पृ० ६९) द्वितीयं प्रकरणम् ।
श्रीशिवाय नमः ॥
एवं जङ्गमलिङ्गस्थलत्रितयैकीभूतलिङ्गं वीरमाहेश्वरस्य
सत्क्रियायामागमस्वरूपं प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरं
क्रियागमस्थलमित्युच्यते ॥ १ ॥
अथ परजङ्गमस्थलशिरोमणित्वेन परिपूर्णाचारलिङ्गस्वरूपं
तदवान्तरभेदांश्च सम्यगुपदिश्य तदनन्तरं
परजङ्गमैकशरणत्वेन कृतकृत्यस्य माहेश्वरस्य
शरणभूतपरजङ्गममेव गुरुस्तस्यैव नवविधस्थलत्वेन चोपास्यत्वं
प्रतिपादयितुं तदधिकारिणो माहेश्वरस्यागमलिङ्गत्रैविध्येन
व्रतशीलाचारनिष्ठरूपादिकं
माहेश्वरस्थलप्रतिपादिताचारनिष्ठत्वेनैव लिङ्गनिष्ठान्वितत्वं
कायलिङ्गत्रैविध्यावग्रहणं पूर्वाश्रयाद्यष्टमूर्त्यन्तनिरासकत्वं
चाचारलिङ्गत्रैविध्येन सर्वगतनिरासकत्वं च शिवजगन्मयत्वं च
प्रतिष्ठाप्य तस्मिन् लिङ्गे भक्तदेहिकलिङ्गमिति निश्चयमधिगत्य
नवविधगुरुलिङ्गविचारः कर्तव्यः ॥ २ ॥ मुण्डकोपनिषदि ॥
तदेतत्सत्यमन्त्रेषु कर्माणि कवयो यान्यपश्यन् तानि त्रेतायां बहुधा
सन्ततानि तान्याचरत नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके
॥ ३ ॥ तथा सिद्धान्तशिखामणौ ॥
पृ० ७०) प्रकाशते यथा नाग्निररण्यामिन्धनं विना ॥
क्रियां विना तथान्तस्थो न प्रकाशी भवेच्छिवः ॥ ४ ॥
ऋग्वेदे ॥
अयं मे हस्तो भगवानयं मे भगवत्तरः अयं मे विश्वभेषजः अयं
शिवाभिमर्शनः अयं माता अयं पिता अयं जीवातुरगमत् इदं तव
प्रसर्पणं सुबन्धवेहि निरहि ॥ ५ ॥ तथैवोक्तं वातुले ॥
धारयेद्यस्तु हस्तेन लिङ्गाकार शिवं सदा ॥
तस्य हस्तस्थितं विद्धि मत्पदं सम्पदां पदम् ॥ ६ ॥
यजुर्वैदे ॥
तव श्रियै मरुतो मर्दयन्तः रुद्र यत्ते जनिम चारुचित्रं पदं
यद्विष्णोः परमं निधाये ॥ ७ ॥
तथा तात्पर्यसङ्ग्रहे ॥ वृत्तम् ॥
अर्थश्रिया शिवकरोऽपि विरज्यतस्ते श्रीशो यया त्वमसि दासतयाभियुक्तः
॥
अस्याः कृते जनिम चारुविचित्ररूपमभ्यर्चितं तव मरुद्भिरुदाहरन्ति ॥ ८
॥
ऋग्वेदे ॥
त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ॥
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ ९ ॥
तथा लैङ्ग्ये ॥
त्रियम्बकं यजेद्देवं सुगन्धिं पुष्टिवर्धनम् ॥
किं करिष्यति मां मृत्युर्मृत्योर्मृत्युरहं तथा ॥ १० ॥
पृ० ७१) एवं क्रियागमस्वरूपापन्नलिङ्गं माहेश्वरस्य
भावागमस्वरूपं प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरं
