वीरशैव-सिद्धान्तोत्तर-कौमुदी

IFP transcript T00342 copied from GOML D549

इफ़्प् त्रन्स्च्रिप्त् ०३४२
वीरशैवसिद्धान्तोत्तरकौमुदी

अनुक्रमणिकाः-
शीर्षक पृष्ठसङ्ख्या
उपोद्घातः २-८
शौचाचमनस्नानविधिः ८-१८
भस्मधारणविधिः १८-२०
सन्ध्यावन्दनविधिः सन्ध्यामन्त्रार्थश्च २१-५०
अग्निकार्यविधिः ५०-५९

पृ० २) श्रीवीरशैवसिद्धान्तोत्तरकौमुदी ॥

श्रीचिन्तामणि मन्दिरान्तरशर ब्रह्मासनाग्र स्थितः श्रीमल्लेशशिवाङ्कपीठनिलयां
सिन्दूरवर्णाम्बराम् । पुण्ड्रेक्षू ज्यलि(ज्ज्वल) कार्मुकाङ्कुशिलि सत्पाशप्रसूनांशुगां
ध्यायेत्(म)भ्रमराम्बिकां शशिकला मौलिं त्रिणेत्रां मुदा ॥
श्रीमल्लेशोपघ्नसंवीतफुल्लन्मल्ली लतामिव ।
स्मरामि मानसारामे भ्रमरीमम्बिकां शिवाम् ॥
कुच कुम्भोपरिन्यस्त मणि वीणां मदालसाम् ।
श्यामाङ्क विन्यस्त चूलिकां बालिकां भजे ।
मल्लेश मानघो व्यास गुह वल्मीकवासिनी ।
लिपिबन्धुरवैर्नामि लिङ्गत्रितयरूपिणीम् ॥
मल्लेश समवेतां तामम्बिकामजिराजिरे ।
पश्यामि चपलामापां परां परखाभिदाम् ॥
श्रीमल्लिकार्जुनं लिङ्गं स्त्रीगिरि प्राणलिङ्गकम् ।
नौमि श्रीवीरशैवाना शिद्धानां च लि(वि)शेषतः ॥
उद्भवाराध्य वंशोर्धचन्द्रशेखरनन्दनः ।
अन्नपूर्णा सु तु र्वीरभद्राराध्यश्च तन्त्रवित् ॥
कारणादि त्रिदेहेषु लिङ्गत्रय समन्वितः ।
भारद्वाजसगोत्रस्य मल्लेशाराध्य पूर्वजैः ।
संवीक्ष्य शिवशास्त्राणि सारमुद्धृत्य सर्वधा ॥

पृ० ३) वीरशैवोचित श्रीमत्सिद्धान्तोत्तरकौमुदीम् ।
वक्ष्ये सङ्क्षेपतः श्रीमद्गधे(णे)न्द्रान् हृदि भावयन् ॥
यदा यदा हि धर्मस्य हानिश्चैवस्य(व्य)जायते ।
तदा तदावतारोऽभूद्गणेशस्य महीतले ॥
इति श्रीशङ्खराख्यायां संहितायां महात्मना ।
प्रोक्तं श्रीशङ्करेणैव षण्मुखाय महात्मने ॥
तद्गणेन्द्रांश सञ्जाता व(वी)रशैवा इति स्मृताः ।
तेषां षडध्व कृद्दीक्षा चिन्मयाख्या निरूप्यते ॥
लिङ्गधारणमाख्यातं सर्वश्रुति शिरोगतम् ।
श्रीमल्लिङ्गार्चनं प्रोक्तं दिन कर्म समायुतम् ॥
तेषां समाधिराख्यातः कालाग्निभुवने शुभे ।
एतानि क्रमशो द(व)क्ष्ये सर्वं श्रुतिभिरत्र च ॥
तत्रादौ श्रीगणेन्द्राणां विभवः कीर्त्यतेऽधुना ।
अशेष शिवधर्माणामाकरे मङ्गलालये ॥
पञ्चानामपिरुद्राणां प्रशस्ते पापनाशने ।
रुद्राध्यायेत्रसि सिद्धोऽयं पथीनां पतये नमः ॥
इति मन्त्रः समाख्यातः तस्मिन् मार्ग त्रयं स्मृतम् ।
दक्षिणश्चोत्तरश्चैव तृतीयश्च क्रमेण तु ॥
धूमार्चिरादि मार्गाध्वा भक्तिमार्गस्तृतीयकः ।
अष्टाशति सहस्राणि ऋषयः कर्मणोत्सुकाः ॥

पृ० ४) तावन्तो ऋषयश्चैव ब्रह्मनिष्ठा महत्तराः ।
प्रवर्तन्ते महात्मानः कर्मविज्ञानकाण्डयोः ॥
तथा महागणेन्द्राश्च भक्तिकाण्डे महत्तरे ।
असङ्ख्याताः सहस्राणि सहस्राणि सहस्रशः ॥
नमोः वः किरिकेभ्यश्चेत्यादिमन्त्रैः समीरिताः ।
प्रसिद्ध वैदिकाचार देवस्यानुचरागणाः ॥
यदा चर्मवदाकाशमिति मन्त्रेण वै परा ।
व्रो महत्तरो भक्तिः शिवैक विषया सदा ॥
तद्भक्ति गर्भे सञ्जातास्तन्मार्गे च प्रवर्तकाः ।
ऋषीन्द्राणां शक्ते भक्तिविभेदतः ॥
सृष्टिर्जाता शिवात्सम्यग् तदर्धे विशेषतः ।
ये ये मुक्ता विभूतिर्वै प्राकृती सा परा मता ।
अप्राकृतीं परामन्यां गुह्यां गुह्यविदो विदुः ॥
इति चोक्तं पुरा कृष्णां महताप्युपमन्युना ।
अस्मिन्नर्थे शिवेनोक्ते तस्मिन् विरागमेपि च ॥
शिवशक्तिरसङ्ख्यादौ(ता) ब्रह्माण्डानि शिवेच्छया ।
विदधाति महत्सृष्टिरेकाह्यस्यातिगुह्यका ॥
शिवभक्तिरसङ्ख्यातान् सूते सर्व गणेश्वरान् ॥
यथा महानलज्वाला विभक्ता दीपिकाकृतिः ।
तथा माहेश्वरी शक्तिर्विभक्ता भक्तिरूपिणी ॥

पृ० ५) ज्वाला तमस्विनी यस्माद्दीपिका सुप्रकाशिनी ।
तस्मात्सवासना शक्तिः भक्तिर्निर्वासना मता ॥
भक्तिर्महत्तरा शुद्धा सुसूक्ष्मा शोभना परा ।
सच्चिदानन्दरूपास्याद्भुक्तिमुक्ति फलप्रदा ॥
शक्तिः प्रवृत्तिराख्याता निवृत्तिर्भक्तिरीरिता ।
शक्त्या प्रपञ्च सृष्टिः स्याद्भक्त्या तद्विलयो मतः ॥
अधोमुखी भवेच्छक्तिर्भक्तिरूर्ध्वमुखी भवेत् ।
स माया शक्तिराख्याता निर्माया भक्तिरीरिता ॥
शक्तिवैचित्र्यतोरूपं निरूपमपि याति हि ।
भक्तिवैचित्र्यतोरूपं मपि निरूपिता मयात् ॥
शक्ति भक्त्योर्न भेदोस्ति परमार्थ निरूपणे ।
अपि तर्क प्रमाणाभ्यां भक्ति भक्ति गुणाधिका ।
प्रसादादेव सा भक्तिः प्रसादो भक्तिसम्भवः ॥
यथैवाङ्कुरुतो बीजं बीजतो वा यथाङ्कुरः ।
नित्यं पूर्ण चिदानन्दं सद्रूपं ब्रह्म केवलम् ॥
यदेवा बधरूपं स्यात्सा भक्तिः समुदाहृता ॥
तद्भक्ति गर्भे सञ्जाताः शिवभक्ताः शिवात्मकाः ।
शिवज्ञानैकसम्पन्नाः शिवध्यानपरायणाः ॥
शिवयोगानुसन्धानाः शिवार्चनरताः सदा ।
शिवैकनिष्ठासम्पन्नाः शिवभक्तिपरायणाः ॥

पृ० ६) शिवलिङ्गाङ्गसंयुक्ताः शिवचैतन्यपावकाः ।
सर्वाङ्गलिङ्गसंयुक्ताः शिवचिन्तापरायणाः ॥
शिवप्रसादसम्पूर्णा शिवमन्त्ररताः सदा ।
अनन्य शरणाः सन्तः शिवः शीलपरायणाः ॥
शि(व)व्रतानुसन्धानाः शिवधर्मानुपालकाः ।
शिवप्रसादप्रमदाः स्वयं लिङ्गानुभावुकाः ॥
शिवाचारानुसंयुक्ताः शैवसम्भाषणेरताः ।
षट्स्थलब्रह्मसम्पन्नाः षट्पदार्धार्धशोविताः ॥
षट्चक्र तत्वसम्पन्नाः सदथातीतमार्गकाः ।
अन्योन्य वन्दनास्सर्वे चान्योन्य प्रिय भाषणाः ।
अन्योन्य भृत्यसंयुक्ता अन्योन्यालिङ्गतेरताः ॥
अनन्तशक्तिसंयुक्ता अनन्तबलविक्रमाः ।
अत्यैश्वर्यसंयुक्ता अनन्तौजस्समन्विताः ॥
अनन्ताद्भुतचारित्रा अनन्ताद्भुतकारिणः ।
अनन्तवाहनारूढा अनन्तश्रुतिपारगाः ॥
अनन्तागमसर्वज्ञा अनन्तानन्दमूर्तयः ॥
अनन्तसर्वशास्त्रज्ञा अनन्तमनुमूर्तयः ।
सर्वज्ञाः सर्वसम्पूर्णास्सर्वलोकैकपूजिताः ॥
सर्वैश्वर्यगुणोपेताः सर्वानुग्रह ग्रह * ।
एत्सृष्टिस्थितिसंहार तिरोधानान्व(न्य)नुग्रहा ॥

पृ० ७) एतानि पञ्चकृत्यानि कुर्वन्ति च शिवाज्ञया ।
सहस्रशीर्षा पुरुषस्सहस्राक्ष्यङ्घ्रिसंयुताः ॥
सहस्रबाणसम्पूर्णा पाणयश्च सहस्रशः ।
दिव्यसिंहासनारूढा दिव्यरूपवपुर्धराः ॥
नानामुखास्तथा चान्ये केचिन्माहेश्वरा गणाः ।
दिव्याभरणसम्पन्ना दिव्यभस्मानुलेपनाः ॥
चतुर्भुजास्त्रिणेत्राश्च शैवसिद्धान्तकोविदाः ।
शुद्धस्फटिकसङ्काशा जटाचन्द्रार्धधारिणः ॥
तत्सामरस्यसन्धाने स्थिताः सर्वेश्वरावृताः ।
यलको रुद्रविच्येते असङ्ख्याता सहस्राणि ॥
स्मर्यते न च दृश्यते एव मेतन्निबोधत ।
एवं लिङ्गगणांश सम्भवानां शिवसृष्टिसञ्जातानां
वीरशैवानां दीक्षाविधि रुच्यते । धारणम् ।
श्रीपर्वतमुनेश्शीर्ष पृथुसंस्थ शिवा तनुम् ॥
यन्न मलेश्वरं वन्दे वन्द्य बृन्दैक वेदृतम् ।
मन्दारुकल्पलतिकां षट्त्रिंशत्तत्व गुच्छिकाम् ॥
द्वक्रिया फलकान्तातामाश्रयेद्भ्रमराम्बिकाम् ।
पूर्वोक्तानां च शैवानां शिवधर्मानुसङ्गिनाम् ॥
वर्णाश्रमादि धर्माणां व्यवस्था हि द्विधामता
एकाशिवेन निर्विष्टा ब्रह्मणा कथिता पुरा ।
शिवोक्त धर्मनिष्ठा तु शिवाश्रम निषेविणाम् ॥
शिवसंस्कारहीनानां धर्मः पैतामहः स्मृतः ।
इति शास्त्राणि संवीक्ष्य सारमुद्गृह्य साम्प्रतम् ।
वीरशैवोचितं वक्ष्ये शिवलिङ्गार्चनं पदम् ॥

पृ० ८) संसारदुःखपापघ्नं साक्षान्मोक्षप्रदं शुभम् ।
दिनकर्मसमायुक्त दिव्यबोधैकसाधनम् ॥ इति ।

ननु वीरशैवानां लिङ्गार्चनमेव लिङ्गाङ्गसम्बन्धरूपादिवज्ज्ञानमित्यशेष
शैवसिद्धान्तेषु प्रशस्तम् । तद्धिन कर्मसमायुक्तं कर्तव्य ति मित्युक्तम् । दिनकर्मणा किं
फलमिति चेत्तत्र ब्रूमः । शैवसिद्धान्तशिखामणौ ज्ञानेनाचार युक्तेन न सीदति
महेश्वरः । तस्मादाचारभदेदा देहपातनात् ॥
ज्ञाने सिद्धेपि विदुषां कर्मापि दिन युज्यते ।
फलाभिसन्धिरहितं तस्मात् कर्म न सन्त्यजेत् ।
आचारलव सर्वेषाम् अलङ्काराय कल्पते ॥
आचारहीनः पुरुषो लोके भवति निन्दितः ।
अन्दमङ्गुरदन्योन्यं सापेक्षे ज्ञानकर्मणि ॥
धर्मोत्पत्तौ विरक्तानां तस्मादद्वयमाचरेत् ।
प्रकाशते यथा नाग्निररणेर्मथनं विना ॥
क्रिया विना तथान्तस्थोर प्रकाशो भवेच्छिवः ।
न यथा विदितो पश्याद्यथा देवः प्रसीदति ॥
यथागमं प्रमाणं स्यात्तथा कर्म समाचरेदिति ।

शङ्करसंहितायामुपरिभागेप्युक्तम्-
स्वजातिविहितं धर्मं कुर्वन्तः पूजयन्ति ये ॥

पृ० ९) भक्त्या श्रीकण्ठमनिशं तेपि माहेश्वराः स्मृताः ।
कर्मविध्युक्तमुत्सृज्य स्वजातिविहितं नराः ॥
येऽर्चयन्ति शिवं तेषां पूजां गृह्णाति नेश्वरः ।
वर्णाश्रम समाचारः शिवेन कथितः पुरा ॥
ये तानुल्लङ्घ्य वर्तन्ते शिवस्याज्ञापलापिनः ।
राजाज्ञाभङ्गकृन्नृर्णां यथा दण्डो भवेन्नृणाम् ॥
शिवाज्ञाभङ्गकृन्नृर्णां दण्डो हि नरकस्तथा ॥
साम्बेन शम्भुना ज्ञप्तं धर्मं त्यक्त्वार्चयेच्छिवम् ।
यस्तस्मै कुप्यति शिवः स्वाज्ञाभङ्गनिमित्ततः ॥
बोधनाल्लक्षणं धर्मं शिवेनाज्ञप्तमत्यजन् ।
शङ्करं पूजयेद्यस्तु तस्मै साम्बः प्रसीदति ॥
प्रसन्ने सति देवेशे महानन्दे सदाशिवे ।
दुष्करं किमु मर्त्यस्य त्रिषुलोकेषु विद्यते ।
महानन्दे महादेवे महाकारुणिकोत्तमे ॥
प्रसन्नपति(-न्नेस-) मूढो वा पण्डितो वा विमुच्यते ॥
तस्मात् प्रसाद सिद्ध्यर्थं शिवस्य परमात्मनः ।
अ(आ)ज्ञेति वेदस्मृत्युक्त नित्यकर्माचरेत्सुधीः ॥
महेश्वरः सदा कुर्यात् सन्ध्योपास्तिं त्रिसन्धिषु ।
सूर्यो मुख्य शरीरं च भीमस्य परमात्मनः ॥
यस्तस्योपासनं कुर्यात्सशिवार्चन कृद्भवेत् ।

