०१

पृ० ५६) उत्तरार्धे प्रथमं प्रकरणम् ।
श्रीशिवाय नमः ॥ एवं
चतुश्चत्वारिंशदङ्गस्थलविशिष्टषट्स्थलाङ्गशरणस्य मनःस्थले
स्थैर्यङ्गतलिङ्गस्थलविचारः कथमित्याकाङ्क्षायामनन्तरं
दीक्षागुरुस्थलमित्युच्यते ॥ तत्रापि प्रथमादिष्टभक्तस्थलान्तर्गत
गुरुकारुण्याश्रितभक्तस्याचारलिङ्गं पुनस्तस्यैव
गुरुलिङ्गजङ्गमरूपेण त्रैविध्यं प्रथममङ्गस्थल एव प्रतिपाद्य
तद्भेदोपदेशार्थं लिङ्गषट्स्थलमुपन्यस्यति ॥
भक्तोपास्यमानाचारलिङ्गमेव गुरुलिङ्गजङ्गमरूपेण त्रिविधं भवति
पुनस्तदेव प्रत्येकं प्रत्येकं त्रिविधं त्रिविधं भवति ॥ १ ॥
तथाच ॥ भक्त एव गुरुत्रयमपि
त्यागाङ्गभोगाङ्गयोगाङ्गस्वरूपत्वेनानुसन्धाय त्रिविधगुरुकारुण्यात्
त्रिविधाङ्गे त्रिविधलिङ्गं च सम्बध्य क्रमेण
तथाविधलिङ्गचैतन्यरूपं स्वयचरपररूपजङ्गममेवेति निश्चित्य
तज्जङ्गममेव प्राणस्तदेव मन्त्रं तन्मन्त्रोच्चारणपरश्च भक्तः
त्रिविधजङ्गमस्य दासोऽहम्भावेन स्थातव्यः ॥ २ ॥
ननु पूर्वम् इमे लिङ्गमङ्गमित्यत्र कुण्डलिन्याद्युपाधिरहितस्य
परमशिवस्य लिङ्गत्वमुक्त्वा अविद्याद्युपाधिरहितस्यात्मन एव अङ्गत्वं

पृ० ५७) प्रतिपादितमिदानीं तु शिवयोगीश्वरस्याङ्गित्वमभिप्रेत्य
तदीयेषु क्रियादिदीक्षात्रयशुद्धेषु अङ्गत्रयेषु लिङ्गत्रयं
द्योततित्युक्तत्वात् एकस्यैवात्मनस्तत्राङ्गत्वकथनमत्राङ्गित्वकथनं च
विरुध्यते ॥ ३ ॥
किञ्च अङ्गशब्दस्य देहवाचकत्वं वा जीववाचकत्वं
वाऽप्राधान्यवाचकत्वं वा न प्रथमः विभुत्वादात्मनः
कार्यात्मकजडवस्तुवत्सांशत्वं न घटते न द्वितीयः “अमिति
ब्रह्मसन्मात्रं गच्छतीति गमुच्यत” इति वचनाद्देहाद्देहान्तरं प्रति
संसरतोऽहङ्कारादितत्वयुक्तस्य जीवस्य सकलतत्वातीतेन लिङ्गेन सह
सम्बन्धा योगात् न तृतीयः ॥ सम्बन्धरूपां क्रियां प्रति
सम्बन्धिनोरुभयोरपि मुख्यत्वादङ्गत्रयसम्बन्धत्वेन आत्मन
अङ्गित्वादेकस्यैव लिङ्गस्य सम्बन्धायोगात् ॥ लिङ्गाङ्गसम्बन्ध एव न
घटत इति चेत् लोके कान्ताकान्तसामुद्रनादेयजलादिसम्बन्धित्वे
समानेऽप्येकस्य मुख्यत्वमन्यस्यामुख्यत्वं यथा तथैव
लिङ्गाङ्गसम्बन्धे सम्बन्धं प्रति
सृष्ट्यादिद्वारेणानादिप्रवृत्तत्वाल्लिङ्गस्य मुख्यत्वम् ॥
दीक्षानन्तरप्रवृत्तत्वेनामुख्यत्वान्मुमुक्षुरङ्गत्वात्तस्याप्यङ्गरूपस्य
मुमुक्षोर्लिङ्गात्मकेन परशिवेन सह सम्बन्धोऽप्यङ्गत्रयदीक्षात्रय

