०३

पृ० ७८) तृतीयं प्रकरणम् ।
श्रीशिवाय नमः॥ एवमाचारलिङ्गत्रैविध्यमेकीभूतलिङ्गं
लिङ्गप्रसादिनः शरीरे अवगृहीतभेदः कथमित्याकाङ्क्षायामनन्तरं
कायानुग्रहस्थलमित्युच्यते ॥ १ ॥
अथ भक्तदेहिकलिङ्गस्थलविशिष्टमाहेश्वरस्याचारलिङ्गत्रैविध्यस्थल
एव सम्यग्विचार्यमाणे सावधानतया तदेव गुरुलिङ्गं भवति ॥ तदेव
सदाचारसम्पत्त्या शिवलिङ्गं भवति ॥ तस्मिन्नेव शिवलिङ्गे
सर्वार्पितभोगित्वमेव प्रसादित्वं तथा सति तत्रानुग्रहलिङ्गत्रैविध्ये
अविरलो भूत्वा गुरुमहत्वादिशरणमहत्वान्तमाक्रम्यार्पितलिङ्गत्रैविध्ये
तदात्मकः सन् प्रसादमहत्वमेव स्वयं भूत्वा तनुकरणलिङ्गत्रैविध्ये
निजस्वरूपमवलोक्य शिवलिङ्गसावधानित्वेनैव प्रसादित्वसिद्धिः ॥ २ ॥
कैवल्योपनिषदि ॥ वृत्तम् ॥
विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरीरः ॥
अत्याश्रमस्थः सकलेन्द्रियाणि निरुद्ध्य भक्त्त्या स्वगुरुं प्रणम्य ॥ ३ ॥
तथा वासिष्ठे ॥
भृङ्गभावनया यद्वत्कीटः स इव जायते ॥
शिवभावाभियोगेन तद्वदेव भवेत्पुमान् ॥ ४ ॥
योगदीपिकायां च ॥

पृ० ७९) यथा संस्कारसम्पत्त्या ब्राह्मणो द्विजतामियात् ॥
तथोपदेशसम्पत्त्या स्यात्पुमानप्यलौकिकः ॥ ५ ॥
तथा शिवरहस्ये ॥
सर्पदष्टस्य यद्देहं तद्देहं विषदेहवत् ॥
लिङ्गदष्टस्य यद्देहं तद्देहं लिङ्गदेहवत् ॥ ६ ॥
तत्रैव ॥
तैलयुक्तं च कार्पासं ज्योतिःस्पर्शेन ज्योतिवत् स्नेहयुक्तश्च सद्भक्तो
लिङ्गस्पर्शेन लिङ्गवत् ॥ ७ ॥
एवं प्रसादिशरीरावगृहीतलिङ्गं तस्य
सर्वेन्द्रियमुखसम्बन्धीभूतभेदः
कथमित्याकाङ्क्षायामनन्तरमिन्द्रियानुग्रहस्थलमित्युच्यते ॥ ८ ॥
श्वेताश्वतरोपनिषदि ॥
त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा सन्निवेश्य ॥
ब्रह्मोडुपेन प्रतरेत विद्वान् स्रोतांसि सर्वाणि भयावहानि ॥ ९ ॥
शिवाद्वैते ॥
बहिर्मुखानीन्द्रियाणि जनयन्ति भवोदयम् ॥
अन्तर्मुखानि तान्येव संसारक्षयहेतवः॥ १० ॥
स्कान्दे ॥
मनोबुद्धिरहङ्कार इन्द्रियाणि गुणत्रयम् ॥
न स्पृशन्ति महात्मानं विकारास्तस्य नैव हि ॥ ११ ॥
भगवद्गीतायाम् ॥
रागद्वेषविहीनैस्तु विषयानिन्द्रियैश्चरन् ॥

पृ० ८०) आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ १२ ॥
एवं सर्वेन्द्रियसम्बन्धलिङ्गेन प्रसादिनः प्राणस्थलालिङ्गितभेदः
[प्राणलिङ्गस्थलभेदः] कथमित्याकाङ्क्षायामनन्तरं
प्राणानुग्रहस्थलमित्युच्यते ॥ १३ ॥ कौशीतकब्राह्मणोपनिषदि ॥
यो वै प्राणः सा प्रज्ञा या प्रज्ञा स प्राणः सहैतावस्मिञ्च्छरीरे
वसतः सहोत्क्रामतः ॥ १४ ॥ तथा चन्द्रावलोकने ॥
यत्र दृष्टे मनःस्थैर्यं यत्र चैव हि मारुतः ॥
लीनः क्वापि भवेदेवं तस्यायं स्यादनुग्रहः ॥ १५ ॥
किञ्च स्कान्दे ॥
यथा लोहः सुवर्णत्वं प्राप्नोत्यौषधयोगतः ॥
आत्मध्यानात्तथा प्राणः परमात्मत्वमाप्नुयात् ॥ १६ ॥
एवमनुग्रहलिङ्गत्रैविध्यमेकीभूतलिङ्गं लिङ्गप्रसादिनः
शरीरार्पितमुखलिङ्गभूतभेदः कथमित्याकाङ्क्षायामनन्तरं
कायार्पितस्थलमित्युच्यते ॥ १७ ॥ प्रश्नोपनिषदि ॥
अथ यथैतस्मिञ्च्छरीरे सुखं भवति स यथा सौम्य वयांसि
वासवृक्षं सम्प्रतिष्ठन्त एवं ह वै तत्सर्वं परे आत्मनि
सम्प्रतिष्ठते ॥ १८ ॥ तथैवोक्तं शिवरहस्ये ॥
यदा योगी निजं देहं शिवाय विनिवेदयेत् ॥
तदा भवति तद्रूपं शिवरूपं न संशयः ॥ १९ ॥