पृ० १०) लिङ्गाङ्गसङ्गिनोपास्यात् सन्ध्यां कालत्रयेपि च ।
या सन्ध्या सा जगत्सूते मायातीता हि निष्कला ॥
ईश्वरी केवला शक्तिस्तत्वत्रय समुद्भवाम् ।
श्रुतिस्मृत्युदितं धर्मं नित्यं नैमित्तिकाश्रयम् ॥
कृत्वार्चयति यः शम्भुं स भक्तः सात्विकः स्मृतः ।
यः सात्विको लिङ्गधारी विधिवन्नित्यकर्मकृत् ॥
नीलकण्ठस्य देवस्य प्रियो भक्तः स ईरितः ॥
इति । क्रमान्नित्यादिकं वक्ष्ये क्रम बोध विधानतः ।
साधकानां हितार्थाय चतुराश्रम कर्मिणाम् ॥
रात्रिकाले पञ्चदश सुमुहूर्ताः प्रकीर्तिताः ।
चतुर्दश मुहूर्तोत्र मुहूर्ति ब्रह्मसञ्ज्ञिकः ॥
तस्मिन्मुद्धाम मनसि चिन्तयेच्छङ्करं शुचिः ।
गुरुं चरं शिवं पश्येत्तेभ्योन्यान्न विमोकयेत् ॥
ततो गृहाद्विनिर्गत्य बहिर्गच्छेदतन्द्रितः ।
वाद्यतः पृथिवी । भाग विक्षेपमात्रकम् ॥
करे वा कर्णमूले वोपवीतं विन्यसेद्बुधः ।
दक्षिणाभिमुखो रात्रौ उत्तराभिमुखो दिवा ।
प्रत्यादित्यं जलादीन् वै चन्द्र गो ब्राह्मणान् प्रति ।
देवालयसमीपे च कूपे गोष्ठे च भस्मनि ।
क्षेत्रे च वृक्षच्छायायां नद्यामन्तः सरस्वते ॥

पृ० ११) दैत्यवृक्षसमीपे च वेलायां वै महोदधेः ।
चत्वरे गृहमध्ये च न कुर्यादुभयं नरः ॥
निष्टे चव्ये सृजद्वासं वस्त्रपाद्यन्त मस्तहा । ?
आच्छादयेत्तृणैर्भूमिं मलमूत्रे विसर्जयन् ॥
सुप्रभेदे-
वामेन शिश्नं सङ्गृह्य मृत्पिण्डं दक्षिणे करे ।
जले शुद्धे समागत्व(त्य) जले शौचं समाचरेत् ॥
आगमान्तरे-
सकृन्मृत्तिकया शिश्नमक्षमात्र प्रमाणतः ।
तथा सर्वत्र संयोज्य पश्चात्पादौ च मुत्तिकाम् ॥
दश कृत्वा वामकरं सप्त कृत्वा करद्वयम् ।
सुप्रभेदे विशेषः-
एकं लिङ्गे गुदे पञ्चदश वामकरे मृदः ।
उभयोः सप्तसंयोज्य तिस्रः पादौ ततः स्फिचौ ॥
शोधयेदम्भसा नित्यं दृढ(गृह)स्थानां विधीयते ।
एतदुक्तं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ॥
त्रिगुणं च वनस्थानां यतीनां च चतुर्गुणम् ॥

किञ्च शङ्करसंहितायाम्-

प्रक्षालयेद्गुदं शिश्नं मृद्भिरप्युद्धैऋर्जलैः ।
गन्धलेपनिवृत्त्यर्थं कुर्याच्छौचं मतं * * ॥
यावन्मात्रान्मनःशुद्धिस्तावच्छौचं समाचरेत् ।
तथाकारणे-
आहरेन्मृत्तिकां स(न)द्यास्तीरे भूमिधरेपि च ।
अश्वत्थवृक्षमूले च बिल्ववृक्षेपि कण्टके ॥
आरामादिस्थले शुद्ध देशे ब्राह्मण सत्तमः ।

पृ० १२) न कर्दमान्ना कृष्णान्न मार्गान्नोषरादपि ।
न कुड्यान्मृत्तिका (ग्राह्या) ? एता नित्यं विवर्जयेत् ॥ ?
कृतशौचावशेषे च वल्मीकै मूषरस्थले ।
अन्तर्जले देवगेहे न ग्राह्या पञ्चमृत्तिकाः ॥
तटाक वापी कूलेषु ना प(ह)रे ल्बा(द्वा)द्य मृत्तिकामिति ।
मलोत्सर्गे मैथुने च प्रसाचे दन्तधावने ॥
भोजने स्नानकाले च मौनं षट्छ(सु) विधीयते ॥ इति ॥
उत्थाय तीरात्तस्मात्सन्मान्यत्राचमनं चरेत् ।
प्रक्षाल्य पादौ पाणी च दक्षिणादि क्रमेण तु ॥
स दक्षिणकरेणैव सर्वकर्म समाचरेत् ।
स्थले तु दक्षिणं पादं वामपादं जलेस्थितम् ।
नभो नाशाश्च संसक्ष्य हस्ते गोकर्णवत्कृते ॥
आचम्य विधिवद्वत्स कृत्वा मन्त्रेण मार्जनम् ।
श्रीमत्पञ्चाक्षरेणैव गायत्र्या शैवया ततः ॥
माषमग्नं तु यद्वारे (पिबेद्वारि) निश्शब्दं तत्र पीयते ।
तथा वै त्रितयं पीत्वा वक्त्रं गुष्ठेग(न) तु स्पृशत् ॥
शुचौ देशे सुखासीनः प्राङ्मुखो वाप्युदङ्मुखः ।
आचम्य विधिवच्छुद्ध्यै दन्तधावनमाचरेत् ॥
सार्द्रं सत्वक्षमुत्सेधमृजुं शुद्धमपर्वकम् ।
कनिष्ठाङ्गुलिविस्तारं प्रशस्तं दन्तधावने ॥

पृ० १३) निबिं(म्बं) बिल्वं करञ्जोत्थं पौकषं खादिरार्जुनम् ।
अष्टाङ्गुलं मुमुक्षूणां बुभुक्षूणामथोच्यते ॥
प्लक्षाम्रकशुभा शोक जम्बू चम्पक सम्भवान् ।
औदुम्बरमपामार्गमतिमुक्तं च निम्बकम् ।
तिन्त्रिणीं वेणु प्रुष्टं च कदम्बं च वदीं तथा ॥
गृहीत्वात्माष्टावयं द्वादशाङ्गुलमायतम् ।
अथ वा विप्र राजन्य वैश्य शूद्रान्त्य जातिषु ॥
दशाङ्गुलं समुद्दिष्टं क्रमादेकैकहीनतः ॥
शर्म्मधात्रिध वै दण्ड क्षीरी कुम्भ्यं कुश तृणैः । ?
शिग्रु वानीरपैशाच काशाश्वत्थ कुशैर्गहि ॥
कामिके ।
हिन्ताल तालक्रमुक केतक्यश्च महावटः ।
नारिकेलश्च खर्जूरस्सप्तैते तृणराजिकाः ॥
एतैस्तृणद्रुजै काष्ठैरुविकुर्याष्ठन्त धावनम् ।
चण्डालतामियान्मर्त्य सत्यं वरानने । ?
प्रतिपत्य(त्प)र्व षष्ठीषु द्वादश्यां नवमी दिने ॥
दण्डा(ता)नां काष्ठसंयोगं प्रयत्नेन च वर्जयेत् ।
सङ्क्रान्तौ जन्मदिवसे व्यतीपातार्कवारयोः ।
विवर्जयेद्दन्तकाष्ठं नन्दादिषु च पर्वणि ॥
धीमान् पर्णैः स्वदा कुर्यादमामेकादशीं विना ॥
तयोरपि च कुर्वीत प्लक्ष जम्ब्वम्लपल्लवैरिति ॥

पृ० १४) दन्तकाष्ठालाभके तु * * न्यं मष्टके विना ॥
मध्यमानामिकाभ्यां च सुधीर्दन्तान्विशोधयेत् ।
अथवा मुखसंशुद्धिर्दन्तानां धावनं विना ।
गण्डूषैस्सूर्यसङ्ख्याकैर्विधाय स्नानमाचरेत् ॥
आगमान्तरे-
सिन्धुसङ्गमकासार तटाकेषु नदी ह्रदे ।
पल्वले प्लवने चैव स्नानमत्यन्तमुत्तमम् ॥
नालिपुष्करिण्यादौ मध्यम्मा(मं) कन्यसं पुनः ।
वापी कुण्डोदपानेषु गृहे स्नानमनुत्तम् ॥
किञ्च सुप्रभेदे विशेषः-
अथातः सम्प्रवक्ष्यामि स्नानं पापहरं परम् ।
पञ्चस्नानानि चोक्तानि विप्राणां शुद्धयेत्ततः ॥
स्नानं वारुणमाग्नेयं दिव्यं वायव्य मानसम् ।
वारुणं वारिणा स्नानमाग्नेयं भस्मना भवेत् ॥
वृष्ट्या सातपया दिव्यं वायव्यं रजसा गवाम् ।
मन्त्रैर्मानसमित्युक्तं स्नानपञ्चकमीरितम् ।
वक्ष्ये वारुणमाग्नेयं दिव्यं वायव्यमानसौ ॥
नद्यां वाप्यां तटाके वा कूपे वापि चतुर्विधम् ।
कूपस्नानं न कर्तव्यं वाप्यादिषु च सम्भवे ॥
तटाकेष्वपि न स्नानं सरित्सत्यां गजानन
कूपाद्दशगुणा वापी वाप्या दशगुणा सती (नदी)

पृ० १५) तस्या दशगुणा नद्याः समुद्रगामिका पराः ।
प्राङ्मुखो वा चोत्तरास्यः स्नानार्थं संव्रजेद्गुरुः ।
ततः शतगुणं पुण्यं स्नानं प्राङ्मुखमुच्यते ॥
तत्रापि दक्षिणं तीरमनन्तफलमुच्यते ।
तोयं शुद्धमशुद्धं वा शिवालय समीपतः ।
शिवगङ्गेतितां विद्याच्छिवधामाम्बुसेवनात् ॥
तेषां तीर्थं समागम्य स्नानं कुर्याद्विशेषतः ।
मलस्नानमिदं प्रोक्तं मन्त्रस्नानं ततः शृणु ॥
जीवसेवितं तु जलं नित्यं तस्मादुष्टं विशेषतः ॥
तद्दोषशमनार्थं तु शिवतीर्थं तु कल्पयेत् ॥
हस्तमात्रप्रमाणं तु परितश्चतुरश्रकम् ।
हुं फट्कारेण शुद्धां च मृदं गृह्णीत साधकः ॥
सद्ये(न) स्थापयेन्मन्त्री वामदेवेन सेचयेत् ।
अघोरेण तु संस्पृश्य पुरुषेण त्रिभागिकम् ।
पूर्वे तु दक्षिणे चैव तथा चैवोत्तरे क्षिपेत् ॥
ईशानेन तु मन्त्रेण चैकैकमभिमन्त्रयेत् ।
अस्त्र ब्रह्म शिवं जप्त्वा पूर्वादि क्रमशो न्यसेत् ।
अस्त्रजप्तं तु यद्भागं दशदिक्षु विनिक्षिपेत् ॥
शिव जप्तं तु यद्भागं तीर्थमध्ये विनिक्षिपेत् ॥

पृ० १६) फट्कारेणाधि मन्त्रेण नानाच्छास्त्र प्रयोगतः ।
जले सूक्ष्माश्च ये दोषाः तेषामुच्चाटनं भवेत् ॥
शिरोवक्त्रं च हृदयं पादौ गुह्यं च भागशः ।
शेषार्धेनोपसंस्पृश्य स्नात्वाद्भिस्तु पुनः पुनः ।
आपः स्पृश्य ततः स्नायाच्छिवतीर्थस्य मध्यतः ।
कपोत कुक्कुटश्येन काककङ्क खरश्वभिः ।
ग्रामसूकर गृध्राष्टै(द्यै) स्तदुद्भूताङ्ग वैकृतैः ॥
श्मशान पतित प्रेत सूतिकामाल्य भोजनैः ।
तथान्यलिङ्गिभिः स्पर्शे सचेल स्नानमाचरेत् ॥
शुक्लविण्मूत्रसम्पर्के नाभेरूर्ध्वं करे विना ।
वमने वपने तोयमवगाहेद्विशुद्धये ॥
अप्रशस्तं निशिस्नानं राहोरन्यत्र दर्शनात् ।
वृत्तस्य रुधिरं नित्यं स्रवन्ति निशि निम्नगाः ॥
तस्मात् स्नानं च पानं च न कुर्वीत कदाचन ।
रात्रौ वा परिगृह्णीयाद्देवार्थं चात्मनश्च वै ॥
सुवर्णाग्निसमक्षं वा प्राणायामेन वा जलम् ।
प्राणायाम त्रयं कृत्वा कारयेद्देशिकोत्तमः ॥
जलशुद्धि भवेदेवं निशिस्नानाय गम्यते ।
तस्माद्दीपैव गृह्णीयाद्देवार्थं चत्मनश्च वै ।

पृ० १७) जलक्रीडावसाने तु वक्त्रमुद्राभिषेचयेत् ।
शिवब्रह्माङ्गविद्याङ्गैः स्नानं कृत्वा विचक्षणः ॥
पञ्चब्रह्म शिवाङ्गैश्च त्रिः पठेदघमर्षणम् ।
ततः शिवात्मकैर्मन्त्रैः कृत्वा तीर्थं शिवात्मकम् ॥
मार्जनं संहितामन्त्रैः तत्तोयेन समाचरेत् ।
वामपाणि पतत्तोयं योजनं सव्यपाणिना ।
उत्तमाङ्गे क्रमान्मन्त्रैस्तत्तोयेन समाचरेत् ॥
नत्वा तदुपनासाग्रं दक्षपाणि पुटे स्थितम् ।
बोदरूपं सितं तोयं वामया कृष्यकं भयेत् ॥
तत्त्वापः कञ्जं लाभासं पिङ्गया रीछ्यदिष्विना ।
क्षिपेद्वज्रशिलायां यत्तद्भभेदघमर्षणम् ।
अन्तर्जलेपिधानाक्षः सर्वाङ्गं नैव सेचयेत् ॥
दर्शयेच्च ततश्चार्धं मुखं मग्नोदरात्पुनः ।
मुखमग्नं तु यत्प्रोक्तं शताध्यर्धं भवेत्क्रमात् ॥
अर्धाङ्गेत्यर्धसाहस्रं निमग्ने कोटिरुच्यते ।
एवं समाचरेन्नित्य शिवमन्त्रं ततो जपेत् ॥
ध्यानयुक्तो विनिष्क्रम्य क्रमेणाचम्य तत्वतः ।
शिवमन्त्रं यथाशक्ति जपेद्ब्रह्माङ्गकैर्बुधः ।
फट्कारेणाभिमन्त्रेण शिवतीर्थं तु संह्वरेत् ॥