भावागमस्थलमित्युच्यते ॥ ११ ॥ बृहदारण्यकोपनिषदि ॥
यं यदा यथोपासते तदेव भवति यद्भावं तद्भवति यथाकारी
यथाचारी तथा भवति ॥ १२ ॥ तथा योगार्णवे ॥
ज्योतिरूपं शिवं पूर्णं विश्वतेजोऽतिवर्तिनम् ॥
आशयं भासयन्तं च भावयन् तन्मयो भवेत् ॥ १३ ॥
कामिकागमेऽपि ॥
अनिर्देश्यमनौपम्यं विधिविष्णुप्रमोहजित् ॥ महोदारं महालिङ्गं
भावयेदनिशं बुधः ॥ १४ ॥
एवं निष्ठासम्पन्नमेव भूत्वा भावसद्भावसन्निहितलिङ्गं
माहेश्वरस्य ज्ञानागमस्वरूपं प्राप्तभेदः
कथमित्याकाङ्क्षायामनन्तरं ज्ञानागमस्थलमित्युच्यते ॥ १५ ॥
कैवल्योपनिषदि ॥
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ॥
ज्ञाननिर्मथनाभ्यासात्पाशं दहति पण्डितः ॥ १६ ॥
तथा चाग्नेयपुराणे ॥
शास्त्रसज्जनसत्कार्यैः सम्यक् संशिक्षितैर्मुहुः ॥
ज्ञानस्याभिगमः शश्वद्विज्ञेयो ज्ञानवर्त्मगैः ॥ १७ ॥
सूतसंहितायां च ॥
विकल्परहितं तत्वं ज्ञानमानन्दमद्वयम् ॥
ये पश्यन्ति विमुक्तास्ते जीवन्तोऽपि न संशयः॥ १८ ॥
पृ० ७२) किञ्च ॥ सिद्धान्तरहस्ये ॥
न शास्त्रोक्तैश्च नियमैर्नियम्य क्वापि कर्हिचित् ॥
ज्ञानेनाराधनं शम्भोरिदमव्याकुलात्मनाम् ॥ १९ ॥
शिवधर्मेऽपि ॥
ज्योतिःस्मरणमात्रेण न क्षिणोति यथा तमः ॥
तथा सुज्ञानरहितैः क्रियाद्यैर्न शिवो भवेत् ॥ २० ॥
एवमागमलिङ्गत्रैविध्यमेकीभूतलिङ्गं माहेश्वरस्य सर्वाङ्गमथनेन
लिङ्गकायसम्बन्धस्वरूपं प्राप्तभेदः
कथमित्याकाङ्क्षायामनन्तरं सकायस्थलमित्युच्यते ॥ २१ ॥
बृहदारण्यकोपनिषदि ॥
आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ॥
किमिच्छन्कस्य कामाय शरीरमिह सञ्ज्वरेत् ॥ २२ ॥
किञ्च ॥ छान्दोग्योपनिषदि ॥
शरीरं भिक्षया वसनेनालङ्कारेण संस्कुर्वन्नेतेन ह्यमुं लोकं
जेष्यन्तो मन्यन्ते ॥ २३ ॥
तथैवोक्तं त्रिकाण्डसारे ॥
नोचेत्स्थूलादिभिः कार्यैस्तद्धर्मैरपि यन्त्रितः ॥
भक्तिं व्यवहरंस्तन्द्ज्ञस्स सकाय इतीर्यते ॥ २४ ॥
किञ्च ॥ शम्भुप्रभायाम् ॥
धार्यते येन कायेन लिङ्गाकारः शिवः सदा ॥
स एव कायस्तेनैव कायवान् परिकीर्त्यते ॥ २५ ॥
पृ० ७३) तथा देविकालोत्तरे ॥
सर्वद्वन्द्वविनिर्मुक्तः सततं जनवर्जितः ॥
अनेनैव शरीरेण सर्वज्ञः सन् प्रकाशते ॥ २६ ॥
वातुलेऽपि ॥
एवं लिङ्गशरीरं स्यात्परनिर्वाणलक्षणम् ॥
तद्भावभावितं साक्षात्तच्चरित्रं पवित्रकम् ॥ २७ ॥
एवं माहेश्वरस्य लिङ्गकायमथनेन निर्देहभावः
