पृ० ९८) पञ्चमं प्रकरणम् ।
श्रीशिवाय नमः ॥ एवं पादोदकलिङ्गत्रैविध्यमेकीभूतलिङ्गं
शरणस्य सत्क्रियायां निष्पत्तिस्वरूपं प्राप्तभेदः
कथमित्याकाङ्क्षायामनन्तरं क्रियानिष्पत्तिस्थलमित्युच्यते ॥ १ ॥
अथैवंविधप्राणलिङ्गी परमानन्देन परिणामप्रसादलिङ्गे स्वस्वरूपं
विस्मृत्य निष्पत्तिलिङ्गत्रैविध्ये शरणो भूत्वा शरणलिङ्गयोः
सतिपतिन्यायमनुसृत्य सकलकरणोपभोगं निवार्य तामसस्वरूपं
निराकृत्याकाशलिङ्गत्रैविध्यमुपास्य निर्देशस्थले स्थित्वा
तनुकरणसंसारभ्रान्तिं व्युदस्य शीलसम्पादनेन
प्रकाशलिङ्गत्रैविध्येन सम्पन्नो भूत्वा सकलकर्मनिवर्तकः शिवैक्यं
गतः सन् शरणत्वं प्राप्तः ॥ २ ॥ क्षुरिकोपनिषदि ॥
यथा निर्याणकाले तु दीपो दग्ध्वा लयं व्रजेत् ॥
तथा सर्वाणि कर्माणि योगी दग्ध्वा शिवं व्रजेत् ॥ ३ ॥
तथैवोक्तं योगजागमे ॥
फलप्रकाशकं पुष्पं फलं पुष्पविनाशकम् ॥
ज्ञानप्रकाशकं कर्म ज्ञानं कर्मविनाशकम् ॥ ४ ॥
एवं क्रियानिष्पत्तिस्वरूपापन्नलिङ्गं शरणस्याङ्गे संयोगं प्राप्य
प्राणस्याग्रे दृश्यमानभावान्तर्भावत्वेन लक्ष्यं
सत्तद्भावनिष्पत्तिस्वरूपं प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरं
पृ० ९९) भावनिष्पत्तिस्थलमित्युच्यते ॥ ५ ॥ हंसोपनिषदि ॥
तस्मान्मनो विलीने मनसि गते सङ्कल्पविकल्पे दग्धे पुण्यपापे सदाशिवों
शक्त्त्यात्मनः सर्वत्रावस्थितैः शान्तः प्रकाशयतीति वेदवचनं
भवति भवति ॥ ६ ॥ किञ्च कठवल्ल्युपनिषदि ॥
इन्द्रियेभ्यः परं मनो मनसस्सत्वमुत्तमम् ॥
सत्वादपि महानात्मा महतोऽव्यक्तमेव च ॥ ७ ॥
अव्यक्तात्तु परः पुरुषो व्यापको लिङ्गमेव च ॥
यज्ञ्ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८ ॥
पुनस्तत्रैव ॥
इन्द्रियेभ्यः परा ह्यर्था ह्यर्थेभ्यश्च परं मनः ॥
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ ९ ॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ॥
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥ १० ॥
तथैवोक्तं किरणागमे ॥
चिरेण साध्यमानस्य भावकैर्विगतक्लमैः ॥
स्थिरीभावो हि भावस्य भावनिष्पत्तिरिष्यते ॥ ११ ॥
शैवरत्नाकरे ॥
अभ्यासक्रमतः सिद्धे भावे वृत्तिनिरोधकः ॥
शिवभावः परो भाति भक्तस्य क्षीणचेतसः ॥ १२ ॥
एवं भावे निष्पन्नलिङ्गं
पृ० १००) शरणस्य त्रिपुटीनाशनानन्तरं तच्छरणज्ञानान्तरे
स्वयमेव स्थित्वा तज्ञ्ज्ञाननिष्पत्तिस्वरूपं प्राप्तभेदः
कथमित्याकाङ्क्षायामनन्तरं ज्ञाननिष्पत्तिस्थलमित्युच्यते ॥ १३ ॥
चुल्लिकोपनिषदि ॥
ब्रह्माद्याः स्थावरान्ताश्च पश्यतो ज्ञानचक्षुषः ॥