पृ० १८) धौतवस्त्रं तु सङ्ग्राह्य चार्द्रवस्त्रं विवर्जयेत् ॥
किञ्च शङ्करसंहितायाम-
स्नायाद्विशुद्धभावेन नरः सङ्कल्पपूर्वकम् ।
नद्यां तटाके वाप्यां वा गिरिप्रप्र(स्र)वणे ह्रदे ॥
उद्धृतैरुदकैः कूपे दक्षः स्नायात् समाहितः ।
अशक्तः कण्ठमात्रं वा कटिमात्रमथापि वा ॥
आचम्य चेल महतं परिदद्यावथाचमेत् ।
प्रातःस्नानेप्यशक्तश्चेत् मध्याह्ने स्नानमाचरेत् ।
जलस्नानमिदं प्रोक्तं भस्मस्नानमथ शृणु ॥
अथवा चाग्निहोत्रेषु भस्मग्राह्य विचक्षणः ।
जलस्नानं विना चोर्ध्वे भस्मस्नानं विधीयते ॥
शिव ब्रह्माङ्ग जप्तेन भस्मस्नानं समाचरेत् ।
शुचौ देशे सुखासीनः शुद्धान्तःकरणः शुचिः ।
प्राणायाम त्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः ॥
अथातः सम्प्रवक्ष्यामि भस्मस्नानविधिं परम् ।
श्रीकरं च पवित्रं च हारमाभरणं तत इति ॥
ततः मूलेन भस्म गृहीत्वा वामपाणि तले निक्षिप्य दक्षिणहस्तेनाच्छाद्य प्रणव
पञ्चाक्षर्या षड्वारमभिमन्त्र्य ईशानः सर्वविद्यानामिति मन्त्रेण विभूतिं शिरसि
संलिप्य तत्पुरुषमन्त्रेण मुखं संलिप्याघोरमन्त्रेण हृदयं संलिप्य-
वामदेवमन्त्रेण नाभिं संलिप्य- सद्योजातमन्त्रेण

पृ० १९) पादौ संलिप्य प्रणवेन सर्वाङ्गोद्धूलनं कृत्वा । मानस्तोक इति विभूतिं
समुद्धृत्य- शं नो देवी रित्युदकं दत्वा मानो महान्तमित्यालोड्य । तन्मध्ये पञ्चकोणं
विलिख्य- पूर्वादि पञ्चकोणेषु नकारादि यकारान्तं विलिख्य- मध्ये प्रणवं विलिख्य
प्रणवपञ्चाक्षर्याष्टवारमभिमन्त्र्य- तदनन्तरं प्रत्यङ्गं विभूतिं धारयेत् ।
तद्यथा-
उत्तमाङ्गे शिवं स्मृत्वा विभूतिं धारयेद्बुधः ।
माहेश्वरं ललाटे तु रुद्रं श्रोत्रद्वयेऽपि च ॥
श्रीकण्ठं च गले बाहुयुग्मे शम्भुं च हृत्स्थले ।
ईश्वरञ्च महादेवं नाभिदेशे च पृष्ठके ॥
भागे पशुपतिं बाहु युगले शङ्करं ततः ।
वृषध्वजं ककुद्देशे मणिबन्ध द्वयेपि च ।
परमात्मानमित्येवं विभूतिं धारयेत्सुधीः ।
इति विभूतिं धृत्वा ॥

भस्मोत्पादनमुद्दिष्टं चतुर्धा तन्त्रवेदिभिः ।
कल्पं चैवानुकल्पं चाप्युपकल्पमकल्पकम् ॥
लष्वेकडम मादाय पात्रेषु कलशादिषु ।
त्रिसन्ध्यमाचरेत् स्नानं यथासम्भवमेव वा ॥
स्नानकाले करौ पादौ प्रक्षाल्य विमलाम्भसा ।
अष्टकृत्वोथ मूलेन मौनी भस्माभिमन्त्र्य च ॥
शिर ईशानमन्त्रेण पुरुषेण मुखं तथा ।

पृ० २०) हृत्प्रदेशमघोरेण वामदेवेन गुह्यकम् ।
पादौ सद्येन सर्वाङ्गं प्रणवेनैव सेचयेत् ॥
भस्मनाविहितस्नानमिदमाग्नेयमुत्तमम् ।
मूलमन्त्रेण यद्भस्म कृत्वा चाष्टाभिमन्त्रितम् ।
उद्धूलयेत्तेन देहं त्रिपुण्ड्रं चापि धारयेत् ॥
सर्वाङ्गोद्धूलनं चापि न समानं त्रिपुण्ड्रकैः ।
तस्मात्त्रिपुण्ड्रमेवैकं लिखेदुद्धूलनं विना ॥
त्रिपुण्ड्रं धारयेन्नित्यं भस्मना सजलेन च ।
स्थानेषु पञ्चदशसु शरीरे साधकोत्तमः ॥
उत्तमाङ्गे ललाटे च श्रवण द्वितये तथा ।
गले भुजद्वये चैव हृदि नाभौ च पृष्ठके ॥
बाहुयुग्मे ककुद्देशे मणिबन्धद्वये तथा ।
त्रिपुण्ड्रं भस्मनाधार्यं मूलमन्त्रेण वाथवा ॥
मध्याङ्गुलित्रयेनैव स्वदक्षिण करस्य तु ।
षडङ्गुलायतं मानमपिवाधिकमानकम् ।
नेत्रयुग्मप्रमाणेन फाले दद्यात्त्रिपुण्ड्रकम् ॥
मध्यमानामिकाङ्गुष्ठैरनुलोमविलोमतः ।
धारयेदथवा पुण्ड्रं सरुद्रं नात्र संशयः ॥
मजु श्वेतमनु व्यात्तं स्निग्धं श्रोत्रप्रमाणकम् ।
एतत्सल्लक्षणोपेतं त्रिपुण्ड्रं सर्वसिद्धिदम् ॥
तदनन्तरमाचमनविधिरुच्यते-

पृ० २१) * * * ऊं रनिरनिश्वतोमश्मं (नमः शं-) भवे च मयो भवे च नमः शङ्कराय च
एभिस्त्रिभिर्मन्त्रैराचमनं कुर्यात् । सर्वाङ्गुल्यग्रैर्मयस्कराय च । ऊर्ध्वोष्टे ऊं नमः
शिवाय च अधरोष्टे ऊं नमश्शिवतराय च चुबुकेदि स्पृशेत् । अङ्गुष्ट तर्जन्याम् ऊं
भवोद्भवाय नमः ।
वामनासारन्ध्रेऽङ्गुष्ठनामिकाभ्यां ज्येष्ठाय नमः । दक्षिणनेत्रे श्रेष्ठाय नमः ।
वामनेत्रे रुद्राय नमः । दक्षिणकर्णे कालाय नमः । वामकर्णे
कनिष्ठिकाङ्गुष्ठाभ्यां कलविकरणाय नमः । नाभौ तलेन बलविकरणाय नमः । कुक्षिं
स्पृशेत् । अङ्गुल्यग्रैश्चतुरङ्गेषु स्पृशेत् । यथा- अङ्गुल्यग्रैर्बलाय नमः । शिरसि
बलप्रमथनाय नमः । दक्षिणभुजे ऊं सर्वभूतदमनाय नमः । वामभुजे
मनोन्मनाय नमः । वक्षसि वामहस्ततलेन दक्षिणहस्ततलम् । नमस्तेऽस्तु
भगवन्विश्वेश्वराय नमः । दक्षिणहस्ततलेन वामहस्ततलं महादेवाय नमः ।
दक्षिणहस्ततलेनाष्टाङ्गानि स्पृशेत् । यथा त्रियम्बकाय नमः । दक्षिणपादतले । त्रिका(ला)ग्नि
कालाय नमः । दक्षिणपार्श्वे कालाग्निरुद्राय नमः । वामपार्श्वे नीलकण्ठाय नमः ।
उरसि सर्वेश्वराय नमः । दक्षिणगले श्रीमहादेवाय नमः । मूर्ध्नि स्पृशेत् । तथोक्तं
वामदेवसंहितायाम्- नम शम्भव इत्यादि मन्त्रस्था मनवश्च षट् ।
भवोद्भवाय इ नम इति नमः । प्रथमः स्मृतः ॥

पृ० २२) वामदेवाय वाक्यस्था मन्त्रा एकादश स्मृताः । * * व नमस्तेऽस्तु भगवन्विश्वेश्वर इति
स्मृतः । महादेवस्त्र्यम्बक त्रिपुरान्तक इतीरितः । त्रिका * ग्नि कालः कालाग्निरुद्राह्वय इति
स्मृतः ॥ नीलकण्ठश्च सर्वेश्वरः सदाशिव एव च । श्रीमहादेव इत्येते सजेन्ता नमसा स्मृतः
। अष्टाविंशतिनामानि कीर्तितानि महान्ति च । एतैराचमनादीनि कार्याण्याहुर्मनीषिणः ॥
शम्भ्वादिभिस्त्रिभिर्मन्त्रैः पीत्वा शेषैश्च संस्पृशेत् ।
बिष्टद्व बिष्टद्वयं च चुबुकमङ्गुल्यग्र्यैरनन्तरम् ॥
भवोद्भवादिभिर्मन्त्रैर्द्वादशाङ्गानि संस्पृशेत् ।
अङ्गुष्ठ तर्जनीभ्यां तु नासारन्ध्रे स्पृशेत् क्रमात् ।
अङ्गुष्ठानामिकाभ्यां तु नेत्रे कर्णे स्पृशेत् क्रमात् ॥
साङ्गुष्ठेन कनिष्ठेन नाभि कुक्षिं तलेन तु ।
अङ्गुल्यग्रैः शिरो बाह्व्योर्मूले कक्षस्थलं स्पृशेत् ॥
नमस्तेत्यादिभिर्मन्त्रैर्दशाङ्गानि च संस्पृशेत् ।
वामहस्ततलेनैव दक्षिणं च तलं स्पृशेत् ॥
तथा दक्षिणहस्तेन वामहस्ततलं स्पृशेत् ।
पादद्वन्द्वं पार्श्वयुग्ममुरो गण्डस्थले ह्युभे ॥
मूर्धाङ्ग मुनि शार्दूल तलेनैव न चान्यथा ॥
एवमाचम्य विधिवत् कर्मानुष्ठानमाचरेत् ॥ इति ।

अथ सन्ध्याविधिरुच्यते-

पृ० २३) संहताभिः सर्वाङ्गुलीभिः पूरक कुम्भक रेचक पूर्वकं प्राणायामं कुर्यात् ।
तथा चापस्तम्भः - अर्धं(र्थं) वा सिसाधयिषुरिति । तत्र वृत्तिकारः । अर्थः प्रयोजनं
दृष्टमदृष्टं वा सिसाधयिषुः साधयितुमिच्छुरातमितोरा शरीरग्लाने प्राणामायमच्छेत् ।
त्रिवारं प्राणायामं कुर्यादिति शारदातिलके ।
प्राणायामं पुरा कृत्वा गायत्रीं सन्ध्ययोर्जपेत् ॥
सप्तव्याहृतिसंयुक्तां गायत्रीं शिरसान्विताम् ।
त्रिरुच्चरन् धिया प्राणान् धारयेत् साधकोत्तमः ॥
प्राणायामोऽयमाख्यातः समस्तदुरितापहा ।
ऊङ्कार सहित सप्तव्याहृतिपूर्वकम् ऊम्मापोज्योतिरिति शिरःसहित त्रिरावृत्त
गायत्र्यानुचिन्तनात्मक प्राण निरोध एव प्राणायाम उच्यत इत्यर्थः । पूरक
कुम्भकरेचकाः ग्रन्थान्तरे दर्शिताः । पूरकः कुम्भको रेच्यः प्राणायामस्त्रिलक्षणः ।
नासिकाकृष्ठ वेच्यासोध्मान्तः पूरक उच्यते ॥
कुम्भकोपिश्चलश्वासो रिच्य मानस्तु रेचकः । इति
ते च कथं कर्तव्या इत्यपेक्षायां वामदेव आह-
आसने सम्यगासीनो वामेनापूर्य चोदरम् ।
कुम्भकेन त्रिरावृत्त्या दक्षिणेन विरेचयेत् ॥ इति ।
प्राणायामकरणे गृहस्था स्थादीनां विशेषमाह-
पञ्चाङ्गुलीभिर्नासङ्ग्र(साग्रं)पीडनं प्रणवाभिधा मुद्रेयं सर्वपापघ्नो

पृ० २४) वानप्रस्थ गृहस्थयोः । कनिष्ठानामिकाङ्गुष्ठैः नासाग्रस्य च पीडनम् ।
ऊङ्कार मुद्रया प्रोक्ता यतेश्च ब्रह्मचारिणः ॥ सन्निमीदृज्ञानि प्राणायामं
समभ्यसेदिति । मन्त्रश्च- ऊं भूः । ऊं भुवः । ऊं गू सुवः ऊं महः । ऊं जनः ।
ऊं तपः । ऊं गू सत्यम् । ऊं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धीयो यो नः
प्रचोदयात् । ऊं मापोज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् । अस्यार्थः- अत्र प्रथमतः
प्रणवपदम् ऊं भूः भूलोकाभिमानिन्यो रुद्रदेवताः । सहस्राणि सहस्रशो ये रुद्रा
अधिभूम्यामिति श्रुतेः । ऊङ्कारार्थ चिदाकार शिवाभिध ब्रह्मत्वेन स्तूयन्त इति
तात्यपर्येण निर्दिष्ट मुक्तं महोपनिषदि- �यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः ॥ � इति । भूर्लोकाभिमानिन्यो रुद्रदेवताः मया
कृतमाह्निकमनुजानन्त्वित्याशयेन भक्ति श्रद्धापूर्वकं तत्तद्रुद्रदेवताभ्यः स्वकृत
कर्म निवेदन निद्ध्यर्थं तत्पदमादौ वर्णितं तत्रोमिति रूप निष्पत्ति प्रकारः । अ च(व)?
रक्षण इत्यस्माद्धातोः अवतेष्टिलो पश्येत्यौणादिकसूत्रेण (मनिन् ।) प्रत्यये कृतेपि(टि) लोपे च
अपि अमी इति स्थिते ज्वरत्वरेत्यादिना ऊठि कृते वकारस्योकारे
प्राप्ते आद्गुण इत्यनेन गुणे शतो शिष्टोच्चारणे सति ऊम्मिति रूपम् निष्पन्नम् । अकार उकार
मकार इति । तानेकधा नम भवेत्तदेत्रदोमिति श्रुतेः । ऊङ्कार पदस्य ब्रह्मार्थकत्वे अ-

पृ० २५) वति रक्षति संसारसागरात्तरयतीति वा व्युत्पत्तिः । ऊं भूः भूर्लोकाभिमानि
व्योमद्रदेवताः । ऊं चिदाकार शिवाभिद ब्रह्मात्मकाः अस्मिन् महत्यर्णवेन्तरिक्षे भवा
अधीति श्रुत्या ऊर्ध्वकाधीश्वर रुद्रदेवतानामूर्ध्वलोक स्थित भुवरादिलोकेषु च
विद्यमानत्वादेवं भुवरादिषु बोध्यम् । उक्तं शिवधर्मशास्त्रे-
भूर्लोकेऽथ भुवर्लोके स्वर्लोके निवसन्ति ये ।
देव दिव्यप्रभायुक्ताः शान्तिं कुर्वन्तु मे सदा ॥
महर्लोक जनर्लोके तपस्ससतोश्च ये स्थिताः ।
तेपि प्रमुदिता देवास्तप्त चामीकरप्रभाः ॥
ईशानं प्रणता नित्यं शान्तिं कुर्वन्तु मे सदेति ।
तत्र महर्जनस्तपः शब्दाः असुन्नन्ताः । प्रतिपदं प्रणवकीर्तनं दार्ढ्यार्थमिति
बोध्यम् । भूरादिलोकस्थित रुद्रदेवतानां शिवैक्यं शरीरशः । रिभावेन वा ।
तदभिन्नसत्ताकत्वेन वा युज्यत इत्यन्य देवतेत् । गायत्री तु जपावसरे व्याख्यायते । ऊम्मापो
ज्योतिरिति गायत्री शिर इति वेदितव्यम् । तस्यार्थः- ओमापः परशिवाभिध ब्रह्मभूताः । आपः
स्त्रीभूम्नीति कोशाद्बहुवचननिर्देशः । ज्योतिर्यह्युदि तेजः । ऊं परमशिवाभिध
ब्रह्मभूतं यो रुद्रो अग्नौ योऽप्स्विति श्रुतेरधिष्ठानाष्टमूर्ति भूतार्कनोम
यज्यनामीश्वर शरीरत्वादुक्तम ।
शैवसिद्धान्तशिखामणौ- पृथ्व्यादिकात्मपर्यन्तं प्रपञ्चोष्टधा स्थितः ।

