०१

वीरशैवानन्दचन्द्रिका (वादकाण्डः)

श्रीजगद्गुरु मूरुसाविरमठग्रन्थमालायाः अष्टमं पुष्पम्

वीरशैवानन्दचन्द्रिका श्रीमन्निरञ्जन मरितोण्टदार्य

शिवयोगिविरचिता

बेलगांव श्रीचन्द्रशेखरमठाध्यक्ष “न्यायाचार्य” “दर्शनविशारद” श्रीगुरुलिङ्गदेवमहोदयैः परिष्कृत्य संशोधिता

प्रथमं संस्करणम्

भ्रूलतापुर्यां श्रीजगद्गुरुगङ्गाधरसंस्कृतमहाविद्यालयन्यायशास्त्राध्यापकेन, श्रीसोमशेखरशास्त्रिणा प्राकाश्यं नीता वाराणस्यां कृ० ब० पावगीति नामकेन हितचिन्तकयन्त्रालयाधिपतिना मुद्रिता

शाकः १८५८ सनाब्दाः १९३६

[[१]]

नमः शिवाय वीरशैवानन्दचन्द्रिकायां वादकाण्डः

श्रीमन्तं सद्गुरुं वन्दे मन्दा यद्दृष्टिवीक्षणैः ।
भजन्ति सर्वविज्ञत्वं सर्वव्याख्यातृतामपि ॥ १ ॥
नानाप्रमेयगहनेषु मतेषु पार- मप्राप्य संशयवशात्परितो भ्रमन्तीम् ।
बुद्धिं प्रसाद्य वरषट्स्थलतत्त्वनिष्ठां कुर्वाणमात्मगुरुमन्वहमानतोऽस्मि ॥ २ ॥
ब्रह्माहुः शाङ्करा यत्पशुपतिमपरे पाञ्चरात्राश्च विष्णुं कर्मेड्यं जैमिनीयाः कणभुगनुगताश्चेश्वरं गौतमीयाः ।
अव्यक्तं कापिलेयाः फणिपमतविदस्त्वीश्वरं तन्निदानं स्वाभिन्नाचिन्त्यशक्तिस्फुरणसमरसं श्रीमहालिङ्गमीडे ॥ ३ ॥
स्वामिन् ! वक्त्रविनिर्गतेन भवतो ज्ञेयं समस्तं क्रिया- काण्डेनाधिगतं ततश्च हृदये हर्षप्रकर्षोऽभवत् ।
सोत्कण्ठं मम वीरशैवसुमहासिद्धान्तवाक्पद्धतिं नानावादिमतानि तन्निरसनारीतिञ्च बोद्धुं मनः ॥ ४ ॥

[[२]]

सङ्कीर्तयामि बसवक्षितिपाल ! तुभ्यं सिद्धान्तमन्यमतमप्यथ तन्निरासम् ।
चित्तेऽवधारय बुधैरपि दुर्विबोध- मीशार्चनातिशयशुद्धतरान्तरङ्ग ॥ ५ ॥

इह खलु धर्मार्थकाममोक्षेषु चतुर्विधेषु पुरुषार्थेषु श्रुत्यागमस्मृतीतिहासपुराणैर्लोकदृष्ट्या च सर्वाभीप्सितत्वेन सिद्धेषु चरमस्य सर्वानर्थसमूलकाषङ्कषणात्मकनिवृत्तिरूपतया, निष्प्रतिबन्धामन्दानन्दसन्दोहसुधासिन्धुनिरर्गलनिर्गलल्लहरीपरिपाकशिव् आद्वैतावस्थितिस्वभावतया, निरतिशयनिवृत्तिसन्ततिसन्ततानुभवैकालोकजीवलोकाभीप्सिततमत्त्वेन च, तत्र चाप्रतिबद्धशिवाद्वैतापरोक्षसाक्षात्कारस्य साक्षात्साधनत्वेन, तत्र च श्रवण-मनन-निदिध्यासनानां स्वस्वोत्तर साधनत्त्वेन क्रमिकतया सिद्धानां त्रयाणां साक्षात्परम्परया च कारणत्वं प्रतिपादयतां निगमागमधर्म्मशास्त्रेतिहासपुराणवचनानामप्रामाण्यं प्रामाण्यञ्च प्रतिपादयन्तः, चार्वाक, सौत्रान्तिक-वैभाषिक-योगाचार- माध्यमिकरूपचतुर्विधबौद्धा, हर्तसञ्ज्ञका अवैदिकाः, लाकुल कापाल- भैरव-कालामुखात्मकभेदचतुष्टयगर्भितपाशुपत, माध्व- रामानुजभेदभिन्नोभयविधपाञ्चरात्रावान्तर षड्भेदभिन्नद्विविधतान्त् रिकाक्षपादकाणादरूपद्विविधतार्किक, सेश्वरनिरीश्वरात्मकद्विरूपसाङ्ख्यं, योग, जैमिनीयार्षचतुष्टयात्मका वैदिकाश्च विवर्तवादसिद्धान्तपद्धतिपर्यालोचनाजनितसन्देहविपर्यासविरोधपरिहारे।
न तावत्प्रमाणैकवाक्यतासम्पत्तिसम्पादकब्रह्म- मीमांसाशास्त्रप्रणेतृभगवद्बादरायणमुनितात्पर्यानुकूलवीरशैवस म्प्रदायसारतरपरिणामवादविशिष्टाद्वैतप्रक्रियाविशेषषट्स्थलतत्त्व् आनुबद्धश्रद्धानुपासितशिवसिद्धान्तसारान्वीरशैवविबुधवरान् व्याकुलयन्तीति तन्निवर्त्तकनिरवग्रहानुग्रहैकाग्रहृदयेन निखिलनिगमागमेतिहासस्मृतिपुराणपदवाक्यप्रमाणपारावारपारीणेन श्रीमत्केलदिबसवक्षितीन्द्रहृदयानन्दकारिप्रत्युत्तरप्रदानोन्मुखेन

[[३]]

सिद्धेश्वरप्रसादासादितनिर्मलज्ञानवैभवेन निरञ्जनजङ्गमापरावतारेण निराभारवीरशैवसाम्राज्यधुर्य्येण श्रीमरितोण्टदार्येण लिङ्गाङ्गसामरस्योपपादकः षट्स्थलतत्त्वबोधोत्पादकः विमतमतिकल्पितविविधविकल्पापनोदकः षड्विधलिङ्गभक्तिवैभवोद्बोधकः निरतिशयपुरुषार्थसाधकः सकलकल्मषबाधकः संसारविषतरुमूलोच्छेदकः समानन्दितसकलवीरशैवबुधस्वान्तः सिद्धान्तस्तावदादौ प्रस्तूयते ॥
ननु- शास्त्रेऽस्मिन्प्रेक्षावतां कथं प्रवृत्तिः विषयप्रयोजनाधिकारितत्सम्बन्धानामनुपलम्भात्, “प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तत” इति न्यायादिति चेन्न विषयप्रयोजनाधिकारिसम्बन्धानामत्रापि सत्त्वात्प्रवृत्तिरुपपद्यत एव ।
तथाहि- वक्ष्यमाणलक्षणलक्षितविशुद्धान्तःकरणावच्छिन्नस्याङ्गशब्दितस्य जीवस्य लिङ्गशब्दितसद्दृक्रियानन्दादिस्वाभावशिवाभेदः शास्त्रस्य विषयः ।
ईश्वरेच्छाशक्तिनियमितपुरुषतत्त्वनिष्ठाऽविद्यातत्त्वस्य स्वकारणीभूतसर्वज्ञताशक्तिसामरस्यस्थितिरूपनिवृत्तिद्वारा स्वात्मशिवभावलक्षणा कैवल्यलक्ष्मीः प्रयोजनम् ।
अनेकजन्मार्जितशिवपूजादिसत्कर्ममहिम्नाऽष्टावरण-पञ्चाचारनिष्ठः शमादिसाधनचतुष्टयसम्पन्नोऽधिकारी ।
विषयस्य शास्त्रस्य च प्रतिपाद्यप्रतिपादकभावः, शिवाद्वैतस्य साक्षात्कारस्य च विषयविषयिभावः सम्बन्ध इत्यनुबन्धचतुष्टयम् ॥
साधनचतुष्टयन्तु-नित्यानित्यवस्तुविवेकः, इहामुत्रफलभोगविरागः, शमदमसन्तोषतितिक्षाश्रद्धासमाधानानि, मुमुक्षा च ।
एषु च चतुर्षु साधनेषु पूर्वपूर्वमुत्तरोत्तरं प्रति कारणम् ।
“तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते” इति श्रुतेः “त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ॥” इति भगवद्गीतावचनात्, श्वर्गेऽपि पातभीतस्य श्लथाक्ष्णो नास्तिनिर्वृति" रिति विष्णुपुराणवचनाच्च, राजसेवादिव्यापारजन्यपशुगृहारामक्षेत्रादिव द्विधिविहितकर्मफलानां स्वर्गादीनामपि क्षयिष्णुत्त्वेन

[[४]]

शरीरप्राणसंयोगवियोगरूपजननमरणादिदुःखजनकत्त्वेन प्रतिपादनात्, “ततो यदुत्तरतरं तदरूपमनामयं” “ऋतं सत्यं परं ब्रह्म” “यदा तमस्तन्न दिवा न रात्रिर्न सन्नचासच्छिव एव केवलः” ङिष्कलं निष्क्रियं शान्तं विरवद्यं निरञ्जनम् अमृतस्य परं सेतुं दग्धेन्धनमिवानल" मित्याद्यनेकश्रुतिवचनपर्यालोचनया अनामयत्त्वेन सत्यत्वेन अमृतसेतुत्त्वेन विरूपाक्ष शिवादिशब्दैरभिहितस्य शिवतत्त्वस्य च नित्यत्त्वेन श्रवणाच्च, तज्जन्यनित्यानित्यवस्तुविवेकः प्रथमं साधनं भवति ।
तेनैहिकामुष्मिकफलेष्वरुचिद्वारा वैराग्यं द्वितीयं साधनमुत्पद्यते ।
तेनान्तरिन्द्रियस्य मनसो विषयवैमुख्यरूपः शमः, तेन चक्षुरादीनां स्वस्वविषयवैमुख्यरूपोदमः, तेन प्राणधारणमात्रसाधनविषयलाभजनितविषयान्तरालम्बुद्धिः सन्तोषः, तेन शीतोष्णादिद्वन्द्वसहनेच्छारूपा तितिक्षा, तया च गुरुवेदान्तवाक्यादिविश्वासरूपः श्रद्धा, तया गुरुवेदान्तवाक्यादिसिद्धशिवतत्वे विषयान्तरपरिहारेण मनोविन्यासविशेषरूपं समाधानमुत्पद्यते ।
एवं शमादिषट्करूपं तृतीयं साधनमष्टावरण-पञ्चाचारनिष्ठाच वैराग्येण द्वितीयसाधनेनोत्पद्यते ।
तेन सकलदुःखव्रातप्रहाणेच्छारूपा मुमुक्षा चतुर्थं साधनम् ।
एतादृशसाधनचतुष्टयसम्पन्नो वीरशैवाभिमतशिवाद्वैताध्यात्मशास्त्रविचाररूपश्रवणमननयोरधिक् आरी ।
एवं रूपेणाधिकारिणा शिवाद्वैततत्वविचाररूपं श्रवणं मननञ्च कर्तव्यम् ।
तदिदमुक्तं भगवता बादरायणेन मुनिना सूत्रकारेण “अथातो ब्रह्मजिज्ञासा” इति ।
अथ= अनेकजन्माचरितशिवपूजादिसत्कर्मसम्प्राप्तसाधनचतुष्टयसम्पत्यनन्तर।
म्, अतः= वक्ष्यमाणरीत्या वैदिकावैदिकमतानां निर्युक्तिकत्वेन निराकरणाद्धेतोः, ब्रह्म स्वतन्त्रदृक्क्रियात्मकं महालिङ्गस्वरूपमद्वैतं शिवचैतन्यं, तस्य जिज्ञासा तज्जिज्ञासेति कर्मणि षष्ठी, तस्य विचारः श्रवणमननात्मकः कर्तव्य इति शेषः ।
श्रवणं नाम गुरुमुखान्निगमागमवाक्यानां सर्वेषामद्वैते ब्रह्मणि तात्पर्यपर्यवसायि अर्थपर्यालोचनम् ।
मननञ्च वेदान्तागमवाक्यानां

[[५]]

पूर्वतन्त्रन्यायोपबृंहितब्रह्मसूत्रप्रतिपादितयुक्तिभिरद्वैते ब्रह्मणि असम्भावनाविपरीतभावनानिवर्तकत्वेन तत्र तात्पर्यदार्ढ्यावसायि अर्थपर्यालोचनम् ।
विजातीयप्रत्ययतिरस्कारपूर्वकसजातीयप्रत्ययप्रवाहीकरणं निदिध्यासनम् ।
तच्च योगशास्त्रे समाधिरित्युच्यते ।
स च द्विविधः सविकल्पको निर्विकल्पकश्च ।
सविकल्पको निर्विकल्पोपकारकः,

निर्विकल्पं परं ब्रह्म साक्षात्कर्तुमनीश्वराः ।
ये मन्दास्तेऽनुकम्प्यन्ते सविशेष निरूपणैः ॥

इति कल्पतरूक्तेः ।
सविकल्पकश्च यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसहितः ।
यमस्तु अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहरूपेण पञ्चधा ।
शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि पञ्च नियमाः ।
पद्मासनस्वस्तिकासनसिद्धासनगोमुखासनगरुडासनवीरासनादि पातञ्जलयोगप्रसिद्धः हठयोगप्रदीपिकाद्युक्तरीत्या वेदितव्यम् ।
सत्यासनजये प्राणायामसिद्धिः ।
प्राणायामस्तु श्वासप्रश्वासयोर्गतिविच्छेदलक्षणः ।
स च रेचकपूरककुम्भकभेदेन त्रिविधः ।
बाह्यवृत्तिश्वासो रेचकः ।
अन्तर्वर्तिप्रश्वासः पूरकः ।
अन्तस्तम्भवृत्तिः कुम्भकः ।
स त्रिविधोऽपि नासाद्वादशान्तादिदेशोपलक्षितः, द्वात्रिंशन्मात्रादिकालोपलक्षितश्च ।
मनोधारणयोग्यता च प्राणायामफलम् ।
तदेतदुक्तमभियुक्तैः,

देहेन्द्रियादिवैराग्यं यम इत्युच्यते बुधैः ।
अनुरक्तिः परे तत्त्वे नियमः परिकीर्तितः ॥
सर्ववस्तुन्युदासीनभावश्चासनमुच्यते ।
जगत्सर्वमिदं मिथ्याप्रतीतिः प्राणसंयमः ॥
चित्तस्यान्तर्मुखीभावः प्रत्याहारः स उच्यते ।
चित्तस्य निर्मलीभावो धारणाऽसौ निगद्यते ॥

[[६]]

सोऽहं चिन्मात्रमेवेति ध्यानं चिन्तनमुच्यते ।
ध्यानं त्वमिश्रणं यत्र समाधिरिति गीयते ॥
इत्यादिना ॥

इन्द्रयाणि स्वस्वविषयेभ्यः प्रतीपमाह्नियन्त इति प्रत्याहारः ।
अभ्यस्यमाने प्रत्याहारे वश्यानीन्द्रियाणि भवन्ति ।
नासाग्रनाभिचक्रादिदेशे चित्तस्य स्थिरीकरणं धारणा ।
यत्र हृदयकमलनिष्ठप्राणलिङ्गादौ चित्तं धृतं तत्र प्रत्ययस्य विसदृशपरिणामपरिहारद्वारेणालम्बनीकृतस्य नैरन्तर्यं ध्यानम् ।
अर्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ।
अर्थस्त्विष्टलिङ्गादिकम् ।
यमादिष्वष्टसु यमनियमौ साधनचतुष्टये यथासम्भवमन्तर्भवतः ।
पूर्वपूर्वसाधनेनोत्तरोत्तरं साध्यमुत्पद्यते ।
एवञ्च-

वीरशैवमतस्थस्य ज्ञानयोगो हि साधनम् ।
न ज्ञानेन विना योगो न योगो ज्ञानतो विना ॥

इति वचनाद्वीरशैवानामेतादृशयोगसहितज्ञानस्यैव कैवल्यसाधनत्वं वेदितव्यम् ।
एवमुक्तक्रमेण निदिध्यासने श्रवणमननयोरसाधारणकारणत्त्वात्, श्रवण मननात्मकः शिवतत्त्वविचारः कर्तव्यः, स्वात्माभेदेनपरामर्शः शिवतत्त्वविचारः कर्तव्यः, स्वात्माभेदेन परामर्शः कर्तव्य इत्यर्थः ।
अस्मिन्सूत्रेऽतः शब्देन वक्ष्यमाणसमन्वयाविरोधफलाध्यायार्थस्सर्वोऽपि सङ्क्षिप्तः ।
अथशब्देन साधनाध्यायार्थः सङ्गृहीतः ।
ब्रह्मशब्देन जडजीवविलक्षण स्वप्रकाशस्वतन्त्रताशक्तिस्वभावत्त्वं तात्पर्यविषयीकृतमिति विमर्शनीयम् ।
ननु परस्य ब्रह्मणः असङ्गोदासीनचित्स्वभावस्य कथं स्वतन्त्रता चिदादिशक्तिमत्वं, शक्तिमत्त्वे प्रमाणाभावात् ।
न च “परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रियाच” इति श्वेताश्वतरोपनिषदि श्रवणात्,

[[७]]

“न शिवेन विना शक्तिर्न शक्तिरहितः शिवः ।
पुष्पगन्धवदन्योन्यं मारुताम्बरयोरिव ॥

इत्युपबृंहणाच्च शिवस्य शक्तिमत्त्वं प्रमाणसिद्धम् ।
अत एव शिवः शक्त्यायुक्तो यदि भवति शक्तः प्रभवितुम्” इत्याद्यभियुक्त सन्दर्भोऽपि सङ्गच्छत इतिवाच्यम्, श्वेताश्वतरादि श्रुतिवाक्यानां “मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम्, यदा तमस्तन्न दिवा न रात्रिः” इत्यादि पूर्वसन्दर्भपर्यालोचनया, “प्रधानक्षेत्रज्ञपतिर्गुणेश” इत्युत्तर सन्दर्भपर्यालोचनया च, माया तमः प्रधान शब्दैर्भावरूपाज्ञानाभिन्न जडाविद्याया एव प्रतिपादने तात्पर्यावसायात् ।
किञ्च भवदभिमता शक्तिः शिवादभिन्ना वा न वा ? आद्ये शिवाद्वैतहानिः ।
द्वितीये “तम आसीत्तमसा मूढमग्रे” “आसीदिदं तमोभूतमप्रज्ञातमलक्षणं” इत्यादिना दृश्यमानान्धकारवदावरकत्त्वेन प्रतिपादितायाश्शक्तेरसङ्गोदासीनप्रकाशरूपशिवाद्वैतस्वरूपत्त्वस्य वक्तुमसम्भावितत्त्वात् ।
अपिच वीरशैवमतानुसारेण षट्त्रिंशत्तत्त्वेषु पञ्चविंशतितमतत्त्वात्मकं पुरुषमभिधाय, तस्य “कलाविद्याकालरागौ नियतिश्चेति कञ्चुकाः” इति पञ्चकञ्चुकत्वेन पञ्चतत्त्वान्यभिधाय, ततो माया-शुद्धविद्या-सदाशिव- महेश्वर-शक्ति-शिवाख्यानि षट्तत्त्वान्युररीकुर्वतां भवतामपि शक्तितत्त्ववैलक्षण्येन मायातत्त्वस्यैकत्रिंशत्तमतत्वस्य जड?शक्तेरङ्गीकार्यत्वादावरकाज्ञानरूपायास्तस्याश्चित्स्वरूपशिवता दात्म्यानुपपत्तिः ।
नच “परास्यशक्ति” रित्यादिना शक्तिसिद्धिः, शक्तिः स्वभावो निसर्गः स्वरूपमिति पर्यायशब्दैः स्वरूपस्यैव विवक्षितत्वेन भिन्नतया अभिन्नतया वा निर्वक्तुमयोग्यत्त्वात् ।
मम शक्तिः, शिवस्य शक्तिरित्यादिव्यवहारस्तु राहोः शिरः, ममात्मा, मम स्वभावः, मम स्वरूपमित्यादिवदभेद एव पर्यवसानात् सा पार्थक्येन तत्वान्तरं न साधयितुमीष्टे ।
अतः श्रुतिस्मृत्यादिषु शक्तिशब्दव्यवहारस्त्वस्मदभिमतायां मायायामेव पर्य्यवस्यतीति चेन्न, मायाशब्दिताया जडाविद्याया ब्रह्मणि सम्बन्धस्य वक्तुमशक्यत्वेनास्मदभिमतायाः