पृ० ८१) किञ्च बृहत्कालोत्तरे ॥
संयोगेषु वियोगेषु चाणुमात्रसुखानि च ॥
यः कुर्यादिष्टलिङ्गे च सावधानी निरन्तरम् ॥ २० ॥
तथा योगजागमे ॥
यदा शिवाय स्वात्मानं दत्तवान् देशिकात्मने ॥
तदा शैवो भवेद्देवि न ततोऽस्ति पुनर्भवः ॥ २१ ॥
किञ्च शिवयोगदीपिकायाम् ॥
चक्षुःप्रीतिविधायीनि प्रेक्षणीयानि यानि च ॥
तानि देहेन सम्पाद्य शिवाय प्रेक्षयेत्सदा ॥ २२ ॥
एवं शरीरे अर्पितमुखापन्नलिङ्गं प्रसादिनः अन्तःकरणे अर्पितमुखं
प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरं करणार्पितस्थलमित्युच्यते
॥ २३ ॥ कठवल्ल्युपनिषदि ॥
यस्तु विज्ञानवान्भवति युक्तेन मनसा सह ॥
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ २४ ॥
तत्रैव ॥
आत्मानं रथिनं विद्धि शरीरं रथमेवच ॥
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ २५ ॥
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ॥
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ २६ ॥
तथैवोक्तं शिवरहस्ये ॥

पृ० ८२) तदन्तःकरणं येन क्रियतेऽन्तः शिवेऽखिलम् ॥
यस्यार्पितेऽन्तःकरणः स प्रोक्तः करणार्पकः ॥ २७ ॥
शैवरत्नाकरे ॥
यदिन्द्रियगतं किञ्चिद्यत्सुखं तच्छिवार्पितम् ॥
तत्प्रसादं च भोक्तव्यं तदिन्द्रियमुखेन च ॥ २८ ॥
वासिष्ठे ॥
एवं विरक्तः स्वेनैव मनसा तत्समर्पयेत् ॥
दर्शनस्पर्शनघ्राणभोजनश्रवणादिकम् ॥ २९ ॥
एवमन्तःकरणे समर्पितसुखं प्राप्तलिङ्गं प्रसादिनः सर्वाङ्गेषु
स्वयमेव सर्वार्पित प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरं
भावार्पितस्थलमित्युच्यते ॥ ३० ॥ मैत्रेयोपनिषदि ।
लयविक्षेपरहितं मनः कृत्वा सुनिश्चलम् ॥
यदात्मन्युन्मनीभावं [यदा यात्युन्मनीभावं] तदा तत्परमं पदम् ॥
३१ ॥
तथा शिवरहस्ये ॥
यत्र भावस्य भाव्यं स्याच्छिवाय परमात्मने ॥
समर्प्यतेऽग्र्यमादौ यत्तद्भावार्पितमिष्यते ॥ ३२ ॥
तत्रैव ॥
चित्तस्थितपदार्थौघमननं यस्य मानसम् ॥
अर्प्यते तन्मनोभावः स स्याद्भावार्पकः शिव ॥ ३३ ॥
किञ्च ॥ रुद्रयामले ॥
ईश्वरार्पितभावत्वात्प्रियसंसर्गसम्भवैः ॥
विकारैरनतिस्पृष्टो भावयुक्तो भवेद्बुधः ॥ ३४ ॥

