिष्ठितम् ॥
इति ॥
लिङ्गसंयोगाभावादिन्द्रियजयविहीनानां तपोरहितानां परमपदप्राप्तिर्नास्तीत्याह “अतप्ते” त्यादिना “तपसा ब्रह्म विजिज्ञासस्वे” ति तैत्तिरीयवाक्यात्, “आत्मविद्या तपोमूल"मिति ब्रह्मोपनिषद्वाक्याच्च ।
अतप्ततनूः, श्रोत्रनेत्रादीन्द्रियव्यतिरिक्तायास्तनोरभावादत्र तनुशब्देनेन्द्रियाण्युच्यन्ते, अतप्ता-अनिगृहीता तनूरिन्द्रियाणि येनासावतप्ततनूरजितेन्द्रियोऽज्ञ इत्यर्थः ।
आमः-मलपाकराहित्येन शिवदीक्षाविहीनः पुरुषः, तल्लिङ्गं नाश्नुते ।
शृतासः- वीरशैवदीक्षया परिपक्वा विगतपापाः, इत्-इष्टलिङ्गं वहन्तः- उक्तस्थानेषु धारयन्तः, तत्-सर्वव्यापकलिङ्गं समाशत-प्राप्नुवन्ति ।
अन्ये तपोरहिताः शिवसंस्कारवर्जितास्ते लिङ्गधारणविहीनाः परमपदं नाप्नुवन्तीत्यर्थः ।
अस्मिन्नर्थे स्कन्दपुराणे-
[[७७]]
ब्रह्मणस्पतिरीशो वै ब्रह्मैतल्लिङ्गमुच्यते ।
पवित्रं तद्धि विख्यातं तत्प्रभुर्विश्वतः स्वयम् ॥
तत्सम्पर्कात्प्रवित्रत्वं गात्राणि कुरुते स्वयम् ।
अतप्ततनुरज्ञो वै आमः संस्कारवर्जितः ॥
दीक्षया रहितः साक्षान्नाप्नुयाल्लिङ्गमुत्तमम् ।
शिवधर्माश्रिताः शान्ताः शिवाचारपरायणाः ॥
ये वहन्ति सदा लिङ्गं ते यान्ति परमं पदम् ।
अन्यथा न हि मां प्राप्तुं शक्यं देवि तथा श्रुतिः ॥
इति ॥
तत्रैव प्रदेशान्तरे-
शस्तं विपापं परमं गगनं देहसंस्थितम् ।
जन्ममृत्युजरातीतं तत्पवित्रं प्रचक्षते ॥
पतनात्त्रायते यस्मादतीव नरकार्णवात् ।
यत्पवित्रं पवित्राणां तल्लिङ्गं ज्योतिरैश्वरम् ॥
तत्सम्पर्कात्पवित्रत्वं गात्रेष्वेव करिष्यति ।
तदेतत्परमं ज्योतिर्लिङ्गं देवि मदात्मकम् ॥
शिवानन्दः परं धाम दुष्प्राप्यमकृतात्मभिः ।
एवं श्रिताः सदा लिङ्गं ते वहन्तः सदादरात् ॥
ते प्राप्नुवन्ति सर्वेऽपि मामेवात्र न संशयः ।
ऋगित्याह पवित्रन्ते विततं ब्रह्मणस्पते ॥
तस्मात्पवित्रं तल्लिङ्गं धार्यं शैवमनामयम् ॥
इति ॥
[[७८]]
ब्रह्माण्डपुराणे-
तपस्तप्ता तनुर्यस्य स तप्ततनुरुच्यते ।
परिपक्वो विमोक्षाय सोऽश्नुते लिङ्गधारणम् ॥
न करोति तपः पूर्वं सोऽतप्ततनुरुच्यते ।
अपक्वोऽयं विमोक्षाय नाश्नुते लिङ्गधारणाम् ॥
इति ॥
तस्मात्स्कान्दपुराणब्रह्माण्डपुराणोपबृंहितपवित्रश्रुतिपर्यालोचनया लिङ्गधारणं वैदिकैर्मुमुक्षुभिरादरणीयमेव ॥
अस्मिन्नर्थे नारायणोपनिषदि श्रुत्यन्तरञ्च प्रमाणम् ।
तथाहि-
नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासम्, कर्णयोः श्रुतं माच्योढ्वं ममामुष्य ऊम् ॥
इति ॥
अस्य मन्त्रस्यायमर्थः-नमो ब्रह्मण इति ।
“ब्रह्मणस्पतिरीशो वै ब्रह्मैतल्लिङ्गमुच्यत” इति स्कान्दपुराणवचनात्, “ब्रह्मेति लिङ्गमाख्यातं ब्रह्मणस्पतिरीश्वर” इति सिद्धान्तशिखामणिवचनात्, “अलिङ्गमेकमव्यक्तं लिङ्गं ब्रह्मेति निश्चित” मितीश्वरगीतावाक्यात्, “ब्रह्मणे लिङ्गमूर्तय” इति लिङ्गपुराणवाक्याच्च, ब्रह्मेति लिङ्गनाम ।
ब्रह्मणे लिङ्गमूर्तये नम इति वेदपुरुषेण नमस्कारपूर्वकं लिङ्गधारणं याचितम् ॥
धारणं तत्-ब्रह्मस्वरूपशिवलिङ्गस्य धारणं मेऽस्तु ।
नन्वत्र तच्छब्दाभावाद्ब्रह्मणो धारणमिति कथं लभ्यते ? न च ब्रह्मशब्दस्य साकाङ्क्षत्वाद्धारणेन साकमन्वयस्यावश्यं वक्तव्यत्वात्, ब्रह्मशब्दवाच्यस्य लिङ्गस्य धारणमिति लभ्यत इति वाच्यं, ब्रह्मशब्दस्य नमश्शब्देन सहान्वितत्वेनाकाङ्क्षाया एवाभावादिति चेन्न, धारणशब्दस्य ससम्बन्धिपदार्थवाचकस्य सम्बन्ध्यन्तरवाचकपदसाकाङ्क्षत्वेन नमःशब्देनान्वितस्याप्युत्थापिताकाङ्क्षाबलेन धारणशब्देनान्वयस्योचितत्वाद् ब्रह्मधारणं लिङ्गधारणमित्यर्थः ।
प्रतियोगिसव्यपेक्षार्थशब्दनिर्दिष्टे सन्निहितस्य प्रतियोगितयान्वयो युक्तः ।
[[७९]]
“एका देया षड् देया द्वादश देयाश्चतुर्विंशतिर्देया शतं देयं सहस्रं देयमपरिमितं देय"मित्याधानदक्षिणाकल्पभेदश्रुतापरिमितशब्दस्य प्रतियोगिसापेक्षबहुत्वसामान्यवाचिनः सन्निहितसहस्राधिकबहुत्वपर्यवसानस्य “अधिकं वा स्याद्बह्वर्थत्वादितरेषां सन्निधाना"दिति पूर्वतन्त्रे निर्णीतत्वात्सन्निधानाद् ब्रह्मशब्दवाच्यलिङ्गस्य धारणेन सहान्वयः ।
अनिराकरणं पुराणागमोक्ते षट्स्थानान्यतमस्थाने कदाचिदप्यजहनमवियोगः, अस्तु-भवतु प्रार्थनायां लोट् ।
धारयिता भूयासमित्युक्तिर्मुमुक्षूणां लिङ्गधारणदार्ढ्यार्थं “शतकृत्वोऽपि वदितव्य” मिति न्यायेनाम्रेडयतीति न पौनरुक्त्यम् ।
कर्णयोः श्रुतम्, वीरशैवदीक्षाकाले करणीयमिष्टलिङ्गधारणं पञ्चाक्षरीमन्त्रोपदेशपूर्वकमिति तन्मन्त्रस्य शब्दरूपत्वेन श्रोत्रेन्द्रियग्राह्यत्वात्कर्णयोः श्रुतमित्यनेन मन्त्रः प्रतिपादितः ।
स च लिङ्गधारणप्रकरणयोग्यत्वात् पञ्चाक्षरीरूपः ।
कर्णयोः श्रुतमित्यस्य कर्णाभ्यां श्रुतमित्यर्थः ।
दक्षिणकर्णमात्रस्योपदेशयोग्यत्वेऽपि कर्णद्वयस्यापि श्रवणयोग्यत्वमस्तीति द्विवचनोपपत्तिः ।
“घृतस्य यजती"त्यत्रेव तृतीयार्थे षष्ठी ।
ननु शेषाद्यर्थे षष्ठीविधानात्तृतीयार्थे षष्ठी विभक्तिः कथमुपपद्यत इति चेन्न श्वरुस्त्वनेकनिष्पत्तिः स्वकर्मशब्दत्वा"दिति चतुर्थाध्याये द्वितीयपादाधिकरणे “यूपस्य स्वरुं करोती"त्यत्र यूपात्स्वरुं करोति, यूपात्स्वरुमादत्त इत्येवं सिद्धान्तेकृते भगवता पूर्वमीमांसासूत्रभाष्यकृता श्रीशबरस्वामिना कथं षष्ठीविभक्तेः पञ्चम्यर्थत्त्वमित्याक्षिप्य, अप्राणिनः षष्ठी पञ्चम्यर्थे भवति यूपस्य स्वरुं करोति यूपात्स्वरुं करोतीति, क्वचित्तृतीयार्थे घृतस्य यजति, घृतेन यजतीति, पञ्चम्यर्थे वा घृताद्यजति घृतस्य यजतीति, क्वचिद् द्वितीयार्थे सोमस्य पिबति सोमं-पिबति, सोमात्पिबतीत्युक्तम् ।
तन्न्यायेनात्रापि तृतीयार्थे षष्ठी ।