[[८]]

शक्तेरेव श्रुतिस्मृति तात्पर्यविषयत्त्वात्, अविद्यासद्भावे प्रमाणाभावाच्च तथाहि- अविद्यासद्भावे किम्मानं प्रत्यक्षमनुमानमागम आन्तरानुभवो वा ? नाद्यः, घटमहं साक्षात्करोमीतिवदविद्यां साक्षात्करोमीत्यनुव्यवसायस्यादर्शनात् ।
न द्वितीयः, तद्व्याप्यलिङ्गाभावात् ।
ननु तस्या अचाक्षुषत्वेऽपि दृश्यकार्यान्यथानुपपत्या अनादिरनिर्वचनीया ब्रह्माश्रिता जीवविषयिणी भावरूपा काचिदविद्याऽस्तीति चेन्न, अविद्याविषयक प्रमाणस्य सत्यत्वेऽद्वैतहानेः ।
अत एव “विद्याविद्ये ईशत” इत्यागमः, अहमज्ञ इत्यनुभवश्च प्रमाणमिति निरस्तम् ।
तथा सति तत्प्रमाणस्याविद्यायाश्च भेदोऽभेदो वा ? तत्र नाद्यः, ब्रह्मणः अविद्यायाः तत्प्रमाणस्य च प्रमाणत्वेन त्रिसत्यत्वप्रसङ्गात् ।
नच तत्प्रमाणस्याविद्याकार्यत्त्वेन भेदाङ्गीकारान्न दोष इति वाच्यम् कार्यकारणयोर्भेदे तन्तुघटयोरिव भिन्नस्वभावत्वेनाकारणत्वप्रसङ्गात् ।
अभेदे सत्येकरूपत्वेन कार्यमिति कारणमिति विभागासम्भवात्, यदि भेद एवेष्टस्तदा तादात्म्यासम्भवात्, दण्डनाशेऽपि घटस्थितिरिव कारणीभूताऽविद्यानिवृत्तावपि तत्कार्यरूपप्रपञ्चनिवृत्तिर्न्न स्यात् ।
इष्टापत्तौ मुक्तिरेव न स्यात्, बन्धस्य प्रपञ्चान्तर्गतत्वात् ।
न द्वितीयः, प्रमाणप्रमेययोरभेदादिदं प्रमाणमिदं प्रमेयमिति विभागासम्भवात् ।
यदि स्वसद्भावे स्वयमेव प्रमाणं तदा स्वप्रकाशतापत्तिः, आत्मवदन्यनिरपेक्षतया भासमानत्वात् ।
न चेष्टापत्तिः, अविद्याया विद्यात्त्वेन अविद्येति वार्तैव न स्यात् ।
तस्माद्द्विसत्यत्व प्रसङ्गाद्ब्रह्मातिरेकेण काचिदविद्याऽस्तीत्यकरणीयत्वाभावात् ।
न चाधिष्ठानगत सत्तैवाविद्यायां तत्कार्ये च भाङ्गीतीति नोक्तदोष इति वाच्यमसम्भवात् ।
स्वरूपतो हि सत्यामविद्यायां सा सत्ता भासते उतासत्यां वा ? नाद्यः, पूर्वमेव सद्रूपेण स्थितायां तस्यां पुनः सत्तान्तरसम्बन्धानपेक्षणात् ।
नापि द्वितीयः, असत्यास्सत्ता सम्बन्धासम्भवात्, सदसतोर्विरोधात् ।
न चाविद्या सदसद्विलक्षणेति नोक्तदोष इति वाच्यं, तद्रूपेणापि सत्यामसत्यां वेति विकल्पे पूर्वोक्तदोषतादवस्थ्यात् ।

[[९]]

अथ यथाकथञ्चिदविद्याङ्गीकारेऽपि ब्रह्माविद्ययोराश्रयाश्रयिभावो न सम्भवति; तथा हि- ब्रह्माविद्ययोः कः सम्बन्धः ? संयोगः समवायः स्वरूपसम्बन्धोऽन्यो वा ।
नाद्यः, अविद्याया अद्रव्यत्वात् ।
न द्वितीयः, अवयवावयविभावाद्यनुपपत्तेः ।
न तृतीयः, ब्रह्मसमसत्ताकस्वरूपाभावात् ।
नाप्याध्यासिकः सम्बन्धः, शुक्ताविदं रजतमिति भ्रमस्थले आपणस्थरजतप्रमाहितसंस्कारव दारोप्यप्रमाहितसंस्काराभावात्, ब्रह्मातिरिक्तस्थले अविद्याया अनङ्गीकारात्, पुरोवर्ति ज्ञानाभावात्, सादृश्यज्ञानाभावाच्च ।
तस्माद्ब्रह्मण्यविद्या माया वा नाध्यस्या ।
किञ्च ब्रह्मणः प्रकाशरूपत्त्वादविद्यायास्तिमिररूपत्वात् परस्परसम्बन्धो न युज्यते ।
न चोलूकनेत्रतेजस्यन्धकाराक्रान्तत्वेन तेजस्तिमिरयोस्सर्वत्र विरोधाभावात् तद्वत्सम्भवतीति वाच्यम्,

दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे ।
केचिद्दिवा च रात्रौ च प्राणिनस्त्वल्पदृष्टयः ॥

इति स्मृत्या तस्याल्पदृष्टित्वेन सौरतेजोऽभिभूतत्त्वेन वेद्यग्रहणापाटवात्; अन्यथा रात्रावपि चन्द्रचन्द्रिकादर्शनशून्यत्वेन सदान्धत्वे तस्य दिवान्ध इति व्यपदेशो न स्यात् ।
नापि चन्द्रकलङ्कन्यायेन सम्बन्धस्सम्भवति, ब्रह्मणस्तावन्निरंशत्वेनोर्ध्वाधस्तिर्यग्भागशून्यत्त्वात् ।
यदि तयोरविरोधस्तदा अविद्यायास्तत्त्वदर्शनादपि निवृत्तिर्न स्यात्, “अविरोधितया कर्म नाविद्यां विनिवर्तये” दित्युक्तत्वात्, ब्रह्मणोऽज्ञत्वप्रसङ्गश्च ।
नाप्यंशतः, तस्य निरंशत्वात् ।
अविद्याकल्पितांशभेदोऽपि न सम्भवति, कल्पनायाः प्रागवस्थानासम्भवात् ।
ब्रह्मबाह्यदेशस्यैवाभावात् ।
उक्तरीत्या तत्रैव स्थितेरसम्भवात् ।
अनिर्वचनीयत्वमपि तस्या न सम्भवति, अनादिभावरूपत्त्वेन निर्वचनसम्भवात् ।
अनादित्वमपि न सम्भवति, घटादिवत्सांशत्वेन जडत्वेन च स्वतःसिद्धत्त्वासम्भवात् ।
तदङ्गीकारे च स्वप्रकाशतापत्तिः ।
परतः सिद्धत्वे घटादिवत् कार्यत्वेन कारणान्तरमुखेनानवस्थाप्रसङ्गात् ।

[[१०]]

अथ भावरूपत्वमपि न सम्भवति, नञर्थोल्लेखिधीविषयत्वात् ।
तथा विश्वोपादानत्वमपि न सम्भवति, स्वसत्ताशून्यत्वात्; जडत्वेन प्रेरकत्वाभावाच्च ।
ब्रह्मणश्चेतनस्य निस्सङ्गतया प्रेरकत्वाभावात्, न चायस्कान्तदृष्टान्तेन चैतन्यसान्निध्यवशादविद्यायाः कारणत्वं सम्भवतीति वाच्यं, भिन्नदेशस्थयोरेव सान्निध्यनियमात्, तद्वत् ब्रह्मबाह्यदेशाभावात् ।
ब्रह्मण्येव स्थितायास्तु लोहमणिप्रविष्टसूचिकेव निर्व्यापारतया विश्वाकारेण परिणमनक्रियासम्भवात् ।
यदि निराश्रयैव सा कार्यं जनयेत्तदा स्वतन्त्रतापत्या दुर्निवार्य्या स्यात् ।
इष्टापत्तौ मुक्तिरेव न स्यात् ।
अविद्याया जीवविषयकत्वमपि न सम्भवति, तस्यास्तावज्जडत्त्वेन विषयत्वात्, जीवस्य चेतनत्वेन विषयित्वात् ।
अतो वैपरीत्यात्तदङ्गीकारेऽपि जीवस्याविद्याक्रान्तहृदयत्त्वेन नित्यानित्यवस्तुविवेक एव न स्यात् ।
नापि गुरुतः शास्त्रतश्च, गुरोरप्यविद्याक्रान्तहृदयत्वात्, शास्त्रस्याविद्याकार्यत्त्वेन तदेकरूपत्वात्, तस्मादविद्यासद्भावे मानाभावः ।
यथा कथञ्चित्तदङ्गिकारेऽपि द्विसत्यत्वप्रसङ्गः ।
ब्रह्माविद्ययोस्तेजस्तिमिरयोरिव विरोधेनाश्रयाश्रयिभावासम्भवश्च ।
अविरोधे तु तयोर्निवर्त्यनिवर्तकाभावा- सम्भवः, ब्रह्मणोऽज्ञत्वप्रसङ्गश्च ।
अतोऽविद्याया अनादित्वं भावरूपत्वञ्च न सम्भवति; ब्रह्मणस्तत्प्रेरक्त्त्वासम्भवाद्विश्वोपादानत्वं जीवविषयकत्वञ्च निरस्तम् ।
अन्यथा जीवस्य नित्यानित्यवस्तुविवेकासम्भवात् “अनर्थहेतोः प्रहाणाय सर्वे वेदान्ता आरभ्यन्त” इत्युक्तमयुक्तं स्यात्, वेदान्तानां तदारम्भस्य चाविद्यैकरूपत्वेन निवर्त्यनिवर्तकभावासम्भवात् ।
अथ श्मृतिरूपः परत्र पूर्वदृष्टावभास" इत्युक्ताध्यासलक्षणञ्च न सम्भवति, तथाहि- यथा पुरोवर्तिरज्वादिबाह्यवल्मीकादिप्रदेशदृष्टभुजङ्गादिः पुरोवर्तिरज्वादावारोप्यते तथात्र ब्रह्मबाह्यदेशाभावेनारोपासम्भवात् ।
लोके तत्रैव दृष्टस्य तत्रैवारापस्य क्वाप्यदर्शनात्, शङ्खपीतिमाध्यासेऽपि पीतिम्नोऽन्यत्र दृष्टत्वात्, अन्यथा शङ्खः पीत इति प्रतीतिर्न स्यात्, पूर्वं पीतादर्शनात्; अन्यथा भ्रमप्रमाविवेको न

[[११]]

स्यात्, तत्रैव दृष्टस्य तत्रैवारोपाङ्गीकारात् ।
न चोत्तरक्षणबाध्यमानत्वमेव भ्रमत्वमिति वाच्यम्, घटपटयोरिव शुक्तिरजतयोरपिवस्तुत्वेन बाध्यबाधकभावासम्भवात् ।
नापि शुक्तिज्ञानेन रजतज्ञानस्य बाधः, घटपटज्ञानयोरिव तयोर्भिन्नकालभिन्नविषयत्वात्; अन्यथा घटज्ञानेन पटज्ञानं बाध्येत ।
नच नेदं रजतं किन्तु शुक्तिरेवेत्यौतरकालिकज्ञानं पूर्वोत्पन्नरजतज्ञानस्य बाधकमिति वाच्यम्, घटज्ञानानन्तरं घटं त्यक्त्वा पटं पश्यतः प्रमातुर्नायं घटः पट एवेति निश्चयोऽपि पूर्वोत्पन्नघटज्ञानस्य बाधकस्स्यादिति सर्वस्यापि विकल्पस्य प्रतियोगिनिषेधपूर्वकनिश्चयरूपत्त्वात् ।
न च तादृग्विकल्पस्य भिन्नधर्मिकत्वेन विरोधाभावान्न तत्र बाध्यबाधकभावः, इह त्वेकस्मिन्नेव धर्मिणि इदं रजतं, नेदं रजतमिति विरुद्धावभासद्वयस्य प्रामाण्यासम्भवादौत्तरकालिकरजताभावज्ञानेन पूर्वोत्पन्नरजतज्ञानस्य बाधोऽङ्गीक्रियत इति वाच्यम्, बाध्यबाधकभावस्य दण्डभाण्डनयेन परस्परान्वयसापेक्षत्वेन तदभावात्, तयोर्भिन्नकालीनत्वात् ।
ननु ज्ञानानां त्रिक्षणावस्थायित्वनियमेन रजताभावज्ञानोत्पत्तिक्षणे विनश्यदवस्थापन्नपूर्वोत्पन्नरजतज्ञानस्य विद्यमानत्वात्तयोः परस्परान्वयः सम्भवतीति चेन्न, ज्ञानानां गुणत्वेन संयोगेन समवायेन वा तयोः परस्परमन्वयाभावात् ।
जडत्वेन तादृशौन्मुख्यशून्यत्वाच्च बाध्यबाधकभावो न सम्भवति ।
किन्तु घटं त्यक्त्वा पटं पश्यतः प्रमातुरिच्छावशात् घटज्ञानस्य निमेषः पटज्ञानस्योन्मेष इति वदेकस्मिन्नेव धर्मिणि सान्निध्यवशान्नीलपृष्ठत्वादिविशेषं पश्यतः दूरत्वादिनोद्भूतप्रक्तनरजतज्ञानस्य निमेष, नेदं रजतं शुक्तिरेवेत्युत्तरकालज्ञानस्योन्मेष इत्यङ्गीकरणीयत्वेन तुल्यत्वात् ।
अथ “अर्थक्रियाया अयोग्यत्वमेव भ्रमत्त्व” मिति चेन्न, गगनकुसुमादेरपि शमर्थः पदविधि" रिति शब्दानुशासनवशादेकार्थीभावलक्षणसामर्थ्यकृतसमासयोगाद्वस्तुत्व् अमङ्गीकरणीयमेवेति तज्ज्ञानस्यापि भ्रमत्त्वप्रसक्त्या गगनकुसुमादेरपि शुक्तिरजतादिवदिदमिति

[[१२]]

नयनगोचरताप्रसङ्गात्, योग्यायोग्यतयोः प्रभुसृष्टिविचित्रत्त्वात्स्वातन्त्र्यपरिकल्पितशक्तितरतमभावनिबन्धनत्त्व अत् ।
“सत्यञ्चानृतञ्च सत्यमभवदिति” श्रुतेः शदसच्चाहमर्जुने" ति स्मृतेश्च सर्वस्यापि सच्चिदानन्दघनत्वात् ।
तस्मादविद्या जगदुपादानकारणमिति जगतो मिथ्यात्ववादो निरस्तः ।
अत एव “युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणो” रित्यादिना अविद्याकृतजडचेतनविभागोऽपि न घटते ।
तथाहि- अस्मत्प्रत्ययव्यतिरेकेणानुभूयमानसुखादिवत्तद्गोचरस्य कस्यचिददृश्यत्वात्, अस्मत्प्रत्ययस्य मिथ्यात्वात् ।
प्रत्ययस्य सविषयत्वान्यथानुपपत्याऽनुमीयते चेदनुमातुरप्यदृश्यत्वात् ।
तस्मात्तदभिमतचैतन्यस्य वन्ध्यापुत्रप्रायत्वेन “अस्मत्प्रत्ययविषयत्वादपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धे” रित्युक्तेरतितुच्छत्वात् ।
अथ युष्मत्प्रत्ययगोचरस्य जडत्वमपि न सम्भवति, चैत्रमैत्रयोर्विवादे जाते परस्परं तत्प्रयुक्त त्वङ्कारेण तयोरहम्प्रकारकबोधस्यैवोपलब्धेश्चेतनविषयकत्वात् ।
“इदं सर्वमसृजत” “इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते” इत्यादिप्रमाणबलाच्च ।
किञ्च त्वम्प्रत्ययगोचरत्वे तत्त्वमसीत्युपदेशो जडं प्रत्येव स्यात् ।
तस्मात्त्वमहम्प्रत्यययोश्चेतनैकविषयत्वात् “इदमहमिति वक्तव्ये युष्मद्ग्रहणमत्यन्तभेदोपलक्षणार्थ” मिति वदन्नपि प्रत्युक्तः ।
तयोश्चैतन्यैकविषयत्वेनात्यन्ताभेदात् ङ त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः पर" मिति भगवता वयमित्युत्तममध्यमप्रथमाख्यपुरुषत्रयस्याप्यस्मत्प्रत्ययान्तर्गतत्वेन क्रोडीकृतत्वाच्च ।
अत एव त्वमहं प्रत्ययगोचरयोर्विषयविषयिभावोऽपि न सम्भवति वैजात्याभावात्, चैतन्यस्य चैतन्यान्तरागोचरत्वात्, चैतन्यगोचरघटादिवज्जडत्वप्रसङ्गात् ।
न च व्यवसायं प्रत्यनुव्यवसायस्य प्रामाण्याङ्गीकारान्नायं नियम इति वाच्यम्, व्यवसायस्य व्यवसातरि विश्रान्तत्वेन ज्ञानस्य घटादिवत्कदापीदमित्यप्रतीयमानत्वेन सदा प्रमेयपदवीमुत्तीर्णत्वात्,

[[१३]]

