०६

पृ० १०५) षष्ठं प्रकरणम् ।
श्रीशिवाय नमः ॥ एवं प्रकाशलिङ्गम् ऐक्ये परिणामग्राहकत्वं
प्राप्य सोऽपि तस्मिन् लिङ्गे परिणामग्राहकत्वं प्राप्य
भिन्नभावपरित्यागेन परमानन्दपरिणामत्वं प्राप्तभेदः
कथमित्याकाङ्क्षायामनन्तरं स्वीकृतप्रसादिस्थलमित्युच्यते ॥ १ ॥
अथैवं प्रसादलिङ्गपरिणामः शरणः अधिष्ठानसामरस्येन
महालिङ्गैक्यं गन्तुमुद्युक्तः व्यापकलिङ्गत्रैविध्यनिष्ठतया प्रतीतः
सन् तथाविधैक्यत्वे सर्वाचारसम्पत्तेरेव
कारणत्वादधिष्ठानलिङ्गत्रैविध्ये निजस्वरूपमवगम्य
एकभाजनसहभोजनयोरर्पितसामरस्येनातीतलिङ्गत्रैविध्यनिष्ठत्वेन
निरवयवो भूत्वा स्थायित्वमेव परशिवस्वरूपत्वमिति सिद्धम् ॥ २ ॥
बृहदारण्यकोपनिषदि ॥
यत्रास्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्तत्केन कं
श्रावयेत्तत्केन कं स्पृशेत्तत्केन कमास्वादयेत् ॥ ३ ॥ किञ्च ॥
वृद्धजाबालोपनिषदि ॥
भुक्तशेषं भगवतस्त्रैलोक्यं स चराचरम् ॥ ४ ॥ किञ्च
मुण्डकोपनिषदि ॥
सन्निहितं

पृ० १०६) गुहाचरं नाम महत्पदमत्रैतत्सर्वमर्पितमेतत्प्राणं
निमेषश्च यत् ॥ ५ ॥ किञ्च तलवकारोपनिषदि ॥
यद्वाचानभ्युदितं येन वागभ्युद्यते तदेव ब्रह्म त्वं विद्धि नेदं
यदिदमुपासते यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यन्ति तदेव ब्रह्म
त्वं विद्धि नेदं यदिदमुपासते यच्छ्रोत्रेण न श्रुणोति येन श्रोत्रेणेदं
श्रुतं तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते यत्प्राणेन न
प्राणिति येन प्राणः प्राणीयते तदेव ब्रह्म त्वं विद्धि नेदं
यदिदमुपासते ॥ ६ ॥ तथैवोक्तं शिवयोगदीपिकायाम् ॥ आर्या ॥
आदाय बाह्यविषयानिन्द्रियमार्गैरहङ्कृतौ चेतः ॥
अर्पयति सा च बुद्धौ बुद्धेः साक्षी ततः पुमान्भुङ्क्ते ॥ ७ ॥
किञ्च शिवसूत्रे ॥
स्वात्मार्पणं विकल्पानामर्पणं शिवधामनि ॥
तृप्तिसङ्कोचविलयविकाशशिवचित्सुखम् ॥ ८ ॥
लिङ्गसारे ॥
जन्मत्रयमिदं वक्ष्ये स्थित्युत्पत्तिविनाशनम् ॥
सङ्कल्पितार्पितं भावमर्पितत्रयमुत्तमम् ॥ ९ ॥
आधिव्याधिमहाशाखं त्रिविधं लिङ्गार्पितं सदा ॥
बाल्ययौवनवृद्धत्वं त्रिविधं [भवेल्लिङ्गार्पितं सदा ।] लिङ्गार्पितं
सदा ॥ १० ॥
विस्मयं जननं निद्रा सर्व लिङ्गे समर्पितम् ॥