कर्णाभ्यां श्रुतं गुरूपदिष्ठं पञ्चाक्षरीमन्त्रं जपतः अमुष्य मे माच्योढ्वं माच्योतिष्ट, च्युङ् च्यवन इति धातोर्लु"नि ध्वमि सिज्लोपे गुणः, धस्य च ढः ।
पुरुषवचनव्यत्ययश्छान्दसः ।
पञ्चाक्षरीमन्त्रजपः सदा-
[[८०]]
भवतु माच्यवतामित्यर्थः ।
ऊम् इति मन्त्रावसानम् ।
यद्वा ब्रह्मन्, गुरूपदिष्टं पञ्चाक्षरीमन्त्रं मे माच्योढ्वं माच्यावय, अन्तर्भावितणिजर्थः ।
वचनव्यत्ययश्छान्दसः ।
अत एव शमेन्द्रो मेधया स्पृणोत्वि” ति मन्त्रविषये अविस्मरणं परमेश्वरायत्तमिति दृढतया द्योत्यते ॥
एतदुपबृहणं स्कान्दे-
नमस्ते ब्रह्मणे देव आचार्याय महात्मने ।
तन्निराकरणं विश्वजन्यत्त्वान्मृत्युनैव हि ॥
अनिराकरणं मेऽस्तु धारणं देशिकोत्तम ।
वेदशास्त्रपुराणेषु प्रसिद्धं कर्णयोः श्रुतम् ॥
अच्योष्ट मम मे लिङ्गं मा च्यावय शिवाश्रयम् ।
उपदिष्टञ्च गुरूणा कर्णे तद्दिव्यरूपभाक् ॥
वेदसिद्धं मन्त्ररत्नं जपेत्पञ्चाक्षरं सदा ।
इति ॥
अथ वीरशैवमते पञ्चाक्षरीमन्त्रोपदेशपूर्वकं लिङ्गधारणं कर्तव्यमिति सिद्धान्तः ।
तत्प्रतिपादकेऽस्मिन्मन्त्रे प्रथमतो लिङ्गधारणं प्रतिपाद्यते, ततः परं कर्णयोः श्रुतमिति पञ्चाक्षरीमन्त्रोपदेशः प्रतिपाद्यत इत्येतन्मन्त्रपर्यालोचनया लिङ्गधारणानन्तरं पञ्चाक्षरीमन्त्रोपदेशः कुतो नानुष्ठीयत इति चेन्मैवम्, पूर्वमेव पञ्चाक्षरीमन्त्रोपदेशस्य युक्तत्वात्, पाठक्रमापेक्षयार्थक्रमस्य बलवत्त्वात् ।
तदुक्तं पूर्वतन्त्रे पञ्चमाध्याये प्रथमपादे द्वितीयाधिकरणे “अर्थाच्चे” ति सूत्रे ।
अग्निहोत्रहोमादनन्तरं पूर्वं वा यवागूपाकः कर्तव्य इति सन्देहे, पञ्चप्रयाजेषु पाठापेक्षया क्रमस्य दर्शनात्प्रत्यक्षश्रूयमाणस्य पाठस्य बाधायोगाद् द्रव्यान्तरेणाग्निहोत्रहोममनुष्ठायानन्तरं यवागूपाकः कर्तव्य इति प्राप्ते सिद्धान्तः-द्रव्यान्तरेणाग्निहोत्रहोमेऽनुष्ठिते तदनन्तरं क्रियमाणस्य यवागूपाकस्य दृष्टप्रयोजनाभावाददृष्टं प्रयोजनमवश्यं कल्पनीयम् ।
तच्चानुचितम्, दृष्टफलसम्भवेऽदृष्टफलकल्पनाया
[[८१]]
अन्याय्यत्त्वात् ।
अतः पाठक्रमं बाधित्त्वा यवागूपाकस्याग्निहोत्रहोम निर्वर्तकत्त्वरूपार्थवशाद्यवागूं पचति, अग्निहोत्रं जुहोतीति पाठान्तरं कल्पनीयमिति ॥
यद्यप्यस्मिन् पक्षे पाठान्तरकल्पनमेकं बाधकम्, तथापि अदृष्टफलकल्पनं पक्वस्य यवागूद्रव्यस्य वैयर्थ्यं, उपस्थितयवागूद्रव्यं विनानुपस्थितद्रव्यान्तरसम्पादनयत्नश्चेति दोषत्रयवशादर्थक्रमानुसारेण पाठान्तरकल्पनमेकोदोषः स्वीक्रियते, “एकोहिदोषो गुणसन्निपात” इति न्यायात् ।
तन्न्यायेनात्रापि कर्णयोः श्रुतमिति पञ्चाक्षरीमन्त्रोपदेशपूर्वकं धारणं मेऽस्त्विति लिङ्गधारणमवश्यं कर्तव्यमित्यर्थक्रमानुसारेण पाठान्तरं कल्पनीयम् ॥
नन्वयं क्रमविचारोऽत्र न सम्प्रतिपद्यते, पञ्चाक्षरीमन्त्रोपदेशलिङ्गधारणयोरङ्गाङ्गिभावाभावात्, अङ्गानामेव क्रमिकाणां प्रधानोपकर्तृत्त्वमिति मीमांसान्यायादिति चेन्मैवम्, “यदा भारं तन्द्रयते स भर्तुं निधाय भारं पुनरस्तमेति” “प्रमादात्पतिते लिङ्गे सह प्राणान्परित्यजे"दिति श्रुतिस्मृतिपर्यालोचनया लिङ्गधारणस्यैव प्राधान्याल्लिङ्गधारणयोग्यतासम्पादकपञ्चाक्षरीमन्त्रोपदेशस्याङ्गत् वम्, मन्त्रस्य सर्वस्याप्यङ्गत्वात्, तथैवार्थवादाधिकरणमन्त्राधिकरणयोर्निर्णीतत्त्वात्क्वचिदपि प्राधान्यस्याभावात्, क्रियाया एव यागादिरूपायाः प्राधान्यस्यासकृद्दर्शनाल्लिङ्गधारणस्यापि क्रियारूपत्वेन प्राधान्यमवश्यं वक्तव्यम् ॥
अथ प्रधानानुष्ठानकाल एवाङ्गानामवश्यमनुष्ठेयत्वात् प्रयाजादीनां दर्शपूर्णमासप्रधानकाल एवानुष्ठानदर्शनाल्लिङ्गधारणात्पूर्वं कृतस्य पञ्चाक्षरीमन्त्रोपदेशस्य तत्कालेऽनुष्ठानाभावाच्च कथमङ्गत्वमुच्यत इतिचेत्, न्यायानभिज्ञस्य तवाक्षेपो युक्त एव ।
आधानस्य ज्योतिष्टोमयागात्पूर्वं कृतस्य कथं ज्योतिष्टोमाङ्गत्वमङ्गीक्रियते ।
न चाग्नीनादधीतेति विहितस्याधानस्य “कर्तुरीप्सिततमं कर्म” “तथा युक्तञ्चानीप्सित"मिति, भगवत्पाणिन्यनुशासनवशेन द्वितीया-
[[८२]]
संयोगवशादग्निनिष्पत्यर्थत्वेन ज्योतिष्टोमादिकर्माङ्गत्वं नास्तीति वाच्यम्, “गुणानाञ्च परार्थत्वादसम्बन्धः समत्त्वात्स्या” दिति, तृतीयाध्यायाधिकरणे, “यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थ लक्षणाविभक्तत्वा"दिति, चतुर्थाध्यायद्वितीयसूत्रे चतुर्थवर्णके आधानकर्माङ्गत्वप्रतिपादनात् ।
तदुक्तं भाष्यकारैः शबरस्वामिभिः ङचाधानवद्भवितुमर्हति, तत्रहि वचनमस्ति “वसन्ते ब्राह्मणोऽग्नीनादधीते"ति ।
न चैतदङ्ग"मिति ।
अथवा “वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेते"ति, वचनेन बृहस्पतिसवस्य ज्योतिष्टोमप्रकृतिकत्वेन वसन्तकाले क्रियमाणस्य शरदि वाजपेयेन यजेते"ति शरत्कालक्रियमाणवाजपेयाङ्गत्ववत्, शंस्थाप्य पौर्णमासीं वैमृधमनुनिर्वपती"ति वचनेन पौर्णमासेष्टिसमाप्त्यनन्तरं क्रियमाणाया वैमृधेष्टेः पौर्णमासाङ्गत्ववद्वा, प्रकृतेऽपि कालभेदेन क्रियमाणस्यापि पञ्चाक्षरी मन्त्रोपदेशस्य पश्चादनुष्ठीयमानलिङ्गधारणाङ्गत्वं, “पञ्चाक्षरीं गुरोः प्राप्य पश्चाल्लिङ्गं धरेद्बुध” इति वचनेन युज्यते ॥
नचोदाहृतस्थलद्वयेप्युत्तरत्राङ्गानुष्ठानस्य दर्शनात्पूर्वाङ्गस्य प्रधानासमकालमनुष्ठानं कथं सम्भवतीति शङ्कनीयम्, प्रधानासमकालमङ्गानुष्ठानस्यैतन्न्यायविषय-त्वेन पूर्वाङ्गमुत्तराङ्गमिति विनिगमनाविरहात् पूर्वाङ्गस्यानुष्ठानम् ॥
अथवा आधानस्य ज्योतिष्टोमाख्ययागाङ्गस्य प्रधानात्पूर्वमनुष्ठानस्य दर्शनात्पूर्वाङ्गस्याप्यनुष्ठानमस्तीति सिद्धमेव ॥