पृ० २६) तनुरीशस्य चात्मायं सर्वतत्वनियामकः ।
शरीरभूतादे तस्मात् प्रपञ्चात् परमेष्ठिनः ॥
आत्मभूतस्य देवस्य न भेदो न पृथक्ति(क्स्थि)तिरिति ॥
रसः पारदः । ऊं परमशिवाभिध ब्रह्मभूताः भिषक्तमन्त्वाभिषजां शृणोमीति
श्रुतेरादिवैद्यस्य शिवस्य रसात्मकात्वादुक्तम् । �रसात्मकश्च तत्रास्ते आदिवैद्यो महेश्वर� इति ।
यद्वा ऋगायोवेदालि(वि) वेदस्तत्वम् । तपो ब्रह्मेति कोशात् ॥ ऊं परमशिवाभिध ब्रह्मभूताः ।
ऋग्यजुस्सामाथर्वणां नीरसोहमिति श्रुतेः । भूर्भुवस्सुवरिति भूरादीनां सप्तानां
लोकानामुपलक्षणम् । भूरादयः । ऊं परमशिवाभिध ब्रह्मभूताः यो वै रुद्रस्स
भगवान् । याच भूर्भुवस्सुवस्तस्मै नमो नमः । शीर्षं जनदों विरश्व रूपोऽसि । यो वै
रुद्रस्त(स) भगवान्यच्छ(श्च) भुवः भूर्भुवस्तस्मै वै नमो नमः । यो वै रुद्रस्सभगवान्
यश्च सुवः । यो वै रुद्रस्स भगवान् यश्च महः । यो वै रुद्रस्स भगवान् यश्च जनः । यो वै
रुद्रस्स भगवान् यश्च तपः । यो वै रुद्रस्स भगवान् यश्च सत्यम् । भूर्भुवस्सुवस्तस्ये(स्मै)
वै नमो नमः । शीर्षं जनदों विश्वमापोनीति श्रुतेः । अर्थं वा सिसाधयिषुरिति
प्राणायामस्य विहितत्वात्पूर्वं प्राणायामस्तदनन्तरं सङ्कल्प इति विवेकः ॥

पृ० २७) एवं प्राणायाम त्रयं कृत्वा श्रीपरमेश्वर प्रीत्यर्थं प्रातः सन्ध्यामुपासिष्य
इति सङ्कल्प्य । प्रशस्तमुदकं पात्रान्तरे वामहस्तेन गृहीत्वा । केन पात्रेण मार्जनं
कर्तव्यमुक्तम् । ग्रन्थान्तरे-
नद्यास्तीर्थे तटाके वा भाजने मृण्मयेपि च ।
औदुम्बरे वा सौवर्णे राजते वौरु सम्भवे ॥
धृत्वा तु वामहस्ते वा सन्ध्योपास्तिं समाचरेत् । इति ।
औदुम्बरं ताम्रं ताम्र मौदुम्बरं श्रुवमित्यभिधानात् । ऊं भूर्भुवस्सुवः ऊं
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ इत्यनेन ब्रह्ममुखाख्येन
मन्त्रेण तदुदकमभिमन्त्र्य ऊं हां मुखाख्योयं मन्त्रः । उक्तो ग्रन्थान्तरे-
ऊङ्कार प्रथमास्तिस्रो महाव्याहृतयोप्ययाः ।
त्रिपदा चैव गायत्रीं ज्ञेयं ब्रह्मणो मुखमिति शिरः सहित गायत्री
ब्रह्ममुखमित्यन्यत्रोक्तम् । तत्स्पृष्ट्वा चाभिष्टुतं तोयं मूर्ध्ना ब्रह्ममुखेन चापो
हिष्टेत्यादिभिर्मन्त्रैर्दर्भैर्मार्जनमाचरेदिति । मूर्ध्ना गायत्री शिरसा ऊम्माप इत्यादि
केनेत्यर्थः । अभिष्टुतमभिमन्त्रणमित्यर्थः । मार्जनविशेषमाह-
कुर्यात्सप्रणवैः पादैः मार्जनं तु कुशोदकैः ।
यस्य क्षयायेति जलं सकुशं प्रक्षिपेदथ ॥ इति ॥
मार्जनानां सङ्ख्यामाह- आपो हिष्टाद्विनवकं दधिक्राविण्ण इत्युभे । हिरण्यवर्णा
वर्णाश्चत्वारि चतुर्विंशति धाविदुः ॥ इति ॥

पृ० २८) मार्जनं देवतीर्थेन कर्तव्यमुक्तम् । मार्जनार्चन बलिकर्म भोजनानि देवतीर्थेन
कुर्यादिति । मार्जने नियुक्तमन्त्रा लिख्यन्ते- आपो हिष्टा मयो भुवः तान ऊर्जेदधातन ।
महेरणाय चक्षसे । यो वः शिवतमो रसः । तस्य भाजयते हनः । उशतीरिवमातरः । तस्मा
अरङ्ग मा मव । यस्य क्षयाय जिन्वथ आपो जनयता जनः । अस्यार्थः- आपो हिष्टेति । हे आपः
जलाधिष्ठान रुद्रदेवताः । हि शब्दो एवकारार्थः । तथा च यूयमेवेत्यर्थः पर्यवसन्नः ।
मयो भुवः । विविध्यन्ति पात्रेषु पिबतो जनानिति मन्त्रोक्त क्रूरतां विहाय प्रसाददृष्ट्या
पानस्नानानादिषु सुखसम्पाद चित्र्यः स्थभवथ । दीर्घश्छान्दसः । अ * * * षवो
महिनेकादश स्थिति श्रुतेः । मयश्शब्दः सुखवाची । यद्वै सुखं(शिवं) तन्मय इति श्रुतेः ।
आपो हि स्थ सुख भुव इति निरुक्ति दर्शनाच्च । किञ्च ताः रुद्रदेवताः । एवं सुखमयो यूयं
नः अस्मान् ऊर्जे भवत्प्रसादान्नाय दधातनस्थावत ऊर्जे अन्नायेति निरुक्ति दर्शनात् । ऐल
भृदा इति श्रुतेः । सूर्य विभूतयो मेघस्थानस्थाया यन्मदीयं शौर्यादिकं
सम्यग्धाराचि पातैर्वर्धयित्वा बहुब्रीहा(ह्या)दिकमस्मभ्यं सम्पाद्य
भवत्प्रसादग्रहणयोग्यान् अस्मान् स्थापयतेति तात्पर्यं बोध्यम् । किं (च) महे महतेरणाय
रमणीयाय चक्षसे । तर्ज(ज्ज)न्यज्ञाने लक्षणा । तथा च शिवैक्य ज्ञानाय

पृ० २९) कं दधातनेति पूर्वेण सम्बन्धः । अस्मान् शिवैक्यज्ञानयोगान् कुरुते तर्घ्य । नमो
महद्भय इति श्रुतेः । रुद्रदेवता विपूर्वमन्नं याचितमिदानीं तदधिष्ठान बलनिष्ठुर
संयोचते । योम्नातिवः । युष्माकमधिष्ठान जलस्थं शिव तम
भवदधिष्ठानवर्तित्वानतिशयेन सुखकरः । यः रस्यते स्वाद्यत इति रसः । रस विशेषः । इह
नः अस्मान् तस्य तंरगं प्रसादत्वेन द्वितीयार्थे षष्ठीति ज्ञेयम् । भाजयत प्रापयत ।
रसश्च म इति श्रुतेः । कथमिति चेत् उशतीः कामयमानाः प्रीति युक्ता इत्युक्ता इत्यर्थः ।
प्रथमार्थे द्वितीया वचनं छौदसं(छाब्दसं) मातरः स्वपुत्रानिति शेषः । यथा
मातरो वत्सला भूत्वा स्ववत्सान् स्वस्तन्यं पाययन्त तद्वज्जलाधिष्ठान रुद्रदेवताः यूयं
भक्तवत्सलाः भवत्प्रसाद रसं स्वभक्तावस्थान् भाजयतेति भावः । तेजो ब्रह्मवर्च
सार्थं गृह्णीम इत्यर्थः । इदानीं तदधिष्ठाननिष्ठ रसान्तरं याचते । यस्येति । यस्य
रसस्य क्षयाय निवासायेत्यर्थः । तृतीयार्थे चतुर्थी वचनम् छान्दसम् । जिन्वथ यूयं प्रीता
भवथ । यादृश रसविशेषमवलम्ब्य यूयं परमानन्दमग्ना भवथेत्यर्थः । वयं
तस्मै तादृश भवत्प्रसाद सिद्ध्यर्थं वः युष्मान् अरं भृशं गमाम गच्छेम इत्यर्थः
। हे अद्निष्ठरन्द्र
देवताः भवदधिष्ठाने यो रसविशे-

पृ० ३०) षोऽस्ति तं रस विशेष प्रा(प्र)सादत्वेन ना(नोऽ)लस्मभ्यं धत्तेत्यद्नि(ब्नि)ष्ठ
रुद्रदेवताः प्रार्थ्यन्त इति तात्पर्यार्थः । ओजो वीर्यार्थं गृह्णीम इति भावः । किञ्च । अधत्त
पितरोद(ग)र्भं कुमारं पुष्कर स्रजं यथेह पुरुषो सदेत श्रुत्वा पिण्ड पितृ यज्ञ प्रयुक्त
रुद्रदेवताः करमध्य पिण्ड प्राशनेन पुत्रसम्पत्तेर्दृष्टत्वात् तध्य(द)र्थम्मष्ट
रुद्रदेवताः प्रातर्थ्यते । आप इति हे आपः जलाधिष्ठान रुद्रदेवताः न कि अष्णान् जनयथ
प्रजोत्पादनान् कुरुत । तं प्रसाद रस विशेषमस्मभ्यं दत्वा अस्माकं शिवभक्त
पुत्रसम्पत्तिं सम्पादयत । पुष्टिप्रजननार्थं गृह्णीम इति भावः । एवं मार्जनं कृत्वा
तदनन्तरं जलप्राशनं कुर्यात् । जलप्राशन मन्त्रो विलिख्यते । सूर्यश्च मामन्युश्च?
मन्युपतयश्च मन्यु कृतेभ्यः । पापेभ्यो रक्षन्ताम् । यद्रात्र्या पापमकारिषम् । मनसा
वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना । रात्रिस्तदवलुम्पतु । यत्किञ्च दुरितं मयि ।
इदमहं मामृतयोनौ सूर्ये ज्योतिषि जुहोमि स्वाहा । अस्यार्थः- सूर्यः सूर्यात्मा रुद्रश्च
मन्युस्तस्य क्रोधः क्रोधात्मिका शक्तिरित्यर्थः । मन्युपतयः हे
स्वामिनस्तद्रश्मिभूतास्तदनुचरा रुद्रगणाश्च ।
असूयस्ताम्रो अरुण उतबभ्रुस्सुमङ्गलः । ये गूं रुद्रा अभितोदिक्षु श्रितास्सहस्रशो वै षा
गं हे ड ई मह इति श्रुतेः । ते सर्वे देवाः मन्यु कृतेभ्यः मन्युना कोपेन कृतेभ्यः
पापेभ्यः दुरितेभ्यः

पृ० ३१) मा मां रक्षताम् । प्रार्थनायां लोट् । सर्वे देवाः तत्पाप विनाशनेन शिवभक्तं
मां परिपालयान्त्वित्यर्थः । किञ्च यत्तु रात्र्या रात्र्याम् । तृतीया सप्तम्याम् परिणत्युत इति
तात्पर्यम् । मनसा ईश्वर चिन्तनाकरणरूपं वाचा शिवनामस्त्रोत्राकरणरूपं
हस्ताभ्यां शिवपूजाकरणरूपं पद्भ्यां पादाभ्यां
शिवक्षेत्रादिगमनाकरणरूपम् उदरेण जठरेण ईप्सित भोजनकरणरूपं शिश्ना शिश्नेन
अगम्यागमनकरणरूपम् । क्विपमिच्छन्ति केचित् । छान्दसंरूपमित्यन्ये । पापमकार्षमिति
सर्वत्र सम्बन्धः । तत्तु । एवं रूपं पापं रात्रिः रात्रिरूपा शिव समवेता शक्तिः
शूलपाणि प्रिया हीशेति वचनात् । अवलम्पतु परिहरतु । यत्किञ्चेति किञ्च । शिवसंयोग
ज्ञानाभावात्मकं यच्चान्यत्पापं मयि निष्पन्नम् इदं दुरितं तत्कर्तारं मां च
अहम् अमृतयोनौ मोक्ष हेतुभूतम् अमृतं ब्रह्मणीन्ति श्रुतेः । सूर्ये हृत्पुण्डरीक
विद्यमान सवितृमण्डलस्य सूर्यात्मके । द्वादशारे प्रतितिष्ठतीति श्रुतेः । ज्योतिषि स्वयं
प्रकाशे । ङ तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव
भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति� इति श्रुतेः ॥ मदात्मनि विद्यमान
परशिवे जुहोमि क्षिपामि । श
यश्चायं पुरुषे । यश्चासावादित्ये । स एक इति श्रुतेः । अहमनेन होमेन तत्सर्वं
भस्मीकरोमीत्यर्थः । स्वाहा सुष्टु हुतमस्तु । मध्याह्नजलप्राशनमन्त्रः । आपः पुनन्त्विति ।
आपः

पृ० ३२) अग्निष्ठ रुद्रदेवताः । अप्सुषवो महिनेकादशस्थेति श्रुतेः । पृथिवीं पृथिवी शब्देन
मत्पार्थिवस्थूल तनुर्लक्ष्यते । पार्थिवं स्थूलमित्याहुः । वां(पां)च भौतितिकमद्वतः ।
महदादिविशेषान्त तत्वजालमयं परमिति योगदीपिकायां त्वां(मां)
मत्पार्थिवस्थूलतनुं पुनन्तु पवित्रं कुर्वन्तु । पुपृतीध्वि मत्स्थूलतनुः पूता स्वनिष्ट
रुद्रगणैः पवित्रीकृता । पृथि मध्येकादश स्थिति श्रुतेः । मां जीवात्मानं मन्निष्ट
रुद्रगणै रसाकं पुना तु शोधयतु ।� यो वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः । इति
श्रुतिभ्याभ्यानौ परे वृक्षे । निष्पित्यत्र स्थावरजङ्गमात्मसु जीवेषु वृक्षेषु वा नीलग्रीवादि
विशेषेण विशिष्टाया रुद्राः सन्तीति भट्ट भास्करेण व्याख्याता पुरतः शिवपूजार्थं
मां योग्यं करोत्वित्यर्थः । ब्रह्मणस्पतिः । ब्रह्मणः प्रकृतिवी(ली)नस्य नीं(ऊं)कारस्य
पतिः परः परमेश्वरः । यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य
यः परस्स महेश्वरः । इति श्रुतेः । ब्रह्म तद्वाचकमोङ्कारं पुनन्तु । ब्रह्म ऊङ्कारः ।
वाच्य वाचकयोरभेदनिर्देशः । पूता पूतं नतिदीर्घश्छान्दसः । मां पुना तु शिवैक्यं
करोतुं सायुज्यं विनियोगमिति श्रुतेः ति
यदुच्छिष्टमन्यदेवार्पितं तं न भुञ्जीयात् । शङ्करसंहितायाम् अह्यवदि(आपद्यपि)
दुरन्तायामन्यदेवार्पितं युत्रीः?।
न भुञ्जीयात् प्रमादेन च्छिद्ना जिह्वां स्वयं नरः ॥ इति बहिर्नर सह दासादिकं
यत्तदुच्चरितं तत्रैव । राक्षसः क्रूरकर्माणः पापाचार समन्वितः । कलावप(व)ति रिष्यन्ति
निन्दकास्ते