व्यवसायानुव्यवसाययोर्घटस्यैव विषयत्वात् ।
अनुव्यवसायस्य व्यवसायप्रतिभातघटहृदयङ्गमीभावरूपत्वान्मया घटोऽयं ज्ञात इति ।
अन्यथा घटे घटान्तरस्यापि प्रामाण्यमङ्गीकरणीयं स्यात् ।
यदि घटत्वावच्छिन्नघटस्येदमिति सदा प्रमेयपदनिष्ठत्वेन कदापि तदुत्तीर्णत्वाभावात् घटे घटान्तरं न प्रमाणमिति चेदत्रापि तौल्यात्, ज्ञानस्य ज्ञातृविश्रान्तत्वेन कदापीदमिति प्रमेयपदप्रविष्टत्वाभावात्; तस्मात्सजातीयपदार्थयोर्विषयविषयिभावो न सम्भवत्येव ।
अन्यथा प्रमाणमिति प्रमेयमिति व्यवस्थैव न स्यात्, प्रमाणरूपप्रमितेरपि प्रमेयताङ्गीकारात् प्रमितिः प्रमाणमित्यप्यङ्गीकृतत्वात् ।
एवमात्मनोऽपि प्रमेयत्वं न सम्भवति, प्रमातृत्वात्, अन्यथा तस्यापि प्रमेयत्वे प्रमात्रन्तरसापेक्षत्वेनानवस्थाप्रसङ्गस्स्यात् ।
प्रमेयप्रमात्रोर्भेदघटितत्वात् ।
अत एव त्वमहम्प्रत्ययगोचरयोर्विरोधोऽपि न सम्भवति, चैतन्यस्यैकरूपत्वात्, तेजस्तिमिरयोरिव विरोधाभावात् ।
यदि त्वम्प्रत्ययस्य लक्षणयेदंरूपत्वमेव विवक्षितं तदापीदम्प्रत्ययगोचरस्य जडस्य “मयावलोक्यते, ममावभासत” इत्यात्मप्रकाशारूढतया भासमानत्वान्न तयोर्विरोधः ।
एवं तेजस्तिमिरयोरपि न विरोधः, तयोरप्यात्मप्रकाशमवलम्ब्य भासमानत्वात् ।
अन्यथा तयोर्विरोध इति स्फूर्तिरेव न स्यात् ।
“तस्य भासा सर्वमिदं विभाति, तमेव भान्तमनुभाति सर्व” मिति श्रुतेश्च ।
नापि तयोरितरेतरभावानुपपत्तिः स्मृत्यन्यथानुपपत्या प्रमेयस्य प्रमाद्वारा प्रमातृविश्रान्तेरङ्गीकरणीयत्वात् ।
संस्कारादेव स्मृतिः सम्भवतीति चेत्, तस्यापि सविषयत्वेन तेन सहैवात्मविश्रान्तत्वात् ।
नचानुभूतघटस्य नष्टत्वेन सहात्मविश्रान्तेरसम्भवात् तद्विषयतासाहित्यमात्रेणानुभूतपदार्थविषयिणी स्मृतिः संस्कारात्सम्भवतीति वाच्यम्, विषयताया विषयधर्मत्वेन तेन विना तत्साहित्यासम्भवात् ।
यदि तयोरैक्योपपत्तिर्न स्यात्, तदा घटोऽयमिति न स्फुरेत्, तेजोबाह्यान्धकारवत्प्रकाशबाह्यत्वात् ।
नच तेजोबाह्यघटवत्प्रकाशविषयत्वं सम्भवतीति

[[१४]]

वाच्यम् “आत्मन आकाशः सम्भूत” इत्यादिश्रुतेरुत्तरोत्तरभूतस्य पूर्वपर्वभूतकार्यत्वेन मृद्घटन्यायेन परम्परया तयोस्तादात्म्यात् ।
अपि चान्तःकरणावच्छिन्नत्वे चैतन्यस्यान्तःकरणप्रदेशमात्रस्थितत्वाद्विषयावच्छिन्नचैतन्यस्य विषयप्रदेशमात्रस्थितत्वादुभयोः सम्बन्धाभावः ।
नच वृत्तिद्वारा सम्बन्धः सम्भवतीति वाच्यम्, चैतन्यस्य त्रैविध्याङ्गीकारेण वृत्तिविषयावच्छिन्नचैतन्ययोरेकलोलीभावेप्यन्तःकरणावच्छिन्नशारीरक् अस्य विषयावच्छिन्नचैतन्येनैकलोलीभावाभावात्, तस्यापरिणामित्वेनान्तःकरणेन सह बहिर्निर्गमनासम्भवात् ।
प्रदेशभेदेन चैतन्यभेदाद्भेददर्शनेपि ज्ञानस्यात्मगुणत्वेन परकीयगुणद्रव्यैः संयोगेन समवायेन वा संस्पर्शाभावान्नीलादेर्विषयत्वस्य ज्ञानस्य विषयित्वस्य चासम्भवात् ।
एवञ्चोक्तरीत्या नित्यानित्यवस्तुविवेकशून्यत्वेन स्वशास्त्रस्य वैय्यर्थ्यप्रसङ्गात्, ब्रह्मणो निर्विशेषत्वेन “अस्मि, प्रकाशे, नन्दामि” इत्युत्तमान्तर्गताकर्मकाक्रमस्वसत्ताचित्तामुत्तास्फुरणशून्यत्वेन स्फटिकादिप्रकाशवज्जडत्वात्, तत्वज्ञानेन प्रपञ्चस्य बाधाङ्गीकारेण छान्दोग्योपदिष्टैकविज्ञानोदितसर्वविज्ञानप्रतिज्ञाभङ्गप्रसङ्गात्, “अथातो ब्रह्मजिज्ञासे"त्यत्र निर्विशेषब्रह्मण एव जिज्ञास्यतयोद्दिष्टत्वेन तस्य कर्तृत्वादिशून्यतया अनुद्दिष्टपदार्थलक्षणस्य शास्त्रकृद्भिरनङ्गीकृतत्वात्समनन्तरसूत्रोक्त तदसाधारणजगज्जन्मादिलक्षणस्याप्यसङ्गतत्वात्, तत एव शास्त्रयोनित्वा"दित्युत्तरशास्त्रप्रवृत्तेः कुण्ठितत्वाच्च प्रामाणिकैर्विद्वद्भिस्तदुक्तमनादरणीयमिति सङ्क्षेपः ।
अत्र क्रियासारकाराः पुनरेवमुपवर्णयन्ति-कैश्चिदथातो ब्रह्मजिज्ञासेत्यत्रासौत्रिक एवाध्यासः प्रपञ्चितः ।
न चाद्यसूत्रस्य विषयप्रयोजनसूचकत्वाद्विषयस्य च जीवब्रह्मणोः स्वरूपैक्यलक्षणस्य तज्ज्ञानस्य चाध्यासाधीनत्वात् स तथात्र सौत्रिक एवेति वाच्यम्, जीवब्रह्मणोः स्वरूपैक्यस्यैवाभावेन तस्य विषयत्वासम्प्रतिपत्तेः ।
न हि जीवब्रह्मणोः स्वरूपैक्यं क्वचित्सूत्रितं, प्रत्युत “अंशो नानाव्यपदेशा” दित्यत्र जीवो-

[[१५]]

ब्रह्मणोऽंशो भिन्नोऽभिन्नश्चाग्नेरिव विस्फुलिङ्गा इत्युक्तम् ।
नह्यग्निविस्फुलिङ्गयोः स्वरूपैक्यमस्ति येन तद्दृष्टान्तेन जीवब्रह्मणोरपि तद् भवेत् ।
न च भेदाभेदयोर्विरोधेनैकत्रासम्भवादविद्यालक्षणोपाधिकृतो मिथ्याभेद एव तत्राभिहित इति वाच्यम्, “उभयव्यपदेशात्त्वहिकुण्डलवत्” “प्रकाशाश्रयवद्वा तेजस्त्वात्” “पूर्ववद्वा” “अनुज्ञापरिहारौ देहसम्बन्धाज्जोतिरादिवत्” शाभाव्यापत्तिरुपपत्तेः” “प्रदीपवदावेशस्तथाहि दर्शयती” ति च भेदाभेदयोः प्रमाणसिद्धत्वेन दृष्टान्ते सुदृष्टत्वेन चाविरोधस्यैव व्यवस्थापनात् ।
तथा च तत्रैव वक्ष्यते ।
तथा “भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकव” दित्यत्राप्यविरोधः समर्थितः ।
तथाहीदं सूत्रं तैरेवं व्याख्यातं “अन्यथा पुनर्ब्रह्मकारणवादस्तर्कबलेनैवाक्षिप्यते ।
यद्यपि श्रुतिः प्रमाणं स्वविषये भवति; तथापि प्रमाणान्तरेण विषयापहारेऽन्यपराभवितुमर्हति, यथामन्त्रार्थवादौ ।
तर्कोपिस्वविषयादन्यत्राप्रतिष्ठितः स्यात्, यथा धर्माधर्मयोः ।
किमतोयद्येवमत इदमयुक्तं यत्पुनः प्रमाणान्तरसिद्धार्थबाधनं श्रुतेः ।
कथं पुनः प्रमाणान्तरसिद्धोर्थः श्रुत्या बाध्यत इति; अत्रोच्यते प्रसिद्धोह्ययं भोक्तृभोग्यविभागो लोके भोक्ता चेतनः शारीरः, भोग्याः शब्दादयो विषया इति, यथा भोक्ता देवदत्तो भोज्य ओदन इति ।
अस्य च भोक्तृभोग्यविभागस्याभावः प्रसज्येत, यदि भोक्ता भोग्यभावमापद्येत, भोग्यं वा भोक्तृभावम् ।
तयोश्चेतरेतरभावापत्तिः परमकारणाद् ब्रह्मणोऽनन्यत्वाभावात्प्रसज्येत ।
न चास्य प्रसिद्धस्य विभागस्य बाधनं युक्तं यथात्वद्यत्वे भोक्तृ भोगयोर्विभागो दृष्टस्तथातीतानागतयोरपि कल्पयितव्यः ।
तस्मात्प्रसिद्धस्यास्य भोक्तृभोग्यविभागस्याभावप्रसङ्गादयुक्तं ब्रह्मकारणत्वावधारणमिति चेत्कश्चिच्चोदयेत्तं प्रति ब्रूयात् स्याल्लोकवदिति ।
उपपद्यत एवायमस्मत्पक्षेऽपि विभागः, एवं लोके दृष्टत्वात् ।
तथाहि समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनवीच्यादीनामितरेतरविभाग इतरेतरसंश्लेषादिलक्षणश्च व्यवहार उपलभ्यते ।
न च

[[१६]]

समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनवीच्यादीनामितरेतरभावापत्तिर्भवति ।
न च तेषामितरेतर भावानापत्तावपि समुद्रादुदकात्मनोऽनन्यत्वं न भवति, एवमिहापि ।
न च भोक्तृभोग्ययोरितरेतरभावापत्तिः, नापि ब्रह्मणस्सदात्मकादन्यत्वं भविष्यति” इति ।
नन्विदमविरोधसमर्थनमभ्युपगमवादमात्रं “तदनन्यत्वमारम्भणशब्दादिभ्य” इति सूत्रेण वाचारम्भणादिश्रुत्या सर्वस्यापि भेदप्रपञ्चस्य बाधितत्वसमर्थनादिति चेन्न, न ह्यनेनसूत्रेण कृत्स्नस्यापि प्रपञ्चस्य बाधितत्वं समर्थ्यते ।
तथाहि- प्रत्यक्षादिप्रमाणसिद्धभेदप्रपञ्चः श्रुत्या बाधितुं न शक्यते, प्रत्यक्षविरोधे श्रुतीनामेवान्यपरत्वदर्शनात्, यथा “कृष्णलं श्रपये” दिति विधेः स्वर्णमाषे प्रत्यक्षेण विकऌतिबाधे उष्णीकरणमात्रपरता; यथा वा शोमेन यजेत" इत्यत्र यागेन भावयेदित्यर्थाङ्गीकारात् सोमेन यागेनेत्यनयोस्सामानाधिकरण्येनान्वये सति सोमलतायागयोरभेदस्य प्रत्यक्षबाधितत्वात् सोमवता यागेनेति सोमशब्दस्य लक्षणया तत्सम्बन्धिपरता श्रुता ।
अत एव परैरपि तत्त्वमसीति वाक्ये वाच्यार्थयोरभेदस्य प्रत्यक्षबाधितत्वात् लक्ष्यार्थाभेदपरताङ्गीकृता ।
अपि च यदि कृत्स्नस्य प्रपञ्चस्य बाधोऽभ्युपगम्येत तर्हि श्रुतिस्वरूपस्य तज्जन्यपदार्थस्मरणस्य वाक्यार्थज्ञानस्य च प्रपञ्चान्तः पातित्वात् तेषामपि बाधे सति कथं प्रपञ्चबाधसिद्धिः ? कथं वा मे जननी बन्ध्या, मम जिह्वा नास्तीतिवन्न व्याहतिः ? न च प्रपञ्चबाधेऽपि तत्स्वरूपं तिष्ठत्येव, ततस्तत्कार्यमप्युपपद्यत इति वाच्यं, प्रतियोग्यप्रतिषेधके अभावव्यपदेशस्य परिभाषामात्रत्वात् ।
न च श्रुत्या न प्रपञ्चस्वरूपं बाध्यते, येन व्याघातः स्यात्, किन्तु सत्यत्वमिति वाच्यं, स्वरूपबाधाभावेऽबाधितत्वरूपसत्यत्वस्यापि प्रपञ्चेऽभ्युपगमेन सत्यत्वबाधस्याप्यनुपपत्तेः ।
तस्मान्नानेन प्रपञ्चबाधस्समर्थ्यते किन्त्वभेद एवेति नास्ति भेदाभेदयोर्विरोध इति स्थितम् ।

[[१७]]

तथान्यत्रापि “इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्ति” रिति, तत्त्वमसीति जीवब्रह्मणोरभेदव्यपदेशात् ब्रह्मकर्तृका सृष्टिर्जीवकर्तृकैवेति जीवस्स्वस्य हितमेव सृजेन्नाहितं नरकादीत्याशङ्क्य, “अधिकन्तु भेदनिर्देशा” दित्यनेन जीवो न कर्ता किन्तु तदधिकं ब्रह्मैव कर्तृ, तच्च जीवस्याहितमपि सृजत्येवेत्युक्तम् ।
यद्येवं कथमभेदे हीनाधिकभावः ? कथं वेश्वरस्सर्वज्ञतया सर्वान् जीवान् स्वात्मत्वेन पश्यन् तेषु शोकमोहादिकं सृजेत् ? शोकादेस्स्ववृत्तितयानुभवप्रसङ्गादित्याशङ्क्य, “अश्मादिवच्च तदनुपपत्ति” रित्यनेन यथाश्मनां वैडूर्य-सूर्यकान्तप्रभृतीनां पाषाणत्वेन सामान्यात्मनाभेदेपि व्यक्तिभेदाद्धीनमध्यमोत्तमस्वभावेन स्वरूपवैचित्र्यं कार्यवैचित्र्यञ्च, एवं जीवपरमात्मनोरपि व्यक्तिभेदाद्धिनाधिकभावः कार्यवैचित्र्यञ्चोपपद्यत इत्युक्तम् ।
न च पाषाणत्वसामान्यमभिन्नं व्यक्तयस्तु भिन्ना एवेति नैकत्र भेदाभेदाविति वाच्यं, पाषाणत्वसामान्यावच्छिन्नप्रतियोगिकभेदाभावरूपाभेदस्य, वैडूर्यत्वाद्यवच्छिन्नप्रतियोगिकभेदस्य च व्यक्तिष्वेव सम्प्रतिपन्नत्वात् ।
न चैवं वज्रवैडूर्ययोरपि सामानाधिकरण्यव्यवहारप्रसङ्गः, सामान्याभेदोल्लेखिनस्तस्यावश्याभ्यु- पेयत्वाद्विशेषाभेदस्य चाभावात् ।
अत एवेश्वरेऽपि आत्मत्वेनैव जीवाभेददृष्टिस्सृत्रिता “आत्मेति तूपगच्छन्ति ग्राहयन्ति चे"ति ।
अत एव च परैरपि व्यक्तिस्थानीयमहन्तांशमपहाय सामान्यस्थानीयस्य चैतन्यस्यैवाभेदोऽभ्युपगतः ।
एवञ्च यद्यपि सामानाधिकरण्यव्यवहारस्य भेदाभावोपलक्षितं विशिष्टं वा स्वरूपं विषयः, तथापि सर्वात्मना यत्र भेदग्राहि प्रमाणं नास्ति तत्र स्वरूपैक्यं विषयः सोऽयं देवदत्त इत्यादौ ।
यत्र तु भेदग्राहकप्रमाणमस्ति कार्यकारणादौ तत्र पृथक्सत्तावच्छेदकभेदाभावोपलक्षितस्वरूपद्वयं सामान्याभावोपलक्षितस्वरूपद्वयं वा विषयः ।
प्रकृते च “उत तमादेशमप्राक्ष्य” इत्येकविज्ञानेन सर्वविज्ञानोक्त्या सर्वात्मकत्वं प्रतिज्ञाय, तदुपपादके ग्रन्थे “ऐतदात्म्य-

[[१८]]

मिदं सर्व"मिति नवकृत्वोऽभ्यस्तोऽपि सामानाधिकरण्यव्यपदेशो यथा न ब्रह्मप्रपञ्चयोस्स्वरूपैक्यं विषयीकरोति एवं तत्त्वमसीति व्यपदेशोऽपि, भेदाभेदव्यपदेशस्योभयत्रापि तुल्यत्वात् ङान्योऽतोऽस्ति द्रष्टा; यत्र नान्यत्पश्यति; यस्मात्परं नापरमस्ति किञ्चि” दिति भेदनिषेधस्य चेतनत्वाचेतनत्वाभ्यां संसारित्वासंसारित्वाभ्यां विरुद्धधर्मवत्वस्य चोभयत्रापि तुल्यत्वात् ।
तदस्य भेदनिषेधभेदप्रतिपादनाच्च भेदाभेदौ सिध्यतः ।
तस्मान्नास्ति भेदाभेदयोर्विरोधः ।
यदुक्तमविद्यालक्षणोपाधिकृतो मिथ्याभेद इति तन्न, अविद्यायास्तदुपाधिकत्वस्य मिथ्यात्वस्य च कुत्राप्यसूत्रितत्वात् ।
न च “आनुमानिकमप्यकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च” शूक्ष्मन्तु तदर्हत्वात्” इत्यत्र चाविद्यासूत्रितेति वाच्यं, तत्र “महतः परमव्यक्त” मित्यत्र, अव्यक्तशब्देन त्रिगुणं प्रधानं गृह्यत इति शङ्कायां शरीररूपकविन्यस्तगृहीते" रित्यनेन “आत्मानं रथिनं विद्धि शरीरं रथमेव चे"ति मन्त्रे रथत्वेन निरूपितं शरीरमेव गृह्यते, न तु प्रधानमित्युक्त्वा शरीरस्य व्यक्तत्वात्कथमव्यक्तत्वमित्याकाङ्क्षायां शूक्ष्मन्तु तदर्हत्वा” दित्यनेन सूक्ष्मशरीरमेवाव्यक्तशब्देन गृह्यते, न स्थूलशरीरमित्येवोक्त्या त्रिगुणाया अविद्याया अव्यक्तशब्देनाग्रहात्, सम्प्रतिपन्नसूक्ष्मशरीरसम्भवे अप्रसिद्धाविद्याग्रहणायोगात् ।
अविद्याया उपादानतया ब्रह्माण्डव्यापित्वस्य अहमज्ञ इति सर्वप्रत्यक्षस्य चाभ्युपगमेन सूक्ष्मत्वाव्यक्तशब्दार्हत्वयोरयोगाच्च ।
अन्यथा पूर्वसूत्रे अव्यक्तशब्देन शरीरं गृह्यत इत्युक्त्वोत्तरत्राविद्या गृह्यत इत्युच्यमाने व्याघातापत्तेः, प्रधानवादापत्तेश्च ।
न च “तदधीनत्वादर्थव” दित्यनेन प्रधानं स्वतन्त्रमविद्या-त्वीश्वराधीनेति वैलक्षण्यमुक्तमिति वाच्यं, सेश्वरसाङ्ख्यानां योगानाञ्च मते प्रधानस्यापीश्वराधीनताया अभ्युपगमेन तावन्मात्रेण वैलक्षण्यासिद्धेः ।
यथेन्द्रियप्रवृत्तेरर्थाधीनत्वादिन्द्रियेभ्यः परत्वमर्थानामेवमात्मप्रवृत्तेश्शरीराधीनत्वाच्छरीरस्यात्मनः परत्वमित्येवमर्थक-

[[१९]]