न च द्वितीयया आधानस्याग्निनिष्पत्यर्थत्वम्, न तु क्रत्वर्थत्वमिति प्रागुक्तमिति वाच्यं, आधानशब्दस्य लक्षणया आहवनीयाद्यग्निवाचकत्वेनाग्नीनां क्रत्वङ्गत्वं सम्भवतीति भगवद्भिराचार्यैर्भट्टपादैष्टीकायां व्याख्यातत्वादग्नीनां प्रधानसमकालेऽनुष्ठितानां प्रधानाङ्गत्वस्य सम्भवात्; तन्न्यायेनात्राप्युपद्यत इति न काप्यनुपपत्तिः ॥
अस्मिन्नर्थे श्रुत्यन्तरञ्च नारायणोपनिषदि-निधनपतये नमः ।
निधनपतान्तिकाय नमः ।
ऊर्ध्वाय नमः ।
ऊर्ध्वलिङ्गाय नमः ।
[[८३]]
इत्युपक्रम्य, एतत्सोमस्य सूर्यस्य सर्वलिङ्ग ? स्थापयति ।
पाणिमात्रं पवित्रम् ॥
इति ॥
अत्र लिङ्गस्वरूपनिरूपणप्रस्तावे सर्वलिङ्गं स्थापयतीति सोमसूर्यस्वरूपशक्तिशिवात्मकलिङ्गं स्थापयतीति लिङ्गस्य धारणं विधाय, तच्च कुत्रेत्याकाङ्क्षायां पाणिमन्त्रमिति पाणौ मननात् त्रायत इति व्युत्पत्या पाणिरेव लिङ्गस्याधार इति प्रतिपाद्यते, लिङ्गधारणयोग्यानां षण्णां स्थानानां मध्ये हस्ततलस्यापि धारणयोग्यत्वेन परिगणितत्वात् ।
तदुक्तं शङ्करसंहितायाम्-
यो हस्तपीठे निजमिष्टलिङ्गं विन्यस्य तल्लीनमनःप्रचारः ।
बाह्यक्रियासङ्कुलनिस्पृहात्मा सम्पूजयत्यङ्ग स वीरशैवः ॥
इति ॥
न च कामनया कर्तव्यस्य मार्तिकलिङ्गस्य पूजार्थं पाणिस्थापन परमिदमिति वाच्यं, सर्वलिङ्गमिति सर्वशब्दस्यासङ्कुचितसर्वपरस्य सङ्कोचे प्रमाणाभावात् ।
तथाचैतदुपबृंहणं स्कन्दपुराणे-
सोमस्यैतच्छक्तिरूपं सूर्यस्यैतच्छिवात्मकम् ।
पाणौ च मननात्त्रातं सर्वं लिङ्गं शिवालयम् ॥
संस्थापयेत्सदा देहे पवित्र मुपवीतवत् ॥
इति ॥
अपावित्र्यकालेऽपि पावित्र्यसम्पादकत्वात्सदोपवीतवत्पवित्रमित्यर्थः ॥
अस्मिन्नर्थे श्रुत्यन्तरञ्च ऋग्वेदे-
अयं मे हस्तो भगवानयं मे भगवत्तरः ।
अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ।
अयं माता अयं पिता अयं जीवातुरागमात् ।
अस्याः श्रुतेरर्थः- अयं मे हस्तः भगवान् भगोऽस्यास्तीति
[[८४]]
भगवान् माहात्म्यवानित्यर्थः ।
भगवत्तरः अत्यन्तमाहात्म्यवानित्यर्थः ।
विश्वभेषजः, विश्वस्य मायाप्रपञ्चस्य भेषजः भेषजवान् वैद्यः, अर्श आदित्वादच् ।
शिवाभिमर्शनः ।
अभिमर्शनशब्दो न केवलं स्पर्शमात्रवाची, किन्तु अभितः परितः स्पृशतीत्यभिमर्शनः निजकरतल शाखाभिर्लिङ्गमूर्तेः सर्वाङ्गं स्पृशतीत्यर्थः ।
अयं माता अयं पिता अयं जीवातुर्जीवनौषधरूपः ।
अस्मिन्नर्थे उपबृंहणम्-
अयं मे हस्तो भगवानयं मे भगवत्तरः ।
शिवाभिमर्शनान्नित्यं शिवलिङ्गस्य धारणात् ॥
इति ॥
अस्मिन्नर्थे श्रुत्यन्तरञ्च-
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥
इति ॥
अस्याः श्रुतेरर्थः- यत्-यज्ञोपवीतं, यज्ञो-विष्णुः, “यज्ञो वै विष्णु” रिति श्रुतेः, “यज्ञेश्वरस्त्वमसि यज्ञममुं गृणन्ती"ति चतुर्वेदतात्पर्य सङ्ग्रहकृद्वचनाच्च ।
यज्ञेन विष्णुना पीठरूपं प्राप्तेन, उप-समीपे वीतं-आवृतं, शंवीतं रुद्धमावृत"मित्यमरः ।
इत्थञ्च यज्ञोपवीतं शिवशक्त्यात्मकं लिङ्गमित्यर्थः ।
“विष्णुर्योनिं कल्पय"त्विति श्रुत्या विष्णोः शक्त्यंशत्वात् ।
लिङ्गस्य शिवशक्त्यात्मकतया विष्णोः शक्त्यंशत्वेनाधिष्ठेयपीठात्मकत्वाल्लिङ्गस्य तदधिष्ठातृत्वाद्यज्ञोपवीतशब्देन शिवलिङ्गमुच्यते ।
परमं- सर्वोत्कृष्टं, पवित्रं-परिशुद्धं, प्रजापतेर्ब्रह्मणः पुरस्तात्पूर्वम् ।
“हिरण्यगर्भं जनयामास पूर्वं” “यो ब्रह्माणं विदधाति पूर्वम् ।
यो वै वेदांश्च प्रहिणोति तस्मै” इति श्रुत्या प्रजापतेर्हिरण्यगर्भात्पूर्वकालवर्तित्वं प्रसिद्धम् ।
सहजं स्वभावसिद्धम् ।
यद्वा प्रजापतेः सहजम्, प्रजापतिना-ब्रह्मणा सहजातम्, “घृतेन यजती” त्यत्र घृतस्य
[[८५]]
यजतीतिवदत्र तृतीयार्थे षष्ठी ।
प्रजापतिना सहोत्पन्नमिति यावत् ।
ननु “अजात इत्येव कश्चिद्भीरुः प्रपद्यते रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्य” मिति श्रुत्या सर्वकारणत्वेन “अजमीशानमव्यक्तं कारणात्मानमव्यय” मिति भारते द्रोणपर्वणि वचनाज्जनिरहितस्य लिङ्गरूपस्य शिवस्योक्तश्रुत्या जनिमता ब्रह्मणा सह सहजशब्देन सहजायत इत्यर्थे उत्पन्नेनोत्पत्तिकथनं कथमुपपद्यते, विरोधादिति चेन्न, “त्वष्टारन्तूपलक्षये"दिति तृतीयाध्याये भक्षपेटिकास्थाधिकरणे, “अग्ना३इपत्नीवन्त्सजूर्देवेन त्वष्ट्रा सोमं पिबस्वाहे"ति मन्त्रे पात्निवतग्रहे पत्निवदग्नेर्देवतात्वेऽपि तत्सह पातुस्त्वष्टुर्देवत्वमस्ति वा न वेति संशये अग्नेरिव त्वष्टुरपि सोमं पिबेति मन्त्रवर्णेन पानकर्तृत्वश्रवणाद्देवतात्वमस्तीति प्राप्ते सिद्धान्तः “सहैव दशभिः पुत्रैर्भारं वहति गर्दभी” त्यत्र यथा भारवहनायोग्यानां तत्पुत्राणां सहैवेति सहभावे श्रूयमाणेऽपि गर्दभ्या सह वहनक्रियायामन्वयो नास्ति तद्वदत्रापि त्वष्टुः सह भावेऽपि पानक्रियान्वयाभावाद्देवतात्वं नास्तीत्युक्तम् ।
तन्न्यायेनात्रापि प्रजापतिसहोत्पत्तिप्रतिपादकमन्त्रे प्रजापतेर्जनिमत्वेऽपि शिवस्य जनिमत्वाभावेऽपि सहजशब्दवाच्यत्वमुपपद्यते ।
आयुष्यं-आयुष्करं, अग्र्यं-अग्रेभवं, “अहमेकः प्रथममास"मिति श्रुतेः ।
शुभ्रं निर्मलं तद्यज्ञोपवीतं-लिङ्गं, प्रतिमुञ्च-धारय, प्रतिपूर्वकस्य मुञ्चतेर्धारणार्थकत्वसिद्धेः ।
ते बलं तेजश्च अस्तु ।
अस्मिन्नर्थे उपबृंहणम्-
तदाहूय मुनीन् दृष्ट्वा पूजध्वं मुनिपुङ्गवाः ।
भस्मरुद्राक्षनिष्णाताः स्फाटिकं शैलजन्तु वा ॥
शिवविष्णुमयं लिङ्गं त्रिवृत्सूत्रं सनातनम् ।
यज्ञोपवीतं परमं पवित्रं श्रद्धयासह ॥
कराब्जपीठे पीठे वा भजध्वं श्रुतिकोविदाः ।
[[८६]]
इत्युक्त्वा भगवान् ब्रह्मा सत्यलोकं समागमत् ॥
संस्यूतत्वात्समस्तेषु वस्तुष्वपि च सन्ततम् ।
सूचनात्परमेशस्य सूत्रं लिङ्गमिति स्मृतम् ॥
यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ।
धारणादस्य सूत्रस्य नोच्छिष्टं नाशुचिर्भवेत् ॥
इति ॥
अस्मिन्नर्थे शतरुद्रीये-
या ते रुद्र शिवा तनूरघोरापापकाशिनी ।
तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीः ॥
इति ॥
अस्यार्थः- हे रुद्र, “रुद्दुःखं दुःख हेतुर्वा तं द्रावयति नः प्रभुः ।
रुद्र इत्युच्यते सद्भिः शिवः परमकारणम् ॥” इति सूतसंहितावचनात्,
“रोदयस्यखिलान् जीवानन्तकाले यदृच्छया ।
अतः प्राज्ञैर्मुनिवरैरुद्र इत्यभिधीयसे ॥”
इति शैवपुराणवचनाच्च, रुदं भक्तान्नां तापत्रयात्मकं दुःखं द्रावयसि यापयसीति रुद्र, या ते तव शिवातनूः “रुद्रो वा एष यदग्निः ।
तस्यैते तनुवौ घोरान्याशिवान्ये"ति श्रुत्या, “लिङ्गं शिवा तनूः प्रोक्तं मूर्तिर्घोरतनूः स्मृता ।
अपापेषु च भक्तेषु तयोर्मध्ये शिवा तनूः ॥” इत्युपबृंहणानुसारेण लिङ्गरूपा तनूः, अघोरा नित्यमङ्गलस्वरूपा अपापेषु-पक्वान्तःकरणेषु काशत इत्यपापकाशिनी ।
हे गिरिशन्त, शन्तमया अत्यन्तसुखरूपया तया लिङ्गरूपया तनुवानः, अस्मान् अभिचाकशीः लिङ्गधारणेन लिङ्गाङ्गसामरस्यरूपं परमं सुखं दत्वा प्रकाशयेत्यर्थः ।
[[८७]]
अस्मिन्नर्थे उपबृंहणम्-
या ते रुद्र शिवातनूरघोरापापकाशिनी ।
यजुषा गीयते यस्मात्तस्माच्छैवोऽघवर्जितः ॥
इति ॥
अस्मिन्नर्थे श्रुत्यन्तरम्-
ब्रह्मणश्चोदन्यसि ।
ब्रह्मण आणीस्थः ।
ब्रह्मण आवपनमसि ।
धारितेयं पृथिवी ।
ब्रह्मणा महीधारितमेनेन ।
महदन्तरिक्षं दिवं दाधार पृथिवीं सदेवाम् ।
यदहं वेदेदहं धारयाणि ।
मामद्वेदोऽधिविस्रसत् ।
मेधामनीषे मा विशतां समीची भूतस्य भव्यस्यावरुद्ध्यै सर्वमायुरयाणि सर्वमायुरयाणि ॥
इति ॥
अस्याः श्रुतेरर्थः- ब्रह्मणः-लिङ्गस्य “ब्रह्मेतिलिङ्गमाख्यात” मित्युपबृहणात्, “ब्रह्मप्रजननं काट” मित्यादिवैदिककोशवचनाच्च ।
तस्य लिङ्गस्य चोदनी प्रेरिका, चुद्प्रेरण इति धातोर्ल्युट्प्रत्ययान्तात् “नीप् ।
असि भवसि, हे पृथिवि पुनश्च ब्रह्मणः लिङ्गस्य आणी-अणिः कीलकम् “कीलकेतुद्वयोरणिः” इत्यमरः ।
एकवचने द्विवचनबहुवचनादीनाञ्च मन्त्रान्तरेषु दृष्टत्वादेकवचनार्थे द्विवचनं छान्दसम् ।
आस्थः आ"नित्युपसर्गः ।
व्यवधानेनोपसर्गश्छान्दसः ।
ब्रह्मणः-लिङ्गस्य आवपनं पात्रम् आधारभूता असि; “भूमिरावपनं मह” दितिश्रुतेः ।
आधारत्वं समवायिकारणत्वेन ।
अनेन तैजसानां लिङ्गानां धारणनिवृत्तिस्सूचिता ।
ब्रह्मण आणीस्थ इत्यनेन पीठे कृतसन्धानस्य लिङ्गस्य धारणं सूच्यते, तेनाकृतसन्धानानां स्फटिकलिङ्गानां धारणान्निवृत्तिस्सूचिता ।
ब्रह्मणश्चोदन्यसीत्यनेन सिद्धस्य लिङ्गस्य प्रेरणासम्भवात्तत्सम्बन्धिव्यापारो लक्ष्यते, स च व्यापारो वीरशैवदीक्षारूपः, दीक्षाप्रेरिकासीत्यर्थः ।
तस्माद्वाक्यत्रयेण वीरशैवदीक्षाद्वाराकृतसन्धानमेव पाथिवं लिङ्गं धारणयोग्यमिति वर्णितम् ।
धारितेयं पृथिवी पार्थिवं लिङ्गमित्यर्थः, प्रकृतिवाचकेन स्त्रीलिङ्गान्तेन पृथिवीशब्देन पार्थिवं लिङ्गमिति
[[८८]]
विकृतिरुपचर्यते, मन्त्रान्तरे तथा दृष्टत्वात् ।
“पृथ्वी पूतापुनातु मा” मित्यत्र स्त्रीलिङ्गान्तेन पृथ्वीशब्देन पार्थिवशरीरव्यवहारस्य दृष्टत्वात् ।
एनेन अनेनोपासकेन धारितेयं पृथ्वी पार्थिवलिङ्गं ब्रह्मणा धारितं भवतीत्यर्थः ।
तथाच ब्रह्मशब्दवाच्यलिङ्गधारी “ब्रह्मविद्ब्रह्मैवभवती” तिवद्ब्रह्माभिन्नोभवतीत्यर्थः ।
एनेनेतिधारणकर्तुरुपासकस्य निर्दिष्टत्वात्पुनश्च ब्रह्मणेति ब्रह्मशब्देनैक्यप्राप्त्यर्थ एव, अन्यथा ब्रह्मशब्दस्य वैय्यर्थ्यं स्यात् ।
प्राक्तनवाक्यत्रयेण पृथिवी शब्देन च इष्टलिङ्गधारणपूर्वकमेव प्राणलिङ्गभावलिङ्गधारणं लिङ्गाङ्गसामरस्यरूपब्रह्मप्राप्तिकरं, न केवलं प्राणलिङ्गभावलिङ्गधारणमिति सूचितम् ।
ननु तथाप्येनेनेतीदंशब्दसामानाधिकरण्येन ब्रह्मशब्देनोपासकस्य निर्देशः कथं मुख्यार्थः ।
ब्रह्मप्राप्तेः प्रारब्धक्षयानन्तरभावित्वेन जीवन्मुक्तत्वस्याप्यौपचारिकत्वेन मुख्यतया ब्रह्मशब्देन निर्देशासम्भवादिति चेन्न, पवमानेष्टौ “अग्निहोत्रहवण्या हवींषिनिर्वपती” त्यत्राग्निहोत्रहवणीशब्देन निर्वापसाधकस्य पात्रविशेषस्य निर्देशः कथं सम्भवति आदावाधानपवमानाभ्यामग्नी निपष्पत्यनन्तरमग्निहोत्रहोमस्यानेन पवमानेष्टिह- विर्निर्वापसाधकपात्रेण कर्तव्यत्वेन पवमानेष्टिवेलायामग्निहोत्रस्याकृतत्वात्, अग्निहोत्रं हूयतेऽनेन पात्रविशेषेणेत्यग्निहोत्रक्षवणीशब्दस्य यौगिकत्वेन रूढत्वाभावादिति प्राप्ते, पात्रविशेषे भविष्यद्गत्या होमसम्बन्धस्य सम्भावितत्वेनायोग्यत्वाभावात्तत्पूर्वकालेऽपि निर्देशः सम्भवति ।
तन्न्यायेनात्रापीष्टलिङ्गप्राणलिङ्गभावलिङ्गधारणेन लिङ्गाङ्गसामरस्यरूपमुक्तियोग्ये उपासके ब्रह्मशब्देन निर्देशः सम्भवतीति ।
ततः परमुपासकस्य लिङ्गधारिणः सकलजगद्धारकत्वेन प्रशंसा क्रियते महदित्यादिना ।
महत्-अन्तरिक्षं महीधारितं, मह्या अन्तरिक्ष धारकत्वन्त्वाधेयानामुपरितनत्वादाधारस्याधस्तनत्वादौपचारिकम् ।
अन्तरिक्षमाकाशं दिवं स्वर्गं सदेवां बहुदेवसहितां पृथ्वीं दाधार, दधारेतिवक्तव्ये दाधारेति छान्दसं रूपम् ।
अत्र धातोः कर्त्राकाङ्क्षायां
[[८९]]
सत्यां पूर्वमिदं शब्दनिर्दिष्ट इष्टलिङ्गधारणक्रियाकर्तैव प्रशंसनीयत्वेन सन्निधानवशादन्वेति ।
विभक्तिविपरिणामः कल्पनीयः ।
तस्मादयमिति कर्तृनिर्देशः ।
उपासकः जगत्त्रयञ्च धारयति, अनेनापिजगत्त्रयधारणशब्देनेष्टलिङ्गप्राणलिङ्गभावलिङ्गधारणं सूचितम् ।
यल्लिङ्गं पूर्वोक्तलक्षणलक्षितत्वेन अहं वेद, इत् एतल्लिङ्गं धारयाणि ।
ननु पूर्वं धारितेयं पृथिवीत्यनेन पार्थिवलिङ्गधारणस्य प्रतिपादनात्पुनर्लिङ्गधारणप्रतिपादनं किमर्थमिति चेन्न, पूर्वोक्तज्ञानवतो लिङ्गधारणे योग्यतानान्यस्येति प्रतिपादयितुं, ऐहिकञ्च फलमस्तीति च वक्तुमाम्रेडनमिति न कोऽपि दोषः ।
तदैहिकफलमेव प्रतिपादयति मेधामनीष इति ।