पृ० १०७) कृष्णं श्वेतं च पीतं च स्वयं लिङ्गे समर्पितम् ॥ ११ ॥
उत्पत्तिस्थितिपर्यन्तं सुखदुःखेषु सर्वथा ॥
सम्पदश्च व्युदासोऽहं सर्वद्रव्यं समर्पितम् ॥ १२ ॥
वासिष्ठे ॥
नान्यत्पश्यति योगीन्द्रो नान्यज्जानाति किञ्चन ॥
नान्यच्छ्रुणोति सन्दृष्टे चिदानन्दमये शिवे ॥ १३ ॥
तत्रैव ॥
न वाञ्च्छिता न त्यजिता ज्ञेयं प्राप्यं स्वभावतः ॥
सरितः सागरेणैव भोक्तव्या भोगभूमयः ॥ १४ ॥
एवं परमानन्दप्रसादजनितसुखमालिङ्ग्य तृप्तिलिङ्गमैक्ये स्वयं स्वस्य
रूपत्वेन स्थितभेदः कथमित्याकाङ्क्षायामनन्तरं
शिष्टोदनस्थलमित्युच्यते ॥ १५ ॥ बृहदारण्यकोपनिषदि ॥
एतद्वै तदक्षरं गार्गि ब्राह्मणा
अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमथात आदेशो नेति नेति ॥ १६ ॥
तथैवोक्तं वातुले ॥
नेति नेतीति नेतीति शेषितं यत्परं पदम् ॥
निराकर्तुमशक्यत्वात्तदस्मीति सुखी भवेत् ॥ १७ ॥
चन्द्रावलोकने ॥
चित्तत्वैकस्वरूपस्य न स्याज्ञ्ज्ञेयादिकं क्वचित् ॥
यद्यत्स्थितं तत्तदस्य भासा ज्ञानमयं मतम् ॥ १८ ॥

पृ० १०८) किञ्च सूतसंहितायाम् ॥ वृत्तम् ॥
गुरूपदेशेन शिवं विलोकयेद्विलोकनेनापि शिवं विलोकयेत् ॥
विलोकनं चापि विसृज्य केवलं स्वभावभूतं [यद्भावभूतं स्वचिदेव
शिष्यते ।] स्वचिदेव शिष्यते ॥ १९ ॥
एवं निजस्वरूपस्थितलिङ्गम् ऐक्ये चराचरोभयनास्तित्वं प्राप्तभेदः
कथमित्याकाङ्क्षायामनन्तरं चराचरनास्तिस्थलमित्युच्यते ॥ २० ॥
चुल्लिकोपनिषदि ॥
यस्मिन्सर्वमिदं प्रोतं ब्रह्म स्थावरजङ्गमम् ॥
तस्मिन्नेव लयं याति बुद्बुदाः सागरे यथा ॥ २१ ॥
तथैवोक्तं वासिष्ठे ॥
नैकता नान्यथा चैव न महत्ता न चाणुता ॥
वेदनत्वं स्वसंवेद्यं यत्र नास्ति चराचरम् ॥ २२ ॥
तत्रैव ॥
यत्किञ्चिद्वाङ्मयं लोके जगत्स्थावरजङ्गमम् ॥
चराचरं जगद्विश्वं मदन्यन्नास्ति किञ्चन ॥ २३ ॥
किञ्च सर्वज्ञानोत्तरे ॥
क्रिमिकीटपतङ्गेषु स्थावरे जङ्गमे तथा ॥
न किञ्चिदस्ति वस्तुत्वं सर्वदैव प्रतिष्ठितम् ॥ २४ ॥
एवं व्यापकलिङ्गत्रैविध्यमेकीभूतलिङ्गम् ऐक्यस्य सर्वाङ्गमिति भाण्डे
लीनं सत् सर्वाचाराख्यसकलकरणद्रव्याणामाश्रयस्थानत्वं
प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरं भाण्डस्थलमित्युच्यते ॥ २५
॥ कैवल्योपनिषदि ॥
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ॥