पृ० ३३) बहिर्नराः । ब्रह्महत्या सुरापान स्वर्णस्तेय कृतः पुरा । बहिर्नरा भविष्यन्ति
कलावीश्वर निन्दकाः ॥ न तैश्च सहभाषीत सहासीत न चासने ॥ तेषां पाङ्क्तौ न भुञ्जीत
न तैः कुर्वीत बन्धुताम् ॥ इति । ममैतत्सर्वम् असतां शिवभक्तिहीनानां प्रतिग्रहं च अपः
अब्निष्टरुद्रगणाः पुनन्तु मा महं मदीयमूलायत्सधाराष्टित कालाग्निरुद्रे जुहोमि ।
बृहज्जाबालोपनिषदि- आधारशक्त्यैवध्यत कालाग्निरयमरार्ध्वग इति । स्वाहा म(सु)ष्टु
हुतमस्तु । सर्वं भस्म करोतीत्यर्थम् । सायङ्काला जलप्राशनमन्त्रः- अग्निश्चेति ।
अग्निरङ्गातिको रुद्रः । रुद्रो वा एष यदग्निरितवमन्यश्च वह्यत्मन रुद्रस्य क्रोधः ।
क्रोधात्मिका शक्तिरित्यर्थः । मन्युपतयश्च क्रोध स्वामिनः क्रोधात्मविस्फुलिङ्गरूपाः ।
रुद्रगणाः एते सर्वदेवता मन्युकृतेभ्यः मन्युनाकेपेन कृतेभ्यः दुरितेभ्यः मा मां
रक्षतां प्रार्थनायां लोट् । सर्वे देवास्तत्वादिपवनाशनेन शिवभक्तं मां
परिपालयत्वित्यर्थः किं च यत् अह्न । अह्नि । तृतीया सप्तम्यां परिणत्यत इति तात्पर्यम् । मनसा
ईश्वर चिन्तनाकरणरूपं वाचा शिवनामस्तोत्राकरणरूपं हस्ताभ्यां
शिवपूजाकरणरूपं पद्भ्यां पादाभ्यां शिवक्षेत्राणिगमनाकरणरूपम् उदरेण
जठरेणेश्वरानर्पित भोजनकरणरूपम् । अत्र जठरशब्देन पायुरिन्द्रियमुच्यते । शिश्ना
शिश्नेनागम्यागमनकरणरूपम् । क्विपमिच्छन्ति केचित् । च्छान्दसीं

पृ० ३४) रूपमित्यनेन पापमकार्षमिति सर्वत्रसम्बन्धः । तत् इदं रूपं पापम् अहः
दिवसं रूपः शिवः अहः । शूलायं दो देव इति वचनात् । अवलुम्पतु परिहरतु । यत्किञ्चेति । राः
चल शिवध्यानरूपं यच्चान्यत्पापं मयि निष्पन्नम् । इदं दुरितं तत्कर्तारं मां च ।
अहरि अमृत योनौ मोक्ष हेतुभूते �अमृतं ब्रह्मणीति� श्रुतेः । सत्ये बाधवहिते । मूलाधार
स्थित वह्निमडलस्थवह्यात्मके ज्योतिषि स्वयं प्रकाशे मदात्मनि विद्यमान परशिवे जुहोमि ।
अहमनेन होमेन सर्वं भस्मीकरोमीत्यर्थः । मार्जन * * * मन्त्रानाह - दधिक्राविण्णो इति ।
दधि जगद्रूप हविः क्रामति गच्छति इति दधिक्रा वा विश्वभुगग्न्यात्मको रुद्रः । तथा एको
विष्णुं महद्भूतं पृथग्भूतान्यनेकशः । त्रीन् लोकान् व्याप्य भूतात्मा भुङ्क्ते
विश्वभुगव्ययः । * * र्त्स्ना महग्रासाय महेश्वराय चम ईति जाबालि * * ति * कि । तस्य
दधिक्राविण्णः । जिष्णोर्जयशीलस्य अश्वास्य व्यापकस्य शूच्याप्तौ । वाजोन्नमस्यास्तीति
वादि(जि)नः अन्नं दैवादि इति श्रुतेः । सर्वेषां देवानां तस्यैवान्नादत्वादन्न
सम्पन्नस्येत्यर्थः । �अन्नानां पतये नम� इति श्रुतेः । ईदृश्याग्न्यात्मकस्य
रुद्रस्याहमकारिषं पापकस्य मे वाच स्थितत्वात् ।
�अग्निर्मेवाचिश्रित� इति श्रुतेः । वाचा तस्य सम्बन्धिं स्तोत्रं कुर्यां तस्य किङ्करो
भूयासमित्यर्थः । स चाग्नावात्मको रुद्रः अस्माकः मुखानि । चत्वारि शृङ्गेत्यादौ तथा

पृ० ३५) दर्शनात् । सुरभिणः सुरभिण । अबा वै देवा इति श्रुत्या । तस्याग्न्यात्मक रुद्रस्य । सर्व
देवा मुनित्या तत्प्रसादभक्षणेन सौरभ्याणि करत् करोतु । किञ्च नः अस्माकमायू गूं
विप्रतारिषत् । वर्धयत् । प्रत्युपनिगविस्य धातुना सम्बन्धः । तथा च निरुपद्रवं
वेदोदितमायुष्यमस्मभ्यं प्रकर्षेण संवर्धयत् । अनुगृह्णात्विति भावः । मन्त्रान्ते
मार्जनं कार्यम् । तथा शिष्टाचारात् । आपो हिष्ठेति । गतं मार्जने मन्तान्तरमाह -
हिरण्यवर्णा इति । हिरण्यवर्णाः सुवर्णवर्णाः शुचयः शुद्धाः पावकाः सकलजत्रपावन
समः । एतादृशाः याः आपः अभीष्ट रुद्रदेवतास्तिष्ठन्ति । किञ्च यास्वप्सु अब्निष्ठ
रुद्रदेवतासु कश्यपः पश्यकः सूर्यात्मा रुद्रः । आद्यन्तवर्ण * * पर्यानश्छान्दसः । �असौ
यस्ताम्र इति श्रुतिः । जातः इन्द्रः सूर्येश्वरा रुद्रः । ङमोऽस्तु नीलग्रीवाय सहस्राक्षायेति�
श्रुतेः । स चाप्सु अभीष्ट देवतासु जातः । विरूपाः नग्नमुन्दा(डा)दि नानारूपाः । ङमो
विरूपेभ्य� इति श्रुतेः । आपः अब्निष्ट रुद्रगणदेवताः । अग्निं विलय कालाग्निं गर्भं
नाट्यसमय करस्थम् । गर्भोर्भके नाट्यसन्धाविति कोशात् । दधिरे विलयाग्ने बेलनाः
केचिदेत्वागमेषु ताः । आपः अब्निष्ट रुद्रदेवताः नः अस्माकं शं सुखं हेतवः सोकाः
अवैषिक सुश्छजनकाश्च भ * * चं तु । मार्जनेत्यनियुक्तमन्त्रितरमाह - यासां राजेति ।
तरुण वरुणात्मको रुद्रः । �मीढुष्टम� इति श्रुतेः । राजा प्रभुः

पृ० ३६) स्वतन्त्र इति यावत् । जनानां सत्यानृते पुण्यपापेऽवपश्यन् विरेचयन् । यासाम्
अब्निष्टरुद्रदेवतानां मध्ये वनमिति शेषः । याति गच्छते यो रुद्रम् अग्निम् अयं पुण्यकृत्
अयं पापकृत् इति पुण्य पुण्य पापानुरूपमनुग्रहनिग्रहरूप व्यापार चिकीर्षया तत्र
वसतीत्यर्थः । अपि च मधुश्चुतः प्रसादरूप जलस्यं वेन पशचयः । पावकाः पास्तिष्ठन्ति
ल इत्यादि । शिष्टं गतम् । यासां देवा इति । यासामब्निष्टरुद्रदेवतानां मध्ये देवाः
केचिद्रुद्रगणाः याः आपः प्रतिभक्षम् अदृष्ट्या भक्षणं दिविद्युलोके कृण्वन्ति कुर्वन्ति
देवाः केचिद्रुद्रगणाः अन्तरिक्षे भक्षयति । प्रवायुना मनुष्याणाम् । रोगामत्वाद्य
क्लेशकारिणो बहुधा नानाप्रकारा भवन्ति । सरिति याः आपः अब्निष्ट रुद्रदेवताः पृथेवं
पृथिव्याम् । येऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् इति श्रुत्या पया पापयः । पानेधिना जनान्
उब्दन्ति क्लेदयन्ति । नमो रुद्रेभ्यो ये पृथिव्यां तेनोमृड्यन्तु तेनेति श्रुतेः । शुक्राः शुभ्राः
ता आप इति गतमन्यत् । शिवेनेति । हे आपः अब्निष्ट रुद्रदेवताः शिवेन शिवस्वरूपेण चक्षुषा
दृ(दृशा) गङ्गे शिवलिङ्गकमिति वातूलवचनात् । मा मां पश्यत । मयि निरन्तरं भूयसीं
करुणादृष्टीं
सम्पादयतीत्यर्थः । शिवया तन्वाह मे त्वचमुपस्पृशत । या ते रुद्र शिवा तनूः
अभिचाकशीहीति श्रुतेः । मदीयां त्वचमुपस्पर्शनेन परिपूतां म(कु)र्व-

पृ० ३७) तेत्यर्थः । सर्वानिति । हे आपः अब्निष्ट रुद्रदेवताः वः युष्माकमप्सु
सीदन्तीतिष्ठन्तीत्यप्सुवदः । सर्वान् अग्नीन् हुते अह्व्या के मर्थमित्यत आह - सुलूति मयि वर्चोः
दत्ति बलं शक्तिः ओज उत्साहः । एतत्सर्वं निधत्त स्थापयत । मां च वर्चस्विनं बलवन्तम्
ओजस्विनं कुरुतेत्यर्थः । द्रुपदादिति । मामेनसः मुञ्चतु । कर्मसाक्षी सूर्यात्मा रुद्र इति
शेषः । तत्र निदर्शनं द्रुच(प) दादिव । आपराधीकां(अपराधिनां) पादे कीलितं काष्टं
द्रुपदम् । चोरान्निरोद्धुं ग्राममध्ये दारुमयं पादकीलितं विधाय ग्रामस्वामिनः
स्थापयन्तीति प्रसिद्धम् । तस्मादिवेत्यर्थः । यथा कृपाशुः(लुः) । स्वामीबन्धनात्
अपराधिनं मोचयति तद्वदित्यर्थः । किञ्च । आपः एनसः पापात् मा मां शुन्धन्न्तु
शोधयन्तु । अस्मिन्नर्थेऽत्रयो दृष्टान्ताः कथ्यन्ते द्रुपदात्वार्दविति । काष्टादीन्
मुमुञ्जा(चा)न मुक्तेव स्विन्नः स्वेदवान् स्नात्वी स्नात्वा स्नात्व्यादश्चेति निपापनाप्साधुः ।
मवाकूर स्पृशतीरव्यापि पङ्कात् । मुकैरपूनात्यनेनाज्वादि * * दमितिवति त्रन्तेन पवित्रेण
समासाग्र दर्भरूपेण सप्तौ साग्रौ द्वौ दर्भौ प्रादेशमात्रौ पवित्री कृत्वा इति श्रौते
दर्शनात् । पवित्रं वै दर्भाविति
श्रुतेः । तेन पूतं शोधितम् । आज्यस्थाल्यामाज्यं निरूप्येत्यारभ्योदगग्राभ्यां
पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पूयेति शास्त्रोक्त विधिना नं स्मृ-

पृ० ३८) तमाज्यं सर्पिरिव एतत्सर्वम् । तध्वधाधा परिशुद्धं भवति । तया मा मापः
सर्वाः स्मादेनसः शोधयन्तीति तात्पर्यार्थः । माध्याह्निकसन्ध्यायामर्घ्यदाननिउयक्त
मन्त्रमाह - हंस इति । हन्ति जीवरूपेण सकल प्राणिषु गच्छतीति हंसः । परमात्मा हंसो
नाम । सदाशिव इति शेषः । स तु कीदृश इत्यपेक्षायाम् आह - शुचौ चन्द्रे सीदति तिष्ठतीति
शुचिषत् । चन्द्रात्मक महादेवः श्रीमहादेवाय नम इति श्रुतेः । वसन्त्यस्मिन् जगन्तति वसुः
रुद्रः । मय्येव सकलं जातमिति श्रुतेः । अन्तरिक्ष सदतत्वन्तरिक्ष सत् वाय्वात्मको उग्रः । नम
उग्राय चेति श्रुतेः । होतायजमानात्मक पशुपतिः । एषामीशे पशुपतिः पशूनामिति श्रुतेः ।
वेद्यामन्तर्वेद्यां सीदतीति वेदिषत् । वह्व्यात्मक रुद्रः । रुद्राय चेति श्रुतेः । अतिथिः शिवार्चना
समये समागतः शिवात्मक महेश्वरः समागतं पुण्यफलात्तन्दादातिथिं
समर्चयेदीश्वर चेतसा सत् जलासनाद्यघ्रियवने जनादिभिस्तदां न पानैः प्रियवग्भिरादिति
शङ्करसंहिता वचनात् । दुरोणेषु गृहेषु सीदतीति दुरोण सत् । गृह्याय चेति श्रुतेः । नृषु
आत्मरूपेण सीदतीति नृषत् । शिव एको देवः सर्वभूतेषु गूढः । सर्वव्यापी
सर्वभूतान्तरात्मा । इति श्रुतेः । वरे श्रेष्ठे कम(र्म)साक्षिणि सीदतीति वरसत् । ईशानात्मको
रुद्रः । ईशानः सर्वभूतानाम् इति श्रुतेः । ऋते यज्ञे पालकत्वेन सीदतीति ऋतसत् । यज्ञपा-

पृ० ३९) लक रुद्रः । आ वो राजान मध्वरस्येति श्रुतेः । व्योम्नि आकाशे सीदतीति व्योमसत्
भीमात्मक रुद्रः । भीमाय चेति श्रुतेः । अप्सु जलेषु जायते तिष्ठति इत्यब्जाः । भवात्मको
रुद्रः । नमो भवाय चेति श्रुतेः । गविभूम्यां जायते तिष्ठतीति गोमाः शर्वात्मक रुद्रः ।
नमः शर्वाय चेति श्रुतेः । ऋते शिव पूजादे(दिः)व्रते भङ्गे सति प्रत्यक्षत्वेन जायते
तिष्ठतीत्युच्रि(ति ऋ)तजाः शिवसमय परिपालक रुद्रः । पुलस्तये चेति श्रुतेः । व्रततमश्शुचिरिति
श्रुत्या शिवव्रत निष्ठात् च श्रेष्ठ इति तात्पर्यार्थः । अद्रौ कैलासे जायते तिष्ठतीत्यद्रिजाः
कैलासवासी रुद्रः । नमो गिरिशाय चेति श्रुतेः । ईदृशः अष्टमूर्त्यात्मकः सदाशिवः
बृहदधिकं रुतमुपासीका(सना)त्मक शिवपूजाकर्म ।" शिवार्चकर्मविज्ञेया
बाह्ययागादिनोच्य * * कामिक वचनात् । सम्पादयित्वेति शेषः ।
अथ गायत्री जपात्पूर्वमोमित्येकाक्षरं ब्रह्मेति गायत्री हृदयं पदनीयां तथा शौनकः