त्वात्सूत्रस्य ।
किञ्च यद्यत्राविद्या सूत्रिता स्यादुत्तरत्राधिकरणमनारम्भणीयं स्यात्, अजामन्त्रेऽपि तस्या एव ग्रहणसम्भवेन प्रधानग्रहणे विशेषकारणाभावेन पूर्वपक्षानुत्थानात् ।
प्रत्युत पूर्वत्र “देवात्मशक्तिं स्वगुणैर्निगूढा” मिति, उत्तरत्र च “मायान्तु प्रकृतिं विन्द्यान्मायिनन्तु महेश्वर” मित्यादिना चेश्वराधीनतायाः प्रकृतेः प्रतिपादनेन मध्ये अजामन्त्रेऽपि तत्परामर्शस्यैव न्याय्यत्वात् ।
एवं “ज्योतिरुपक्रमात्तु तथाह्यधीयत एके” “कल्पनोपदेशाच्च मध्वादिवदविरोध” इति च सर्वथाप्यनुपपन्नं स्यात्, अनादिभूताया अविद्याया अजाशब्देन मुख्यत्वाच्च प्रकृतत्वाच्च ग्रहणसम्भवे तत्परित्यागेन तेजोऽवन्नलक्षणां प्रकृतिमजाशब्देन शाखान्तरानुसाराद्गृहीत्वा तस्याजनिमत्वादजात्वाभावाच्चाजाशब्दानुपपत्तिरिति शङ्कायां यथा अमधुन एवादित्यस्य “असौ वा आदित्यो देवमध्वि” ति मधुत्वकल्पनं, एवमनजाया एव तेजोऽबन्नप्रकृतेरजावदजेत्यजात्वकल्पनमित्यस्यासम्भवदुक्तिकत्वात् तस्मात्तेजोऽबन्नलक्षणप्रकृतिव्यतिरेकेणानादिभूताविद्या न सूत्राभिमता; न चास्ति, प्रमाणाभावात् ।
न चाविद्यां विना निरवयवस्य ब्रह्मणो जगत्परिणामानुपपत्तिरिति वाच्यं, “कृत्स्न प्रसक्तिर्निरवयवत्वशब्दकोपो वे” त्यादिना सूत्रेणैवाशङ्क्य परिहृतत्वात् ।
तथाहि परिणामो नाम पदार्थानां पूर्वरूपपरित्यागेन रूपान्तरापत्तिः तत्र किं ब्रह्म सर्वात्मना परिणमते, उतावयवेनैकेन परिणमते अवयवान्तरेणावतिष्ठत इति वक्तव्यं तत्राद्ये प्रपञ्चकाले ब्रह्म न स्यात्, स्वरूपपरित्यागेन कृत्स्नस्य कार्यरूपापन्नत्वात् ।
अन्त्ये निरवयवत्वश्रुतिव्याकोप इत्याशङ्क्य श्रुतेस्तु शब्दमूलत्वा" दित्यनेन परिहृतं भवेत्, एवं प्रमाणान्तरगम्येऽर्थे एवंविधतर्कस्यावकाशः ।
श्रुत्येकसमधिगम्ये तु श्रुत्यैवार्थतत्वं व्यवस्थापनीयं, न तु तर्केण प्रयोजनमस्ति यथोक्तं “अचिन्त्याः खलु ये भावा न तांस्तर्केण योजये” दिति ।
श्रुतिश्च निरवयवं ब्रह्म परिणमते घनस्वरूपं जहातीत्याह ।
तथाहि- तेजोऽबन्नानां सृष्टिमुक्त्वानन्तरमेवाम्नायते शेयं

[[२०]]

देवतैक्षत हन्ता हमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" इति ।
एवञ्च तेजोऽबन्नलक्षणपरिणामव्यतिरेकेणेक्षितुः परमेश्वरस्य पृथगवस्थानमभिहितम् ।
लोकेऽपि न पूर्वरूपपरित्यागेन रूपान्तरापत्तिः परिणामः ।
उपादाननाशे निराश्रयस्य परिणामस्यासम्भवात्; किन्तु स्थित एवोपादाने तदभिन्न व्यवहारयोग्यकार्योत्पत्तिरेव परिणामः शरादौ गत्यादिरिवेत्युक्तं “आत्मनि चैवं विचित्राश्चही"ति ।
यथा जीवात्मनि जीवस्वरूपानुपमर्देनैव विचित्रा बुद्धिच्छादयः परिणामविशेषा उत्पद्यन्ते यथा च मृत्तन्त्वादिषु घटपटादयः ।
इयांस्तु विशेषः, यत्रोत्पादने उत्पत्स्यमानकार्यान्तरं वर्तते तत्रोत्पत्यर्हेणैव कार्यान्तरं वर्तते, तत्र चोपमर्देन घटाद्युत्पत्तिः ।
यत्र तु विरोधिकार्यान्तरं नास्ति तत्राभावोपमर्देनैव कार्यान्तरोत्पत्तिः, यथा तन्तुषु पटाभावोपमर्देनैव पटोत्पत्तिः ।
अङ्कुरादावपि न बीजादिकमुपादानं कार्यानन्वयित्वात्, कार्यान्वयिन एवोपादानत्वात् ।
किन्तूभयानुस्यूतावयवा एव ।
तथा च श्रुतिः “एतस्य वै सोम्यैषोऽणिम्न एवं महान्न्यग्रोधस्तिष्ठति” इति ।
तेषां च स्वरूपानुपमर्देनैव अङ्कुरादिजनकत्वम् ।
उक्तञ्च सूत्रकृता तर्कपादे ङासतोऽदृष्टत्वा"दिति ।
विवृतञ्च तैरपि तथैव ।
एवं ब्रह्मणो निरवयवस्य स्वरूपानुपमर्देनैव जगत्परिणाम उपपद्यते ।
विपक्षे च बाधकमुक्तं श्वपक्षदोषाच्च” इति ।
प्रधानस्य सत्वादीनाञ्च कार्त्स्न्येन परिणामे स्वरूपनाशापत्तिः ।
एकदेशपरिणामाभ्युपगमे च निरवयवत्वाभ्युपगमव्याकोपः ।
सोऽयमविद्यायामपि समानो दोषः, अविद्याया अपि प्रधानतुल्यत्वात् ।
न चाविद्याया विचित्रशक्तियोगात्परिणामस्सम्भवति न ब्रह्मण इति वाच्यं, “परास्य शक्तिर्विविधैव श्रूयत” इति श्रुत्या शर्वोपेता च तद्दर्शना"दिति सूत्रेण च ब्रह्मण एव विचित्रशक्तिप्रतिपादनात् ।
अविद्यायां तादृशशक्तौ च प्रमाणाभावात् ॥
एवं सूत्रार्थे ब्रह्मपरिणामे स्थितेऽपि, अविद्या परिणमते ब्रह्म

[[२१]]

विवर्तत इत्यभिधानमयुक्तम् ।
“आत्मकृतेः परिणामा” दिति सूत्रविरुद्धञ्च ।
यद्यविद्यैव परिणमते न ब्रह्म तदा ङ विलक्षणत्वादस्य तथात्वञ्च शब्दा"दित्यधिकरणमनुपपन्नं स्यात्, अविद्याजगतोर्वैलक्षण्याभावात् ।
ब्रह्मणश्च परिणामानभ्युपगमात् ।
किञ्च यद्यविद्या नाम काचिदनादिसिद्धा वाश्रीयते तस्या ब्रह्मविकारत्वाभावेन ब्रह्माभेदाभावात् ब्रह्मणि विज्ञातेऽपि सा न विज्ञातेति एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा पीड्येत ।
तस्मान्नास्त्येवाविद्या ।
नापि जीवपरभेदस्यौपाधिकत्वम् ।
न च “अत एव चोपमा सूर्यकादिव” दित्यत्रौपाधिकत्वं क्वचित्सूचितमिति वाच्यं, तत्रहि जीवपरभेदस्यौपाधिकत्वं न सूच्यते, किन्तर्हि ब्रह्मण एव “अणोरणीयान्महतो महीया” नित्यादिनाणुत्व महत्वादिप्रतीतेस्तदुभयमस्तीति शङ्कायां ङ स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र ही" ति एकत्वाद्ब्रह्मण्यस्मिन्विरुद्धरूपद्वयं न सम्भवतीत्युक्त्वा क्षेत्राणां भिन्नपरिमाणत्वादन्तरनुप्रविष्टस्यापि परमात्मनो भिन्नपरिमाणत्वप्रतिभासे दृष्टान्त उपादीयते सूर्यकादिवदिति ।
अत्र जलसूर्ययोर्मूर्तद्रव्यत्वाद्रूपवत्वाच्च तत्र प्रतिबिम्बस्सम्भवति, ब्रह्मणस्त्वमूर्तत्वादरूपत्वाच्च प्रतिबिम्बानुप- पत्तिरिति “अम्बुवदग्रहणात्तु न तथात्व” मित्यनेनाशङ्क्य, नह्यत्र बिम्बप्रतिबिम्बभावेन जीवेश्वरभेदोऽभिप्रेतः, किन्तु ब्रह्मण एव क्षेत्रपरिमाणानुरूपपरिमाणप्रतिभास इत्ययमेवार्थो दृष्टान्तोपपादनेन विवक्षित इति स्पष्टीकृतं “वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेव"मिति ।
तस्मान्नास्ति भेदोपाधिकत्वम् ।
अत एवैकस्मिन्नेवान्तरनुप्रविष्टयोर्जीवेश्वरयोर्भेदः प्रतिपाद्यते “गुहां प्रतिष्टावात्मानौ हि तद्दर्शना” दित्यादौ ।
तस्माज्जीवपरभेदस्य स्वाभाविकत्वान्नास्ति जीवपरयोस्स्वरूपैक्यं, नास्ति च स शास्त्रस्य विषयः ।
किञ्च जीवपरयोर्यदि स्वरूपैक्यं शास्त्रविषयः, तर्हि तदेव प्रत्यधिकरणं प्रतिपाद्येत ।
नच प्रतिपाद्यते, किन्तु प्रत्यधिकरणं तेन तेन वाक्येन जीवः प्रतिपाद्यते, ईश्वरो वेति संशये जीव इति पूर्वपक्षं

[[२२]]

कृत्वा तत्तद्वाक्यप्रतिपाद्यधर्माणां जीवेऽसम्भवात् तद्व्यतिरिक्त ईश्वरः प्रतिपाद्यत इति प्रतिष्ठाप्यते, ङेतरोऽनुपपत्तेः ।
भेदव्यपदेशाच्चान्यः ।
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ।
सुषुप्त्युत्क्रान्त्योर्भेदेन ।
अनुपपत्तेस्तु न शारीरः ।
कर्मकर्त्तृव्यपदेशाच्च ।
स्मृतेश्च ।
शब्दविशेषात् ।
अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ।
सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ।
अनवस्थितेरसम्भवाच्च नेतरः ।
शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ।
विशेषणभेदव्यपदेशाभ्याञ्च नेतरौ ।
प्राणभृच्च ।
भेदव्यपदेशाच्च ।
प्रकरणाच्च ।
स्थित्यदनाभ्याञ्च ।
ईक्षतिकर्मव्यपदेशात्सः ।
इतरपरामर्शात्स इति चेन्नासम्भवात् ।
उत्तराच्चेदाविर्भूतस्वरूपस्तु ।
अन्यार्थश्च परामर्शः ।
नाणुरतच्छ्रतेरेति चेन्नेतराधिकारात् ।
अधिकन्तु भेदनिर्देशात् ।
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात्” इत्यादिना ।
नच जीवस्यौपाधिकत्वात्तेन रूपेण प्रतिपाद्यता परं निषिध्यते, न स्वरूपेणेति वाच्यं, एवं हीश्वरस्यौपाधिकत्वात्तेनापि रूपेण प्रतिपाद्यता न स्यात् ।
स्वरूपमानस्यैव स्वाभाविकत्वेन प्रतिपाद्यता स्यात् ।
नच तथा प्रतिपाद्यते, तत्प्रतिपादने हेत्वसम्भवात् ।
किन्तु जीवव्यावृत्तेनेश्वरत्वेनैव रूपेण प्रतिपाद्यते “अन्तस्तद्धर्मोपदेशात्” “अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्” इत्यादिना ।
तस्मान्न जीवब्रह्मणोस्स्वरूपैक्यं शास्त्रस्य विषयः ।
नापीदं प्रयोजनं “जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च” “भागमात्रसाम्यलिङ्गाच्चे” त्यादिना तस्यान्यथोक्तत्वात् ।
तस्मादध्यासस्य विषयप्रयोजनानुपयोगित्वादसूत्रितत्वं सिद्धम् ।
तथा “जन्माद्यस्य यत” इति ब्रह्मणो जगत्कारणत्वं लक्षणमुक्तम् ।
किंविधं तत्कारणत्वमिति पृच्छायां “प्रकृतिश्च प्रतिज्ञादृष्टान्तानुरोधा"दित्यादिना निमित्तत्वमुपादानत्वं चेत्युक्तम् ।
एवं ब्रह्मण एवोभयविधकारणत्वे सूत्रिते कैश्चिदविद्योपादानमित्युक्तम् ।
अन्यैस्सूक्ष्म

[[२३]]

भूतपञ्चकमुपादानमिति ।
अपरैः प्रकृतिरुपादानमिति ।
तदेतदुपादानान्तराभिधानं सूत्रासम्बद्धम् ॥
तस्मादद्वैतेदम्पर्यप्रवृत्तवैयासिकसूत्रसन्दर्भानन्वितत्वेन विवर्तवादस्यापातरमणीयतया प्रतीयमानत्वात्स वीरशैवैस्तत्वविद्भिः पदपदार्थसङ्गतिज्ञैरनादरणीय एव ।
ननु वीरशैवसिद्धान्तस्य लिङ्गाङ्गसामरस्यात्मकपरिणाम्युपादानरूपशक्तिविशिष्टशिवाद्वैतस्य सकलद्वैतविलक्षणत्वेन साधनीयतया विवर्तवादिप्रतिपादिताद्वैतसन्दर्भस्याध्यासाधिनत्वेन तस्य दूषितत्वात्तदतिरिक्ताद्वैतनिर्वाहस्यानुपलभ्यमानत्वात्स्वाभिमताद्वैतनि र्वाह एव न सिध्येत्, विश्वोपादानकारणीभूतमिथ्याप्रत्ययरूपाविद्याया अनङ्गीकारात्, ब्रह्मणो निर्विकारत्वेन परिणमनासम्भवात्, विकारित्वादिदोषप्रसङ्गाच्च ।
प्रकाशबाह्योपादानकारणान्तरस्याभावात्, अद्वैतसिद्धान्तविरोधादिति चेत्, अत्रेदं वीरशैवाभिमतशिवाद्वैतसरणि सारूप्येण सारस्वतं सूत्रं-

सन् हृदयप्रकाशो भवन क्रिययाश्रितो भवति कर्ता ।
सैव क्रियाविमर्शः स्वस्था क्षुभिता च विश्वविस्तारा ॥
इति ॥

अस्यायमर्थः ।
हृदयप्रकाशस्सन्, अङ्गीकरणीयः ।
“हृदयं तद्विजानीयाद्विश्वस्यायतनं महदि"ति श्रुतेरत्र हृदयशब्देन हृदये प्रकाशमान आत्मा विवक्षितः “हृद्यय” मिति छान्दोग्ये हृदयशब्दार्थनिरुक्तिं मनसि निधाय शिवाद्वैतमञ्जरीकारेणैतत्सूत्रं व्याचक्षाणेन “हृदयं तद्विजानीया"दिति श्रुतिरुदाहृता ।
हृदये प्रकाशमानः परमेश्वरस्सन् सद्रूपेणास्तीति व्याख्यात्रा विवरणं कृतम् ।
सन्, हृदयप्रकाश इति शब्दद्वयेन सदात्मकत्वं चिदात्मकत्वञ्च क्रोडीकृतम् ।
अन्यथा सदात्मकत्वानङ्गीकारे वक्तुस्स्वस्यैव सत्ताहानिप्रसङ्गात्, स्वस्यैव

[[२४]]

ब्रह्माभेदात् ।
प्रकाशरूपत्वानङ्गीकारे जगतामज्ञत्वरूपं कस्मिन्नपि विषयेऽग्राहकत्वं स्यादिति टीकार्थः ।
तदनुकूला श्रुतिः “असन्नेव स भवति, असद्ब्रह्मेति वेद चेत् ।
अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदु"रिति ।
प्रकाशांशे श्रुतिर्नोदाहृतेति न भ्रमितव्यं, पूर्वोक्ताया “हृदयन्तदि"त्यादिश्रुतेरेव छान्दोग्यनिरुक्त्यनुसारेण प्रकाशरूपत्वाभिप्रायत्वात् ।
अत एव चित्त्वेनानन्दत्वं मूलसूत्रे उक्तप्रायमिति टीकायामानन्दश्रुतिरुदाहृतेति न प्रकृतासङ्गतिः ।
“अस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती"त्यानन्द श्रुतिः ।
अथ भवनक्रियया आश्रितः= भवनक्रियाया आश्रयो भवति कर्तेत्यस्यांशस्य व्याख्यातुस्तात्पर्यमुच्यते ।
अस भुवीति धातोः श्नसोरल्लोप” इत्यल्लोपे “लटश्शतृशानचावप्रथमासमानाधिकरण” इति शतृप्रत्यये सन्निति शब्दः “अस्ति ब्रह्मेति चेद्वेदे"ति श्रुतिप्रत्यभिज्ञापक इति मत्वा, अस भुवीति धातुपाठसिद्धार्थिकभवनक्रियाया आश्रयत्वेनेति व्याख्यातम् ।
ननु शिवाद्वैतं सिषाधयिषुणा व्याख्यात्रा द्वैतमेव साधितमासीत्, “विनायकं प्रकुर्वाणो रचयामास वानर"मिति न्यायात् ।
पचतीत्यादौ धात्वर्थाख्यातार्थक्रियाकर्तृर्णां परस्परं भेदस्य व्युत्पत्तिसिद्धत्वेन प्रकृतेऽस्तीत्यत्रापि धात्वर्थप्रत्ययार्थयोर्भेदस्यावश्यं वक्तव्यत्वादिति चेन्नैवम् अन्यत्र पचतीत्यादौ भेदे सत्यपि प्रकृतेऽस्तीत्यादावनुपलम्भबाधकेन धात्वर्थाख्यातार्थक्रियाकर्त्रोरभेदस्य वक्तव्यत्वात्, अन्यथा निर्वाहाभावान्नाद्वैतहानिः ।
अत एव कूलं पिपतिषतीत्यादौ सनर्थस्त्यक्तः ।
जानातीत्यादावाख्यातार्थस्त्यक्तः ।
तदिदं मनसि निधायाह सन् हृदयप्रकाश एवास्तीत्यादिना ।
भवनक्रियाश्रयत्वादिति व्याख्यानेन धात्वर्थाख्यातार्थयोः प्रकृते भेदः परिहृतः ।
कर्ता भवतीत्यनेन धात्वर्थस्याख्यातार्थव्यापारस्य च भेदः परिहृतः ।
ननु शिवाद्वैते किं प्रमाणं ? “अस्मि प्रकाशे नन्दामी” त्यहन्तासामानाधिकरण्येन सत्ताज्ञानानन्दानुभवः प्रमाणम् ।
अन्यथा ब्रह्मणा जडप्रकाशवैलक्षण्यं न स्यात् ।
तद्यथा “वह्निरस्ति प्रकाशत” इत्यादौ

[[२५]]