कथमित्याकाङ्क्षायामनन्तरमकायस्थलमित्युच्यते ॥ २८ ॥
छान्दोग्योपनिषदि ॥
अस्य शरीरं वा वसन्तं सखिप्रियाप्रियं स्पृशतोऽशरीरं
वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि
तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरूपं सम्पाद्य स्वेन
रूपेणाभिनिष्पद्यते ॥ २९ ॥ किञ्च कैवल्योपनिषदि ॥
वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥
न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धयोऽपि ॥ ३० ॥
तथैवोक्तं स्कान्दे ॥
अत्यन्तदृढया भक्त्त्या शिवतत्वैकभावया ॥
गतदेहादिसंसक्तिरकाय इति गीयते ॥ ३१ ॥
किञ्च शैवरत्नाकरे ॥
तदिष्टलिङ्गं याद्धाम चिद्रूपस्य परात्मनः ॥
लीनोऽत्र लिङ्गे यत्कायो निर्देहः स महान् भवेत् ॥ ३२ ॥
एवमकायस्वरूपापन्नलिङ्गस्य
पृ० ७४) सकलनिष्कलातीतकायभेदः कथमित्याकाङ्क्षायामनन्तर
परकायस्थलमित्युच्यते ॥ ३३ ॥
मुण्डकोपनिषदि ॥
त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ॥
तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ ३४ ॥
तथैवोक्तं वातुले ॥
त्रिषु धामसु यद्भोग्यं भोक्ता यश्च प्रकीर्तितः ॥
उभयं प्रति यो वेद स भुञ्जानो न लिप्यते ॥ ३५ ॥
तथा स्वायम्भुवसूत्रे ॥
शिवधामार्पितस्यास्य भोगभोक्तुर्न जातुचित् ॥
भोक्तृत्वमधिकारित्वं प्रतिकृत्यानुकारिता ॥ ३६ ॥
किञ्चादित्यपुराणे ॥
स्वेच्छाविग्रहिणः सर्वे स्वेच्छाचारा गणेश्वराः ॥
शिवेन सह ते भोगान् भुक्त्त्वा यान्ति शिवं पदम् ॥ ३७ ॥
शैवरत्नाकरे ॥
चिदग्निप्लुष्टसंसारबीजाङ्कुरकलेवरः ॥
चिल्लिङ्गालम्बनं यश्च पराख्याङ्गी सचेरितः ॥ ३८ ॥
एवं कायलिङ्गत्रैविध्यमेकीभूतलिङ्गं माहेश्वरस्य
सद्धर्मचरित्रार्थमेकीभूतभेदः कथमित्याकाङ्क्षायामनन्तरं
धर्माचारस्थलमित्युच्यते ॥ ३९ ॥
तैत्तरीयोपनिषदि ॥
धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठं प्रजा उपसर्पन्ति
धर्मेण पापमपनुदति धर्मे
पृ० ७५) सर्वं प्रतिष्ठितं तस्माद्धर्मं परमं वदन्ति ॥ ४० ॥
वातुले ॥
आचारस्यापरित्यागः सुगृहीतस्य भक्तितः ॥
अपि प्राणात्ययेनायं स धर्माचार उच्यते ॥ ४१ ॥
किञ्चादित्यपुराणे ॥
धर्मो बहुविधः प्रोक्तो मुनिभिस्तत्वदर्शिभिः ॥
तत्राक्षयः परो धर्मः शिवधर्मः सनातनः ॥ ४२ ॥
शैवपुराणेऽपि ॥
उपासीत शिवं शश्वद्धर्मेण विमलेन च ॥
शैवं पदमवाप्नोति परमानन्दमव्ययम् ॥ ४३ ॥
देविकालोत्तरे ॥
