वीरशैवानन्दचन्द्रिकायां वादकाण्डे द्वितीयं प्रकरणम्
स्वामिन्नशेषशास्त्रार्थरहस्यज्ञानशेवधे ।
वीरशैवसभामध्ये मुटिकाक्षेपपूर्वकम् ॥
श्रीवीरशैवसिद्धान्तप्रतिष्ठापनकारिणम् ।
आदितश्शीलवद्वर्यं भृङ्गी किङ्किमभाषत ॥
हासं सभासदां तन्वन् शीलवद्वचनस्य च ।
प्रकाशयन्वैपरीत्यं काकुवक्त्रक्रियादिभिः ॥
असान्त्वयत्कथं तञ्च शीलवानुचितोक्तिभिः ।
एतत्सर्वं समाचक्ष्व गुरो मयि दयावशात् ॥
राजन्नभ्यागतत्वेन गुरोस्तद्वादपूर्वकम् ।
शीलवान् भृङ्गिणः सान्त्वमकरोदिति तद्ब्रुवे ॥
श्रीगुरोः पुरुषार्थचतुष्टयाभ्यर्हितमोक्षासाधारणकारणलिङ्गाङ्गसामरस्यरु उपविशिष्टाद्वैतज्ञानप्रदातृत्वेन सर्वाभ्यर्हिततया, तदुपसदनस्य,
[[५०]]
“तद्विज्ञानार्थं सगुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठ"मिति मुण्डकोपनिषद्विहितस्य अङ्गाप्तस्थानसद्भावादिरूपस्याभ्यर्हितत्वात्, “यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मन” इति श्वेताश्वतरोपनिषदि गुरोः स्वोपास्येष्टदेवतातादात्म्येन भावनाया गुरूपदिष्टवदनुपदिष्टस्यार्थस्य प्रकाशनसाधनत्वकथनाच्च, गुरुरेव निःश्रेयसार्थिभिर्मुमुक्षुभिर्वीरशैवैः प्रथममुपास्यः ।
तल्लक्षणन्तु शिवसूत्रवार्तिके-
अगाधसंशयाम्बोधितारकानुग्रहप्रदः ।
परमज्ञानरूपत्वाद् गुरुरेव परः शिवः ॥
शिवधर्मोत्तरे-
स एव वन्द्यः परिपूजनीयः स एव माता जगतां पिता च ।
स एव बन्धुः स गुरुः शिवस्स्यात् ज्ञानामृतं यः परमं प्रदद्यात् ॥
सूतसंहितायां शैवरत्नाकरे च-
गुरुमूर्तिः शिवः साक्षान्नान्यथा च सुरेश्वर ।
वर्तते पादयुग्मे तु त्रैलोक्यं सचराचरम् ॥
इति वचनेन नानाविषयतत्त्वज्ञानप्रयुक्तप्राकृतजनदुर्निवारसकलशास्त्रार्थसंश यनिवर्तकवात्सल्यविशेषप्रणीतानुग्रहकर्तृतया सर्व-
[[५१]]
शरीरिबन्धुरूपतया परिपूजनीयत्वेन, सचराचरत्रैलोक्याधारपादयुग्मशालितया, शिवाभिन्नत्त्वेन प्रतिपादनाद्गुरुरेव सर्वोत्तरः ॥
ननु पदार्थतत्वज्ञानपूर्वक परमात्मविशेष्यकेतरभिन्नत्वप्रकारकज्ञानमेकविंशतिविधस्वसमानाधि करणदुःखप्रागभावासमानकालीनदुःखध्वंसरूपमोक्षसाधनमिति तार्किका मन्यन्ते ॥
प्रकृतिपुरुषविवेकज्ञानं सात्विकधर्मज्ञानवैराग्यैश्वर्यनिमित्तक प्रकृतिविलयोऽप्रतिहतगतिफलकक्रमिकोर्ध्वगमनरूपमोक्षसाधनमिति निरीश्वरसाङ्ख्यसम्प्रदायविदः ॥
पातञ्जलास्तु प्रकृतिम्पुरुषोभयाधिष्ठातृत्वेन सकलेन्द्रियसमष्टिव्यष्टिसूत्रात्मनो हिरण्यगर्भस्य तद्व्यतिरिक्तत्वेनापि ज्ञानं मोक्षसाधनमिति मन्यन्ते ॥