तमेकमेव पश्यन्ति परिशुद्धाञ्चितं द्विजाः ॥ १४ ॥
किञ्च अमृतबिन्दूपनिषदि ॥
गवामनेकवर्णानां क्षीरस्याप्येकवर्णता ॥
क्षीरवत्पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा ॥ १५ ॥
तथैवोक्तं योगसङ्ग्रहे ॥
ज्ञानस्य परिनिष्पत्तिर्निर्ममत्वादिकैर्गुणैः ॥
निश्चयो नान्यथाज्ञानात्परमात्मस्पृशो भवेत् ॥ १६ ॥
तत्वसारे ॥
न रक्तं न च वा पीतं न शुक्लं कृष्णमेव च ॥
सर्वैर्गुणैर्विनिर्मुक्तं नानातीतं परात्परम् ॥ १७ ॥
एवं निष्पत्तिलिङ्गत्रैविध्यमेकीभूतलिङ्गं शरणस्य पिण्डे
पिण्डस्वरूपं प्राप्य तत्पिण्डं निरवयवस्वरूपं प्राप्तभेदः
कथमित्याकाङ्क्षायामनन्तरं पिण्डाकाशस्थलमित्युच्यते ॥ १८ ॥
ऐतरेयोपनिषदि ॥
आकाशशरीरं ब्रह्म सत्यात्मप्राणारामं मन आनन्दं
शान्तिसमृद्धिममृतमिति
पृ० १०१) प्राचीनयोगिन्नुपास्व ॥ १९ ॥ तथैवोक्तं शिवरहस्ये ॥
शरीरे परमाकाशं परात्परतरं शिवम् ॥
भावयेद्भावसंशुद्धेः पिण्डाकाशः स उच्यते ॥ २० ॥
किञ्च सूक्तावल्याम् ॥ वृत्तम् ॥
षट्त्रिंशतासङ्घटितान्तराय त्वगादिसप्तावरणान्विताय ॥
नादात्मलिङ्गस्थितिमङ्गलाय नमः शरीराय शिवालयाय ॥ २१ ॥
एवं पिण्डनिरवयवत्वापन्नलिङ्गं शरणस्य
पिण्डमध्यस्थचितिबिन्द्वाकाशस्वरूपं प्राप्तभेदः
कथमित्याकाङ्क्षायामनन्तरं बिन्द्वाकाशस्थलमित्युच्यते ॥ २२ ॥
बृहदारण्यकोपनिषदि ॥
य एषोऽन्तर्हृदयाकाशस्तस्मिंश्छेते सर्वस्य वशी सर्वस्येशानः
सर्वस्याधिपतिः ॥ २३ ॥ किञ्च तैत्तरीयोपनिषदि ॥
स एषोऽन्तर्हृदय आकाशस्तस्मिन्नयं पुरुषो मनोमय अमृतो हिरण्मयः ॥
२४ ॥ तथैवोक्तं किरणागमे ॥
सदाशिवादितत्वानां कारणं व्यापकः शिवः ॥
बिन्दुरूपः शिवो ध्येयो बिन्द्वाकाश इतीर्यते ॥ २५ ॥
निश्वासकारिकायाम् ॥
बिन्दुमध्यगतं सूक्ष्मं सुषिरं ज्योतिरूपकम् ॥
दृष्टवा तं सर्वभूतात्मा स शान्तिपददीपकम् ॥ २६ ॥
एवं बिन्द्वाख्यनिरवयवलिङ्गं शरणस्य
ज्ञानलक्ष्यस्याश्रयीभूतचैतन्ये
पृ० १०२) निरस्तज्ञानज्ञेयभावं तत् निरवयवस्वरूपं प्राप्तभेदः
कथमित्याकाङ्क्षायामनन्तरं महदाकाशस्थलमित्युच्यते ॥ २७ ॥
बृहदारण्यकोपनिषदि ॥
अदः पूर्णमिदं पूर्णं पूर्णात्पूर्णतरं महत् ॥
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ खं ब्रह्म खं पुराणम् ॥ २८ ॥ तथैवोक्तं वासिष्ठे ॥
सर्वं व्योम कृतं व्योम्ना व्योम्नि व्योम विलीयते ॥
भुज्यते व्योमनि व्योम व्योम व्योमनि शाश्वतम् ॥ २९ ॥
तत्रैव ॥
सर्वोपाधिविहीनस्य साक्षात्कर्तुमशक्यतः ॥
महाकाशतया सर्वं दृश्यते तस्य वस्तुतः ॥ ३० ॥