  • ओमित्येकाक्षरं ब्रह्मेत्येतद्धृदयमुच्यते । गायत्र्या सत्पदि त्वादौ जपकर्म समाचरेदिति ।
    तदिदानीं व्याख्यायते । ओमित्येकाक्षरमिति ओमित्येकाक्षरम् ओमित्येकवर्णं समस्ता राम चेति
    श्रुतेः । ब्रह्मपरशिवः । ब्रह्मणः कोशोसि मेधया पिहित इति शरीर शरीरिभावेन वाच्य
    वाचकयोः प्रणव शिवयोरभेदनिर्देशः । एतत्प्रणवस्वरूपनिष्ठत्वादेकं सर्वं व्याहृ
    व्याख्यानावनीं

पृ० ४०) सि रूपितमधस्यात् । ओमितिरूपनिष्पत्तिप्रकारः प्रकारान्तरेणोच्यते । प्रपञ्चसारे
मन्त्र सृष्टिप्रकरणे निर्दिष्टम् । �योऽयं ठ(प)रमहंसाख्यो मन्त्रः सोऽहमितीरितः । सह मो
ते कृते पूर्वसन्धामोमिति जायते । अकारश्च तथोकारोमकारश्चात्र वर्णका� इति ॥ यो सोऽहमिति
परमहंसाख्यो मन्त्रस्त * * सकार हकारयोर्लोपे पूर्वसन्धौ च कृते ओमिति रूपं जायत इति
व्याख्यार्थं ब्रह्मध्यायन्ने च ऊम्मित्येकाक्षरं जपेत् । तथाहुस्तत्रैव-
ओमित्येकाक्षरं ब्रह्म ध्यायन्नेव जपत् द्विजः ।
अवाप्तसर्वकामोऽसौ चात्मतत्वाय कल्पत इति ॥
जपप्रकरणविनियुक्तायां यश्छन्दसामृषभ इति श्रुतौ ।
तद्धारणादिकं सर्व रहस्यं सम्यक् प्रपञ्चितम् ॥
तस्याम् ऋष्यादिकं दर्शयते- अग्निर्देवतेति । अग्निर्देवता । षष्ठ्यर्थे प्रथमा
विभक्तिश्छान्दसी । ब्रह्मण इति शिवमद्वैतं चतुर्थं मन्यन्त इति श्रुत्या । ब्रह्मरुद्रः ।
आर्षम् ऋषेः रुद्र * * षि रित्यर्थः । विश्वाधिको रुद्रो महर्षिरिति श्रुतेः । गायत्रं छन्दम् ।
गायत्री छन्दः परमात्मं परमात्मा शिवः सरूपं देवता शिवो देवतेत्यर्थः । सायुज्यं
विनियोगं मोक्षे विनियोगः । अत्र हि जन्तोः प्रार्णे येनासावमृती भूत्वाभि मोक्षी भवतीति
श्रुतेः ॥ तदुक्तं शङ्करभगवत्पादैः-
प्रणवे ब्रह्मृषिः प्रोक्तोच्छान्दो गायत्रमुच्यते ।
परमात्मा देवता च मोक्षादौ विनियुज्यत इति ॥

पृ० ४१) शारदातिलके ।
ब्रह्मदैव्यादि गायत्री परमात्मा समीरितः ।
ऋष्यादयः प्रणत(व)स्येते मुनिभिः परिकीर्तिताः ॥ इति ।
वामदेवसंहितायामपि-
अन्तर्यामी ऋषिः प्रोक्तो देवं गायत्रमुच्यते ।
परमात्मा शिवो देवो देवतास्य निगद्यते ॥ इति ॥
ननु ऊम्मित्येकाक्षरं ब्रह्मेत्य तदृवमुच्यत इत्यत्र गायत्री हृदयं नाम गायत्री
प्रभावर्ण स मन्त्रः । कीलादौमित्येकाक्षरम् । ब्रह्मेत्यधिकं किमर्थं वर्धितम् । सत्यम् ।
यथा शिवस्तथा देव(वी) यथा देवीं तथा शिवः ।
नानयोरन्तरं विद्याच्चन्द्रच्चन्द्रकयोरिति ॥
वचनात्तदभिन्नप्रकाशात्मक शिवशक्तिरूप गायत्र्या प्रणवमन्त्र वाच्य विमर्शात्मक
परम * * स्य प्रतिपाद्य * * * । यथा शारदातिलके-
प्रणवेनैकवर्णेन । । । (कथ्यते) द्यते निष्कलः शिव इति ॥
तन्मूलमन्त्रत्वात् । तदधिष्ठानभूतत्वाच्च । वामदेवसंहितायाम्-
�यो देव जननी पूर्वं वर्णिता ते महीयते ।
अनेन परशिववाचक प्रणवमन्त्रस्य षष्ठ्यादि कल्पनेक हृदय पुण्डरीक विद्यमान
सौरमण्डले परशिवस्यस्यावाहनव्रतमिति तात्पर्यार्थः । अथ सकलवेदमातरं गायत्रीं
प्रार्थयते- आयां त्विति । वरदा । उपासकानामभीष्टफलदान शिवा । वगदा
वामनयाति(वरदा वामनयने-) ललितास्तोत्रे । मातृकात्मिक पराशक्तिरूप गायत्री आयातु ।
सहस्राराम्बुजोद्भवामत्स-

पृ० ४२) काशमायात्वित्यर्थः । ततः किं तत्राह- अक्षरमिति । अक्षरं मूलप्रकृतिरूपा प्रणवे
धर्मे प्रकृतौरतपसिव्रत इति कोशात् । मूलप्रकृतिख्यक्ता इति ललितास्तोत्रे । ब्रह्मप्रणवात्मिका
उमाशक्तिरित्यर्थः । शिवपुराणे-
शक्तिस्त्वमेव देवेश सर्वदेव नमस्कृते ।
त्वदीव(दीय) प्रणवं चैव मदीय प्रणवं तथा ।
अकारं चोकारं च मकारं च मदीयते ॥
उकारं च मकारं चाकारं च क्रमेण वै ।
त्वदीय प्रणवे देवी त्रिमात्राप्लुतमुत्तममिति । सम्मितं सम्यग्वेदान्तप्रमाणेनाहमिति
निश्चितां च(छ)न्दसां सर्वेषां देवानां मातरं जननीं द्वितीयार्थे प्रथमा
पाठश्छान्दसः । मे गगरे(ने) हृदयाकारो इत्यर्थः । माजले समुपाये च गगने समरोथ * * *
। इति कोशात् । भ्राजद्धृदयपुण्डरीकमण्डित सूर्यमण्डले । हे ब्रह्मप्रकाशात्मन् । परम
शिव इदम् इमां गायत्रीं गायत्र्याख्यां त्वदभिन्नचिच्छक्तिं जुषस्वानुग्रहाण ।
वामदेवसंहितायाम् । �अभिन्नां प्रतिपद्येत गायत्रीं� ब्रह्मणा सह ।
सोऽहमस्मीन्त्युपासीत विधिना येन केन चिदिति । ओजषस्वीतिछान्दसंरूपम् । �अहश्नु वायुधो
देव शूलपाणि प्रिया निजे�ति वायव्यसंहिया वचनात् ।
देवसतिशयीश्शिवशक्तिरूपत्वात्तदुपासनायाः फलमाह यदह्नदिते आर्ह्वा अह्वे यत्पापं
कुरुते करोति तत्पोषः । शिवरूपादह्नत्प्रमुच्यते । रात्र्यात् रात्र्यां यत्पापं कुरुते तत्पापं
चिच्छ-

पृ० ४३) क्तिरूपाद्रात्र्यात् । प्रतिमुच्यते । शिवतराय चेति श्रुतेः । अनेन तदुपासकः निष्पाप
इत्यर्थः । गायत्र्याः सर्वात्मकत्वं दर्शयन्नेव सहस्रार पद्म स्थित गायत्रीं सर्वात्मकं
तया प्रस्तुत्यावाहनार्थं प्रार्थयते । सर्ववर्ण इति । सर्वासां डाकिन्यादि शक्तीनां
वर्णाः रक्तादिवर्णाः । यस्याश्चा सम्बोधनम् । हे सर्ववर्णे । तदुक्तं ललितास्तोत्रे-
शहस्रदल पद्मस्था सर्ववर्णोपशोभिते�ति । महादेवी महादेवस्य परब्रह्मणः सदाशिवस्य
पत्नी महादेवी । तस्याः सम्बोधनम् हे महादेवी । महामाये विश्वं भ्रमयसि परब्रह्म
महिषी ते शङ्कर भगवत्पादैः । सन्ध्याविद्ये सन्ध्यारूप पराशक्ते स्वच्छन्दे । श्रीपरैव
ननु सान्ध्यदेवतेति । सरस्वती । परादि चतुर्विध वाग्रूपिणी । �चत्वरे(रि) वाक्परिमिता पदानिति�
श्रुतेः । हे देवि त्वं जजानि इन्द्रियाणां शक्तिरपि(सि) । सहोसि शत्रूणामभिभव शक्तिरसि ।
बलमसि शरीरसामर्थ्यरूपा व्रा * * ज्जोसे दीप्तिरूपासि । देवानामज्ञादीनां धाम तेजोसि ।
ब्रह्मादीनां वैर्यानामासि । तदुक्तं वायवीयसंहितायाम् । यस्य यस्य पदार्थस्य या या
शक्तिरुदाहृता ।
सा सा विश्वेश्वरी देवी * * इति । विश्वमसि । सर्वजङ्गमात्मक जगद्रूपं त्वमेवासि ।
भवत्यास्सर्वजङ्गमात्मक जगदुत्पत्तिर्भवतीत्यर्थः । सर्वायुः सर्वस्थावरात्मक
प्रपञ्चस्यायुः । सत्तात्मक कालोसि । भवत्याः सर्वस्थावरात्मक प्रपञ्च स्थिति-

पृ० ४४) र्भवतीत्यर्थः । अभि भूः स्थावर जङ्गमात्मक निखिलप्रपञ्च तिरस्कारः
प्रलयस्त्वत्तो भवति ओ भवदन्यस्मात् सृष्ट्यादि कृत्य पञ्चकं न भवति । ऊं मेवं परमं
मत इति कोशात् । तथाचोक्तम्- ललितास्तोत्रे- शृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ।
संहारिणी रुद्ररूपा तिरोधानकरीश्वरी । सदाशिवानुग्रहदा पञ्चकृत्य परायणा ॥� इति ।
गुणत्रयात्मकाशक्ति ब्रह्मनिष्ठा सनातनी । इति वचनात् । पराशक्तेः सामर्थ्यं
ब्रह्मदेवभिर्दुर्ज्ञेयमिति भावः । इदानीं गायत्र्यादिनामावाहनमुक्तमन्त्र विचार्यति(ते) ।
एतादृश लक्षणलक्षित सन्ध्यारूप चिच्छक्तिरूपस्यावाहनमुचितम् । गायत्र्यादि
चतसृणामप्यावाहनमसम्भवमेव । अतः आगमेषु एकस्याः सन्ध्यारूप
चिच्छक्तेरावाहनम् । इतर देवता गायत्र्याद्यास्ते स्र अवण(प्रणव)? त्वेन सम्पूज्याः । तदुक्तम्
शारदातिलके- गायत्रीपूजावसरे-
विधाय मण्डलं विद्वान् त्रिकोणोज्वलकर्णिकम् ।
सौरपीठे यजेत्तत्र दीप्तादे नवशक्तिभिः ॥
मूलमन्त्रेण क्षुप्तायां मूर्ता देवीं प्रपूजयेत् ।
कोणेषु त्रिषु सम्पूज्य ब्रह्मावाद्याशक्तयो बहिः ॥ इति ।
अत्रीवापा सन्ध्यारूप चिच्छक्तिरेव नानारूपा भवती । तदुक्तं वायवीय संहितायाम्-
नैकापरा च चिद्रूपा शक्तिः प्रसवधर्मिणी ।
विभज्य बहुधा विश्वं विधाय च शिवेच्छया ॥

पृ० ४५) स मूलप्रकृतिर्माया त्रिगुणा च त्रिधा स्मृता ।
शिवाद्यवनिपर्यन्त यया ततमिदं जगत् ॥
एकधा च त्रिधा चैव तथा शतसहस्रशः ।
शक्तयः खलु भिद्यन्ते बहुधा व्यवहारतः ॥
रुद्रस्य रौद्री सा शक्तिर्विष्णोर्वै वैष्णवी मता ।
ब्रह्माणी ब्रह्मणः प्रोक्ता इन्द्रस्यैन्द्रीति कथ्यते ॥ इत्यादि ।
अतः सन्ध्यारूपा चिच्छक्तिरेकस्याः आवाहनं द्वेध(धा)म् । बाह्याभ्यन्तरभेदेन ।
अत्राभ्यन्तरे हृदय पुण्डरीकमण्डित सौरमण्डलावाहित सदाशिवाङ्कमण्डले
वक्ष्यमाण ऋष्याद्यावाहनेन गायत्रीम् । गायत्री प्रोच्यते यस्मादामन्तं(द्गायन्तं)
त्रायते यतः । इत्येवं विध गायत्रीरूपां सावित्रीं शवितुर्द्योतना चैव सावित्री परिकीर्त्यत�
इत्येवं विध सावित्रीरूपां सरस्वतीम् । जगतः प्रसवित्री वा वा प * * त्वात्सरस्वतीत्येवं विध
सरस्वतीरूपां छन्द ऋष्याद्यावाहनेन । बहिस्तु चक्रे मूलमन्त्रावाहनम् । मूर्ताविति
शेषः । श्रियम् एता गायत्र्या द्व्यामिश्रं त्येतामि मिश्रितां महालक्ष्मीं सन्ध्यारूप
पराशक्तिं मुक्ता विद्रुमेति ध्यात्वा । आवाहयामि । अनेनावाहनमुद्रा सूचिता ।
पूर्वोक्तावाहयामीति पदचतुष्टयेन स्थापनादि मुद्राचतुष्ट्यं निरूपितम् । पराशक्ति शिव
तुरे या महालक्ष्मीरिति शिवपुराणे स्पष्टमुक्तम् । यथा-
तस्यां कमण्डलारूढा शक्तिर्माहेश्वरी परा ।

पृ० ४६) महालक्ष्मीरिति शिवा ता स्या मा सर्वमसी हरेति ॥
ललितास्तोत्रे- माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया ।
वाधूलसंहितायामपि- श्रियं लक्ष्मीमौपलाम्मम्बिकाङ्गां षष्ठीं
जयामिन्द्रसेनेत्युदाहुः । इति श्रुतेः । तुरीयेति शङ्कर भगवत्पादैरप्युक्तम् । यथा-
गिरामाहुर्देवीं द्रुहिण गृहिणीमागमविदो
हरेः पत्नीं पद्मां हर सहचरीमद्रितनयाम् ।
तुरीया कापित्वं दुरधिगम निः सीम महिमा
महामाया विश्वं भ्रमयसि परब्रह्ममहिषी ॥ इति ।
अथ गायत्र्या आवाहित ऋष्यादिकं दर्शयति । गायत्र्या इति । गायत्रीमन्त्रस्य गायत्रीछन्दः ।
विश्वामित्र ऋषिः । विक्तस्य अमित्रेस्तं नाशकः । रुद्रृषिरित्यर्थः । सविता देवता । अग्निर्मुखम् ।
ब्रह्माशिरः । विष्णुर्हृदयम् । रुद्रः शिखा । पृथिव्यो(वी यो)? निः । प्राणापान
व्यानोदानसमाना स पञ्चप्राणात्मिकेत्यर्थः । सप्राणा नागकूर्म कृकर देवदत्त
धनञ्जयाख्योपप्राणैर्युक्ता श्वेतवर्णा वैष्णव वैष्णव सरस्वतीशानामवर्ना रुद्राणी
सावित्री श्वेतवर्णे विज्ञेया । साङ्ख्यायन सगोत्रं साङ्ख्यायनो नाम कश्चिदृषिः । तेन
समानं गोत्रं यस्याः सा तथोक्ता । गायत्रीपदं व्याख्यातम् । पूर्वमेवावाहनसमये
सर्वं क्षुप्तम् । चतुरधिका विंशतिश्चतुर्विंशतिः । तावत्परिमितान्यक्षराणि यस्यास्सा
चतुर्विंशत्यक्षरा । त्रीणिपदानि यस्यास्सा त्रिपदा । ऋग्यजुः सामवेदरूप पादत्रय
युक्तेत्यर्थः । षट्कुक्षिरी षण्णां डाकिन्यादि श-

