०४

पृ० ८६) चतुर्थं प्रकरणम् ।
श्रीशिवाय नमः ॥ एवं तनुगुणलिङ्गत्रैविध्यमेकीभूतलिङ्गं
प्राणलिङ्गिनि जीवभावनिवृत्तिं कृत्वा लिङ्गसज्जीवसम्यक्त्वं
प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरं जीवात्मस्थलमित्युच्यते ॥ १

अथैवम्भूतप्रसादिनि स्वस्य साकारत्रितये लिङ्गत्वेन भक्तो भूत्वा
तद्भक्तलिङ्गे जङ्गममेव चैतन्यमिति ज्ञात्वा तस्मिन् जङ्गमलिङ्गे
अनुभवभक्त्या समरसभूतप्राणलिङ्गी आत्मलिङ्गत्रैविध्येन
प्राणलिङ्गी भूत्वा प्राणलिङ्गार्चकः सन् शिवयोगसमाधिं प्राप्य
निरूपलिङ्गत्रैविध्येन लिङ्गं निजमनुसन्धाय तल्लिङ्गनिजेन
प्रसादलिङ्गत्रैविध्ये स्थित्वा तत्प्रसादलिङ्गमेवाङ्गमिति ज्ञात्वा
पादोदकलिङ्गत्रैविध्ये समरसत्वं गतः सन् प्राणलिङ्गिस्वरूपं
प्राप्तः ॥ २ ॥ वृद्धजाबालोपनिषदि ॥
सकलङ्कत्वजन्मवत्वदुःखित्वादिकं जीवस्वरूपं
तदनभिज्ञत्वमहङ्कारः स तेनाविष्टः स्वर्गनरकभोक्ता
संसारसागरनिमग्नो मिथ्याभिमानीजीवः किल्बिषाश्रयः पुनः
पुनरुत्पद्यते ॥ ३ ॥ किञ्च बृहदारण्यकोपनिषदि
वालाग्रशतभागस्य शतधा कल्पितस्य च ॥
जीवो भागः स विज्ञेयः स चानन्त्याय कल्प्यते ॥ ४ ॥

पृ० ८७) तथैवोक्तं स्वायम्भुवसूत्रे ॥
कलोद्वलितचैतन्यो विद्यादर्शितगोचरः ॥
रागेण रञ्जितश्चापि बुद्ध्यादिकरणैर्युतः ॥ ५ ॥
मायाद्यवनिपर्यन्ते तत्वभूतात्मवर्त्मनि ॥
भुङ्क्ते तत्र स्थितो भोगान् भोगैकरसिकः पुमान् ॥ ६ ॥
किरणागमे ॥
अनादिमलसम्बन्धात्किञ्चिदज्ञो मयोदितः ॥
अनादिमलमुक्तत्वात्सर्वज्ञोऽसौ ततः शिवः ॥ ७ ॥
ग्रन्थान्तरे ॥
जीवः शिवः शिवो जीवः सज्जीवः केवलः शिवः ॥
पाशबद्धो भवेज्जीवः पाशमुक्तः सदाशिवः ॥ ८ ॥
पुनरन्यत्र ॥
हंसहंसन्ति यो ब्रूयाद्धंसो नाम सदाशिवः ॥ ९ ॥
एवं जीवभावनिवर्तकलिङ्गं प्राणलिङ्गिनि आत्मविवेकं प्राप्तभेदः
कथमित्याकाङ्क्षायामनन्तरमन्तरात्मस्थलमित्युच्यते ॥ १० ॥
कठवल्ल्युपनिषदि ॥
अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ॥
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बभूव ॥ ११ ॥
किञ्च ब्रह्मोपनिषदि ॥
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ॥
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥ १२ ॥