एवमाकाशलिङ्गत्रैविध्यमेकीभूतलिङ्गं शरीरस्य सर्वक्रियासु स्वयमेव
प्रकाशत्वं प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरम् ॥
क्रियाप्रकाशस्थलमित्युच्यते ॥ ३१ ॥ मुण्डकोपनिषदि ॥
क्रियावन्तः श्रोत्रियाः ब्रह्मनिष्ठाः स्वयं जुह्वन्त एकर्षि
श्रद्धयन्तस्तेषामेवैतां ब्रह्मविद्यां वदेत्तच्छिरोव्रतं विधिवद्यैस्तु
चीर्णम् ॥ ३२ ॥ तथैवोक्तं शिवरहस्ये ॥
अतीवोत्तमभावेन प्रसन्नविमलात्मनाम् ॥
या चोदिता निवृत्तिः स्यात्सा क्रियायाः प्रकाशिता ॥ ३३ ॥
पृ० १०३) किञ्च रुद्रयामले ॥
दृश्यजातमशेषं च शिवत्वेनैव पश्यतः ॥
क्रियाकलापस्तस्यैव चिद्रूपं चाखिलं भवेत् ॥ ३४ ॥
एवं क्रियायां स्वयमेव क्रियास्वरूपं प्राप्य प्रकाशभूतलिङ्गं
शरणस्य मनोभावमध्ये भावस्वरूपं स्वयमेव भूत्वा प्रकाशत्वं
प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरं भावप्रकाशस्थलमित्युच्यते
॥ ३५ ॥ हंसोपनिषदि ॥
भावः प्रकाशते येन यत्र भावः प्रलीयते ॥
तद्ब्रह्माहमिति ज्ञात्वा सुखी भवति संयमी ॥ ३६ ॥
तथैवोक्तं विज्ञानभैरवीये ॥
शिवभावप्रकाशेन नष्टभेदतमस्यथ ॥
पुनः स एव विमलः शिवमेव प्रकाशते ॥ ३७ ॥
किञ्च रुद्रयामले ॥
अनाहते ततः शून्ये सुस्थितं युगपन्मनः ॥
आद्यन्तशून्यनिरतः शिवभावः प्रकाशते ॥ ३८ ॥
स्वावबोधे च ॥
यद्येवं परमो भावः प्रत्यग्भूतः प्रकाशितः ॥
स याति परमं भावं स्वकं साक्षात्प्रकाशितम् ॥ ३९ ॥
एवं भावप्रकाशित्वापन्नलिङ्गं शरणस्य भावभाविभावितमिति
त्रिपुटिनाशानन्तरं स्वयमेव महाज्ञानं भूत्वा स्वस्मिन्नेव स्वयं
प्रकाशत्वं प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरं
ज्ञानप्रकाशस्थलमित्युच्यते ॥ ४० ॥ मुण्डकोपनिषदि ॥
पृ० १०४) मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥
विकल्पो विनिवर्तेत कल्पितो यदि केन चित् ॥
उपदेशादिना पाशे ज्ञाते द्वैतं न विद्यते ॥ ४१ ॥
तथैवोक्तं सूतसंहितायाम् ॥
द्वैतं मायामयं प्राह श्रुतिः सत्यार्थवादिनी ॥
वास्तवं प्राह चाद्वैतं सर्वमानातिगामिनी ॥ ४२ ॥
किञ्च वासिष्ठे ॥
ब्रह्मज्ञाने समुत्पन्ने विश्वोपाधिविवर्जिते ॥
सर्वं संविन्मयं भाति तदन्यं नैव दृश्यते ॥ ४३ ॥
स्वावबोधेऽपि ॥
न किञ्चिच्चिन्तयेद्योगी उदासीनपरो भवेत् ॥
न किञ्चिच्चिन्तनादेव स्वयं तत्वं प्रकाशते ॥ ४४ ॥
इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोण्टदार्यविरचिते
परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्य
कैवल्यसारे लिङ्गस्थलनिरूपणे प्रसादलिङ्गस्थलं नाम पञ्चमं
प्रकरणं समाप्तम् ॥