पृ० ४७) क्तीनां कुक्षयो यस्याः सा षट्कुक्षिः । पञ्चशीर्षा पञ्चसद्योजात
वामदेवाघोरतत्पुरुषेशानाभिधानि शिरांसि यस्याः सा पञ्चशीर्षा । मुक्ता विद्रुम नील
हेमधवलछायैर्मुखैरिति ध्यान(नं कृ)तीत्वा सर्वं स्वप्नमुक्तम् । उपनयने
उपसदाशिवस्य समीपे नयन मानयनं तस्मिन् निनियोगः । पूर्वमेवावाहनसमये सर्वं
कॢप्तम् । अनेन परशिवां कमण्डलस्थितां चिच्छक्तिरूप गायत्रीं ध्यात्वा । जपः कर्तव्य
इत्यर्थः । सायमुपस्थान मन्त्राक्षरार्थो व्याख्यायते । इममिति । वारिवस्त्वतायेति श्रुत्या हे
वरुण वरुणात्मको रुद्रः । वामदेवसंहितायाम्-
इमं मे इति मन्त्रेण वरुस्थं यजेच्छिवम् । इति । इमं मे मदीयां वाचम् आह्वानं श्रुधि
शृणुत । प्रार्थनारूपम् आह्वानं शृण्विति भावः । किं तेन श्रवणेन ता केशं कातिती
क्षयामाह - अन्येति । अर्घे वा नीं दीर्घश्छान्दसः । मृडय सुखय । जन्मादिबन्धनं
परिहृत्यमम् । सुखिनं च कुर्वित्यर्थः । त्वामिति । त्वां भगवन्तम् अहमवस्युः । अवनम्
आत्मनः इच्छुः आचके रक्षितारं कामये । न केवलं कामनमात्रम् । किन्तु स्तुति पुरस्सरं
शरणागतोस्मीत्याह तदिति । तत् तस्मै विभक्तिलोपश्छान्दसः । रक्षणायेत्यर्थः । ब्रह्मणः
स्तुत्यात्मकमन्त्रेण वन्दमानः नमस्कारं कुर्वन् । त्वा त्वां यागुप्राप्यो । शिवेन वचसा
त्वा गिरिशाच्छावदामसीति । श्रुतेः । यतस्त्वं भक्तजनपरिपालकोऽसि । अतोऽहं त्वामेव
रक्षितारं भजन् तव शरणाष(ग)तो-

पृ० ४८) स्मि । तेन मां मृडय । अन्यथा शरणागत परित्यागो महान् दोषः स्यादिति भावः ।
यजमान इति । यजमानः यष्टा पूजकः हविर्भिः । त्वदर्थं समर्पितैर्भोज्यादिभिः करणै
स्रप्रक्षणामाशास्ति प्रार्थयते । तस्मादवस्थं सुखि येति भावः । त्वादन्तेभिः
रुद्रशन्तमेभिरिति श्रुतेः । अहेडमान इति । हे वरुणात्मकरुद्र । अहेडमानः अनादरमकुर्वन्
। इह यस्मिन् काले भोदि मम याचिनं बुध्यस्व । उरुश ? शेति उरुभिर्मन्त्रैः शंसनीयः तस्य
सम्बोधनम् उरु श ? श । उरु कीर्ति मान्या । तस्य नाम महद्यश इति । से(नो) अस्माकम् आयुः
जीवितं मा प्रमोषीः मा प्रणाशय । अस्माकं वेदोक्तमायुष्यं देहीत्यर्थः । यदिति ।
चिद्धित्य व्ययद्वयम् । पादपूरणार्थम् । वरुण वरुणात्मक रुद्र चैतवोपासनात्मकं
व्रतं यत्तत् । द्यविद्यवि दिवसे दिवसे प्रतिदिनमित्यर्थः । प्रप्रकर्षेण मनीयसी तर्कयामः । तत्र
दृष्टान्तः विशो मनुष्याः स्वस्वव्यापारं यथा क्रियन्ते तद्वद्वयमेव कर्म सर्वदा
तर्कयामः । तस्मात्त्वामेव परिचरामः । यत्किञ्चेति हे वरुण वरुणात्मक रुद्रदैव्ये
लोकवर्तिनि जनेत्वयीत्यर्थः । यत्किञ्चिदिवछिद्द्रोहं स्वल्पमधिकं वा द्रोहं * * चित्ति । अचित्या
अज्ञानमनुष्याश्चरामसि कुर्मः । किञ्च तव
यद्यपि धर्मेति दीर्घः छान्दसः । त्वदीयं कर्म मुयोपि मदि नाशयामः । हे देव
वरुणात्मक रुद्र । तस्मादेनसः द्रोहात् सो अस्मिन् पति-

पृ० ४९) रिषः महांसः । कर्मलोपमेनः परिहृत्यास्मान् परिपालयेत्यर्थः । किञ्च कितवास
धूर्तसमानाः । स्वार्थसाधनपराः यत्कर्माङ्गं रिरिपुः नाशितवन्तः । देवि
सम्यन्व्यवहृता न प्रवर्तन्ते । यद्वा उत इत्यव्ययद्वयं पक्षान्तरवाचिद्योति पादपूरणे
वापवाचकानिपाताः । यद्वा अथ वा यत्सा परिसत्यम् अवश्यं कृतम् । अज्ञात्वेव कृतमित्यर्थः
। यदधम् उत अपि च यत् धर्मस्वरूपं न विघ्न न जनिम इत्यर्थः । अस्तु त किं तत्राह - सर्वेति ।
सर्वा सर्वाणि अस्माभिः बहुधा श्रुतान्येनां सिसन्ति । तानि सर्वाण्यनां निविष्य ।
अस्मत्सकाशात् विशेषेण वीतानि कुरु । विनाशयेत्यर्थः । एवमधिक पातकनिरास माकाङ्क्ष्य
क्षुद्रपातक निरासमाकाङ्क्षते । शिथिरेव शिथिलानि छान्दस मेतत् । यान्यानि क्षुद्रपातकानि
सर्वाणि विश्येत्यन्यः । अथ भय(व)त्कटाक्षानन्तरं हे वरुण वरुणात्मक हे देव रुद्र ते * *
व प्रियासः श्या(स्या)मप्रियाः भवेम ।
प्रातरुपस्थानमन्त्रमाह - मित्रस्येति । मित्रस्य सूर्यात्मकस्य चर्षण्यः प्रभाः । तासां
धत्ता चर्षणी धृत् । तस्य देवस्य रुद्रस्य, श्रूयत इति श्रवः यशः सानसि सम्यग्भजने(नी)यं
तस्य नाम महद्यश इति श्रुतेः । शिवनाम स्मरणमेव कर्तव्यमित्यर्थः । सत्यमविनाशि
चित्रमाश्चर्यं यथा तथा अतिशयेन श्रूयत इति चित्रश्च वस्तमं श्रोतृ जनसुखकरमित्यर्थः
। अङ्कुं मित्रः सूर्यात्मको रुद्रः । प्रजानन् तत्तदधिकारं विद्वान् सर्वान् जनान् यातयति स्वे
स्वे कर्मणि नियोजयति । किञ्च मित्रं सूर्यात्म-

पृ० ५०) क रुद्रं पृथिवीन्द्यां च दधार धृतवान् । उत्थापि च मित्र सूर्यात्मक रुद्रः
कृष्टीः मनुष्यान् अनिमिषाः प्रबुधान् देवान् । विभक्तिलोपश्छान्दसः । अभिचष्टे सर्वकः
पश्यति । सर्वं प्रकाशयतीत्यर्थः । सत्यायामोघफलाय सत्यात्मने वा तस्मै मित्ररूपाय
रुद्राय हव्यं चरुं पुरोडाशादि लक्षणं घृतवत् घृतयुक्तं विधेम कुर्मः । हे
आदित्ययः यजमानः ते तव सम्बन्धेना व्रतेन कर्मणा शिक्षति अनुष्ठातुं शक्तो भवति ।
विच्छति न्यन्य । स्व च शक्तिं स्वेवे शम्भुं च हृदयेन विन्यस्य । कवचेन त्रिसूत्री वेष्टिनत
ग्रीवौ सृशवात्मनः । सव्यदिग्भागे कुश्लो परे मूलेन संस्थाप्य । ता चन्दन कुसुमादिभिः
सम्पूजयेत् । अथ गव्यमाज्यम् । घृतपात्रस्थं निरीक्षणादि चतुःसंस्कार शुद्धं गृहीत्वा
। ततः स्वदेहं ब्रह्ममयं विचिन्त्य घृतपात्रमादाय कुण्डोर्ध्वे त्रिरावृतग्नेगोचर
तापयित्वा । आग्नेयां संस्थाप्य दर्भाग्रेण घृतबिन्दुमादाय ऊं हां ब्रह्मणे स्वाहेति
हुत्वा पुनः स्वदेहं विष्णुमयं ध्यात्वा घृतपात्रं प्रदक्षिण क्रमेणेशानकोणे
निधाय कुशाग्रेणाज्य बिन्दुं ॐ हां पौष्टवे(विष्णवे) स्वाहेति हुत्वा ततः स्वदेहं
रुद्रमयं ध्यात्वा घृतपात्रं प्रदक्षिणक्रमेण कुण्डयोनौ
निक्षिप्य कुशाग्रेणाज्य बिन्दुम् ऊं हुम् ऊं हूं रुद्राय स्वाहेति हुत्वा । पश्चात्
प्रादेशमात्रं दर्भाग्रद्वयनिर्मितं मध्यग्रन्थिपवित्रमङ्गुष्ठानामिकाभ्यां
गृहीत्वा । अस्त्रमन्त्रेणाज्यमग्नेः सम्मुखं

पृ० ५१) त्रिरुत्पवेत् । तद्वदात्मसम्मुखं हृदा सम्प्लवनं कृत्वा तत्पवित्रग्रन्थिमुन्मुच्य ।
सम्प्रोक्ष्याग्नौ निक्षिपेत् । हृदाभिमन्त्रितं दग्धदर्भोल्मुकमस्त्रेण घृते क्षिप्त्वा
पवित्रीकृत्य तद्धीस्त्यं वह्णौ वक्त्रेण निक्षिपेत् । दीप्तेनान्येन दर्भेण कवचेन नीराज्याग्नौ
क्षिपेत् । अपरेण दर्भेणास्त्रेण संवेप्य तदुल्मुखं वह्नौ निक्षिपेत् । ततः प्रादेशमात्रं
दर्भाग्रद्वयनिर्मितं मध्यग्रन्थि पवित्रं प्रणवेन घृतमध्ये न्यस्त्वा । दक्षिण
वामक्रमेण शुक्ल कृष्ण पक्षद्वयं विभोद्य । दक्षिणवाममध्यमभागेषु पिङ्गलेडा
सुषुम्नानाडीत्रयञ्च सङ्कल्प्य दक्षिणभागात् स्रुवेणाज्यमादाय । ऊं हाम् अग्नये स्वाहा
इत्यग्नि दक्षिणनेत्रे । वामभागादाज्यमादाय ऊं हां सोमाय स्वाहेत्यग्नि वामनेत्रे ।
मध्यभागादाज्यमादाय ऊं हामग्नी षोमाभ्या गूं स्वाहा इत्यग्निमध्यमनेत्रे ।
भागत्रयादाज्यमादाय ऊं हामग्नये स्विष्टकृतेत्यग्नि स्वाहेत्यग्निवक्त्रे च किञ्चिद्धुत्वा
शेषमाज्यं त * * * ज्यभागेषु स्वाहेति क्षिपेत् । कृष्णपक्षे तु दक्षिण वाम मध्यभागेषु
पिङ्गले * * षुसुम्म(सुषुम्ना)नाडी त्रयं विभाव्य । वामभागात् स्रुवेणाज्यमादाय ऊं
हाम् अग्नये स्वाहेत्यग्नि वामनेत्रे । दक्षिणभागादाज्यमादाय ऊं हां सूर्याय
स्वाहेत्यग्नि दक्षिणनेत्रे मध्यभागादाज्यमादाय ऊं हामग्नि सूर्याभ्या गूं
स्वाहेत्यग्नि मध्यमनेत्रे । भागत्रयादाज्यमादाय ॐ हाम् अग्नये स्विष्टकृतेत्यग्नि स्वाहेत्य-

पृ० ५२) ग्निवक्त्रे च किञ्चिद्धृत्वा शेषमाज्यं तदाज्यभागेषु स्वाहेति क्षिपेत् ।
घृतं षडङ्गेनाभिमन्त्र्य मूलेन द(धे)?नुमुद्रयामृकृत्य । अस्त्रेण संरक्ष्य
कवचेनावकुण्ठ्य हृदाज्य बिन्दुप्रक्षेपणादन्यद्धृतं संशोधयेत् ।
तदनुवक्त्राभिधारार्थं तत्तद्दिकितसं(स)द्यादि पञ्चवक्त्रेषु ऊं हां सद्योजाताय
स्वाहा । ऊं हां वामदेवाय स्वाहा । ऊं हुम् अघोराय स्वाहा । ऊं हूं तत्पुरुषाय
स्वाहा । ऊं हेम् ईशानाय स्वाहेति पृथक् पृथगेकैकाम(हु)त्यातिसृभिराहुतिभिर्वा जुहुयात् ।
अथ वक्त्रसन्धानार्थम् ऊं हां हिं सद्योजात वामदेवाभ्या गूं स्वाहा । ऊं हिं
हूं वामदेवाघोराभ्या गूं स्वाहा । ऊं हुं हेम् अघोर तत्पुरुषाभ्या गूं स्वाहा ।
ऊं हें हें तत्पुरुषेशानाभ्या गूं स्वाहा । ऊं हेम् ईशानाय स्वाहा ।
इत्येकैकयातिसृभिराहुतिभिर्वा जुहुयात् । अथ वक्त्रैकीकरणार्थम् ऊं हं हां हं हें हें
सद्योजात वामदेवा घोर तत्पुरुषेशानाभ्यः स्वाहा इत्यग्नितो वायुङ्गतया
नैरृत्यादिशानां गतिया घृताहुत्या अविच्छिन्नधारया जुहुयात् । अथवा कुण्डमानन्तु
यदिष्ट वदनं स्मरेत् । अन्तर्भावा(व्या)न्यवक्त्राणि तदेकीकरणं मतमिति मूलवचनेन
कुण्डमध्ये शिववक्त्रं विभाव्य । तस्मिन् ऊं हां हिं
हुं हें हां सद्योजात वामदेवघोरतत्पुरुषेशानेभ्यः स्वाहेत्ययं वीरशैवपक्ष इति
मन्यते । यथा षट्स्थलरूपिणि परब्रह्मणि रुद्रानले जुहोमि सदेति वचनात् षट्स्थलात्मक
शिवाग्निरिति वीरशैवसिद्धान्तः । अथ जिह्वाभिधारार्थं तत्तद्दिक्स्थित-