मेधा धारणात्मिका बुद्धिः, मनीषा केवला बुद्धिः ते मेधामनीषे समीचीत्येकवचनं छान्दसम् ।
समीचीने विषयादिपरित्यागेन प्रत्यगाभिमुख्यकारिण्यावित्यर्थः ।
मा माम् आविशताम् आसमन्ताद्विशतां सर्वदा मयि आसाताम् ।
मत् मत्तः पञ्चाक्षरीमन्त्रराजो वेदः माधिविस्रसत् स्रस्तो माभूत्, स्रंसु अवस्रंसन इति धातोर्माङ्योगादडागमनिषेधः, “नित्वान्नलोपः ।
पुनश्च फलान्तरं वक्ति भूतस्येत्यादिना ।
भूतस्येतिलब्धस्य पालनमुच्यते, भव्यस्येत्यनेन योग उच्यते “अनन्यलभ्यो योगः स्यात् क्षेमस्तत्परिरक्षण” मित्युक्तत्वात् ।
योगस्य क्षेमस्य चावरुद्ध्यै प्राप्त्यै सर्वमायुरयाणि, सर्वमायुरयाणि, वेदोक्तं शतमायुः प्राप्नुयाम् ।
तस्मादनया श्रुत्या कृतसन्धानस्य पार्थिवस्यैव लिङ्गस्य दीक्षापुरस्सरं धारणे लिङ्गाङ्गसामरस्यरूपमोक्षप्राप्तिरामुष्मिकफलं, पञ्चाक्षरीमन्त्राद्यविस्मरणे विषयत्यागपूर्वकं सम्यग्ज्ञानसिद्धिर्योगक्षेमप्राप्तिः श्रुत्युक्तसर्वायुःप्राप्तिश्च फलमिति निर्णीयते ॥
पुरस्तात्प्रस्तरङ्गृह्णाति मुख्यमेवैनङ्करोति ।
तस्मिन्पवित्रे अपि सृजति ।
यजमानो वै प्रस्तरः प्राणापानौ पवित्रे यजमान एव प्राणापानौ दधाति ।
[[९०]]
इत्यनयापि श्रुत्या लिङ्गधारणं विधीयते ।
तथाहि- प्रस्तरं लिङ्गाकारमुपलविशेषं “प्रस्तरो जनिम प्राणो लिङ्ग"मिति कोशात् ।
पुरस्तात् प्रथमं गुरुर्गृह्णाति; तस्मिन्पवित्रे अपि सृजति, पवित्रशब्दस्य देवतासामान्यवाचकत्वस्य वैजयन्तीकोशसिद्धत्वेन पवित्रे देवते शिवशक्ती गृह्येते ।
ते तावद् गुरुर्दीक्षाकाले कलावाहनक्रमेण पीठगोलकयोः, अपि सृजति, अपि शब्दो भिन्नक्रमः ।
सृजत्यपीत्यन्वयः, योजयत्यपीत्यर्थः ।
गृह्णातिना सह समुच्चयार्थः ।
अनेन कलावाहन पूर्वकं शिवशक्त्यात्मकं गुरुणा दत्तं लिङ्गं गृह्णाति धायेदित्यर्थः ॥
ननु गृह्णातीत्यत्र लिङ्लोट्तव्यदादिप्रत्ययाभावेन वर्तमानापदेशेन लटा न धारणं विधीयत इति चेन्मैवम्, “औदुम्बरो यूपो भवति, व्रीहीन्प्रोक्षती"त्यादिवल्लेट्परिणामेन विधायकत्वसम्भवात् ।
नन्वस्तु विधायकप्रत्ययः, धारणवाचकशब्दाभावाद्ग्रहणवाचकगृह्णातेः श्रवणात्कथं धारणं विधीयेत ।
न च गृह्णातिना धारणं लक्ष्यत इति वाच्यं, ङ विधौ परः शब्दार्थ” इति न्यायात् ।
तस्मात्कथं धारणं विधीयत इति चेन्न, एतदुपरितने “धारयन् प्रस्तरम् ।
परिधीन् परिदधाती"ति वेष्टनविधायके वाक्ये धारणस्य शतृप्रत्ययेनानूद्य मानत्वादनुवादस्य पुरोवाद- सापेक्षत्वाद्गृह्णातीत्यत्र धारणं विधीयत एव, अन्यथा अनुवादस्याकस्मिकत्वं स्यात् ।
तस्मात् सिद्धवन्निर्देशबलाद्धारणं विधीयत एवेत्यभ्युपगन्तव्यम् ॥
अथ ङ विधौ परः शब्दार्थ” इति न्यायेन गृह्णातेर्लक्षणया धारणपरत्वं कथं कल्प्यत इति चैन्मैवम्, “वायव्यं श्वेतमालभेत भूतिकामः ।
सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकाम” इत्यत्रालभतिनिर्वपतिभ्यां यजत्यभावेऽपि यथा योगं वाचकशब्दं कल्पयित्वा यागौ विधीयेते, अन्यथा आलभति निर्वपत्योः स्पर्शनपृथक्करणरूपार्थयोर्योगे कर्तव्येऽन्यथानुपपत्या यागीयद्रव्ये प्राप्तयोर्विधानायोग्यत्वाद्वैय्यर्थ्यं स्यात् ।
वैय्यर्थ्याद्वरं यथाकथञ्चिदर्थकल्पनम् ।
तस्मादालभति निर्वपती अर्थप्राप्तौ स्वार्था वनूद्य यागकल्पनां सूचयत इति द्वितीयाध्याये तृतीयपादे निर्णीतम् ॥
[[९१]]
तन्न्यायेनात्रापि केवलगृह्णातेर्धारणे कर्तव्येऽनुपपत्त्या प्राप्तत्वेन विधातुमयोग्यत्वाद्धारणं कल्प्यते ॥
किञ्च पञ्चमाध्याये द्वितीयपादे “द्विर्हविषोऽवद्यती"ति विषयः श्रूयते ।
तत्र किं पदार्थानुसमयः काण्डानुसमयो वेति संशये प्राप्ते पदार्थानुसमय एव, अवद्यतिमात्रस्य श्रूयमाणत्वात् ।
तस्मादाग्नेयस्य पुरोडाशस्यावदानं कृत्वा यागमनुष्ठाय, पुनश्च हविरन्तरस्यावदानं कृत्वा यागान्तरमप्यनुष्ठाय हविरन्तरेऽपि तथा कर्तव्यमिति पूर्वपक्षे प्राप्ते, अर्थतः प्राप्तस्य अवदानमात्रस्य विधौ विधेर्वैय्यर्थ्यं स्यात्, अवदानस्यादृष्टार्थता च स्यात् ।
अतोऽवदानं न विधीयते, किन्तु द्वित्वसङ्ख्या विधीयते; अवदानन्तु प्रधानस्य यागस्यैकदेशः, दृष्टे सम्भवत्यदृष्टस्यान्याय्यत्वादिति न्यायेन यागार्थश्च ।
तस्मादवदानमात्रानुष्ठानस्यैकदेशरूपत्वेन यागाननुष्ठाने सति पदार्थानुष्ठानस्यैव जातत्वाद्धविरन्तरस्यावदानमकृत्वा यागोऽनुष्ठेय इति काण्डानुसमय इत्युक्तम् ।
तन्न्यायेनात्रापि केवलं लिङ्गग्रहणमात्रविधौ ग्रहणस्यैकदेशत्वेन पदार्थत्वाभावेन धारणपर्यन्तानुधावनमावश्यकं, अन्यथा ग्रहणमदृष्टार्थं स्यात् ।
अतो धारणेन मिलितं ग्रहणमेकः पदार्थः ।
तस्माद्दृष्टार्थतापि सिद्ध्यति ।
अत एकपदार्थसिद्ध्यर्थं धारणं विधीयते ।
अपि च गृह्णातेर्धारणे लक्षणाङ्गीक्रियते ।
न च ङ विधौ परः शब्दार्थ” इत्युक्तमिति वाच्यं, प्राचीमाहरतीत्यत्र चतुर्थाध्याये शाखायां तत्प्रधानत्वा"दिति द्वितीयपादे द्वितीयाधिकरणे विधिवाक्यस्य लक्षणाङ्गीकारात् ॥
इत्थं खलु तत्र निर्णयः-“प्राचीमाहरती"ति शाखाहरणप्रकरणे विद्यमानेन वाक्येन शाखाया आहरणं विधीयते वा ? उत स्वार्थो विधीयते ? इति विशये प्राप्ते ङविधौ परः शब्दार्थ” इति न्यायेन शाखाया आहरणं न कर्तव्यं, किन्तु मुख्यार्थस्य विधानमिति प्राप्ते, राद्धान्तः- यदि स्वार्थ एव तात्पर्यमस्य वाक्यस्य स्यात्तदा अग्निना सिञ्चेदितिवद्वाक्यस्यायोग्यार्थदिगाहरणप्रतिपादकत्वेनाप्रामाण्यं स्यात्, अतो मुख्यार्थं परित्यज्या-
[[९२]]
मुख्यार्थः कल्पनीयः ।
तत्रामुख्यार्थकल्पनेऽपि प्राचीं दिशं प्रतिशाखामाहरतीति प्रकरणबशाद्यद्यर्थः कल्पेत तदा पदद्वयाध्याहारस्य कर्तव्यत्वेन महान्दोष आपतेत् ।
यदि प्रकरणवशाच्छाखा लभ्यत इति तद्वाचकः शब्दो नाध्याहर्तव्यस्तदापि प्रतिशब्दाध्याहारदोषो दुर्वार एव ।