चोदनालक्षणधर्मानुष्ठानद्वारा देहात्मभेदज्ञानं दुःखप्रागभावपरिपालनरूपमोक्षसाधनमिति पूर्वमीमांसकाः ॥
पञ्चविधभेदघटितजगत्सत्यत्वज्ञानपूर्वकतारतम्यकृतसेव्यसेवकभाव् अभेदज्ञानपूर्विका सर्वदेवोत्तमत्वेन प्रकृतेः परत्वेन च नारायणे ज्ञानपूर्विका भक्तिर्निरावरणनिजसुखानुभवरूपमोक्षसाधनमिति भेदवादिनो माध्वाः ॥
तापादिपञ्चसंस्कारयुक्ततया वीरवैष्णवत्वं प्राप्य, श्रवणमनननिदिध्यासनद्वारा निखिलप्रपञ्चशरीरस्य परव्यूहविभवार्च्यान्तर्यामि रूपस्य परवासुदेवस्य सर्वशेषत्वेन सर्वशरीरत्वेन भक्तिरूपविशिष्टाद्वैतज्ञानं, अण्डभित्तेरुपर्यप्राकृतवैकुण्ठे अप्राकृतसहस्रस्तम्भमण्डपे द्राविडप्रबन्धकर्तृनम्माल्वर्प्रभृति बहुप्रपन्नाधिष्ठिते सुदर्शनद्वारा ब्रह्माण्डादुद्गत्य विरजामुत्तीर्य, अमानवकरस्पर्शपरिपूततया लक्ष्मीपतित्वरहितेतरसर्वसारूप्यदास्यानुभवनैरन्तर्येणावस्थानरूपम् उक्तिसाधनमिति विशिष्टाद्वैतवादिनो रामानुजाः ॥
[[५२]]
नीलकण्ठत्वत्रिनेत्रत्वोमासाहायत्वचन्द्रशेखरत्वादिविशिष्टनित्यदिव्यम ङ्गलविग्रहषडङ्गदशाव्ययषड्गुणैश्वर्यपरिपूर्णस्य षट्त्रिंशत्त त्वोत्तीर्णस्वभावसिद्धनित्यनिर्मलनिरतिशयसर्वार्थज्ञानक्रियाशक्तियुक्त तया पञ्चकृत्यपरिनियामकस्य पतिशब्दितस्य परमशिवस्य प्रपञ्चशरीरस्य सर्वशेषत्वरूपविशिष्टाद्वैतज्ञानं, शिवप्रसादजन्यभक्तिद्वारा ब्रह्माण्डाद्बहिः परमपदाख्याप्राकृतकैलासे नन्द्यादिप्रमथगणपरिष्कृते पार्वतीपतित्वरहितपरमशिवसाम्येनावस्थानरूपमोक्षसाधनमिति नीलकण्ठाचार्यमतावलम्बिनः ॥
प्रपञ्चस्यानिर्वचनीयत्वरूपमिथ्यात्वेनान्तःकरणप्रतिबिम्बरूपजीवनिर्व् इशेषब्रह्मैक्यज्ञानं, अविद्यानिवृत्तिद्वारा सच्चिदानन्दरूपकूटस्थस्वरूपावाप्तिरूप कैवल्यसाधनमित्यद्वैतवादिनः ॥
इत्येतादृशबहुविधभेदाभेदमुक्तिजनकज्ञानोपदेशकगुरूणां बहूनां विद्यमानत्वाद्वीरमाहेश्वरगुरोरेव सर्वोत्तमत्वमिति कथमध्यवसीयत इति चेदुच्यते, लिङ्गाङ्गसामरस्यरूपमुक्तिसाधनीभूततत्सामरस्यानुसन्धानस्यासाधार् अणतया मोक्षहेतुत्वेन तादृशविशिष्टाद्वैतज्ञानप्रदायकस्य वीरमाहेश्वरसम्प्रदायप्रवर्तकस्यैकोत्तरशतप्रभेदभिन्नषट्स्थलज्ञा नसम्पन्नस्याङ्गलिङ्गमुखहस्तशक्तिभक्तिमन्त्रपदार्थाख्याष्टविधार्पण् अरूपमानसानुसन्धानविशेषनिष्ठस्य शान्त्याद्यसाधारणगुरुलक्षणलक्षितस्य गुरोरेवेतरापेक्षयाभ्यर्हितत्वम् ।
तथाहि सिद्धान्तशिखामणौ-
उपैति लोक विख्यातं लोभमोहविवर्जितम् ।
आत्मतत्त्वविचारज्ञं विमुक्तविषयभ्रमम् ॥
शिवसिद्धान्ततत्त्वज्ञं छिन्नसन्देहविभ्रमम् ।