प्रत्यगात्मानवगाहेन जडत्वस्यानुभवसिद्धत्वं जडत्वस्य भेदस्य च वह्न्यादौ विद्यमानत्वात् ।
एवमस्मि प्रकाश इति जडवैलक्षण्येनानुभवो वक्तव्यः ।
एवञ्च सति प्रकाशविषयकज्ञानस्य घटज्ञानविषयकज्ञानवदनुव्यवसायत्वेन भेद एव स्यात्, न तु शिवाद्वैतसिद्धिरित्याशङ्कायां सत्यां सैव क्रिया स्वस्थाचेत्यादिटीकयानुव्यवसायप्रयुक्तो भेदः परिहृतः ।
अस्ति क्रियायास्सैवेति तच्छब्देन क्रोडीकरणाद्विमर्शस्यानुभवरूपस्य, अस्धात्वर्थक्रियायाश्च भेदो नास्तीति टीकामूलयोस्तात्पर्यम् ।
अनेन विमर्शसाभिलापप्रकारेण शिवाद्वैतस्य सप्रमाणकत्वमुक्तमेवेति शिवाद्वैतं समर्थितमस्मि प्रकाशे, नन्दामीति विमर्श इत्यादिना ।
तथा च परमात्मनस्स्वस्थतादशायां सच्चिदानन्दात्मनैवावस्थितिः चिदादिशक्तीनामपि कारणात्मनावस्थानमिति टीकामूलयोः परमोनिष्कर्षः ।
क्षुभिता चेत् सृष्ट्युन्मुखी चेत्, “दृश्यते त्वि” ति ब्रह्मसूत्रस्थित्या गोमयाद्वृश्चिकाद्युत्पत्तिरिव शिवादिभूम्यन्तषट्त्रिंशत्तत्वात्मकविचित्रविश्वस्फुरणमयी भवतीति ।
तथाहि “परास्य शक्तिर्विविधैव श्रूयते, स्वाभाविकी ज्ञानबलक्रिया चे"ति श्रुतिस्थानुक्तार्थप्रकाशकचकारचमत्कारान्महेश्वरस्वभावभूतपराश् अक्तेश्चिदा- नन्देच्छाज्ञानक्रियादिनानारूपतावगमात् ।
नच “कामस्सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धाधृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एवे"ति श्रुतेरिच्छादीनां मनोधर्मत्वात्, अत एव शारीरकनिष्ठत्वेनानुभूयमानत्वात्कथमात्मस्वभावतेति वाच्यं, नैयायिकादिभिरपि अशरीरस्यापीश्वरस्य गुणत्वेनेच्छादीनामङ्गीकृतत्वात्, अन्यथा घटादिभिश्चाविशेषत्वप्रसङ्गात् ।
किञ्च जिज्ञासाबन्धमोक्षाणां सामानाधिकरण्यनियमान्मनसस्तद्विशिष्टस्यैव वा मुक्तिप्रसङ्गात्, तयोर्द्वयोरपि मिथ्यात्वात् ।
जिज्ञासाबन्धविशिष्टस्य तद्विशेष्यांशे मोक्ष इत्यपि वक्तुं न शक्यते, वैयधिकरण्यप्रसङ्गात् ।
विशिष्टविशेष्ययोरैक्ये मिथ्यात्वेन मोक्षाक्षमत्वात् ।
तस्मात्कृत्रिमप्रमातुरिच्छादेर्मनोऽभिव्यक्तताप्रतिपादने श्रुतेस्तात्पर्यमित्यङ्गी-

[[२६]]

करणीयत्वेन विरोधाभावात् ।
“तस्मिन्कामाः समाहिता” इति श्रुत्यन्तरे समुपसर्गस्वारस्येनात्मस्वभावतावगमाच्च ।
एवं स्थिते तत्र चिदानन्दयोर्न कदाचिद्विक्षोभः, अक्रमस्वभावत्वात् ।
इच्छादिशक्तीनां सक्रमाक्रमस्वभावत्वेन विक्षोभभाक्त्वात् ।
नच सक्रमाक्रमयोर्विरोध इति वाच्यं, वदतो व्याघातात् ।
भेदाभेदयोर्विरोध इति ज्ञात्वैव वक्तव्यत्वेन तद्ज्ञाने भेदाभेदरूपविषययोर्भासमानत्वात्, तस्य सविषयत्वात् ।
अन्यथा विरोधस्फूर्तिरेव न स्यात् ।
तस्मात्प्रकाशस्य प्रतियोग्यभावात् ।
किञ्चान्योन्याभावनिबन्धनभेदस्यैवाभेदेन विरोधः ।
न वयं तादृशं भेदं ब्रूमः, तस्यासम्भवात् ।
तत्रान्यत्वस्य पदार्थस्वभावतानुपपत्तेः, पदार्थस्य पदार्थान्यत्वप्रसङ्गात् ।
नच पदार्थस्य पदार्थान्तरान्यत्वं स्वभाव इति नोक्तदोष इति वाच्यं, तस्य विशेषघटितत्वेनाप्रश्नविषयत्वात् भेदसामान्यलक्षणघटकान्यत्वस्यैव प्रश्नविषयत्वात् ।
किञ्च घटान्यत्वं पटस्वभावः, पटान्यत्वं घटस्वभाव इत्यसाधारणप्रतीतिर्घटपटयोर्भेदे सिद्धे सत्येवोपपद्यत इति तस्याद्याप्यभिलष्यमाणस्वभावत्वात् ।
नच तन्तुमयत्वमृण्मयत्वादिना तयोर्भेदस्य सिद्धत्वमिति वाच्यं, घट एव मृण्मयत्वं पट एव तन्तुमयत्वमिति निश्चयस्यापि घटपटभेदसिद्ध्यनन्तरभावित्वात् ।
किञ्च तन्तुमयत्वमृण्मयत्वयोरपि भेदस्तावत्तत्तदवयवभेदात्, तदवयवभेदस्तदवयवभेदादिति परमाणुपर्यन्तपर्यालोचनायां निरंशत्वादतीन्द्रियत्वाच्च तत्र भेदाग्रहान्मूलक्षयकार्यनवस्थाप्रसङ्गात् ।
नचान्यत्वं भेदनिबन्धनः कश्चिदुपाधिः, भेदस्य मनोरथायमानत्वेनात्माश्रयादिदोषप्रसङ्गात् ।
किन्तु स्वर्णकुण्डलन्यायेन विभागो भेद इति ब्रूमः ।
तत्र कुण्डलं स्वर्णं न भवतीति परिहर्तुमशक्यत्वात्, स्वर्णार्थिनः कुण्डले प्रवृत्तिदर्शनात् ।
एवं स्वर्णमपि कदापि कुण्डलं न भवतीति परिहर्तुमयुक्तं, कुण्डलयोग्यत्वात्, कुण्डलाकारेण स्वर्णस्यैव भासमानत्वात् ।
स्वर्णे कुण्डलं नास्तीत्यपि वक्तुं न शक्यते, स्वर्णं कुण्डलं जायत

[[२७]]

इत्यादिव्यवहारे वर्तमानकालरूढजनिक्रियायाः निराश्रयत्वप्रसङ्गात्, जन्मकाले कुण्डलादिवस्तुस्थित्यभावात्, अस्ति चेदुत्पत्यसम्भवात् ।
उत्पन्नवस्तुस्थित्यभावेऽप्युत्पद्यमानवस्तुस्थित्यङ्गीकारे व्यक्ततया स्थित्यसम्भवात्, उक्तदोषात्, अव्यक्ततया स्वकाराणभेदेन कुण्डलादिवस्तुस्थितेरङ्गीकरणीयत्वात् ।
एवं स्थिते विभागनिबन्धनभेदस्याभेदेन विरोधाभावात्, तस्मादेव विभज्यमानत्वेन तदुपजीवित्वात् ।
चित्रककौशलवशादालेख्यविशेषे गजवृषभयोः प्रतिभास इवाहिकुण्डलमिव ब्रह्मणस्स्वतन्त्रत्वेन शक्तिशक्तिमद्रूपतया भासमानत्वात् ।
चेतन इत्यत्र प्रत्ययस्य भावार्थकत्वेनानभिव्यक्तक्रियारूपधात्वर्थाभिव्यञ्जकत्वात्, क्रियायास्साश्रयत्वनियमेन तदाश्रयस्य कर्तुरपि तेनैवाक्षिप्तत्वात् ।
तदन्तर्गतक्रियायाः कृतिरूपत्वात्कृतेस्सविषयत्वात् ।
चित्स्वभावत्वेन कृतेस्स्वप्रकाशत्वात् ।
एवं विधस्वतन्त्रप्रकाशताशक्तेः प्रकाशैकरूपत्वात् ।
अत एव विभागस्य संयोगपूर्वकत्वात्, ब्रह्मणि प्रपञ्चसम्बन्धाभावान्निष्प्रपञ्चत्वाद्वैभासिकभेदो न सम्भवतीति शङ्काकलङ्कस्यानवकाशात् ।
ङेह नाने"ति श्रुतेः प्रापञ्चिकभेदनिरासपरत्वात्, विमर्शशक्तेस्सकलसामरस्यात्मकत्वाद्भेदेन स्थित्यसम्भवात्, तस्यास्समवायसंयोगान्यतरसम्बन्धसापेक्षत्वात्, गुणगुणित्वाद्यनङ्गीकारेण समवायस्यासम्भवात् ।
संयोगस्य क्रियापूर्वकत्वात्, अन्यतरोभयकर्मजश्च संयोगस्तावद्भिन्नदेशस्थितयोरेवोपपद्यत इति ब्रह्मबाह्यदेशाभावेन तदसम्भवात् ।
अक्रियापूर्वकसंयोगस्याप्रसिद्धत्वात् ।

एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी ॥

इति श्रुतेर्व्योमादीनाञ्च कार्यकोटिप्रविष्टत्वेन परमाण्वाकाशसंयोगदृष्टान्तस्यापि दूरापास्तत्वादनुभयवादिसिद्धत्वात्, सदा परभारवाहकत्वेन स्वातन्त्र्यभङ्गप्रसङ्गात् ।
सम्बन्धस्यैकत्वेन द्विनिष्ठ-

[[२८]]

त्वासम्भवात्, निरंशत्वात्, सांशत्वे द्रव्यत्वापत्त्या सम्बन्धित्वेन तस्यापि सम्बन्धान्तरान्वेषणमुखेनानवस्थाप्रसङ्गाच्च ।
ङिष्कल” मित्यादिश्रुते स्स्वव्यतिरिक्तप्राकृतहेयकलादिराहित्ये तात्पर्यात् ।
अन्यथा त्वचेतनत्वप्रसङ्गात्, स्फटिकादिप्रकाशवन्निर्विमर्शत्वादिति सूचितत्वात् ।
तस्माद्ब्रह्मणश्चेतनत्वात् श एकाकी न रमते, स द्वितीयमैच्छत् ।
स एतावानास, तत्सृष्ट्वा तदेवानुप्राविशत्, तदनुप्रविश्य सच्च त्यच्चाभवदि"ति श्रुतेः, “लोकवत्तु लीलाकैवल्य” मिति ब्रह्मसूत्रस्थितेश्च, स्वक्रीडार्थं विश्वभवननिर्माणे स्वातिरिक्तकारणान्तरसापेक्षत्वे कुलालादिवत्स्वात्मौन्मुख्यविगलनेनान्यत्रौन्मुख्यात्, अदृष्टादिपरतन्त्रत्वेनानीश्वरत्वप्रसङ्गात्, स्वातिरिक्तकारणान्तरनैरपेक्ष्येणेप्सितार्थप्रदचिन्तामण्यादिवद्योगिवदूर् णनाभवच्च मयूराण्डरसगतपादपक्षादिवर्णवैचित्र्यन्यायेन तादात्म्येन चिद्व्याप्तिरूपत्वेन स्वतन्त्रतालक्षणस्पन्दनरूपत्वेन चिदुज्वलनरूपत्वेन चिदाप्यायनरूपत्वेन चिद्रूपत्वेन च स्वात्मामलमुकुरमण्डलतादात्म्यापन्नविमर्शशक्तिक्रोडीकृतव्योमादिपञ्च प्रमेयविश्वादिचतुरात्मलक्षणजडाजडात्मकं विश्वं स्वेच्छाशक्तिरूपापोहनटङ्कवशाच्छिवादिधरण्यन्तषट्त्रिंशत्तत्वात्म ना विचित्रीकृत्य सृष्टिस्थितिसंहारबन्धमोक्षलक्षणपञ्चकृत्यमहानाट्यरसिकस्सन् क्रीडतीति राद्धान्तः ।
इच्छाशक्तेस्सविषयत्वात् ।
विश्वस्यान्तस्स्थितिं विना तदुन्मेषानुपपत्तेः ।
ननु विश्वस्य ब्रह्माभेदेन सत्ताङ्गीकारेण नित्यत्वात्, तदन्तर्गतबन्धस्यापि तथात्वेन तस्य तत्वज्ञानादपि निवृत्त्यसम्भवेन मुक्तिर्न स्यात्, मुक्तस्यापि बन्धसङ्गः, प्रपञ्चस्य षड्भावविकारभाक्त्वेन ब्रह्मणस्तदभेदेनानित्यत्वप्रसङ्गश्चेति चेदुच्यते ।
घटो नश्यतीत्यत्र नाशक्रिया न घटनिष्ठा भवितुमर्हति स्वत एव नाशासम्भवात्, कालकरणाधीनत्वात् ।
करणानां कर्मेन्द्रियसापेक्षत्वात्, तेषां ज्ञानेन्द्रियसापेक्षत्वात्, तेषामन्तरिन्द्रियसापेक्षत्वात्, तस्य कृत्रिमप्रमा-

[[२९]]

तृसापेक्षत्वात् तस्य देशकालादिपरतन्त्रत्वेन स्वातन्त्र्येण विना न सम्भवतीति तस्यास्तन्निरूपितत्वेन तन्निष्ठताया अकामेनाप्यङ्गीकरणीयत्वेन कर्तृमहेश्वरस्वभावत्वात्, दर्शितदिशा कार्यस्य कुण्डलादेस्स्वर्णादिकारणात्मनावस्थितेरङ्गीकरणीयत्वेन कार्यस्य कार्यनाशस्य कारणात्मनावस्थितिरूपत्वात्, न विकारित्वादिदोषप्रसक्तिः ।
दुग्धादौ परिणमनक्रियायाः कालकरणकर्तृसापेक्षत्वेन दृष्टतया कर्तृस्वभावत्वात्, गुणदोषयोरपि स्वात्मैकरूपत्वात् ।
किञ्च लोके परिणामिवस्तुषु न सर्वत्र सर्वात्मना स्वरूपपरित्यागः, स्वर्णादिरूपपरिणामिद्रव्यस्य कुण्डलाकारेण परिणतौ स्वर्णादिरूपत्वापरित्यागस्यानुभूयमानत्वात् ।
इतोऽपि स्वतन्त्रभूतवस्तुपरिणमनस्य कूर्माङ्गभङ्गीन्यायेन विकारलेशस्याप्यसम्भवात् ।
“क्रिया हि कर्मणैव विश्राम्येन्न तु कर्तरीति” न्यायान्नानिर्मोक्षत्वप्रसङ्गश्च ।

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिवेदना ॥

इति भगवदुक्तेर्भोगापवर्गलक्षणपूर्वापरकोट्योर्विश्वस्य चिदानन्दैकरसत्वेन स्वस्वरूपतया प्रतिबन्धकत्वाभावात् ।
इच्छादिभूमिप्रविष्टघटादिवदर्थक्रियाशून्यत्वात् मध्यकोटावेव प्रतिबन्धकं, अर्थक्रियाविशिष्टत्वात् ।

मातृमेयमिति साधनात्मिका त्वत्कृतोन्मिषति या विकल्पधीः ।
त्वत्स्वरूपमकलङ्कितं तया तस्य देवि विदुषो न मुक्तता ॥

इति चिद्गगनचन्द्रिकायां कालिदासोक्तेश्च ।
ईश्वरेच्छाया एव नियामकत्वान्मुक्तस्य न पुनर्बन्धप्रसक्तिरिति न काचिदनुपपत्तिरिति शक्तिपातपवित्रितहृदयैर्विद्वद्भिर्विमर्शनीयम् ।

[[३०]]

एवं स्थिते ब्रह्ममीमांसायां भगवता बादरायणेन प्रथमसूत्रे शदेव सौम्येदमग्र आसीदेकमेवाद्वितीयं, तदैक्षत बहुस्यां प्रजायेय” इति श्रुतेः, “ईक्षदर्शनाङ्कनयो"रिति धातुगत्या ईक्षणलक्षणदर्शनस्वभावत्वेन जडविलक्षणतया बृहत्त्वात्; “बहु स्या” मिति बहुभवनक्रियामर्शनरूपत्वेन दर्शनस्वभावजीवलक्षणान्यनिरपेक्षणकर्तृतालक्षणानन्दपरिबृंहि तत्वाच्च, ज्ञानक्रियास्वतन्त्रं ब्रह्म जिज्ञास्यत्वेनोद्दिष्टमिति समनन्तरसूत्रोक्ततदसाधारणजगज्जन्मादिलक्षणमप्युपपद्यते ।
तथाहि “अथातो ब्रह्मजिज्ञासा” इत्यत्र आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इति विषयवाक्यम् ।
शास्त्रमनारम्भणीयमारम्भणीयं वेति सन्देहः ।
“अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः” इति भगवतैव गीतत्वात्, अत्र लोकप्रसिद्धिर्नानुमानेन; पामरादीनां व्याप्त्यादिज्ञानशून्यत्वात् ।
किन्त्वहमित्याबालविदितत्वेन ।
वेदेऽपि “अहं ब्रह्मास्मि” शत्यं ज्ञानमनन्तं ब्रह्म” “अहमस्मि प्रथमजा ऋतस्य” “पूर्वं देवेभ्योऽमृतस्य नाभिः” इत्यादिश्रुतेर्महेश्वरस्य प्रसिद्धत्वादसन्दिग्धतया विचारविषयाभावात्, जीवाश्रिताविद्याया अपि ब्रह्मैकरूपत्वेन निवृत्त्यसम्भवात्, ब्रह्मबाह्यपदार्थान्तराभावात्, जन्यानन्दावाप्तेरनित्यत्वेन हेयत्वात्, नित्यानन्दस्य अनवाप्तव्यत्वान्नित्यप्राप्तत्वात्, प्रयोजनाभावाच्च शास्त्रमनारम्भणीयमिति पूर्वः पक्षः ।
सिद्धान्तस्तु ब्रह्म तावदुभयत्राप्यहमिति प्रसिद्धमेव ।
तथापीह लोके अवैदिकेषु विवेकिनो विज्ञानवादिनो हि क्षणिकज्ञानसन्तानापेक्षया नित्यः कश्चिद्बुद्धिमान्, तद्बुद्धिप्रेरकः कश्चिदीश्वरश्च नास्त्येवेति वदन्ति ।
तयोर्बुद्धिभिन्नत्वे सति बुद्धिबाह्यतया तत्सत्वे मानाभावात् ।
यदि मानमस्ति तस्य बुद्ध्यन्तर्गतत्वेन घटादिभाववद्बुद्धितुल्यताया अनिवार्यत्वादिति ।
एवं वैदिकेष्वपि कापिलास्तु “अजा” मित्यादिश्रुतेः प्रधानस्य विश्वकारणत्वश्रवणात्पुरुषप्रधानातिरेकेण कश्चिदीश्वरो नास्तीतिवदन्ति ।
जैमिनीयास्तु सुखलक्षणस्वर्गं प्रति ज्योतिष्टो-

[[३१]]