तस्मात्प्राचीं शाखामाहरतीति प्राचीशब्दस्य प्राङ्मुख्यां शाखायां लक्षणामङ्गीकृत्य पूर्वोक्तदोषाः परिहरणीयाः ।
तन्न्यायेनात्र गृह्णातेः स्वार्थे पर्यवसाने सत्यत्यन्तवैय्यर्थ्येनादृष्टार्थकल्पनागौरवाधारणे लक्षणावश्यमङ्गीकर्तव्यैव ॥
अथवा “धारयन् प्रस्तरं परिधीन्परिदधाती"त्युत्तरवाक्य एव लिङ्गधारणविधिः कल्प्यते ।
नच धारयन्निति शतृप्रत्ययस्य विद्यमानत्वात्तस्य लडर्थे विधीयमानत्वात्तस्य च विधायकत्वाभावात्कथमत्र धारणविधिरिति वक्तुं शक्यत् इति वाच्यं, “तावब्रूतामग्नीषोमावाज्यस्यैव नावुपांशुपौर्णमास्यां यजन्” इत्यत्रेव विधेः सम्भवात् ।
अथवा “उपरि हि देवेभ्यो धारयती” तिवदत्रापि विधेरङ्गीकारात् ॥
नच तत्र धारयतीति तिङ् विभक्तेः श्रूयमाणत्वात्तत्र लेट् त्वपरिणामस्य कर्तुं शक्यत्वात्तत्र विधिः सम्भवति, अत्राख्यातप्रत्ययाभावात्कथं विधिरस्तीति प्रतिपादयितुं शक्यत इति वाच्यं, उपरि हि देवेभ्यो धारयतीत्यत्र हिशब्दश्रवणेन श्रूयमाणेऽप्याख्याते कुण्ठितशक्तिके लेट् त्वपरिणामस्यैव कर्तुमशक्यत्वात्तत्र कथं विधिरङ्गीक्रियतां, अङ्गीक्रियते तु ।
तन्न्यायेन धारयन्प्रस्तरमित्यत्रापि विधिरङ्गीक्रियते ।
तदुक्तं द्वितीयाध्याये- “देवांश्च याभिर्यजते ददाति चे” त्यत्र यजत इत्यादिषु यच्छब्दामन्त्रणहिशब्दोत्तमपुरुषाणां विधिकल्पनकुण्ठकत्वस्य प्रतिपादनाद्विधिकल्पनमयुक्तम् ॥
ननु तथापि वैषम्यमस्ति सुबन्तत्वेन श्रवणाद्विधेरेवाभावात्, तत्र ति"नन्तस्य श्रूयमाणत्वेन यथाकथञ्चिद्विधिकल्पना सम्भवतीति चेन्न, स्वरूपायोग्यस्य विशीर्णदण्डस्य यथा घटजनकत्वं न भवति, तद्वदत्रापि ति"नन्तत्वेन परिदृश्यमानेऽपि “देवेभ्यो धारयती"त्यत्र सर्वथा विधेरभावात्,
[[९३]]
धारयन् धारयतीत्युभयोर्वैषम्यमेव नास्तीति प्रतिबन्दी ।
ननु प्रतिबन्द्या अनुत्तरत्वेन कथं तत्र समाधानमिति चेदित्थं “विधिस्तु धारणेऽपूर्वत्वा"दिति तृतीयाध्याये चतुर्थपादे पञ्चमाधिकरणे धारयन्नित्यत्र विधिरनुवादो वेति संशये, हिशब्दश्रवणाद्विधिर्न सम्भवतीत्यनुवाद एवेति पूर्वपक्षे, विधेरेवायं, अनुवादस्य पुरोवाद सापेक्षत्वेन देवतोद्देश्यकद्रव्यस्य समिध उपरि धारणस्य लोकतोऽप्राप्तत्वात् ।
नच यद्यदन्तर्हितं द्रव्यं तत्तदाच्छादयतीति न्यायेन समिध उपरि धारणं सिद्धमिति वाच्यं, विधेर्यत्रकुत्राप्यभावात् ।
अतो हिशब्दे श्रूयमाणेऽप्यपूर्वत्वादप्रप्तत्वाद्विधिरस्तीति निर्णयः ।
एवं तादृशधारणप्राप्तेरत्र शतृप्रत्ययस्थलेऽपि समानत्वाद्विधिः कल्पनीय एव ।
अत एवैतादृशधारणं दृष्टान्तीकृत्य भगवता बादरायणेन ब्रह्ममीमांसासूत्रकारेण तृतीयाध्याये चतुर्थपादे “ब्रह्मसंस्थोऽमृतत्वमेती"ति वाक्ये “विधि र्वा धारणव"दिति सूत्रेण सन्यासविधिः समर्थितः ।
तस्मादत्र प्रकृतेऽपि धारयन्प्रस्तरमित्यत्र शतृप्रत्ययान्तेन धारयन्निति पदेन विधिविपरिणामे, रात्रिसत्रस्थले “प्रतितिष्ठन्ति हवा एते, य एता रात्री रुपयन्ती"ति वाक्ये ये प्रतितिष्ठासन्ति, त एता रात्रीरुपेयुरिति विधेः सन्प्रत्ययविपरिणामवत्, धारयन्प्रस्तरमित्यत्रापि प्रस्तरं धारयेदिति विधेः शतृप्रत्ययविपरिणामे न किञ्चिदपि बाधकम् ।
तस्मादनयापि श्रुत्या वैदिकैर्वीरशैवैर्मुमुक्षुभिरवश्यं लिङ्गधारणं कर्तव्यमिति सिद्धम् ।
“पुरस्तात्प्रस्तरं गृह्णाति, मुख्यमेवैनं करोति”-“प्रस्तरं लिङ्गं धारणार्थं गृह्णाति गुरुः, एनं प्रस्तरं यावज्जीवं धारणार्थत्वान्मुख्यं करोत्युखावदित्यर्थः ।
तस्मिन् लिङ्गे पवित्रे देवते शिवशक्ती सृजति कलावाहनविधिना लिङ्गपीठयोः शिवशक्ती आवाहयतीत्युक्तमेवार्थमुपरितनवाक्यं प्रशंसति, “विधिना त्वेकवाक्यं स्या” दिति न्यायादर्थवादसापेक्षत्वादावाहनविधेः ।
“यजमानो वै प्रस्तरः” यजमानो लिङ्गधारणकर्ता प्रस्तरो लिङ्गमेव, लिङ्गाङ्गयोः सामरस्यस्य गुरुणा कृतत्वात् ।
[[९४]]
“प्राणापानौ पवित्रे” पवित्रे शिवशक्ती प्राणापानौ, लिङ्गस्य- ऊर्ध्वं विद्यमानत्वेन प्राणस्वरूपत्वं, पीठस्याधस्थत्वादपानस्वरूपत्वम् ।
अत एतादृशदेवतावाहनेन लिङ्गे प्राणापानौ यजमान एव दधाति ।
तस्माल्लिङ्गे देवतावाहनं यजमानकृतप्राणापानधारणत्वेन प्रशस्यते ।
एवं गुरुणा वीरशैवदीक्षापुरःसरं शिवशक्त्यात्मकतामापादितं प्रस्तरं= लिङ्गं धारयन्= धारयेत् ।
“उपांशुपौर्णमास्या"मिति वदत्रैवं लिङ्गधारणविधिः ।
“परिधीन्परिदधाति” परिधिरिव परिवेष इव विद्यमानत्वात्परिधिः, अग्निर्माणवक इति वद्गौणप्रयोगः ।
परिदधाति कण्ठे बध्नाति, परिधिशब्दस्वारस्यात्कण्ठे बन्धनं द्योत्यते; परिधीनिति बहुवचनं “अदितिः पाशान्प्रमुमोक्तुदेव” इत्यत्रेवैकस्मिन् लिङ्गधारणगुणे सम्भवति ।
एतच्छ्रुतिप्रतिपदार्थवशेन, पूर्वोक्तन्यायोपबृंहितवाक्यार्थवशेन च, लिङ्गधारणमवश्यमाचरणीयमिति सिद्धम् ॥
अस्मिन्नर्थे श्रुत्यन्तरञ्च प्रमाणम्-
भर्ता सन्भ्रियमाणो बिभर्ति ।
एको देवो बहुधा निविष्टः ।
यदाभारं तन्द्रयते स भर्तुं निधाय भारं पुनरस्तमेति ॥
इति ॥
अस्याः श्रुतेरर्थः- भर्ता सन् रक्षकः सन्, डुभृञ् धारणपोषणयोरिति धातुः ।
“भर्ता धातरि पोष्टरी"ति नानार्थेऽमरः ।
भ्रियमाणः ध्रियमाणः, भृञः कर्मणि शानच् ।
एको देवः महादेवः, “एक एव रुद्रो न द्वितीययाय तस्थे” इति तैत्तिरीयश्रुत्या, “एको हि रुद्रो न द्वितीयाय तस्थु"रिति श्वेताश्वतरश्रुत्या, शिव एको ध्येयः शिवङ्कर” इत्यर्थशिखया, “एकमेवाद्वितीयं ब्रह्मे"ति छान्दोग्योपनिषदा च, एकशब्दस्य शिवशब्दसामानाधिकरण्येन बहुषु स्थलेषु शिवैकपरत्वस्य प्रसिद्धत्वाद्देवशब्दस्य च सत्यभामेत्यत्र भामेतिवन्महादेव इति वक्तव्ये देव इति नामैकदेशे नामग्रहणेन महादेव इत्यर्थे, शिवलिङ्गमिति फलितोऽर्थः ।