सर्वतन्त्रप्रयोगज्ञं धार्मिकं सत्यवादिनम् ॥
[[५३]]
कुलक्रमागताचारं कुमार्गाचारवर्जितम् ।
शिवध्यानपरं शान्तं शिवतत्त्वविवेकिनम् ॥
भस्मोद्धूलननिष्णातं भस्मतत्त्वविवेकिनम् ।
त्रिपुण्ड्रधारणोत्कण्ठं धृतरुद्राक्षमालिकम् ॥
लिङ्गधारणसंयुक्तं लिङ्गपूजापरायणम् ।
लिङ्गाङ्गयोगतत्त्वज्ञं निरूढाद्वैतवासनम् ॥
लिङ्गाङ्गस्थलभेदज्ञं श्रीगुरुं शिववादिनम् ।
सेवेत परमाचार्यं शिष्यो भक्तिसमन्वितः ॥
इति ॥
“अश्मादिवच्च तदनुपपत्तिः” “अधिकन्तु भेदर्निदेशात्” “अंशो नानाव्यपदेशा"दित्यादिसूत्रैर्यथाश्मनां वैडूर्यसूर्यकान्तप्रभृतीनां पाषाणात्मना अभेदेऽपि व्यक्तिभेदाद्धीनमध्यमोत्तमस्वभावेन स्वरूपवैचित्र्यं कार्यवैचित्र्यञ्च, एवं जीवपरमात्मनोरपि व्यक्तिभेदाद्धीनाधिकभावः कार्यवैचित्र्यञ्चोपपद्यत इत्युक्तम् ।
नच पाषाणत्वसामान्यमभिन्नं व्यक्तयस्तु भिन्ना एवेति नैकत्र भेदाभेदाविति वाच्यं, पाषाणत्वसामान्यावच्छिन्नप्रतियोगिकभेदाभावरूपाभेदस्य वैदूर्यत्वाद्यवच्छिन्नप्रतियोगिकभेदस्य च व्यक्तिष्वेव सम्प्रतिपन्नत्वात् ।
न चैवं वज्रवैदूर्ययोरपि सामानाधिकरण्यव्यवहारप्रसङ्गः, सामान्याभेदोल्लेखिनस्तस्यावश्याभ्युपेयत्वात्, विशेषाभेदस्यचाभावात् ।
अत एवेश्वरेऽपि आत्मत्वेनैव जीवाभेददृष्टिः सूत्रिता “आत्मेति तूपगच्छन्ति ग्राहयन्ति चे"ति ।
एवं स्थलत्वावच्छिप्रतियोगिकभेदाभावरूपाभेदस्य लिङ्गाङ्गस्थलयोरुभयोर्विद्यमानत्वेनाभिन्नत्वेऽपि, अङ्गत्वलिङ्गत्वावच्छिन्नप्रतियोगिकभेदस्योभयत्र विद्यमानत्वेनोभयोर्भिन्नत्वादेकत्रैव भेदाभेदौ स्तः ।
एवं सविमर्शं सयुक्तिकं लिङ्गाङ्गसामरस्यरूपविशिष्टाद्वैतज्ञानस्य महालिङ्गाभेदरूपमोक्षसाधनत्वात्, एता-
[[५४]]
दृशज्ञानमुक्त्योः पूर्वोक्तवादिव्रातप्रतिपादितज्ञानमुक्त्यपेक्षया सोपपत्तिकत्त्वेनात्यन्ताभ्यर्हितत्त्वात्तदुपदेष्टा वीरशैवगुरुरेव लोकोत्तर इति सिद्धम् ॥
इति श्रीमद्-अनादि-निरञ्जन-जङ्गमापरावतार-
तोण्टद-सिद्धेश्वर-प्रसादासादित-
शाम्भवागमाम्बोधि-मथन-जनित-
निरुत्तरैकोत्तरशत-स्थल-भेद-भिन्न-षट्-स्थल–
तत्त्वबोध-सुधास्वादानन्द-सन्दोह-प्रदायकाचार्यवर्य-
श्रीमरितोण्टदार्य-विरचिते
यडव-मुरारि-कोटे-कोलाहलैकाङ्गि-वीर-
वैरि-सप्ताङ्ग-हरण-पश्चिम-समुद्राधीश्वर-
विशुद्ध-वैदिकाद्वैत-सिद्धान्त-प्रतिष्ठापनाचार्य-
केलदि-सदाशिव-राय-नायक-वंश-दुग्धार्णव-चन्द्र-
वीर-भद्र-धरणीन्द्र-धर्म्म-पत्नी-मल्लाम्बा-हृदयानन्द-
बसव-वसुधा-सङ्क्रन्दनोपदेशे
वीरशैवानन्द-चन्द्रिकायां वादकाण्डे द्वितीयं प्रकरणम् ॥
[[५५]]