पृ० ८८) तथैवोक्तं सूतसंहितायाम् ॥
चराचरात्मकमिदं यत्र विश्वं महेश्वरे ॥
अध्यात्मचिन्तया ग्राह्ये सूत्रे मणिगणा इव ॥ १३ ॥
ग्रन्थान्तरे ॥
वर्तमानोऽपि न पुमान्युज्यते वस्तुभिर्गुणैः ॥
शोकहर्षभयक्रोधलोभमोहस्पृहादिभिः ॥ १४ ॥
किञ्च शिवसूत्रे ॥
पुर्यष्टकसमायोगाद्विचरन् सर्वमूर्तिषु ॥
रङ्गोऽन्तरात्मा विज्ञेयो नृत्यतः परमात्मनः ॥ १५ ॥
एवमन्तरात्मस्वरूपापन्नलिङ्गं प्राणलिङ्गिनः
विवेकस्वरूपपरमात्मानमावृत्य स्थितभेदः
कथमित्याकाङ्क्षायामनन्तरं परमात्मस्थलमित्युच्यते ॥ १६ ॥
वृद्धजाबालोपनिषदि ॥
दहराकाशमध्यस्थसहस्रदलशोभिते ॥ स्फुरत्केसरसंश्लिष्टकर्णिके च
सरोरुहे ॥ सोमसूर्याग्निमण्डले निवातदीपोपस्थायी निःसङ्गः
सर्वकर्मसाक्षी परमात्माऽवतिष्ठते ॥ १७ ॥ किञ्च नारायणोपनिषदि ॥
दहरं विपापं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम् ॥

पृ० ८९) तत्रापि दहरं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम् ॥ १८ ॥
तथैवोक्तं ग्रन्थान्तरे ॥
सञ्ज्ञापितस्य वै नास्ति न रूपं न च कल्पना ॥
स सर्वभूतानुगतः परमात्मा सनातनः ॥ १९ ॥
अङ्गलग्नेऽपि वातादौ स्पर्शाद्यनुभवं विना ॥
जीवतश्चेतसो रूपं तद्रूपं परमात्मनः ॥ २० ॥
आत्मायं केवलः स्वस्थः शान्तः सूक्ष्मः सनातनः ॥
अस्ति सर्वान्तरे साक्षी चिन्मात्रस्तमसः परः ॥ २१ ॥
वातुले ॥
स पश्यति शरीरं तच्छरीरं तं न पश्यति ॥
तौ पश्यति परः कश्चित्तावुभौ तन्न पश्यतः ॥ २२ ॥
एवमात्मलिङ्गत्रैविध्यमेकीभूतलिङ्गं प्राणलिङ्गिनः
निर्देहस्वभावचारित्र्यं प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरं
निर्देहागमस्थलमित्युच्यते ॥ २३ ॥ छान्दोग्योपनिषदि ॥
एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजुगुप्सोऽपिपासुः सत्यकामः
सत्यसङ्कल्पः ॥ २४ ॥ तथा सिद्धान्तरहस्ये ॥
पृथिव्यां यानि भूतानि जिह्वोपस्थपराणि च ॥
जिह्वोपस्थपरित्यागी निर्देहः स महेश्वरः ॥ २५ ॥

पृ० ९०) तथा शैवपुराणे ॥
शिवपूजोपकरणं देहं यः कुरुते नरः ॥
सोऽचिरेणैव कालेन विदेहो जायते नरः ॥ २६ ॥
किञ्च स्कान्दे ॥
तत्फलं देहलाभस्य येन संसेव्य शङ्करम् ॥
न पुनर्देहसम्बन्धं देही यत्प्राप्नुयादिति ॥ २७ ॥
वासिष्ठे ॥
वासनारहितैरन्तरिन्द्रियैराहरन् क्रियाः ॥
न विक्रियामवाप्नोति भवक्षोभशतैरपि ॥ २८ ॥
एवं निर्देहचारित्रीभूतलिङ्गं प्राणलिङ्गिनि निर्भावचारित्रं
प्राप्तभेदः कथमित्यकाङ्क्षायामनन्तरं निर्भावागमस्थलमित्युच्यते
॥ २९ ॥ मैत्रेयोपनिषदि ॥
यथा निरिन्धनो वह्निः स्वयमेवोपशाम्यति ॥
तथा वृत्तिक्षयाद्भावः स्वयोनावुपशाम्यति ॥ ३० ॥
तथैवोक्तं वासिष्ठे ॥
यदा न भाव्यते भावः क्वचिज्जगति वस्तुनि ॥
तथा हृदम्बरे शून्ये कथं चित्तं प्रजायते ॥ ३१ ॥
तत्रैव ॥
न जायते न म्रियते किञ्चिदत्र जगत्त्रये ॥
न च भावविकाराणां सत्ता क्वच न विद्यते ॥ ३२ ॥
एवं निर्भावचारित्रापन्नलिङ्गं प्राणलिङ्गिनि विलीनतच्चरित्रं
सदागमविरहितत्वं प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरं
नष्टागमस्थलमित्युच्यते ॥ ३३ ॥