पृ० ८३) तथा वासिष्ठे ।
संसर्गं प्रियवर्गस्य शिवस्यैवेति भावयन् ॥
अहङ्कारप्रहाणेन भावशुद्धिं च विन्दति ॥ ३५ ॥
किञ्च विमर्शनसाहस्र्याम् ॥
सर्वेषामर्पको भावस्तं भावं परमे शिवे ॥
समर्पितवतः सम्यक्किमन्यदवशिष्यते ॥ ३६ ॥
वातुले ॥
सर्वाङ्गं लिङ्गमेव स्यादन्नपानाद्यमर्पितम् ॥
प्रसादस्तृप्तिरेव स्यात्सर्वं लिङ्गमयो भवेत्॥ ३७ ॥
तत्रैव भोक्ता भोग्यं भोजयिता सर्वमेतच्चराचरम् ॥
भावयन् शिवरूपेण शिवो भवति वस्तुतः ॥ ३८ ॥
एवमर्पितलिङ्गत्रैविध्यस्थलमेकीभूतलिङ्गं प्रसादिनि उपदेशमुखेन
शिष्यभावं प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरं
शिष्यस्थलमित्युच्यते ॥ ३९ ॥ मुण्डकोपनिषदि ॥
सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्तास्ते
सर्वगं सर्वतः प्राप्य धीराः युक्तात्मानः सर्वमेवाविशन्ति ॥ ४० ॥
तथा वातुले ॥
आकृष्टास्ताडिता वापि ये विषादं न यान्ति हि ॥

पृ० ८४) ते योग्याः संयताः शिष्याः शिवसंस्कारकर्मणि ॥ ४१ ॥
शिवाद्वैते ।
प्रह्वीभावं समासाद्य मनोवाक्कायकर्मभिः ॥
गुरुभक्तिः सदा यस्य स शिष्य इति कथ्यते ॥ ४२ ॥
तत्रैव ॥
ऋजवो मृदवः शुद्धा विनीताः स्थिरचेतसः ॥
शौचाचारसमोपेताः शिष्यास्त्वत्र प्रकीर्तिताः ॥ ४३ ॥
शम्भुप्रभायाम् ॥
प्रशान्तं गुरुमभ्येत्य शिवज्ञानामृताम्बुधिम् ॥
भजते सततं यस्तु स शिष्य इति कथ्यते ॥ ४४ ॥
एवं शिष्यभावापन्नलिङ्गं प्रसादिनः अङ्गे शुश्रूषाभावं
प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरं शुश्रूषास्थलमित्युच्यते ॥
४५ ॥ प्रश्नोपनिषदि ॥
स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥ ४६ ॥
किञ्च केनोपनिषदि ॥
यावदुपाधिपर्यन्तं गुरुं शुश्रूषयेत् ॥ ४७ ॥ किञ्च पारातश्रुतौ ॥
तस्माच्छुश्रूषुः पुत्राणा? हृद्यतमः नेदिष्ठो नेदिष्ठो ब्रह्मणो
भवति ॥ ४८ ॥ तथैवोक्तं सिद्धान्तशेखरे ॥
गुरुशुश्रूषणं कार्यं गुरोर्वाक्यानुवर्तनम् ॥
सदा गुरुपरो नित्यं गुरोराज्ञां न लङ्घयेत् ॥ ४९ ॥
किञ्च सूतसंहितायाम् ॥
परमाद्वैतविज्ञाननिष्ठस्य परयोगिनः ॥
शुश्रूषा शुद्धविद्यायाः साधनं न हि संशयः ॥ ५० ॥

पृ० ८५) मानवपुराणे ॥
शिवे क्रुद्धे गुरुस्त्राता गुरौ क्रुद्धे न कश्चन ॥
तस्मादिष्टं गुरोः कार्यं कायेन मनसा गिरा ॥ ५१ ॥
यजुर्वेदे ॥
आचार्याय प्रियं धनमाहृत्य (प्रक्षेपकः) एवं
शुश्रूषाभावापन्नलिङ्गं प्रसादिनः शरीरे
इतरेतराध्यासरहितगुरुशिष्यसामरस्यं प्राप्तभेदः
कथमित्याकाङ्क्षायामनन्तरं सेव्यस्थलमित्युच्यते ॥ ५२ ॥
मुण्डकोपनिषदि ॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ॥
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ५३ ॥
तथैवोक्तं वातुले ॥
तस्मिन्दृष्टे परे लिङ्गे निष्कले निरुपाधिके ॥
अस्य जीवस्य कर्माणि क्षीयन्ते सकलानि वै ॥ ५४ ॥
अविद्याहृदयग्रन्थिर्भिद्यते शतधाऽपि च ॥
संशया बहुसङ्कल्पाश्छिद्यन्ते च सहस्रधा ॥ ५५ ॥
ग्रन्थान्तरे ॥
उपायैर्न शिवो भाति भान्ति ते तत्प्रसादतः ॥
स एवाहं स्वप्रकाशो भाति विश्वप्रकाशकः ॥ ५६ ॥

इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोण्टदार्यविरचिते
परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्य-
कैवल्यसारे लिङ्गस्थलनिरूपणे शिवलिङ्गस्थलं नाम तृतीयं प्रकरणं
समाप्तम् ॥