मादिकर्म्मैव विधीयते ।
तज्जन्ययजमाननिष्ठापूर्ववशादेव तत्साधनीभूतपदार्थोत्पत्तिसम्भवात्, वेदान्ताः कर्तृदेवताद्रव्यपराः, अनुष्ठानोपयोगित्वेन सार्थक्यात्कर्मशेषा एव न ब्रह्मपरा इति वदन्ति ।
तस्मादेवंविधवादिनां वेदेऽपि विप्रतिपन्नत्वात्, एवं विधवैदिकावैदिकप्रविष्टपाखण्डमतनिराकरणद्वारा वक्ष्यमाणशक्तिविकासलक्षणमोक्षावाप्तये शास्त्रमारम्भणीयमिति ।
एवञ्चास्य सूत्रस्यायमर्थः ।
अथ= अनेकजन्मार्जितशिवपूजादिसत्कर्ममहिम्ना सम्प्राप्तशमदमादिसाधनसम्पन्नस्याधिकारिणो मोक्षविषयकात्युत्कटेच्छाशक्त्याविर्भावानन्तरं, अतः= अथातो धर्मजिज्ञासेत्यादिस्वव्यतिरिक्तदेवतोपासनालक्षणयागयोगादिकर्मणां “एष कर्मचितो लोकः क्षीयत” इत्यादिश्रुतेरनित्यत्वेन हेयत्वात्, कर्मणो जडत्वेन अपूर्वोत्पादनोद्यमशून्यत्वात्, देवतायाश्च शब्दमयत्वेन जडत्वात्, तत एव फलसाधनयोर्गगनकुसुमायमानत्वात्, अनेनैव न्यायेन प्रधानकारणतावादिकापिलमतस्यापि प्रत्याख्यातत्वात्, वेदान्तानां भिन्नप्रकरणपठितत्वेन तात्पर्यनिश्चयहेतुलिङ्गषट्केन ब्रह्मपरत्वात्, एतदङ्गीकृतात्मतत्वस्य नानात्वेन परस्परव्यावृत्तरूपत्वात्, अत एव स्वविषयस्वरूपमात्रनिष्ठत्वात्, परविषयपरस्वरूपेष्वन्ध- बधिरप्रायत्वात्, “चैत्रो मैत्राद्भिन्नः, मैत्रश्चैत्राद्भिन्नः, चैत्रस्सुखी, मैत्रो दुःखी"ति परस्परभेदानुसन्धानभेदितानां चैत्रादिप्रकाशानां “चैत्रमहं जानामि, मैत्रमहं जानामि” इत्येकसंविल्लग्नत्वेनान्तरनुसन्धानस्याप्यसम्भवात्, “चैत्रोऽह” मिति प्रकाशस्य स्वात्मविषयमात्रप्रकाशत्वात्, एवमवैदिकाङ्गीकृतक्षणिकविज्ञानात्मनोऽपि नीलादिरूपेण नानात्वात्, तज्जन्यसंस्काराणामपि तथात्वात्, भिन्नकालनिष्ठत्वेनपरस्परसङ्गतिशून्यत्वात्, अतेवोक्तरीत्या स्वविषयस्वमात्रनिष्ठत्वात्, परविषयपरस्वरूपेष्वन्धबधिरादिप्रायत्वात्, “नीलं पीताद्भिन्नं, “पीतं नीलाद्भिन्नं, नीलमहं जानामि, पीतमहं जानामि, योऽहं बाल्येपितरावन्वभूवं स एवाहमिदानीं प्रणप्तृर्ननुभवामीत्यहमित्येकसंविल्लग्नत्वेन बाह्याभ्यन्तरानुसन्धानानुपपत्तेः,

[[३२]]

उभयक्षणग्राहकसंविदन्तराभावात्, सुषुप्त्यादौ हानादानलक्षणप्राणवायुपरिस्पन्दस्य विद्यमानत्वेन तस्य कर्तृपुरस्सरत्वात्, कर्तृज्ञानपुरस्सरत्वात्, सुखमहमस्वाप्समित्युत्थितस्य सुखस्मृतेः संस्कारद्वारानुभवानुभवितृमूलत्वात्, अनुभवितुः स्वतन्त्रस्वप्रकाशत्वात्, “न किञ्चिदवेदिष” मिति शून्यप्रकाशस्यापि विद्यमानत्वात्, विशेषणविमुक्ताहमात्मनः स्वप्रकाशतांशस्याप्राकट्येन स्थितेरङ्गीकरणतया लोके छिदादिक्रियाणां दर्शितदिशा परप्रमातृविश्रान्तिमन्तरेणासम्भवाच्च, प्रोक्तन्यायेन स्वात्मतादात्म्यापन्नस्वविमर्शक्रोडीकृतानेकभावाभावमण्डलः, ज्ञानस्मृत्यपोहनादिबहुविधशक्तीनामेकसङ्घट्टः, अनुभवितृस्मर्त्तृ- विकल्पयितृ-प्रत्यभिज्ञातृरूपः, शुद्धानुभवानुसन्धानात्मपूर्णाहंस्फुरणरूपस्वतन्त्रस्वप्रकाशो महेश्वरोऽङ्गीकरणीय इति हेतोः, तादृङ्महेश्वरेच्छाशक्तिनियमितत्वेन पुरुषतत्वनिष्ठाविद्यातत्वस्य स्वकारणीभूतसर्वज्ञताशक्तिसामरस्यस्थितिरूपनिवृत्तिद्वारा स्वात्मशिवतालक्षणं फलमुद्दिश्य, ब्रह्म= स्वतन्त्रस्वप्रकाशतालक्षणाखण्डामर्शपरिबृंहितं, तस्य जिज्ञासा, अनेन पदेन विचारो लक्ष्यते, कर्तव्य इति शेषः ।
स्वात्माभेदेन परामर्शः कर्तव्य इत्यर्थः, पराभिमतभेदस्य निराकृतत्वात् ।
अस्मिन्सूत्रे अतः शब्देन वक्ष्यमाणसमन्वयाविरोधफलाध्यायार्थस्सर्वोऽपि सङ्क्षिप्तः ।
अथशब्देन साधनाध्यायार्थः सङ्गृहीतः ।
ब्रह्मशब्देन जडजीवविलक्षणस्वप्रकाशस्वतन्त्रताशक्तिस्वभावत्वं तात्पर्यविषयीकृतमिति सूक्ष्मदृशानुसन्धेयम् ।
एवमेतत्सूत्रार्थपरामर्शनमात्रेणात्युत्तमाधिकारि कृतकृत्यो भवतीति परमो निष्कर्षः ॥
अत एव “जन्माद्यस्य यतः” इत्युत्तरसूत्रार्थोऽपि सङ्गच्छते ।
इत्थं खलु तत्सूत्रार्थः ।
जन्म आदिर्येषामिति विग्रहे कृते तद्गुणसंविज्ञानबहुव्रीहिसमासः ।
तथा च सृष्टिस्थितिसंहारतिरोधानानुग्रहाख्यपञ्चकृत्यकर्तृत्वं ब्रह्मणो लक्षणं पर्य्यवस्यति ।
एवञ्च सृष्टिकर्तृत्वं ब्रह्मणः, सृष्टिस्थित्युभयकर्तृत्वं विष्णोः, सृष्टिस्थितिसंहारकर्तृत्वं

[[३३]]

रुद्रस्य, सृष्टिस्थितिसंहारतिरोधानकर्तृत्वमीश्वरस्य, सृष्टिस्थितिसंहारतिरोधानानुग्रहकर्तृत्वं सदाशिवस्य ।
एतत्पञ्चकृत्यकर्तृत्वरूपं तटस्थलक्षणं सदाशिवस्य पञ्चभूताधिनायकस्य सद्योजातादिपञ्चमुखविशिष्टस्यैवोपपद्यते ।
एतत्पञ्चकृत्यकर्तुर्नियामकस्य निर्गुणस्यासङ्गोदासीननित्यमुक्तशुद्धस्वभावस्य परब्रह्मणश्चिदादिशक्तिस्वभावस्य षडङ्गदशाव्ययप्रकृतिकस्य परमशिवस्य महालिङ्गशब्दितस्य तु सच्चिदानन्दस्वरूपमेव लक्षणं तस्य तदैकरसत्वात् ।
तस्मात्पञ्चकृत्याधिपतिकारणत्वं लोहचेष्टायामयस्कान्तमणेरिव परमशिवस्य लक्षणान्तरमपि सम्भवति ।
यतः कारणात्, अर्थप्रपञ्चकारणत्वं ब्रह्मणः प्रतिपादितं, अत एव शब्दप्रपञ्चस्यापि कारणत्वं सिद्धप्रायमिति दर्शयितुमनुपदमेवोत्तरसूत्रं शास्त्रयोनित्वात्” इति प्रतिपादितम् ।
अत्र शास्त्राणां योनिरिति व्युत्पत्त्या वेदादिजनकत्वं तस्य सिद्धम् ।
अथवा शास्त्रयोनित्वादित्यत्र “तन्त्वौपनिषदं पुरुषं पृच्छामि” इत्यादि श्रुतिपर्यालोचनयापि शास्त्रप्रतिपाद्यत्वमर्थः पर्य्यवस्यति ।
अथवा शास्तृ= ब्रह्म, अयोनित्वात्= प्रपञ्चवदकारणकत्वात् ।
पूर्वसूत्रस्थयच्छब्दनिर्दिष्टं ब्रह्म शास्त्रशिक्षकम् ।
विष्ण्वादेरन्यस्य च शिक्षकत्वं लोकवेदसिद्धं न भवतीति शिवस्यैव तदुभयसम्मतमिति, पूर्वोक्तजगज्जन्मादिकारणत्वमपि शिवस्यैवेति, तदेव जिज्ञास्यमित्यनेन सूत्रेण ध्वनितम् ।
अथवा, अयोनित्वात्, अकारवाच्यस्य विष्णोर्ब्रह्मणो रुद्रस्य वा “अकारो ब्रह्मविष्ण्वीशकमठेष्वङ्गणे रणे” इति कोशात् ।
योनित्वात्= कारणत्वात् ।
“योनिश्च हि गीयत” इति वक्ष्यमाणसूत्रपर्यालोचनया योनिशब्देन कारणत्वं निश्चीयते ।
तथाच तदर्थपर्यालोचनया “ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते” इत्यादि श्रुत्यर्थक्रोडीकरणहेतुत्वेन शिव एव शास्त्रशिक्षक इति पूर्वोक्तार्थः पर्यवसन्नः ॥
ननु शास्त्रयोनित्वादितिसूत्रेण वेदान्तप्रतिपाद्यत्वं ब्रह्मण उक्तं, तन्न सम्भवति तेषामुक्तकर्मानुष्ठानपरत्वात् ।
तथाहि- ब्रह्मप्रतिपादकानां

[[३४]]

वाक्यानां योगाङ्गभूतदेवतापरत्वं, सृष्टिस्थितिप्रतिपादकानां केषाञ्चिद्वाक्यानां यागाङ्गभूतद्रव्यपरत्वं, जीवात्मप्रतिपादकानां यजमानपरत्वमित्येवं कर्मपरविधिपरत्वे सम्भवति कथं ब्रह्मणः शास्त्रप्रतिपाद्यत्वं सम्भवतीति चेदत्रोच्यते, उपक्रमोपसंहारादितात्पर्यनिर्णायकैष्षड्विधलिङ्गैःप्रकरणान्तरेण ब्रह्मविषयकत्वस्य घण्टाघोषत्वेन वक्तुं शक्यतया त्वदुक्तं सर्वमपि कतिपयपामरसम्मोहनार्थम् ।
तथाहि- शदेव सौम्येदमग्र आसी"दित्युपक्रम्य, श य एषोऽणिमा, ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि” इत्युपसंहारः ।
अनयोर्ब्रह्मविषयकत्वेनैकं लिङ्गम् ।
असकृत्तत्त्वमसीत्यभ्यासः ।
मानान्तरागम्यमहदैश्वर्यमपूर्वत्वम् ।
“येनाश्रुतं श्रुतं भवति, अमतं मतमविज्ञातं विज्ञात” मित्याद्येकविज्ञाने सर्वविज्ञानं फलम् ।
यथा मृत्तिकायां ज्ञातायां घटशरावादिकं तत्कार्यत्वात्तदभिन्नमिति विज्ञातं भवति तथैवेत्यर्थः ।
सृष्टिस्थितिलयप्रवेशनियमनानि पञ्चार्थवादाः ।
मृदादिदृष्टान्ता उपपत्तयः ।
एतैर्लिङ्गैर्ब्रह्मपरत्वात् ।
नचानुमानमन्तरेण प्रयोजनाभावः, देहाद्यहन्तानिमज्जनद्वारा परिपूर्णाहन्तोन्मज्जनरूपमहाफलस्य सम्भवात् ।
नन्वेवं वेदान्तानां ब्रह्मपरत्वेऽपि ते ब्रह्मण्येव न पर्यवस्यन्ति ।
किन्तु शत्यं ज्ञानमनन्तं ब्रह्मे"ति पारोक्ष्येण ब्रह्मतत्वं प्रतिपाद्य पश्चादपरोक्षं विदधति ।
एवं सति वेदान्तानां शासनात् शास्त्रत्वमुपपद्यते ।
अनधिगतार्थगन्तृत्वात् ।
किञ्च श्रोतव्य इति शब्दज्ञानात्मकं श्रवणं विधायान्तरं मन्तव्यो निदिध्यासितव्य इत्यनुभवो ज्ञानात्मा विधीयते ।
तस्माद्वेदान्ताः प्रतिपत्तिविधायका इति चेन्न ।
कर्तुमकर्तुमन्यथाकर्तुमशक्यत्वेन अपुरुषार्थत्वात्प्रतिपत्तिविधिर्न सम्भवत्येव ।
अनुष्ठेयशासनादेव शास्त्रत्वं नान्यथेति नियमो नास्ति, सिद्धवस्तुसाधनेनापि तदुपपत्तेः ।
न च शब्देन ज्ञाते पश्चादनुभवात्मकं मननादिकं विधीयत इति वक्तुं युक्तं, दशमस्त्वमसीतिवच्छब्दस्यैवापरोक्षज्ञानजनकत्वेन शाब्दबोधात्पुरैव असम्भावनादिनिवृत्तये कर्तृव्या-

[[३५]]

पाररूपमननादेर्विधानात् ।
प्रमाणानां मोहापसरणमात्रप्रयोजनत्वात् ।
घटोऽयमग्रगः प्रत्यक्षत्वादित्यादौ तथानुभूयमानत्वात् ।
अत्र घटो न क्रियते, सिद्धत्वात् ।
नापि ज्ञाप्यते, प्रत्यक्षेणैव ज्ञाप्यमानत्वात् ।
किन्त्वग्रगत्वसाधनेन नाग्रगमिति मोहोऽपनीयते ।
एवं धूमलिङ्गेन वह्निमत्वसाधनेन अवह्निमत्वरूपमोहोऽपसार्यत इति वेदान्ता ब्रह्मण्येव पर्यवसिताः ।
अत एव “ऐतदात्म्यमिदं सर्वं तत्सत्य"मिति श्रुतत्वेन, सन् घटः, सन् पट इत्यादिरूपेण सर्वत्र सामान्यादिषु सत्ताजातिविलक्षणस्वरूपसत्तानुवृत्तिदर्शनेन सत्कार्यत्वादुक्तक्षणमुपपद्यते ।
जडस्य स्वतस्सिद्धसत्तानुवृत्यसम्भवात्, स्वतन्त्रतापत्त्या परतस्सिद्ध सत्तानुवृत्यसम्भवप्रकारस्य दर्शितत्वात्, सच्चिद्घनत्वमकमेवाप्यङ्गीकरणीयमिति कर्मणो जडत्वेनादृष्टोत्पादनोद्यमशून्यत्वात्, अदृष्टस्यापि जडत्वेन स्वर्गतत्साधनीभूतद्रव्योत्पादनोद्यमशून्यत्वात्, सर्वप्रपञ्चसत्तारूपस्वतन्त्रस्वप्रकाशब्रह्मैव सर्ववेदान्तप्रतिपाद्यमिति सिद्धान्तः ॥
एवं सति तात्पर्यनिश्चयहेतुलिङ्गषट्केन वेदान्तानां ब्रह्मणि समन्वयात्, तद्ब्रह्म उक्तलक्षणप्रमाणगम्यमहैश्वर्यमिति भावः ।
एवं चतुस्सूत्र्या विचारकर्तव्यतालक्षणप्रमाणसमन्वयपरया विचारकर्तव्यतादिषु तेषु तेषु प्रतिपादितेषु सगुणनिर्गुणसम्पत्प्रतीकोपासनाव्यवस्थापनापूर्वकं साङ्ख्यमतनिराकरणपूर्वकञ्च सर्ववेदान्तानां ब्रह्मणि समन्वयनिर्णायकस्य प्रथमाध्यायस्य, साङ्ख्य-पातञ्जल-काणादा- क्षपाद-सौत्रान्तिक-वैभाषिक-योगाचार-माध्यमिकार्हत-पाशुपत- पाञ्चरात्रमतनिरासपूर्वकं पञ्चभूतदशेन्द्रियसृष्टिस्वरूप निश्चायकस्य द्वितीयाध्यायस्य, कर्मफलक्षयिष्णुत्वविविधदुःखानुभवतात्पर्येण पञ्चाग्निविद्यादीनां वैराग्यदार्ढ्यार्थकत्वप्रतिपादनपूर्वकं स्वप्नसुषुप्तिमूर्छाजीवान्तःकरणशारीरधर्मस्वरूपनिर्णयपूर्वकञ्च गुणोपसंहारपूर्वकं ब्रह्मविचारसाधकसाधनचतुष्टयप्रतिपादकस्य तृतीयाध्यायस्य, तत्तदुपासनाफलनिर्णायकस्य चतुर्थाध्यायस्य च परिणामवादविशिष्टाद्वैतसिद्धान्तऽप्रतिपादनैदम्परत्वात् ।
तदैदं पर्यस्य च

[[३६]]

क्रियासारादिषु कारिकारूपेणोपन्यसनात्तत्प्रकारस्तत्रैवावगन्तव्य इति ग्रन्थविस्तरभयान्नेह लिख्यते ।
उपासनाप्रकारस्तु ।
“अस्थूलमनण्वह्रस्वमदीर्घ” मित्यादि बृहदारण्यकश्रुत्या, “यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् ।
नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं तद्भूतयोनिं परिपश्यन्ति धीराः” ।
इति मुण्डकोपनिषद्वचनेनः,

निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ।
अमृतस्य परं सेतुं दग्धेन्धनमिवानलम् ॥
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥

इति श्वेताश्वेतरोपनिषद्वचनेन, नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञाघनं न प्रज्ञं नाप्रज्ञमदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्र् अत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥
अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार आत्मैव संविशत्यात्मनात्मानं य एवं वेद ॥
इति माण्डूक्योपनिषद्वचनेन,

चिद्रूपं हि परं तत्वं शिवाख्यं विश्वकारणम् ।
निरस्तविश्वकालुष्यं निष्कलं निर्विकल्पकम् ॥
सत्तानन्दपरिस्फूर्तिसमुल्लासकलामयम् ।
अप्रमेयमनिर्देश्यं मुमुक्षुभिरुपासितम् ॥
परब्रह्ममहालिङ्गं प्रपञ्चातीतमव्ययम् ।
तदेतत्सर्वभूतानामान्तरस्थानगोचरम् ॥

इति सिद्धान्तशिखामणिवचनात्,

[[३७]]

प्रणवो वाचकस्तस्य शिवस्य परमात्मनः ।
अकारस्तु महद्बीजं रजः स्रष्टा चतुर्मुखः ॥
उकारः प्रकृतिर्योनिः सत्वं पालयिता हरिः ।
मकारः पुरुषो बीजी तमः संहारको हरः ॥
नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः ।
एवं तिसृभिरेवैतन्मात्राभिरखिलं त्रिधा ॥
अभिप्रेत्य शिवात्मानं बोधयत्यर्धमात्रया ।
शिवो वा प्रणवो ह्येष प्रणवो वा शिवः स्मृतः ॥
वाच्यवाचकयोर्भेदो नात्यन्तं भिद्यते क्वचित् ।