पृ० ९१) मैत्रेयोपनिषदि ॥
तावन्मनो निरोद्धव्यं हृदि यावत्क्षयं गतम् ॥
एतज्ज्ञानं च मोक्षं च शेषास्तु ग्रन्थविस्तराः ॥ ३४ ॥
तथैवोक्तं शिवरहस्ये ॥
पुनर्भवाधिकारश्च मुक्तस्येह न विद्यते ॥
यथा दग्धस्य बीजस्य प्ररोहो नात्र दृश्यते ॥ ३५ ॥
तथा योगजागमे ॥
अक्रियैव परा पूजा मौनमेव परो जपः ॥
अचिन्तैव परं ध्यानमनिच्छैव परं फलम् ॥ ३६ ॥
तत्रैव ॥ वृत्तम् ॥
योगश्च निद्रा क्रतवश्चरित्रं स्वेच्छासनं देवमहानिवेद्यम् ॥
लीलार्पणं देवपवित्रदानं जपः प्रलापः शयनं प्रणामः ॥ ३७ ॥
पुनस्तत्रैव ॥
कृतिः सेवा गतिर्यात्रा मतिश्चिन्ता वचः स्तुतिः ॥
अहो सर्वात्मना शम्भोः सुधियां सर्वथार्चनम् ॥ ३८ ॥
शिवरहस्ये ॥
या या चेष्टा समुत्पन्ना जायते शिवयोगिनाम् ॥
सा सा पूजनमीशस्य सर्वदा तद्गतात्मनाम् ॥ ३९ ॥
ग्रन्थान्तरे ॥
तुर्यके तु परावस्था तुर्यातीते तु निर्जना ॥
सा नष्टा यादृशादृश्यनष्टयोर्दृष्टिदृश्ययोः ॥ ४० ॥
किञ्च वातुले ॥
शब्दब्रह्मज्ञानं निःशब्दब्रह्मसत्क्रिया निष्ठा ॥

पृ० ९२) शब्दब्रह्म यदुक्तं निःशब्दब्रह्म तच्चरति तूष्णीम् ॥ ४१ ॥
एवं निरूपलिङ्गत्रैविध्यमेकीभूतलिङ्गं प्राणलिङ्गिनि
सुखप्रसादस्वरूप प्राप्तभेदः
कथमित्याकाङ्क्षायामनन्तरमादिप्रसादिस्थलमित्युच्यते ॥ ४२ ॥
परमहंसोपनिषदि ॥
सर्वेषामिन्द्रियाणां गतिमुपरमते य आत्मन्येव स्थीयते
यत्पूर्णानन्दैकबोधसद्ब्रह्माहमस्मीति कृतकृत्यो भवति ॥ ४३ ॥
कठवल्ल्युपनिषदि ॥ वृत्तम् ॥
अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः ॥
तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥ ४४ ॥
तथैवोक्तं शिवरहस्ये ॥
गुरुवाक्यामृतास्वादादपुनर्भवहेतुकात् ॥
य आनन्दमवाप्नोति स प्रसादीति कथ्यते ॥ ४५ ॥
शैवरत्नाकरे ॥
शिवभावप्रसङ्गेन प्रसादी सोऽभिधीयते ॥
यस्य प्रियेषु वीतस्य सर्वत्रोपरतं मनः ॥ ४६ ॥
ग्रन्थान्तरे ॥
यस्यातिविश्रुतार्थानामिन्द्रियाणां प्रभावतः ॥
शिवभावप्रसन्नः स्यात्स प्रसादीति गीयते ॥ ४७ ॥
किञ्च सिद्धान्तशेखरेऽपि ॥
परेण भावयोगेन प्रसीदति महेश्वरः ॥
तस्मादस्य शिवो भावः स प्रसादीति कथ्यते ॥ ४८ ॥