पृ० १०९) मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ २६ ॥
किञ्च तैत्तरीयोपनिषदि ॥
यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति
यत्प्रयान्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति ॥ २७ ॥ किञ्च
प्रश्नोपनिषदि ॥
विज्ञानमात्मा सह देवैः सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र
तदक्षरं वेदयते यस्तु सौम्य स सर्वज्ञः स सर्व मेवाधिवसति ॥ २८ ॥
तथैवोक्तं वातुले ॥
सर्वत्यागान्तरे नास्ति ज्ञानमात्मप्रदर्शकम् ॥
यच्छून्यमेव भाण्डं स्यात्तत्र तत्राधितिष्ठति ॥ २९ ॥
स्तोत्रार्णवे ॥ वृत्तम् ॥
विकसति स्ववपुर्भवदात्मकं समुपयान्ति जगन्ति ममाङ्गताम् ॥
व्रजति सर्वमिदं द्वयभावितं स्मृतिपदोपगमप्यनुपास्यताम् ॥ ३० ॥
एवं सर्वकारणानीति सर्वाचारसाधनानि व्याप्य भाण्डस्वरूपं
प्राप्तलिङ्गं तस्यैक्यस्य स्वयमेव भाजनस्वरूपत्वं प्राप्तभेदः
कथमित्याकाङ्क्षायामनन्तरं भाजनस्थलमित्युच्यते ॥ ३१ ॥
ईशावास्योपनिषदि ॥
हिरण्मयेन पात्रेण सत्यस्यापि हितं जनम् ॥
तत्वं पोषन्नपावृणु सत्यधर्माय दृष्टये ॥ ३२ ॥
तथैवोक्तं वासिष्ठे ॥
अखण्डपरिपूर्णं यत्सच्चिदानन्दलक्षणम् ॥
तद्येन ज्ञाप्यते तादृक् ज्ञानं स्वाभिन्नभाजनम् ॥ ३३ ॥

पृ० ११०) किञ्च ॥ शिवधर्मोत्तरे ॥
यद्धौतं ज्ञानसलिलैः स्वात्मानन्दप्रमार्जितम् ॥
तत्पात्रं सर्वपात्राणामुत्तमं परिकीर्तितम् ॥ ३४ ॥
एवमैक्यलिङ्गयोः सामरस्येनाविरलीभूतलिङ्गमैक्यस्य सर्वाङ्गे लेपत्वं
प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरमङ्गलेपनस्थलमित्युच्यते ॥ ३५
॥ तैत्तरीयोपनिषदि ॥
यस्मिन्निदं सञ्चविचैति सर्वं यस्मिन्देवा अधिविश्वे निषेदुः ॥ ३६ ॥ किञ्च
ध्यानबिन्दूपनिषदि ॥
पुष्पमध्ये यथा गन्धः पयोमध्ये तु सर्पिषः ॥
तिलमध्ये तथा तैलं पाषाणेऽपि तु काञ्चनम् ॥ ३७ ॥
एवं सर्वाणि भूतानि मणिः सूत्र इवात्मनि ॥
स्थिरबुद्धिरसम्मूढो ब्रह्म ब्रह्मणि संस्थितः ॥ ३८ ॥
तिलेषु च यथा तैलं पुष्पे गन्ध इवाश्रये ॥
पुरुषस्य शरीरे तु स बाह्याभ्यन्तरे स्थितः ॥ ३९ ॥
तथैवोक्तं वातुले ॥
सबाह्याभ्यन्तरं साक्षाल्लिङ्गं ज्योतिः परं स्वकम् ॥
तिले तैलमिवाभातमरण्यामिव पावकः ॥
क्षीरे सर्पिरिव स्रोतस्यम्बुवत्स्थितमात्मनि ॥ ४० ॥
एवमधिष्ठानलिङ्गं त्रैविध्यमेकीभूतलिङ्गमैक्ये इदमहमित्युभयं
ज्ञात्वा प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरं
स्वपराज्ञास्थलमित्युच्यते॥ ४१ ॥ बृहदारण्यकोपनिषदि ॥
यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं

पृ० १११) किञ्चन वदे नान्तरम् एवमेवायं पुरुषः प्राज्ञेनात्मना
सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरं तद्वदसौ
तदात्तकाममात्मकाममकामं रूपं शोकान्तरम् ॥ ४२ ॥ किञ्च
जाबालोपनिषदि ॥
यस्यामतं तस्य मतं मतं यस्य न वेद सः ॥
अविज्ञातं विजानतां विज्ञानमविजानताम् ॥ ४३ ॥
सर्वज्ञानोत्तरे ॥
स्वयं स्वस्य परो नैव न परः स्वस्य विद्यते ॥
इति धार्येऽपि संलीने तस्मिन्ज्ञेयं न तस्य हि ॥ ४४ ॥
किञ्च वासिष्ठे ॥
सर्वज्ञता सा शिवता सावस्था परमात्मिका ॥
सा सत्यता सा च तृप्तिर्न यत्र स्वपरेक्षणम् ॥ ४५ ॥
एवमिदमहमित्युभयज्ञत्वं प्राप्तलिङ्गैक्यभावनिर्भावोभयराहित्यं
प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरं
भावाभावनष्टस्थलमित्युच्यते ॥ ४६ ॥ अमृतबिन्दूपनिषदि ॥
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ॥
न मुमुक्षुर्न वै मुक्त इत्यैषा परमार्थता ॥ ४७ ॥
योगजागमे ॥
भावाभावद्वयातीतं स्वप्नजागरणातिगम् ॥
मृत्युजीवननिर्मुक्तं तत्वं तत्वविदो विदुः ॥ ४८ ॥
किञ्च वासिष्ठे ॥
अहम्भावो यदा नास्ति निरहन्ता तदा न हि ॥
न यत्राहं न निराहं तद्भावाभावनाशनम् ॥ ४९ ॥
तत्रैव ॥

पृ० ११२) त्वन्ताहन्तात्मता यत्र परता नास्ति काचन ॥
न क्वचिद्भेदकलना न भावाभावरञ्जना ॥ ५० ॥
एवं भावनिर्भावोभयरहितलिङ्गमैक्यस्य मूलज्ञानमालिङ्ग्य
तज्ञ्ज्ञानमेव स्वयं भूत्वा तज्ञ्ज्ञानं निजस्वरूपे स्थित्वा शून्यत्वं
प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरं ज्ञानशून्यस्थलमित्युच्यते
॥ ५१ ॥ तेजोबिन्दूपनिषदि ॥
अशून्यं शून्यभावं तु शून्यातीतं हृदि स्थितम् ॥
न ध्यातं न च वाध्यातं यत् ध्येयाध्येयमेव च ॥ ५२ ॥
सर्वं च यत्पदं शून्यं न परं न परापरम् ॥
अचिन्त्यमप्रबुद्धं च न सत्यं न च तद्विदुः ॥ ५३ ॥
तथैवोक्तं योगजागमे ॥
ज्ञानाचारसमायुक्ता ज्ञाननिर्धूतकल्मषाः ॥
ज्ञानिनः शिवभावेन ज्ञानशून्यैक्यभागिनः ॥ ५४ ॥
किञ्च निश्वासकारिकायाम् ॥
उल्काहस्तो यथा कश्चिद्द्रव्यमालोक्य तां त्यजेत् ॥
ज्ञानेन ज्ञेयमालोक्य पश्चाज्ञ्ज्ञानं परित्यजेत् ॥ ५५ ॥
वासिष्ठे ॥
आत्मनो निर्विकारस्य क्व ज्ञानं क्व च वा क्रिया ॥
वेदका न बहिर्भावा अतः शून्यमिदं जगत् ॥ ५६ ॥
कामिकागमे ॥
यथा घृते घृतं न्यस्तं क्षीरे क्षीरं यथैव च ॥
केवलत्वं तथा प्राप्तं न किञ्चिदपि तद्भवेत् ॥ ५७ ॥
शून्यं शून्यं पुनः शून्यं त्रिशून्यं पश्यति क्षणात् ॥
सर्वशून्यं निराभासं सामरस्यं तदा भवेत् ॥ ५८ ॥

पृ० ११३) श्रीतोण्टदार्यरचितमेकोत्तरशतस्थलम् ॥
कैवल्यसारपठनात्सद्य एव विमुक्तिभाक् ॥ ५९ ॥

इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोण्टदार्यविरचिते
परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्यकैवल्यसारे लिङ्गस्थलनिरूपणे महालिङ्गस्थलं नाम षष्ठं प्रकरणं
समाप्तम् ॥
॥ श्रीः ॥ ॥ श्रीः ॥