दीव्यति प्रकाशत इति देवः,
[[९५]]
बहुधा बहुप्रकारं निविष्टः स्थितो भक्तान् बिभर्ति पुष्णाति, स्थूलसूक्ष्मकारणशरीरेष्विष्टप्राणभावलिङ्गरूपेण, एतद्विलासरूपतापन्नाचारादिमहालिङ्गान्तषड्विधलिङ्गस्वरूपेण, ज्ञानेन्द्रियान्तःकरणप्राणधातुचक्रेषु च तत्प्रकाशरूपेण निविष्टस्तत्तदिन्द्रियसमागततत्तद्विषयजातं तेषु तेषु स्थित्वा गृह्णातीति भावः ।
बिभर्तेः सकर्मकत्वात्कर्माकाङ्क्षायां भक्तः कर्मत्वेन, भ्रियमाणा इत्यत्र धारणकर्तृत्वेन चोपस्थितः ।
भारं भ्रियत इति व्युत्पत्त्या कर्मणि घञ् ।
भारं भ्रियमाणं लिङ्गं भर्तुं धारयितुं यदा यस्मिन्काले तन्द्रयते आलस्यादिना प्रमादयुक्तो भवति स उपासकः पुनस्त्वर्थः, भारं भ्रियमाणं देवं निधाय शरीराद्वियोज्य क्वचिन्निक्षिप्य अस्तमेति शरीरादर्शनद्वारा कैवल्यं प्राप्नोति ।
अयं भावः-लिङ्गाङ्गसामरस्यवतो वीरशैवस्येष्टलिङ्गस्यैव प्राणरूपत्वेन, प्रमादात्तत्कलान्यूनतासम्पादकच्छेदभेदादिवैकल्ये प्राप्ते महालिङ्गैक्यरूपकैवल्यप्राप्तये शरीरशोषणद्वारा अदर्शनीयत्वं प्राप्नुयादिति ।
अस्मिन्नर्थे प्रमाणानि-
नादरूपः शिवः साक्षाल्लिङ्गमित्यभिधीयते ।
पीठिका परमा शक्तिः सा च वै बिन्दुरूपिणी ॥
तयोः सम्मेलनाद्देवि कला तत्र प्रतिष्ठिता ।
सा कला परमा सूक्ष्मा व्याप्ता सर्वत्र सर्वदा ॥
तिलेषु तैलं पुष्पेषु गन्धो यद्वद्विभासते ।
कामिके-
बिन्दुनादात्मकं सर्वं जगत्स्थावरजङ्गमम् ।
बिन्दुः शक्तिः शिवो नादः शिवशक्त्यात्मकं जगत् ॥
नादाधारः स्वयं बिन्दुर्बिन्द्वाधारमिदं जगत् ।
जगदाधारभूतौ हि बिन्दुनादौ व्यवस्थितौ ॥
[[९६]]
बिन्दुनादयुक्तं सर्वं सकलीकरणं भवेत् ।
सकली करणाज्जन्म जगत्प्राप्नोत्यसंशयम् ॥
बिन्दुर्वेदिः शिवो नादः शिवलिङ्गन्तु कथ्यते ।
वीरशैवक्रमः प्रोक्तः प्रायश्चित्तविवर्जितः ॥
यद्दत्त गुरुणा लिङ्गमवधानेन धारयेत् ।
प्रमादात्पतिते लिङ्गे प्राणानपि परित्यजेत् ॥
वातुलतन्त्रे-
प्राणत्यागभये प्राप्ते चोरभूतग्रहैर्जलैः ।
अप्रमादे प्रमादे च प्राणलिङ्गं न वर्जयेत् ॥
प्राणलिङ्गे तु विच्छिन्ने लिङ्गे प्राणाद्गमिष्यति ।
परोक्षे प्राणसंस्थायां रौरवं नरकं व्रजेत् ॥
प्राणलिङ्गे तु विच्छिन्ने लिङ्गे प्राणान्परित्यजेत् ।
पुनर्दीक्षां प्राप्य तिष्ठन् रौरवं नरकं व्रजेत् ॥
तस्मात्प्राणमयं लिङ्गं यावज्जीवं समर्चयेत् ।
तस्मिन्नष्टे तव प्राणान्परित्यज महामते ॥
चन्द्रज्ञानागमे-
प्राणास्तु वीरशैवानामिष्टलिङ्गे वसन्ति हि ।
रक्षणीयं प्रयत्नेन लिङ्गप्राणैरतन्द्रितैः ॥
प्रमादात्पतिते भिन्ने प्रायश्चित्तं न विद्यते ।
प्राणत्यागात्परं तस्मादवधानेन धारयेत् ॥
लिङ्गे नष्टेऽप्यन्यलिङ्गं विमोहाद्धारयेद्यदि ।
पतितो लिङ्गविभ्रष्टो रौरवं नरकं व्रजेत् ॥
[[९७]]
लिङ्गं पतिरिति प्रोक्तमङ्गनाङ्गमुदाहृतम् ।
यश्चान्यलिङ्गदृग्भ्रष्टस्त्वन्यगा विधवा यथा ॥
उमामहेश्वरसंवादे-
कायसम्बन्धिलिङ्गेन रहितश्चेत्पिशाचवत् ।
निमिषार्धवियोगेन विशेषात्पातकी भवेत् ॥
गलिते प्राणलिङ्गे यः प्राणान्धत्ते विमूढधीः ।
स चण्डाल इति ज्ञेयः शिवद्रोही न संशयः ॥
सूक्ष्मे-
लिङ्गलोपादिदोषेषु व्रतचर्यादिलोपने ।
प्राणान्धत्ते प्राणलिङ्गी सोऽन्धे तमसि मज्जति ॥
दैवाद्विनष्टे तल्लिङ्गे न धार्यं लिङ्गकान्तरम् ।
तस्मिन्नेव पुनर्लब्धे निर्दुष्टं धारयेच्च तत् ॥
योगजे-
इष्टलिङ्गं विभिन्नं चेद्भूयो भोक्तुं यदीच्छति ।
तीर्थपानं सुरापानमन्नं गोमांसभक्षणम् ॥
शिरो योनिर्गोमुखञ्च मध्यं वृत्तञ्च पीठकम् ।
षट्स्थाने छिद्रयोगे तु तल्लिङ्गं नैव धारयेत् ॥
तथापि धारणाद्योगी रौरवं नरकं व्रजेत् ।
व्रीहिव्रीह्यर्धविच्छिन्नं केशग्राह्यं प्रमादतः ॥
पीठादिलिङ्गपर्यन्तं त्यजेत्प्राणान्नगात्मजे ॥
चन्द्रज्ञानागमे-
यवप्रमाणमात्रन्तु भिन्ने लिङ्गे महेश्वरि ।
आत्मसंशोषणाद्देहं विसृजेन्मम तुष्टये ॥
[[९८]]
पीठस्थाने भिद्यते चेद्वृत्तस्थाने च भिद्यते ।
गोमुखे यदि भेदः स्याद्योनौ गोलक एव वा ॥
बालाग्रमात्रं सूक्ष्मञ्चेदथवा त्रसरेणुवत् ।
अथ रेणुप्रमाणं वा न दोषश्छेदभेदयोः ॥
दृष्ट्वैवं धारयेद्देवि सर्वशास्त्रे विनिश्चयः ॥
किरणागमे-
यवमात्रं यदिच्छिन्नं तदर्धार्धमथापि वा ।
पीठादिलिङ्गपर्यन्तं त्यजेत्प्राणान्नगात्मजे ॥
तण्डुलार्धं पीठमध्ये तदर्धं वृत्तगोमुखे ।
तिलमात्रं योनिलिङ्गे तदाधिक्ये त्यजेदसून् ॥
तण्डुलस्य द्विभागेन वृत्तगोमुखगोलके ।
त्रिस्थाने स्फुटिते लिङ्गे तल्लिङ्गं नैव धारयेत् ॥
लिङ्गार्थमेव यः प्राणांस्त्यजेदैक्यं दृढं मयि ।
स प्राप्नोति न सन्देहः सत्यं सत्यं वरानने ।
लिङ्गार्थं वापि गुर्वर्थमाचारार्थं तथैव च ॥
चरार्थं वा प्रसादार्थं तनुत्यागो विधीयते ।
एवं निष्ठापि यस्यास्ति गृहस्थोऽपि विमुच्यते ॥
इष्टलिङ्गस्य वैकल्ये प्राणत्यागं समाचरेत् ।
शस्त्रशैलपयः पाशसमाध्यग्निविवर्जितः ॥
त्यक्त्वान्नं भस्मरुद्राक्षधारणं नियमान्वितः ।
कृत्वा जपन्मनुं शैवं देहं रुद्रेण योजयेत् ॥
इत्युक्तश्रुत्यागमस्मृतिपुराणेषु श्रूयमाणानामेतेषां वचनानाम-
[[९९]]
यमभिप्रायः- पीठगोलकयोर्बिन्दुनादस्वरूपयोर्गुरुवर्यकृतमेलनानन्तरं शिष्यकृतब्रह्मरन्ध्रस्थितचित्कलां सुषुम्नामार्गेण कृतभावमनोदृष्टिद्वारा स्वरूपतामापाद्य स्थापितयोः सकलीकृतलिङ्गशब्दितत्वात्, तस्यैव जगत्कारणत्वात्, तस्य लिङ्गस्य दीक्षासमये आत्मनो भावलिङ्गं प्राणानां प्राणलिङ्गं स्थूलशरीरस्येष्टलिङ्गं निष्कलं सकलनिष्कलं सकलञ्च यदाप्रभृति गुरुणा योजितं तदाप्रभृति तल्लिङ्गं शिष्यस्य प्राणलिङ्गं भवति ।
तस्मात्तस्य लिङ्गस्य वैकल्ये प्राणवियोगो मुमुक्षूणां वीरशैवानां युक्त एव ।