इति शैवे वायवीयसंहितावचनाच्च, प्रणववाच्यपरब्रह्मापरपर्यायपरमशिवस्य महालिङ्गत्वेनोपपादनात्, प्रणवस्य तारक-दन्ड-कुण्डलार्धचन्द्रज्योतिरूपत्वेन, अकारोकारमकारबिन्दुनादार्धमात्रारूपत्त्वेन च, तादृशप्रणववेष्टिनकारादीनां मन्त्राणां समष्टिरूपप्रणवात्मकत्त्वात्तादृशप्रणवस्यैवमहालिङ्गस्वरूपत्त्वात्, तदंशरूपाचारादिलिङ्गानां पञ्चानां ग्रहणादिन्द्रियमुखेषु दृढतरभावनापूर्वकभावलिङ्गाख्यमहालिङ्गभावनैवोपासनेति विशिष्टाद्वैतिवीरशैवानां ब्रह्मसूत्रार्थविदां न्यायाभिज्ञानां तात्पर्यमिति तदनुरोधेन महालिङ्गादीनां लक्षणान्यभिधीयन्ते- व्यष्टिपञ्चाक्षरीरूपानन्दौन्मुख्यसूक्ष्मबहिर्मुखस्थूलोद्यमक्रियास्वभ अवपरादीच्छाज्ञानक्रियात्मकशान्त्यतीताद्युपकल्पितपञ्चकृत्यपरिनियाम कत्वे सति, पञ्चाक्षरीसमष्टिप्रणवरूपचिन्मयशान्त्यतीतोत्तरासमरसत्त्वे सति, आनन्दज्ञानसत्याभिन्नमहासादाख्यशिवसादाख्यलक्षणनिष्कलामूर्तसा दाख्यमूर्तसादाख्यरूपनिष्कलसकलकर्तृसादाख्यकर्मसादाख्यरूपसकल् अभावप्राणेष्टलक्षणत्रिविधविलासासादितमहालिङ्गादिषड्विधविलासव् अत्त्वे सति, सर्वपदार्थानुसन्धातृहृदयगोप्यमुखविलासित्त्वे सति, शब्दादिप्रतिनियतपदार्थानुसन्धानकृत-प्रकटेशान-तत्पुरुषा-घोर- वामदेव-सद्योजात-मुखविलासित्त्वे सति,

[[३८]]

नित्यत्त्वपरिपूर्णत्त्वनिरस्तसमस्तोपप्लवकलङ्कत्त्वं महालिङ्गत्वम्, तदेव ब्रह्मत्त्वमिति लक्षणम् ।
लक्षणं हि केवलव्यतिरेकिधर्मः ।
स चेतरव्यावर्तकः ।
ननु प्रपञ्चमात्रस्य ब्रह्मात्मकत्त्वेन कथमितरव्यावृत्तिरिति चेन्न, प्रपञ्चस्य विशिष्टब्रह्मोपादानकत्त्वेन विशिष्टब्रह्माभेदेऽपि शुद्धावन्यत्त्वेनेतरव्यावृत्तिसम्भवेन तदर्थं लक्षणस्यावश्यकत्त्वाद्व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम् ॥
अत्र जीव ईशो विशुद्धचिदिति चित्त्त्त्रैविध्यं केचिदुपवर्णयन्ति ।
वयन्तु अङ्गलिङ्गस्थलमिति वदामः ।
तत्र स्थलशब्द आश्रयवाची, तत्र नित्यसम्बद्धा शक्तिः पूज्यपूजकलीलया न्यूनाधिकभावापन्ना सती स्थलस्य लिङ्गाङ्गभावेन द्वैविध्यमापादयतीत्यङ्गतत्त्वाद्व्यावृत्तिर्लक्षणस्य प्रयोजनमिति ब्रूमः ॥
अत्र लक्षणे भावार्थकप्रत्ययान्तानां प्रत्येकं व्यावर्तकत्त्वेऽपि विशिष्टोपासनाप्रकरणपठितयावद्गुणवत्वनियमस्यागमेषूपपादितत्वा द्वैश्वानराद्युपासनाङ्गत्वेन यावद्गुणवैशिष्ट्यवद्यावतां विशेषणानां सार्थक्यम् ॥
गुणविशिष्टोपासना निर्गुणोपासनोपकारिकेति निर्विशेषब्रह्मवादिनः ।
“एष आत्मापहतपाप्मा विजरोविमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः ॥
सत्यात्मप्राणारामं मन आनन्दम् ॥
परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चे” त्यादि श्रवणात्, “अथवानन्तकल्याणगुणैकघन ईश्वरः ।
शिव इत्युच्यते सद्भिः शिवतत्वार्थवेदिभि” रिति स्मरणाच्च, विधिसमर्पितयावद्गुणविशिष्टोपासनायाः स्वतः पुरुषार्थसाधनत्वमिति वस्तुतत्वम् ।

नकारस्तारकस्थानं मकारो दण्ड उच्यते ।
शिकारः कुण्डलाकारो वकारश्चार्धचन्द्रकः ॥
यकारो बिन्दुरूपो य ऊं कारः पञ्चवर्णकः ।

[[३९]]

इत्यादिकं पञ्चाक्षरीव्यष्टिनकारादीनां प्रणवाकारावयवतारकदण्डकुण्डलार्धचन्द्रबिन्दुभेदोपवर्णने प्रमाणम् ।
विस्तुरस्तु चिदम्बरोपनिषदादिषु द्रष्टव्यः ।
योगपातञ्जलेऽपि “क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ।
तत्र निरतिशयं सार्वज्ञ्यबीजम् ।
स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ।
तस्य वाचकः प्रणवः ।
तज्जपस्तदर्थभावनमि” ति पञ्चसूत्रीप्रक्रियया च प्रणवस्य तद्वाच्यलिङ्गतत्त्वस्य च नित्यसम्बन्धो वर्णितः ।
श्रुत्यापि “यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥” इति सद्योजातादिपञ्चब्रह्ममन्त्रैः प्रकटपञ्चमुखविलासित्त्वमुपवर्णितम् ।
“यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तप” इति सर्वज्ञत्त्वमुपवर्णितम् ।
तच्च बाह्यकरणानपेक्षनित्यापरोक्षनिष्कलङ्कानुभवविषयनिखिलवस्तुत्वम् ।
अनेन सकलचेतनबहुविधकर्मभोगानुकुलतत्तच्छरीरनिर्माणपटीयस्त्वमुक्तम् ।
“आनन्दो ब्रह्मे"ति श्रुतेर्नित्यतृप्तत्वं सिध्यति ।
तच्च निरस्तसमस्तोपप्लवकलङ्कनिरतिशयानन्दपरिपूर्णत्वरूपम् ।
नित्यज्ञानत्त्वमनादिबोधत्त्वम् ।
शत्यं ज्ञानमनन्तं ब्रह्मे"ति सामानाधिकरण्यात् सिद्धम् ।
“विद्याविद्ये ईशते यस्तु सोऽन्य” इति श्रुतेः स्वातन्त्र्यं सिध्यति ।
तच्चान्यप्रेष्यत्वकार्पण्यरहितत्त्वे सति वशीकृतस्वेतरसकलवस्तुत्त्वरूपम् ।
परास्य शक्तिर्विविधैव श्रूयते ।
आकाशशरीरं ब्रह्म ।
सत्यात्त्मप्राणारामं मन आनन्दम् ।
शान्तिसमृद्धममृत” मित्यादिना अनन्तशक्तिकत्त्वं सिद्धम् ।
तच्चापरिमितानन्तशक्तिविशिष्टत्वरूपम् ।
एवमन्यान्यपि लक्षणशरीरप्रविष्टान्यर्थजातानि तत्र तत्र द्रष्टव्यानि ॥
लक्षणान्तर्गतमहालिङ्गादिलक्षणानीत्थं विमर्शनीयानि- मूलप्रणवाभिन्नसूक्ष्मकार्यकारणप्रपञ्चोपादानकारणचिच्छक्त्यपरप र्यायशान्त्यतीतोत्तरकलासमरसत्वे सति, महासादाख्यनिष्कलभावलिङ्गाभिन्न पञ्चकृत्यपरिनियामकत्त्वे सति, शुद्धसर्वपदार्थानुसन्धातृहृदयलक्षणगोप्यमुखविलासित्त्वं महालिङ्गत्वम् ॥ १ ॥
आनन्दरूपपराशक्त्यपरपर्याय-

[[४०]]

यकारमन्त्रमयशान्त्यतीतकलासमरसत्त्वे सति, शिवसादाख्यनिष्कलभावलिङ्गाभिन्नप्रतिनियतशब्दविषयपदार्थानुसन्ध् आतृप्रकटेशानमुखविलासित्त्वं प्रसादलिङ्गत्वम् ॥ २ ॥
औन्मुख्यलक्षणादिशक्त्यभिन्नवाकाराभिन्नमन्त्रमयशान्तिकलासमरसत्त्वे सति, अमूर्तसादाख्यनिष्कलसकलप्राणलिङ्गाभिन्नप्रतिनियतस्पर्शविषयपदार्त् हानुसन्धातृप्रकटतत्पुरुषमुखविलासित्वं जङ्गमलिङ्गत्वम् ॥ ३ ॥
सूक्ष्मक्रियेच्छाशक्त्यपरपर्यायशिकारमन्त्रमयविद्याकलासमरसत्वे सति, मूर्तसादाख्यनिष्कलसकलप्राणलिङ्गाभिन्नप्रतिनियतरूपपदार्थानुसन्ध् आतृप्रकटाघोरमुखविलासित्त्वं शिवलिङ्गत्वम् ॥ ४ ॥
बहिर्मुखज्ञानशक्त्यपरपर्यायमकारमन्त्रमयप्रतिष्ठाकलासमरसत्त्वे सति, कर्तृसादाख्यसकलेष्टलिङ्गाभिन्नप्रतिनियतरसपदार्थानुसन्धातृप्रक।
तवामदेवमुखविलासित्त्वं गुरुलिङ्गत्वम् ॥ ५ ॥
मूलोद्यमक्रियाशक्त्यपरपर्यायनकारमन्त्रमयनिवृत्तिकलासमरसत्वे सति, कर्मसादाख्यसकलेष्टलिङ्गाभिन्नप्रतिनियतगन्धविषयानुसन्धातृप्रकट् असद्योजातमुखविलासित्वमाचारलिङ्गत्वम् ॥ ६ ॥
एषाञ्च लक्षणानां सर्वत्र लक्ष्ये समन्वयः ।
नन्वेवं लक्षणलक्षितं लिङ्गतत्वं प्रसिद्धमप्रसिद्धं वा ? आद्ये, प्रसिद्धविषयविचारार्थं प्रबन्धो नारम्भणीयः, सिद्धसाधनापत्तेः ।
द्वितीयेऽपि, शशशृङ्गायमाणविषयविचारार्थं प्रबन्धो नारम्भणीयः, विचारस्य व्यर्थत्वादिति चेन्न, यथाविध्यधीतवेदागमसङ्गृहीतपदपदार्थसङ्गतिकस्य “ब्रह्मविदाप्नोति पर"मित्यादिना परमपुरुषार्थसाधनतत्वस्वरूपे सामान्यतः परिज्ञाते “अन्नं ब्रह्म ।
प्राणो ब्रह्म ।
मनो ब्रह्म ।
विज्ञानं ब्रह्म ।
आनन्दो ब्रह्मे"त्यादाविव, सामान्यतो लिङ्गतत्वपरिज्ञाने सत्यपि भावलिङ्गं प्राणलिङ्गमिष्टलिङ्गं प्रसादलिङ्गं शिवलिङ्गं गुरुलिङ्गमाचारलिङ्गमिति बहूनां लिङ्गतत्वानां श्रवणात्, तथा “एकमेव परं ब्रह्म परमानन्दलक्षणम् ।
शिवतत्वं शिवाचार्याः स्थलमित्याहुरादरात्” इत्यादावद्वितीयत्वश्रवणाच्च, लिङ्गतत्वं किमेकमनेकं वेति सन्देहे, तथा “अथवानन्तकल्याणगुणैकघन ईश्वरः” इत्यादिना कल्याण-

[[४१]]

गुणपरिपूर्णत्वश्रवणात्, ङिर्गुणं निष्क्रियं शान्त"मित्यादिना निर्गुणत्वश्रवणाच्च, लिङ्गतत्वं सगुणं निर्गुणं वेत्यादिबहुविधसन्देहदोलासमारूढमनस्थैर्यसमर्पकाविरोधफलकपरम अर्थप्रबन्ध आरम्भणीयः ।
तथाच सकलचिदचित्प्रपञ्चाकारषडक्षरीमयपरमशक्तिविशिष्टाद्वितीयवैभव् अस्य, सकलनिमागमसाररहस्यनिधानस्य भवशर्वरुद्रपशुपत्युग्रमहादेवभीमेशानात्मकाष्टाभिधानशक्तिप्रक अशितपरममहिमविलासस्य, स्वविभूतिविशेषनिखिलचेतनसमुपासनानुगुणसमुदितनिजप्रसादसमर्पितपुर् उषार्थसार्थस्य, लिङ्गतत्वस्याङ्गतत्वाभेदप्रतिपादकशास्त्रार्थविचारो निगमागमैरेव कर्तव्य इति श्रोतव्यवाक्यान्नियमः सिध्यति ।
ततश्च “जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक” इत्यादिश्रवणात्, भिन्नात्मज्ञानान्मुक्तिरिति भ्रमसम्भवेन मुक्तिसाधनज्ञानाय भिन्नात्मप्रतिपादकशास्त्रान्तरश्रवणेऽपि प्रवृत्तिः स्यादिति तद्व्यावृत्तिः फलं सिध्यति ।
ननूपक्रमोपसंहारादितात्पर्यग्राहकैरेवाद्वितीये वस्तुनि सर्वेषां निगमागमवाक्यानां समन्वयाद्भिन्नात्मप्रतिपादकशास्त्रविचारस्य व्यावृत्तिः सिध्यतीति न तन्नियमः फलमिति चेन्मन्त्रैरैव मन्त्रार्थस्मृतिर्यथाकल्पसूत्रात्मीयग्रहणकवाक्यादीनामपि पक्षतः प्राप्तौ तद्व्यावृत्तिं सम्पादयति, तद्वदत्रापि श्रोतव्यविधिः पौरुषेयप्रबन्धभाषाप्रबन्धानामपि पक्षतः प्राप्तौ तद्व्यावृत्तिं सम्पादयतीति तन्नियमविधिफलम् ।
पौरुषेयप्रबन्धभाषाप्रबन्धादीनां फलन्तु निगमागमार्थग्रहणासमर्थस्य चित्तशुद्धिवैराग्यादिसम्पादकत्वेन कालान्तरीयनिगमागमार्थरहस्यविचारद्वारा मोक्षसाधनमिति वस्तुस्थितिः ॥
एवंविधलिङ्गतत्वस्याङ्गतत्वस्य च सामरस्यं शास्त्रस्य विषय इति लिङ्गतत्वनिरूपणानन्तरमङ्गतत्वमभिधीयते ।
तल्लक्षणानितु- गुरुलिङ्गजङ्गमैक्यज्ञानतदर्पितपरमोपादेयप्रसादस्वीकारसुखपरिणमन् अ, तद्विषयकक्रमिकावञ्चनावश्यकतनुमनोधनत्यागरूपयोगभोगसाक्षिलक्ष णैक्य-शरण-प्राणलिङ्गि-प्रसादि-माहेश्वर-भक्त-लीलापादक-

[[४२]]

समरसानन्दानुभवावधाननिष्ठाश्रद्धालक्षणषड्भक्ति, भावज्ञानमनोऽहङ्कारबुद्धिचित्तान्तःकरणषट्कज्ञानेन्द्रियषड्विषय तृप्तिवाचकषडक्षरकर्मेन्द्रियतन्मात्रसद्भावसुज्ञानसुमनोनिरहङ्कारस् उबुद्धिसुचित्तषट्करूपशक्तिमत्वमङ्गत्वम् ॥ १ ॥
तत्र माहेश्वरलीलाकल्पितसङ्कुचितचिदादिशक्तिस्वभावसूक्ष्मरूपमानसव्योमव अयुतेजोजलावन्युपहितत्वे सति, ऊर्ध्वसृष्टिविभागनिबन्धनभेदप्रदशुद्धविद्याप्रकाशित्वमुपासकत्वम् ॥
तस्योपासकस्य भक्तत्वादिभेदस्त्वित्थम्- गुरुलिङ्गजङ्गमैक्यधीपूर्वकभस्मरुद्राक्षादिशिवलाञ्छनशिवशरणवि षयतत्तन्माहात्म्यज्ञानोपहितनिरतिशयदृढप्रेमवत्वं भक्तत्वम् ॥ १ ॥
शिवनिरूपिततादात्म्यसम्बन्धावच्छिन्नगुरुलिङ्गजङ्गमैक्यनिष्ठाधिष्ठ् इतत्वं माहेश्वरत्वम् ॥ २ ॥
गुरुलिङ्गजङ्गमपादोदकप्रसादभूतिरुद्राक्षमन्त्रलक्षणाष्टावरणपँ न्चाचारविषयकविस्मृतिशून्यावधानवत्वं प्रसादित्वम् ॥ ३ ॥
व्याध्यादिविघ्नानुल्लङ्घितपादोदकप्रसादवत्वे सति, तदनन्यभोगित्वे सति, प्राणलिङ्गतादात्म्याभिनिवेशविशेषशालित्वं प्राणलिङ्गित्वम् ॥ ४ ॥
प्राणलिङ्गोभयविषयकसतीपतिभावापादितस्वाधिकरणसतीत्ववत्वे सति, स्वोपभोग्यसत्यन्तराभावप्रकारकज्ञाननिवृत्तसत्यन्तरभोगवत्वे सति, स्वचिच्छक्तिसम्मेलनानन्दभरितत्वे सति, निवृत्तिमार्गावलम्बभक्तिज्ञानवैराग्यभरितत्वं शरणत्वम् ॥ ५ ॥
सतीपतिभावनिवृत्यनन्तरभावनिर्भारत्वनिराभारत्वनिर्विकल्पत्वार्जितश् इवसर्वात्म्यविमर्शलक्षणशिखिकर्पूरयोगोपमितान्तर्मुखमहालिङ्गैकलोलत् वमैक्यत्वम् ॥ ६ ॥
आत्मा द्रष्टव्य इत्यादिना मोक्षसाधनस्योपक्रमोपसंहारादितात्पर्यलिङ्गोपस्थापितसमन्वयानुगुणाब् हिन्नात्मज्ञानस्य श्रवणमनननिदिध्यासनारूपोपासनारूपत्वेन, तदपेक्षितोपास्यप्राणभूतलिङ्गतत्वस्वरूपमभिधाय, तदङ्गनिरूपणमुखेन तस्मिन्नुपासकत्वमप्यभिधायोपासनाप्रकारस्तावदभिधीयते-लिङ्गतत्वस्य शरणतत्वमङ्गं; शरणस्य लिङ्गं प्राण इति बीजवृक्षन्यायेन सङ्कोचविकासाभ्यामभेदप्र-

[[४३]]