क्रिमिकीटपतङ्गांश्च तथा देवि वनस्पतीन् ॥
न नाशयेद्बुधो जीवान् परमार्थमतिर्यतः ॥ ४४ ॥
तथैव ॥
न मूलोत्पाटनं कुर्यात्पत्रच्छेदं विवर्जयेत् ॥
भूतपीडां न कुर्वीत पुष्पाणां च निकृन्तनम् ॥
स्वयं पतितपुष्पैस्तु कर्तव्यं शिवपूजनम् ॥ ४५ ॥
एवं धर्माचारस्वरूपापन्नलिङ्गं माहेश्वरस्य मनःस्थले
स्थिरीभूतसद्भावचारित्रं कथमित्याकाङ्क्षायामनन्तरं
भावाचारस्थलमित्युच्यते ॥ ४६ ॥
श्वेताश्वतरोपनिषदि ॥ वृत्तम् ॥
आरभ्यकर्माणि गुणान्वितानि भावांश्च सर्वान्विनियोजयेद्यः ॥
तेषामभावे कृतकर्मनाशः कर्मक्षये याति स तत्वतोऽन्यः ॥ ४७ ॥
तथा स्कान्दे ॥
क्रियावतामपि सदा कुर्वतामपि सत्क्रियाम् ॥
पृ० ७६) विगुणाः स्युः क्रियाः सर्वा विना निश्चलभावनाम् ॥ ४८ ॥
लैङ्ग्येऽपि ॥
भावशुद्धिस्तु शुद्धिः स्यात्तदाचारानशेषतः ॥
विशुद्धेनैव भावेन भावयेदनिशं बुधः ॥ ४९ ॥
वातुले ॥
क्रियाद्वैतं न कर्तव्यं भावाद्वैतं समाचरेत् ॥
क्रिया निर्वहते या तु भावशुद्धिस्तु शाङ्करि ॥ ५० ॥
निश्वासकारिकायाम् ॥
गोदोहमिषुपातं वा नयनोन्मीलमात्रकम् ॥
सकृत्परपदे युक्तो न पुनर्भवमाप्नुयात् ॥ ५१ ॥
एवं मनोमध्ये सद्भावचारित्रसम्बन्धिभूतलिङ्गं माहेश्वरस्य
महाज्ञानचारित्रापन्नभेदः कथमित्याकाङ्क्षायामनन्तरं
ज्ञानाचारस्थलमित्युच्यते ॥ ५२ ॥ छान्दोग्योपनिषदि ॥
आत्मसत्यात्मसाक्षी च सत्ताधर्मः प्रतापवान् ॥
न स पापानि कुरुते यस्यात्मा भवति प्रियः ॥ ५३ ॥
तत्रैव ॥
सर्वभूतात्मभूतेभ्यः सम्यग्भूतानि पश्यतः॥
देवा हि मार्गे मुह्यन्ति पदज्ञानात्पदैषिणः ॥ ५४ ॥
तथैवोक्तं कामिकागमे ॥
ज्ञानातीतं परं तत्वं केवलं सर्वतोमुखम् ॥
पृ० ७७) केवलात्मस्वरूपं तु ज्ञानरूपेण भावयेत् ॥ ५५ ॥
किञ्च वासिष्ठे ॥
एवं तत्वे परे शुद्धे धीरो विश्रान्तिमाश्रितः ॥
तदेवास्वादयत्यन्तर्बहिर्व्यवहरन्नपि ॥ ५६ ॥
किञ्च सर्वज्ञानोत्तरे ॥
द्रव्याणां समदर्शी च स मुक्तः सर्वबन्धनैः ॥
सर्वं शिवमयं भाति नाशिवं विद्यते क्वचित् ॥ ५७ ॥
तथा देविकालोत्तरे ॥
पञ्चभूतात्मको देहः शिवस्तत्रैव तिष्ठति ॥
शिवाद्यवनिपर्यन्तो लोकोऽयं शङ्करात्मकः ॥ ५८ ॥
इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोण्टदार्यविरचिते
परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्य-
कैवल्यसारे लिङ्गस्थलनिरूपणे गुरुलिङ्गस्थलं नाम द्वितीयं प्रकरणं
समाप्तम् ॥