अत एवोक्तं प्रायश्चित्तविवर्जित इति ।
तस्मादवहितेन मनसा लिङ्गं धर्तव्यम् ।
प्रमादाद्येनकेन चिद्धेतुना लिङ्गवियोगिनः प्राणत्राणार्थं लिङ्गान्तरधारणे तद्धारणकर्तुः शिवद्रोहित्वेन, कर्मचण्डालत्वेन चोरव्याघ्रादिभीत्या प्राणभयप्रसक्तावप्यप्रमादपूर्वकत्वेन पुनर्धारणार्थं दीक्षान्तरस्य अकार्यत्वेन तस्य च नरकसाधनत्वेन, लिङ्गधारणकर्तुर्वीरशैवस्य लिङ्गपतिकतया लिङ्गविप्रयोगे पतिवियुक्ततया विधवासाम्येन, लिङ्गे च्छेदभेदादिवैकल्ये सम्भाविते व्रताचरणनियमानां विमोहविस्मरणादिना लोपसम्भवेऽपि प्राणान् धारयितुरन्धतमस प्रवेशयोग्यत्वेन, प्रमादान्नष्टस्य पुनर्दृष्टस्य तस्यैव निर्दृष्टस्य धार्यत्वेन, इष्टलिङ्गस्य वैकल्ये सम्प्राप्तेऽपि भोक्तुः पातुश्च भोज्यपेययोर्गोमांससुरासमानत्वेन, लिङ्गस्य च शिरोवृत्तादिषट्स्थानान्यतमस्थाने छिद्रयोगे अधार्यस्य तस्य धारणे तधारयितू रौरवनरकपतनभाक्त्वेन, लिङ्गे स्थानभेदेन छेदादिपरिमाणेयत्तया लिङ्गस्य ग्राह्यत्वाग्राह्यत्वविवेकेन, लिङ्गार्थं गुर्वर्थं शिवाचारार्थं चरार्थं प्रसादार्थं देहशोषणपूर्वकप्राणत्यागस्य वैधत्वेन शिवसामरस्यप्रापकत्वेन, प्राणत्यागस्य शस्त्रादिसाधनव्यतिरेकेण अन्नत्यागपूर्वकं देहशोषणेन भस्मरुद्राक्षधारणादिशैवधर्मानुष्ठाननियमपूर्वकं कर्तव्यत्वेन च श्रवणाल्लिङ्गधारणं वीरशैवैर्मुमुक्षुभिरवश्यं कर्तव्यमिति सिद्धम् ॥
[[१००]]
इदं लिङ्गधारणं भगवतो वेदव्यासस्याप्यभिमतमिति तत्सूत्रार्थसङ्गतिः क्रियासारकारैः प्रदर्शितः-
तन्निष्ठस्य च मोक्षोऽत्र ह्युपदेशाद्विधीयते ।
तन्निष्ठा ब्रह्मनिष्ठा हि ते वै मोक्षाधिकारिणः ॥
तस्माद्विधानमिति च यदुक्तं तन्मृषां भवेत् ।
जगतः कारणं ब्रह्म चोपास्यं हि मुमुक्षुभिः ॥
नायमात्मेति वाक्येन शिवस्य वरणं तनोः ।
वरणं नाम तद्रूपधारणं विधिमार्गतः ॥
लिङ्गाङ्गेत्यादिवाक्येन मोक्षमार्गैकतत्परैः ।
अमृतस्येति वाक्येन धारणं प्रतिपादितम् ॥
तन्निष्ठा एव मनुजा अतिवर्णाश्रमे रताः ।
अथोमित्यादि वाक्येन निश्चितं लिङ्गधारणम् ॥
तन्मोक्षसाधनं पुण्यं तद्धार्यं हृदयाम्बुजे ॥
इति ॥
तथा “छन्दोभिधाना"दित्यादिसूत्रेऽपि “चेतोऽर्पणं धारणं च हृदयाम्भोजमध्यमे” इति ॥
तथैव “जीवमुख्यप्राणलिङ्गा"दित्यादि सूत्रेऽपि “अहं सञ्ज्ञाविनिर्दिष्टं हृदब्जमतिदुर्लभ"मित्युपक्रम्य, “तस्माद्धृद्यम्बुजे धार्यं ब्रह्मलिङ्गं परात्परम् ।
प्राणादप्यधिकं लिङ्गं यस्माच्छ्रेयः परं भवेत् ॥
तत्प्राणलिङ्गं मोक्षार्थी विदध्याद्धृदयाम्बुजे” इति प्रथमाध्याये प्रथमपादान्ते प्रतिपादितम् ॥
क्रियासारे “तन्निष्ठस्य मोक्षोपदेशात्” इति सूत्रे कारिकारूपेण निबद्धानां वचनानामयमभिप्रायः- प्रधानकारणत्वनिराकरणप्रस्तावनायामीक्षत्यधिकरणे “तदैक्षत बहुस्यां प्रजायेये"तीक्षति श्रवणं “कूलं पिपतिषती"तिवत्प्रधाने औपचारिकमिति चेन्न, ईक्षणकर्तुः
[[१०१]]
श एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मे"त्यात्मशब्देन व्यवहारात् ।
न च ममात्मा भद्रसेन इति राजवचने सेनापतौ भद्रसेने आत्मशब्दव्यवहारादात्मशब्दोऽपि गौण इति वाच्यं, “तन्निष्ठस्य मोक्षोपदेशात् ।” इति सूत्रस्य तन्निष्ठस्यात्मशब्दितब्रह्मनिष्ठस्य मोक्षोपदेशात्, “तस्य तावदेव चिरं यावन्न विमोक्ष्ये, अथ सम्पत्स्ये” इति श्रुतेरित्यर्थमुपवर्ण्य, जगत्कारणं मुमुक्षुभिरुपास्यम् ।
ब्रह्मनिष्ठा सा च शिववरणरूपा, तथाच श्रुतिः- ङायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
य मे वैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वा"मिति ।
तच्च शिवविवरणं विध्युक्तेन मार्गेण तद्रूपधारणं, तच्च “लिङ्गं शिवा तनुः प्रोक्तं सा चाघोरतनुः स्मृते” त्युपबृंहणानुरोधाल्लिङ्गस्य धारणम् ।
तत्र किं प्रमाणमित्याशङ्क्य, धारणप्रतिपादकमुपनिषद्वाक्यद्वयमुदाहरति ।
वेदान्तसारोपनिषदि- अथाश्वलायनो भगवन्तं परमेष्ठिनं परिसमेत्योवाचाविमुक्तं सद्यो मुक्तिकरं ब्रूहीति ।
सहो वाच याज्ञवल्क्यः परमेष्ठी शिवाद्वैतश्चतुर्थः शान्तः स एव ध्येयः स एव पूज्यस्तद्ध्यानादविमुक्ता भवन्ति ॥
अयं विशेषः, अत्याश्रमिणः साक्षादमृतीभूत्वा मोक्षीभवन्ति ।
न कर्मणा न प्रजया धनेन शिवं प्रपूज्यामृतत्वमानशुः ।
परेण शुद्धेन हृदब्जमध्ये लिङ्गं धृत्वा ज्योतिषि संविशति ।
अत्याश्रमस्थाः परिमुच्यन्ति सर्वे लिङ्गाङ्गशोभा मोक्षमार्गैकनिष्ठाः ।
ते ब्रह्मलोके तु परान्तकाले शिवप्रसादात्परिमुच्यन्ति सर्वे ॥
इति ॥
तथा च तैरेवोपक्रमोपसंहारदशायां द्वितीयखण्डान्ते प्रतिपादितं- “लिङ्गाङ्गसामरस्यं च शरीरे लिङ्गधारणम् ।
नियमेनैव कृत्वा ते मुक्ताः संसारसागरात् ॥” इति ॥
मोक्षमार्गैकनिष्ठा इति वाक्यसिद्धमर्थमुदञ्चयति श्रुत्यन्तरं- “मोक्षमार्गैकतत्परा” इति, “अमृतस्य
[[१०२]]
देवधारणो भूयासमिति च ।
तथा चोदाहृतोपनिषद्वाक्यद्वयेन लिङ्गधारणं प्रतिपादितम् ॥
इत्थं सकलश्रुत्यागमपुराणब्रह्मसूत्रेषु प्रतिपाद्यतया लिङ्गधारणं मुमुक्षुभिर्वीरशैवैरवश्यमनुष्ठेयमिति सिद्धम् ॥
इति श्रीमद्-अनादि-निरञ्जन-जङ्गमापरावतार-
तोण्टद-सिद्धेश्वर-प्रसादासादित-
शाम्भवागमाम्बोधि-मथन-जनित-
निरुत्तरैकोत्तरशत-स्थल-भेद-भिन्न-षट्-स्थल–
तत्त्वबोध-सुधास्वादानन्द-सन्दोह-प्रदायकाचार्यवर्य-
श्रीमरितोण्टदार्य-विरचिते
यडव-मुरारि-कोटे-कोलाहलैकाङ्गि-वीर-
वैरि-सप्ताङ्ग-हरण-पश्चिम-समुद्राधीश्वर-
विशुद्ध-वैदिकाद्वैत-सिद्धान्त-प्रतिष्ठापनाचार्य-
केलदि-सदाशिव-राय-नायक-वंश-दुग्धार्णव-चन्द्र-
वीर-भद्र-धरणीन्द्र-धर्म्म-पत्नी-मल्लाम्बा-हृदयानन्द-
बसव-वसुधा-सङ्क्रन्दनोपदेशे
वीरशैवानन्द-चन्द्रिकायां वादकाण्डे तृतीयं प्रकरणम् ॥
[[१०३]]