पृ० ९३) वातुले ॥
अस्यात्मनः क्रियाः सर्वा लिङ्गार्पिततया स्थिताः ॥
स्वस्मिन्नेव स्वयं याति विश्रान्तिं सुखलक्षणाम् ॥ ४९ ॥
एवमादिप्रसादस्वरूपापन्नलिङ्गं प्राणलिङ्गिनि प्राणप्रसादस्वरूपं
प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरमन्त्यप्रसादस्थलमित्युच्यते ॥
५० ॥ कैवल्योपनिषदि ॥
जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते
तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ ५१ ॥
तथैवोक्तं वातुले ॥
जाग्रत्स्वप्नसुषुप्त्यादिसर्वावस्थासु सर्वदा ॥
लिङ्गार्पितोपभोगेन निर्लेपोऽयं न संशयः ॥ ५२ ॥
शिवाद्वैते ॥
संविदेव परा तृप्तिर्भावपर्यन्तभासुरा ॥
तथैव तृप्तो यस्सोऽन्त्यप्रसादीति निगद्यते ॥ ५३ ॥
किञ्च वासिष्ठे ॥
चिन्मात्रत्वं प्रयातस्य तीर्णमृत्योः स्वचेतसः ॥
यो भवेत्परमानन्दः केनासावुपमीयते ॥ ५४ ॥
एवमन्त्यप्रसादस्वरूपापन्नलिङ्गं प्राणलिङ्गिनि तृप्तिं प्राप्तभेदः
कथमित्याकाङ्क्षायामनन्तरं सेव्यप्रसादिस्थलमित्युच्यते ॥ ५५॥
मैत्रेयोपनिषदि ॥
अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परञ्ज्योतिरूपमुपसम्पद्य
स्वेनरूपेणाभिनिष्पद्यते

पृ० ९४) एष आत्मेति होवाचैतदमृतमेतदभयमेतद्ब्रह्मेति ॥ ५६ ॥
शिवसूत्रे ॥
तृप्तिः सङ्कोचविलयः पूर्णभावात्परात्मनः ॥
तथैव तृप्तस्तृप्तः स्यान्न सुधास्वादनादिभिः ॥ ५७॥
शिवाद्वैते ॥
ज्ञानामृतेन तृप्तस्य किमन्यैर्भोज्यराशिभिः ॥
ज्ञानमेव परानन्दं प्रकाशयति शैवकम् ॥ ५८ ॥
किञ्च शिवधर्मोत्तरे ॥
ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ॥
नैवास्ति किञ्चित्कर्तव्यमस्ति चेन्न स तत्ववित् ॥ ५९ ॥
शैवरत्नाकरे ॥
ज्ञानामृतेन तृप्तस्य भक्त्या च विवशात्मनः ॥
अन्तर्न च बहिस्तुष्ट्या कृत्यमस्ति कदाचन ॥ ६० ॥
ज्ञानोत्तरेऽपि ॥
नान्तः शरीर एवायं बाह्य एव न संस्थितः॥
महानन्दप्रसादोऽयं सर्वत्रैवावभासते ॥ ६१ ॥
किञ्च वासिष्टे ॥
आनन्दलक्षणा तृप्तिर्निरुपाधितया स्थिता ॥
तदुत्थानन्दसान्द्रत्वं ज्ञानामृतमुदीरितम् ॥ ६२ ॥
तत्वसारे ॥
पिण्डे मुक्ताः पदे मुक्ता रूपे मुक्ताः षडानन ॥
रूपातीते तु ये मुक्तास्ते मुक्तास्तृप्तिमागताः ॥ ६३ ॥
एवं प्रसादलिङ्गत्रैविध्यमेकीभूतलिङ्गं प्राणलिङ्गिनः