पृ० ५३) हिरण्यादि सप्तजिह्वासु य्रूं हिरण्यायै स्वाहा । पश्चिमे । * कनकायै स्वाहा वह्निमध्ये
। प्लूं रक्तायै स्वाहा । उत्तरे । श्रूं कृष्णायै स्वाहा दक्षिणेति । घ्रां सुप्रभायै स्वाहा
पूर्वे । स्रूम् अतिरिक्त्यै स्वाहा । हं बहुरूपायै स्वाहेति मध्य पृथक् पृथगेकैकां हुत्वा
जुहुयात् । अथ जिह्वासन्धानार्थं य्रूं ब्रां हिरण्य कनकाभ्या गूं स्वाहा । प्रूं
श्रूं रक्तकृष्णाभ्यां गूं स्वाहा । श्रूं घ्रां कृष्ण सुप्रभाभ्या गूं स्वाहा ।
घ्रां स्रूं सुप्रभातिरक्ताभ्या गूं स्वाहा । स्रूं ह्रूम् अतिरिक्त बहुरूपाभ्या गूं
स्वाहा । अथ जिह्वैकीकरणार्थं य्रूं ल्रू प्रूं श्रूं घ्रां स्रूं ह्रूं हिरण्य
कनकारक्ताकृष्णासुप्रभातिरक्ता बहुरूपाभ्या गूं स्वाहेति । शिववदने
पूर्वपदे(ऽ)विच्छिन्नाज्यधारया जुहुयात् । इदं जातकर्म । ततो नामकरणार्थम्
ईशानेनाभ्यर्च्य । अस्त्रेण तिलाहुति त्रयाद्वा शिवाग्निस्त्वं हुताशनेति अग्नेर्नामकरणं
सर्वात्मना कृत्वा वागीशि वागीश्वरौ हृदयेनाभ्यर्च्य । तौ चि(च) सृजेत् कुंवमानं
शिववक्त्रं परिकल्प्य । मध्ये जिह्वायाम् अन्नप्राशन चूडादि संस्कार प्रीत्यर्थं
वौषडन्त मूलेन पूर्णां च दद्यात् । तद्यथा- पञ्चब्रह्ममन्त्रे (ण) सर्पिषा
स्रुचमापूर्य पुष्करो पर्यमुखीं स्रुवं निधाय । स्रुगग्रे पुष्पं दत्वा
पश्चाद्वामपाणिना पुनः सव्यपाणिना च शङ्खसन्निभमुद्रया तौ धृत्वा । समपादं
समुत्थाय ऋजुकायः सन् स्वनाब्धा किञ्चित्तिर्यग्विधाय । स्रुगग्रदत्त दृष्टिर्वा षडन्तमूलं
प्लुतान्तमुच्चरन् स्रुक्स्रु-

पृ० ५४) वयोः मूलं क्रमेण वामनासान्तमानीय घृतधाराभिः ब्रह्मादिकारण त्याग
क्रमेण सुषुम्मया बिन्दु विनिःसृतामतधारामिति संस्मरस्य प्रमाण धारया विच्छिन्नया
समस्तमाज्यं वह्नौ जुहुयादिति पूर्णां विधायोपविश्य पञ्चवक्त्रयुतं रक्तं
सप्तजिह्वाविराजितम् । दशहस्तं त्रिणेत्रं च सर्वाभरणभूषितम् ॥
रक्तवस्त्रपरीधानं पङ्कजोपरिसंस्थितम् ।
बद्ध पद्मासनासीनं वशायुध समन्वितम् ॥
कनका बहुरूपा चातिरिक्ता च ततः परम् ।
सुप्रभा चैव कृष्णा च रक्ता चान्या हिरण्मयी ॥
ऊर्ध्ववक्त्रे स्थितास्तिस्रः शेषाः प्रागादितः स्थिताः ॥ इत्येवं शिवाग्निं ध्यात्वा -
अग्नेत्वमैश्वर्यं तेजः पादनं परमं यतः ।
तस्मात्त्वदीय हृत्पद्मे संस्थाप्य तर्पयाम्यहम् ॥ इत्याज्ञां प्रार्थ्य
सुषुम्नानाड्यात्मेर्विग्रहस्यान्तःप्रविष्टोहमिति संस्मृत्य तदीय हृत्पद्मे पूर्ववत् साननं
साङ्गं भास्वरं सावरणं भगवन्तं गन्धादिभिरभ्यर्च्य ।
शिववक्त्राग्निवक्त्रयोस्सन्धानमात्मना सह कृत्वा । निष्कृत्य । नैवेद्य समये शिवाय मूलेन
दशाहुतिरन्येभ्योद्येकाकाहुतिं दत्वा । तत्तर्पणार्थं मूलमन्त्रेणाष्टोत्तरशतं
तद्दशांशतो ब्रह्म * * नि च हुत्वा । पूर्वोक्तवत्पूर्णाहुतिं विधायोपविश्याचम्य ।
ताम्बूलादिकं दत्वा भक्त्या तद्भूतिमापाद्य । प्रणतिं दत्वा । संहारमुत्तिकेतु
हृन्मन्त्रेण घृत-

पृ० ५५) प्लुतान् चतुष्टरितिधिवस्त्रमन्त्रेण घृतप्लुतान् चतुष्परिसरांश्च दहेत् । नित्यकर्मणि तु
हृन्मन्त्रेण परिधीनस्त्रमन्त्रेण परिस्तरांश्च प्रत्येकं पञ्चाभिमन्त्र्य । तद्द्वयं च
विसर्जयेत् । ततः स्रुक्स्रुवौ भागस्थित दर्भाणामग्रेण स्रुक्स्रुवयोरग्रं संस्पृश्य । मध्येन
मध्यं मूलेन मूलं संस्पृश्य । तौ विसृजेत् । स्रुक्स्रुवांश स्पृष्ट दर्भान् कवचेनाग्नौ
निक्षिप्य । विष्टरानादाय ग्रन्थीन् मुक्त्वा विसर्जयेत् । ततो त्रिसूत्र्यावेष्टनं मुक्त्या कवचेन
विसृज्याज्यपात्रमादायाज्य शेषमस्त्रमन्त्रेण राक्षसादीनां तृप्त्यर्थं नैरृत्यां भुवि
स्रावयेत् । ततोऽग्निं समभ्यर्च्य मूलमन्त्रेण संहारमुद्रया हृत्वा हृदम्बुजे शिवाग्निं
संस्थापयेत् । ततः कुडाग विनाग मण्डलद्वयं विधाय प्रथममण्डले
पूर्वाद्युत्तरान्तम् ऊं हां रुद्रेभ्यो नमः । ऊं हां मातृभ्यो नमः । ऊं हां
गणेभ्यो नमः । ऊं हां यक्षेभ्यो नमः । ईशान्यादि वायव्यान्तकोणेषु ऊं हां
ग्रहेभ्यो नमः । ऊं हाम् असुरेभ्यो नमः । ऊं हां रक्षसेभ्यो नमः । ऊं हां
नागेभ्यो नमः । मण्डलाभ्यन्तरे ईशानादि वायव्यान्तकोणेषु ऊं हां नक्षत्रेभ्यो
नमः । ऊं हां राशिभ्यो नमः ऊं हां यक्षेभ्यो नमः । ऊं
हां विश्वेभ्यो नमः । वायु वरुणयोर्मध्ये क्षेत्रपालाय नमः इत्यभ्यर्च्य स्वाहान्तं
बलिं दत्वा । तान् विसृजेत् । द्वितीयमण्डले पूर्वादीशानान्ताष्टदिक्षु - ऊं हाम् इन्द्राय
नमः । ऊं हाम् अग्नये नमः । ऊं हां यमाय नमः । ऊं हां निॠतये नमः । ऊं
हां

पृ० ५६) वरुणाय नमः । ऊं हां वायवे नमः । ऊं हां कुबेराय नमः । ऊं हाम्
ईशानाय नमः । ईशान्याम् ऊं हां ब्रह्मणे नमः ने * * त्यां विष्णवे नमः । मध्ये
नीललोहिताय नमः इत्यभ्यर्च्य । स्वाहान्तं बलिं दत्वा याम्योवं शिवाग्निं करिष्य इति
सङ्कल्प्याग्निकार्याधिकारी सम्पन्नोपकरण शिवमग्निकार्यार्थं मध्येष्य लब्धानुज्ञ
अग्निपात्रादिकमादाय । अग्नियाम्य नैरृति वायव्येभ्योन्यतरस्यां दिशि कल्पितं कुण्डं
स्थण्डिलं वा समासाद्य पूर्वास्य सौ * * म्यास्यो समुपविश्य कुण्डे वा स्थण्डिले हि
मध्येस्त्रेण पूर्वाग्ररेखा त्रयं कुशैः सम्पाद्योत्तराग्रं रेखां च सम्पादयेत् ।
मस्तदास्ययश्च यद्विपर्येण सम्पाद्य कवचेनाभ्युक्ष्य सर्वसंस्कारसम्पत्तिं विभाव्य तत्र
श्यामामृतुमतीं ध्यात्वा । सद्वासोमाल्यभूषणां प्रसन्नवदनां पद्मपत्रेभ
नयनत्रयाम् इति ध्यात्वा । ऊं ह्रीं वागीश्वर्यै नम इति तदद्वागीश्वरं देवं ध्यात्वा
ऊं हां वागीश्वराय नम इति सम्पूज्यार्घ्यं दत्वा पश्चादरण्यादि सम्भवं
शुद्धवेश्मसम्भवं वाग्निं शुद्धपात्रे समानीय क्रव्यादांशं परित्यज्य निरीक्षणादि
चतुःसंस्कारैः संस्कृत्य ऊं ह्रां रां वह्निमूर्तये नम इत्यनेन मन्त्रेण
संहारमुद्रया वह्निमादाय
पूरकेणेऽयाकृष्य कुम्भकेननाभ्यग्निना बैन्दवेन च संयोज्यैकीकृत्य रेचकेण पिङ्गलया
ऊं हां रां वह्निमूर्तये नम इति वह्निमन्त्रेण प्रदीपकशिकोप-

पृ० ५७) माग्नेयबीजमुद्भवमुद्रया निवेश्य । तत्संहितया सम्पूज्य परमेश्वरवीर्यमिति
सम्भाव्य वागीश्वरेण वागीश्वरी गर्भनाड्यां क्षिप्यमाणं विभाव्य
मूलेनात्मसम्मुखं निक्षिप्य समूह्य देव्यै वासः परिधाय शौचाचमनादि हृदा दत्वा ।
सद्योजातादिभिर्ब्रह्मभिरभ्यर्च्य । मूलेनाहुतिपञ्चकं हुत्वा ।
पूर्वदक्षिणपश्चिमोत्तरासुदिक्षु ऊं हां ब्रह्मणे नमः । ऊं हां विष्णवे नमः । ऊं
हां रुद्राय नमः । ऊं हाम् ईश्वराय नमः इत्यर्च्य ।
पूर्वदेशानां(पूर्वादीशानां-)ताष्टदिक्षु ऊं हाम् इन्द्राय नमः । ऊं हाम् अग्नये
नमः । ऊं हां यमाय नमः । ऊं हां निॠतये नमः । ऊं हां वरुणाय नमः । ऊं
हां वायवे नमः । ऊं हां कुबेराय नमः । ऊं हाम् ईशानाय नमः ।
ऊर्ध्वभागमुद्दिश्य ईशाने ऊं हां ब्रह्मणे नमः । अधोभागमुद्दिश्य नैरृत्याम् ऊं
हां विष्णवे नमः । इत्यभ्यर्च्य । अग्नि शि * * रक्षां विज्ञाप्य ऊं हौं शिवाग्निस्त्वं
हुताशनेत्यग्नेर्नामकरणं कृत्वा पितका विसृजेत् । ततो वह्नि हृत्पद्मे पञ्चब्रह्मात्मकं
शिवमभ्यर्च्य । नैवेद्यसमये घृताहुतिभिर्यथाशक्ति मूलेन ब्रह्माङ्गैश्च दशांशतो
हुत्वा । पूर्णां दत्वा नैवेद्याय चरुं हुत्वा आचमनं ताम्बूलादिकं हुत्वा ।
तद्भस्मभिर्वह्नौ
अष्टपुष्पिकया सम्पूज्य ब्रह्मादिभ्यो बलिं दत्वा । स्वदक्षिणभागे मण्डलद्वयं
सम्पाद्य । प्रथममण्डले पूर्वादि चतुर्दिक्षु । ऊं हां रुद्रेभ्यो नमः । ऊं हां
मातृभ्यो नमः । ऊं हां गणेभ्यो नमः । ऊं हां यक्षेभ्यो नमः ।

पृ० ५८) ईशानादि चतुर्दिक्षु- ऊं हां ग्रहेभ्यो नमः । ऊं हाम् असुरेभ्यो नमः । ऊं हां
राक्षसेभ्यो नमः । ऊं हां नागेभ्यो नमः । मण्डलमध्ये ईशानादि चतुष्कोणेषु- ऊं
हां नक्षत्रेभ्यो नमः । ऊं हां राशिभ्यो नमः । ऊं हां यक्षेभ्यो नमः । ऊं हां
विश्वेभ्यो नमः । वायु वरुणयोर्मध्ये क्षेत्रपालाय नमः । इत्यभ्यर्च्य । स्वाहान्तं च
बलिमर्घ्यं च दत्वा द्वितीयमण्डले पूर्वाद्यष्टदिक्षु- ऊं हाम् इन्द्राय नमः । ऊं हाम्
अग्नये नमः । ऊं हां यमाय नमः । ऊं हां निरृतये नमः । ऊं हां वरुणाय नमः
। ऊं हां वायवे नमः । ऊं हां कुबेराय नमः । ऊं हाम् ईशानाय नमः । ईशान्याम्
ऊं हां ब्रह्मणे नमः । नैरृत्याम् ऊं हां विष्णवे नमः । मध्ये नीललोहिताय नमः ।
इत्यभ्यर्च्य । स्वाहान्तं बलिमर्घ्यं च दत्वा पूर्वोक्त रुद्रादीन् विसृजेत् ।
एवं शिवाग्निं सम्पाद्य वैश्वदेवादि महाभागहन्तकार पुरस्सरमिति
शङ्करसंहितावचनेनौपासनं वैश्वदेवं च कुर्यात् । तद्यथा- प्राणानायम्य सायं
प्रातरौपासन तण्डुलेन होष्ये ।
पञ्चवक्त्रयुतं रक्तं सप्तजिह्वा विराजितम् ।
दशहस्तं त्रिणेत्रं च सर्वाभरणभूषितम् ।
रक्तवस्त्रपरीधानं पङ्कजोपरिसंस्थितम् ॥
बद्ध पद्मासनासीनं दशायुध समन्वितम् ।
कनका बहुरूपा चातिरक्ता ततः परम् ॥
सुप्रभा चैव कृष्णा च रक्ता चान्या हिरण्मयी ॥

पृ० ५९) ऊर्ध्ववक्त्रे स्थितास्तिस्रः शेषाः प्रागादितः स्थिताः ॥
इत्येवं शिवाग्निं ध्यात्वा । गायत्र्याद्भिः सम्प्रोक्ष्य । ऊं जातवेदसे नमः । ऊं
सप्तजिह्वाय नमः । ऊं हव्यवाहनाय नमः । ऊम् अश्वोदरजाय नमः । ऊं वैश्वानराय
नमः ॥
॥ असम्पूर्णोऽयं ग्नन्थः ॥