तिपत्तिनैरन्तर्यं सामान्यतोऽङ्गतत्वस्य षड्विधलिङ्गतत्वसाम्यभावनारूपा प्राथमिकोपासना ।
एवंविधशरणस्य स्वविमर्शलक्षणगुरुकटाक्षसम्प्राप्तोपासनारूपस्वात्म्यप्रत्यभिज्ञानश् आलिनो बाह्येन्द्रियलक्षणश्रोत्राद्येकैकेन्द्रियविषयशब्दादिसकलपदार्थानुभवस् आधनान्तर्मुखमनोवृक्षस्य प्रणवरूपोक्तलक्षणमहालिङ्गाख्यबीजस्य चाभेदप्रतिपत्तिनैरन्तर्यं विशेषोपासना प्राथमिकी ॥ १ ॥
विवक्षाध्यवसायोक्तिरूपपश्यन्त्यादिक्रमिकानुग्रहहेतुनादसुनादमहानादर् ऊपदेशिकवाक्यलक्षणशास्त्रश्रवणसाधनश्रोत्रस्य यकाररूपप्रसादलिङ्गस्य च बीजवृक्षवदभेदप्रतिपत्तिनैरन्तर्यं विशेषोपासना द्वितीया ॥ २ ॥
चरलिङ्गजङ्गमलिङ्गमितिपर्यायशब्दोपस्थापितस्य शीतोष्णादिस्पर्शपदार्थग्रहणसाधनीभूतसर्वाङ्गव्यापि त्वगिन्द्रियं वाकारमयजङ्गमलिङ्गमित्यभेदप्रतिपत्तिनैरन्तर्यं विशेषोपासना तृतीया ॥ ३ ॥
नेत्रगोलकानुप्रविष्टसकलरूपपदार्थप्रकाशनसाधनमहाप्रकाशो नेत्रमेव शिकारमयशिवलिङ्गमित्यभेदप्रतिपत्तिनैरन्तर्यं विशेषोपासना चतुर्थी ॥ ४ ॥
मधुरादिषड्रसभावापन्नगुरुमूर्तिस्वरूपषडक्षरीमन्त्रोच्चारणरसास् वादसाधनं जिह्वैव मकारमयगुरुलिङ्गमित्यभेदप्रतिपत्तिनैरन्तर्यं विशेषोपासना पञ्चमी ॥ ५ ॥
ईडापिङ्गलाख्यनाडीद्वयद्वारकप्राणवायुसञ्चाराश्रयसत्कर्माचरण हेतुभूतदेहशुद्धिरूपरेचकादिक्रमोत्पन्नप्राणायामाचरणसाधनं घ्राणमेव नकारमयाचारलिङ्गमित्यभेदप्रतिपत्तिनैरन्तर्यं विशेषोपासना षष्ठी ॥ ६ ॥
तथा च सामान्यविशेषभेदभावना द्विविधाप्युपासना षड्विधा भवतीति षड्विधा अप्युपासनाः प्रकाशिताः ।
ननु षड्विधोपासनावष्टम्भाद्देहोपाधिनिवृत्यनन्तरं सप्तदशतत्वात्मकस्थूलोपाधेस्तन्मूलपाशरूपकारणशरीरस्य च नामरूपात्मकस्य लिङ्गतत्वे किमैक्यं नाम हिरण्ये कटकमुकुटादीनामिव मृत्पिण्डादौ घटादिनामिव निवृत्तिः ? काचकामलादिदोषकल्पितस्य शुक्तिकादौ रजतादेरिव निद्रावशाज्जिवात्मस्वाप्निकप्रपञ्चस्येवाधिष्ठानतत्वसाक्षात्काराद्वा बाधः ? नाद्यः, हिरण्यमृदादौ कारणे

[[४४]]

निवृत्तस्य नामरूपात्मककटकमकुटघटकपालादिप्रपञ्चस्य कालान्तरे स्वर्णकारकुम्भकारादितत्तत्कर्तृव्यापाराधीना पुनर्जनिरिव मुक्तस्य कारणात्मनावस्थितस्य पुनः संसारित्वापत्तेः ।
नापि द्वितीयः, लिङ्गतत्वसाक्षात्कारस्य प्रपञ्चपरिणाम्युपादानकारणनिवृत्तिनिबन्धनत्वेन त्वन्मते प्रपञ्चपरिणामिन्याः शक्तेः परमतत्वधर्मरूपाया नाशाभ्युपगमासम्भवात् ।
न च शिखिकर्पूरयोगवत्पूर्वभावनिवृत्तिरिति वाच्यं, तत्रापि भूतविशेषकर्पूरस्य स्वकारणे तेजसि निवृत्तिसद्भावापत्तिरिति कारणात्मनावस्थानान्नातिरिच्यते ।
बीजवृक्षन्यायोऽपि ङ्यग्रोधफलमत आहरे” त्यादिना श्वेतकेतुं प्रति नवकृत्वः पुनः पुनर्दृष्टान्तैः “महान् न्यग्रोधस्तिष्ठती” त्यन्तेन शन्मूलाः सौम्येयाः सर्वाः प्रजा” इति सत्कार्यत्व प्रतिपादने पर्यवसित इति सच्छब्दवाच्यलिङ्गतत्वेऽङ्गतत्वस्य बाध इत्यपि वक्तुमशक्यत्वात् ।
तर्हि किन्नाम सामरस्यमिति चेन्न ।
अनिर्वचनीयां ख्यातिमङ्गीकृत्य अनादिसान्तमायालिङ्गतत्वसम्बन्धस्य जगदात्मना परिणमनस्य चाङ्गीकारेऽप्येकत्रिंशत्तममायातत्वस्य तद्विशेषरूपाविद्यायाश्च सद्भावात्तद्विरोधिविद्योदयेन पाशशाब्दिताविद्यानिवृत्तौ जडानां चेतनानाञ्च कारणीभूतसदात्मना-वस्थानं सामरस्यम् ।
पाशनिवृत्तिश्चाधिकरणात्मिकैव ।
एतेन का पुनः पाशनिवृत्तिः, सद्रूपा असद्रूपा वा सदसद्रूपा वा ? नाद्यः, अद्वितीयत्वहानिप्रसङ्गात् ।
न द्वितीयः, पाशनिवृत्तेरसद्रूपत्वे विद्यायाः फलाभावप्रसङ्गात् ।
न तृतीयः, बद्धमुक्तयोरनिर्वचनीयसम्बन्धानुवृत्तेरविशेषप्रसङ्ग इत्यादि निरस्तम् ।
तथा च मनःश्रोत्रत्वङ्नेत्ररसनाघ्राणलक्षणषडिन्द्रियाणां ज्ञानकरणानां जडानां चेतने महालिङ्गप्रसादलिङ्गजङ्गमलिङ्गशिवलिङ्गगुरुलिङ्गाचारलिङ्गलक्षणे बीजवृक्षन्यायेन कारणात्मनावस्थानरूपसामरस्यानुसन्धानलक्षणोपासनाप्रतिपादनेन चेतनादुत्पन्नानामचेतनानां पुनश्चेतनतापत्तौ पर्यवसानम् ।
ततो जडेषु करणेषु लिङ्गशब्दव्यवहारोऽपि षण्णां तत्तदवच्छिन्नचैतन्यानां प्रमाणचैतन्याख्यानामुक्तरीत्या

[[४५]]

जडोपाधिनिवृत्तौ पूर्वभावापत्याभिप्रायसूचनार्थः ।
ततो निवृत्तिप्रतिष्ठाविद्याशान्तिशान्त्यतीतशान्त्यतीतोत्तराभिः षड्भिः कलाभिः सहाचारलिङ्गगुरुलिङ्गशिवलिङ्गजङ्गमलिङ्गप्रसादलिङ्गमहालिङ्गान्येव घ्राणजिह्वानेत्रत्वक्श्रोत्रमानसैः सह भक्तमाहेश्वरप्रसादिप्राणलिङ्गिशरणैक्यरूपतामासाद्य गन्धरसरूपस्पर्शशब्दसर्वग्राहकत्वेन घ्रातृरसयितृद्रष्टृस्प्रष्टृश्रोतृसर्वगृहीतत्वेन षड्भेदमापन्नानि प्रमातृलिङ्गतत्वाभिन्नानीति सामान्यतः प्रमातृविषयिणी विशिष्टोपासना प्राथमिकी ।
एवं घ्रात्रादिरूपेण तत्तत्प्रमातृविशेषाभेदोपासनाः षडपि यथासम्भवमुक्तक्रमेण तद्विशिष्टत्वेनोहनीयाः ॥
एतासामुपासनानां फलन्तु पाशनिवृत्तिः ।
पाशस्तु पशुधर्मः ।
पशुत्वन्तु काष्ठगताग्निविस्फुलिङ्गवदीश्वरचिकीर्षासादितभेदवत्वे सति, ईश्वरमायावष्टब्धवासनाप्रतिबिम्बितत्वाणवकार्ममायिकमलावृतत्वे सति, सर्वकर्तृत्वसर्वज्ञत्वपरिपूर्णत्वनित्यत्वव्यापकत्वविलक्षणकिञ्चित्कर्तृ त्वकिञ्चिज्ज्ञत्वापूर्णत्वानित्यत्वाव्यापकत्वापादितकलाविद्यारागकालनियत् इरूपपञ्चकञ्चुकवत्वे सति, औन्मुख्यगर्भितेच्छा शक्तिस्फुरितज्ञानक्रियान्याऽन्यभावलक्षणमायाप्रतिस्फुरितसुखदुःख मोहप्रदसत्वरजस्तमस्साम्यावस्थालक्षणपञ्चविंशतितत्वरूप पाशवत्वम् ।
तदेव जीवत्वम् ॥
ननु पशुशब्दितोऽयं जीव एकोऽनेको वा ? आद्ये एको जीवः, एकमेव च शरीरं सजीवं, अन्यानि तु स्वप्नावस्थोपकल्पितविचित्र तरशरीरवन्निर्जीवानि ।
तदज्ञानपरिकल्पितञ्च सर्वं जगत्स्वप्नोपलब्धि विषयवद्यावदविद्यावस्थायि, तावदेव च सर्वो व्यवहारः ।
बद्धो मुक्त इति व्यवहारोऽपि स्वाप्नपुरुषान्तरमुक्त्यादिकमिव कल्पित एव जीवस्यैकत्वादिति केचिदाहुस्तन्न, “अधिकन्तु भेदनिर्देशात्” “लोकवत्तुलीलाकैवल्यम्” “अंशोनानाव्यपदेशात्” इत्यादिसूत्रैर्विरोधात् ।
तथा च हिरण्यगर्भ एको मुख्यो जीवः, अन्ये तु चित्रपटलिखितमनुष्यदेहार्पितपटाभासकल्पास्तत्प्रतिबिम्बभूता

[[४६]]

जीवाभासास्संसारादिभाज इति सविशेषानेकशरीरैकजीववादिनः ॥
तदपि न, हिरण्यगर्भस्य मुख्यजीवाभिमतस्य बिम्बभूतस्य प्रतिकल्पं भेदात्कस्य हिरण्यगर्भस्य तथात्वमित्यत्र नियामकाभावात् ।
एवमेक एव जीवः सर्वशरीरमधितिष्ठतीति निर्विशेषानेकशरीरैकजीववादिनः ।
नच तथा सति शरीरावयवभेदाच्छरीरभेदे सत्यपि परस्परसुखदुःखाद्यनुसन्धानप्रसङ्गः, जन्मान्तरसुखदुःखाद्यनुसन्धानवज्जीवैक्येऽपि परस्परसुखदुःखाद्यननुसन्धानोपपत्तेः ।
ननु योगिनां कायव्यूहवशेन सुखदुःखाद्यनुसन्धानदर्शनाच्छरीरभेदेऽपि जीवैक्येन सुखदुःखाद्यनुसन्धानवत्वेन, नैयत्वं कल्प्यत इति चेन्न, योगमहिम्ना व्यवहितार्थग्रहणवत्तस्यानुदाहरणत्वात् ।
ततो निर्विशेषानेकशरीरैकजीववादः सङ्गत इति तदप्यापातरमणीयम्, बद्धमुक्तव्यवस्थाभावस्य तुल्यत्वात् ।
“तद्यो देवानां प्रत्यबुद्ध्यत स एव तदभवदि"त्यादिश्रुतेः, “प्रतिषेधादिति चेन्न शारीरादि"त्यधिकरणे शुकमुक्तत्वप्रतिपादकभाष्यविरोधाच्च ।
एतेन, अविद्याप्रतिबिम्बभूतो जीव एकः, अविद्यावच्छिन्नो जीव एक इति पक्षद्वयेप्येकजीववादो निरस्तः ॥
द्वितीयेऽप्यन्तःकरणस्य जीवोपाधित्वमङ्गीकृत्य, अनेकजीववादानुसारेण बद्धमुक्तव्यवस्थायामपि तेषां जीवानां ब्रह्म- विद्यानिवर्त्यमज्ञानमेकमनेकं वेति विषये तत्र केचित्- शुद्धब्रह्माश्रयविषयमेकमेवाज्ञानं तन्नाश एव च मोक्षः ।
न च तथासत्येकस्मिन्साधनसम्पन्ने विद्योदयेनाज्ञाननाशात्सर्वमुक्तिप्रसङ्गः, एकस्यैवाज्ञानस्य सांशत्वमभ्युपगम्य, जीवन्मुक्ततादशायाम् अज्ञानलेशानुवृत्त्यभ्युपगमात्सांशस्याज्ञानस्य क्वचिदुपाधावन्तःकरणे ब्रह्मावगमोत्पत्तावंशेनैव निवृत्तिः, तत उपाध्यन्तरेषु यथापूर्वमनुवृत्तिरिति वक्तुं शक्यत्वात्, ततस्सांशमेवाज्ञानमेकमेवेत्याहुः; तन्न, एकस्याज्ञानस्यांशनानात्वाभ्युपगमे बहुतरांशनाशकल्पनायां गौरवात् ।
निरंशमेकमेवाज्ञानमिति पक्षस्त्वित्थं निर्वहणीयः- न्यायैकदेशिमते भूतले घटात्यन्ताभावस्य वृत्तौ घटसंयोगाभावो नियामकः, तथा च सत्यनेकेषु प्रदेशेषु संसृज्य

[[४७]]

वर्तमानो घटात्यन्ताभावः क्वचित्प्रदेशविशेषे घटसंयोगोत्पत्त्या स्वानिवृत्तौ न संसृज्यते, एवमज्ञानस्य चैतन्ये वृत्तौ मनो नियामकमिति तदुपाधिना चैतन्यप्रदेशेषु संसृज्य वर्तमानमज्ञानं ब्रह्मदर्शनोत्पत्त्या “भिद्यते हृदयग्रन्थि” रित्यादिश्रुत्युक्तरीत्या मनसो निवृत्तौ न संसृज्यते, अन्यत्र यथापूर्वमवतिष्ठते ।
अज्ञानसंसर्गासंसर्गावेवबन्धमोक्षाविति निरंशमेवाज्ञानमिति ।
तन्न, मय्यज्ञानमस्तीति भावरूपेणाज्ञानमनुभूयत इति भावरूपाज्ञानस्य वृत्तौ मनःसम्बन्धस्य नियामकत्वकल्पनायां दृष्टान्तवैषम्यात्; मय्यज्ञानमस्तीति जीवाश्रयत्वेन अनुभूयमानत्वाच्च ।
ब्रह्माश्रयत्वे च जीवाविशेषाद्ब्रह्मणोऽपि बद्धत्वप्रसङ्गः ।
नह्यधिष्ठानत्वेन ब्रह्मणोऽज्ञानाश्रयत्वं बद्धत्वापादकं, जीवस्य तु ममेदमिति कर्तृत्वेनाज्ञानाश्रयत्वस्य बद्धत्वव्यवस्थापनात् ।
ततो नाज्ञानं शुद्धचैतन्याश्रयं किन्तु जीवाश्रयं ब्रह्मविषयम् ।
तच्चान्तःकरणप्रतिबिम्बरूपेषु सर्वजीवेषु व्यक्तिषु जातिवद्भावरूपेण प्रत्येकपर्यवसिततया वर्तमानमुत्पन्नविद्यं कञ्चिदेव पुरुषं नष्टां व्यक्तिं जातिरिव त्यजति, स चाज्ञानत्यागेव पाशविच्छेदलक्षणो मोक्षः ।
अन्यत्रोपाध्यन्तरेषु व्यक्तन्तरेषु जातिरिव यथापूर्वमाश्रयतीति दृष्टान्तावैषम्याद्भावरूपाज्ञानं निरंशमेकमेवेति ।
तदपि न, दृष्टान्ते जातेर्नित्यत्वेन नष्टां व्यक्तिं विसृजत्यपि स्वयमाश्रयनाशात्, तत्संसर्गरहिता सर्वत्र वर्तते न नश्यति ।
तद्वदत्रापि स्वाश्रयजीवनाशे सति तं त्यजति नित्यत्वेन स्वयं वर्तत इति वक्तुमशक्यत्वेन तत्रापि दृष्टान्तवैषम्यात् ।
ततः प्रतिजीवं भिन्नभिन्नमज्ञानमभ्युपगम्य बद्धमुक्तव्यवस्थायाः समर्थनीयत्वेनाज्ञानशब्दितस्यापि पाशस्य नानात्वमिति वस्तुस्थितिः ।
नन्वस्मिन्पाशनानात्वपक्षे कस्य जीवस्य पाशेन प्रपञ्चः कृत इति चेद्विनिगमनाविरहात्सर्वपाशकृतोऽयं प्रपञ्चः, अनेकतन्त्वारब्धपटवत् ।
एकस्य पाशविच्छेदे एकतन्तुनाशे तत्साधारणपटनाशवत् ।
तत्साधारणप्रपञ्चनाशः ।
तथैव तन्त्वन्तरैः पटान्तरसद्भाव इव पाशान्तरारब्धः

[[४८]]

सकलेतरसाधारणप्रपञ्चान्तरसद्भाव उपपद्यत इति प्रकृतमनुसरामः ॥
तदेवं पाशनानात्वपक्षानुसारेण प्रपञ्चस्याशेषजीवाविद्यापरिकल्पितत्वप्रतिपादनात्प्रतिजीवं भिन्न भिन्नमज्ञानं पुरस्कृत्य बन्धमोक्षयोरुपपादनसम्भवेन, तस्य चाज्ञानस्य जातेरिव नित्यत्वप्रतिपादनानौचित्यात्, तत्संसर्गासंसर्गावेव बन्धमोक्षाविति भावरूपमेकमेवाज्ञानं कर्तृत्वेन जीवाश्रयं ब्रह्मविषयं, तदवच्छिन्नो जीवो नाना ।
अन्तःकरणमेव जीवोपाधिः, तदुपहितोपजीवः पशुः ।
पाशश्चोक्तलक्षणानुसारेण मायाप्रतिस्फुरितसुखदुःखमोहप्रदसत्वरजस्तमस्साम्यावस्थालक्षणपञ्च् अविंशतितत्वरूपः ।
पाशनिवृत्तिस्तु लिङ्गाङ्गसामरस्य विषयकोक्तद्वादशविधोपासनानिबन्धना ।
तद्द्वारा पञ्चाचाराष्टावरणविशिष्टस्याधिकरणात्मिका मुक्तिरिति शक्तिपरिणाम्युपादानकारणवादिवीरशैवसिद्धान्तसरणिरिति सर्वं समञ्जसम् ॥

इति श्रीमद्-अनादि-निरञ्जन-जङ्गमापरावतार-
तोण्टद-सिद्धेश्वर-प्रसादासादित-
शाम्भवागमाम्बोधि-मथन-जनित-
निरुत्तरैकोत्तरशत-स्थल-भेद-भिन्न-षट्-स्थल–
तत्त्वबोध-सुधास्वादानन्द-सन्दोह-प्रदायकाचार्यवर्य-
श्रीमरितोण्टदार्य-विरचिते
यडव-मुरारि-कोटे-कोलाहलैकाङ्गि-वीर-
वैरि-सप्ताङ्ग-हरण-पश्चिम-समुद्राधीश्वर-
विशुद्ध-वैदिकाद्वैत-सिद्धान्त-प्रतिष्ठापनाचार्य-
केलदि-सदाशिव-राय-नायक-वंश-दुग्धार्णव-चन्द्र-
वीर-भद्र-धरणीन्द्र-धर्म्म-पत्नी-मल्लाम्बा-हृदयानन्द-
बसव-वसुधा-सङ्क्रन्दनोपदेशे
वीरशैवानन्द-चन्द्रिकायां वादकाण्डे प्रथमं प्रकरणम् ॥

[[४९]]