पृ० ९५) मलत्रयनिर्हरणार्थं पादोदकस्वरूपं प्राप्तभेदः
कथमित्याकाङ्क्षायामनन्तरं दीक्षापादोदकस्थलमित्युच्यते ॥ ६४ ॥
ऐतरेयोपनिषदि ॥
अथाधिविद्याम् आचार्यः पूर्वरूपम् अन्तेवास्युत्तररूपं विद्यासन्धिः
प्रवचन ? सन्धानम् ॥ ६५ ॥ ऋग्वेदे ॥
आप्मानं तीर्थं किह प्रवोचद्येन पथा प्रपिबन्ते सुतस्य सहस्रधा
पञ्चदशान्युक्था यावत्द्यावापृथिवी तावदित्तत् सहस्रधा महिमानः
सहस्रं यावद्ब्रह्मा अधिष्ठितं तावति वाक् ॥ ६६ ॥ तथैवोक्तं
शिवरहस्ये ॥
अविभक्तसुधास्वादा निर्वृतिर्या परात्परा ॥
दुर्लभा देहिनां साक्षाद्दीक्षापादोदकं हि तत् ॥ ६७ ॥
योगशास्त्रे ॥
निरूढशिवसद्भावरसेन विमलेन यः ॥
परेण पावनीभूतः किं तस्यान्यत्क्रियादिकैः ॥ ६८ ॥
किञ्च शिवरहस्ये ॥
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः ॥
गुरुपादोदकं चित्रं संसारद्रुमनाशनम् ॥ ६९ ॥

पृ० ९६) एवं दीक्षापादोदकस्वरूपापन्नलिङ्गं शिक्षागुरुतत्वे
दृष्टपादोदकस्वरूपं प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरं
शिक्षापादोदकस्थलमित्युच्यते ॥ ७० ॥ तैत्तरीयोपनिषदि ॥
चरणं पवित्रं विततं पुराणं येन पूतस्तरति दुष्कृतानि तेन
पवित्रेण शुद्धेन पूता अतिपाप्मानमरातिं तरेम ॥ ७१ ॥ पारातश्रुतौ

लोकस्य द्वारमर्चिमत्पवित्रं ज्योतिष्मद्भ्राजमानं महास्वदमृतस्य धारा
बहुधा दोहमानं चरणं नोलोके सुधितां ददातु ॥ ७२ ॥ तथैवोक्तं
सिद्धान्तशेखरे ॥
अविद्यामूलनाशाय जन्मकर्मनिवृत्तये ॥
ज्ञानवैराग्यसिद्ध्यर्थं गुरुपादोदकं पिबेत् ॥ ७३ ॥
शिवसूत्रे ॥
प्रत्यक्स्रोतसि सततं प्रवृत्तनिजधाम्नि निर्मले गगने ॥
अवगाह्यानन्दमये स्नातो निःशेषमृष्टदृश्यमलः ॥ ७४ ॥
किञ्चस्वात्मयोगप्रदीपिकायाम् ॥ वृत्तम् ॥
तत्तद्धृषीकविषयाख्यतरङ्गसङ्घसङ्घट्टजं निजमनोमरुतोपनीतम्

यत्सौख्यबिन्दुमुपजीवति जीवलोकः सोऽनन्तसत्यसुखबोधसुधाब्धिरस्मि ॥
७५ ॥
एवं शिक्षापादोदकस्वरूपापन्नलिङ्गं त्रिपुटिरहितं
सन्महाज्ञानगुरुतत्त्व

पृ० ९७) परमानन्दस्वरूपं प्राप्तभेदः
कथमित्याकाङ्क्षायामनन्तरं ज्ञानपादोदकस्थलमित्युच्यते ॥ ७६ ॥
छान्दोग्योपनिषदि ॥
पञ्चेन्द्रियस्य पुरुषस्य यदेव स्यादनावृतम् ॥
तदस्य स्रवते प्रज्ञा गुरोः पादादिवोदकम् ॥ ७७ ॥
परमहंसोपनिषदि ॥
तेन
नित्यान्निवृत्तस्तन्नित्यबोधस्तत्स्वयमेवावस्थितिस्तच्छान्तमचलमद्वयानन्दव्
इज्ञानधन एवास्मि तदेव मम परम धाम ॥ ७८ ॥

इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोण्टदार्यविरचिते
परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्य-
कैवल्यसारे लिङ्गस्थलनिरूपणे जङ्गमलिङ्गस्थलं नाम चतुर्थं
प्रकरणं समाप्तम् ॥