पृ० ५८) लिङ्गत्रयोपाधिना भवतीति त्रिप्रकारः॥ ४ ॥
तत्र जातिकुलाद्यभिमानाश्रयस्थूलशरीरोपाहितस्याङ्गसञ्ज्ञकस्यात्मन
एव इष्टलिङ्गेन सह सम्बन्धः ॥
त्रिंशत्तत्वात्मकसूक्ष्मशरीरव्याप्तात्मनः प्राणलिङ्गेन सह
सम्बन्धः शुद्धाशुद्धभोगसाधनशुद्धाशुद्धमायाविभेदनेन
तनुकरणाद्यङ्कुरोत्पादनकारणस्य
ज्ञानक्रियारूपस्यात्मनोऽज्ञताव्यापादनकारणस्य
स्वयमकारणकोऽप्यनादिनिबिडकारणस्याञ्जनस्योपरितया
वर्तमानस्यात्मनश्च निर्विकारनिजचैतन्यरूपेण महालिङ्गेन
सहानवच्छिन्नात्मकः परमसम्बन्धः इति
त्रिविधसम्बन्धोऽस्याङ्गित्वस्यौपचारिकत्वादङ्गसञ्ज्ञकस्यात्मनः
लिङ्गसञ्ज्ञकेन शिवेन सह सम्बन्धमिति युक्तम् ॥ ५ ॥
“कठवल्ल्युपनिषदि” ॥
श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः
आचार्योऽस्य वक्ता कुशलोऽपि लब्धः आचार्यो ज्ञाता कुशलोऽनुशिष्टः ॥ ६

तथा योगसारे ॥
शुद्धां यः शाम्भवीं दीक्षां करोति गुरुरुत्तमः ॥
तस्मै दद्यात्स्वमात्मानं पूज्यो वन्द्यः स सद्गुरुः ॥ ७ ॥
तथा स्वायम्भुवसूत्रे ॥

पृ० ५९) स्वदेशिकमनुप्राप्य दीक्षाविच्छिन्नबन्धनः ॥
प्रयाति शिवसायुज्यं निर्ममो निरुपप्लवः ॥ ८ ॥
किञ्च सुज्ञानोत्तरसूत्रे ॥
तत्वैरेभिर्निबद्धात्मा सर्वधर्मैश्च संयुतः ॥
नान्येन शक्यते मोक्तुं मुक्त्त्वा दीक्षां शिवात्मिकाम् ॥ ९ ॥
किञ्च मतङ्गपारमेश्वरे ॥ वृत्तम् ॥
दीक्षानलप्लुष्टमलस्य जन्तोः स्वात्म्यं बलं व्यक्तिमुपैति योगात् ॥
शक्त्या विभोश्चुम्बितहृत्प्रदेशो नान्येन पुंसो विनिवृत्तिमेति ॥ १० ॥
किञ्च स्वायम्भुवसूत्रे ॥
अनेन क्रमयोगेन परां केवलतां गतः ॥
अनाद्यशुद्धिशून्यत्वात्प्राप्नोति न भवान्तरम् ॥ ११ ॥
किञ्च वातुलतन्त्रे ॥
तनुत्रयगतानादिमलत्रयमसौ गुरुः ॥
दीक्षात्रयेण निर्दग्ध्वा लिङ्गत्रयमुपादिशत् ॥ १२ ॥
एकमेव परं लिङ्गमङ्गेऽस्मिन्सुप्रतिष्ठितम् ॥
सर्वतो मुखमाभाति नामरूपक्रियात्मना ॥ १३ ॥
इष्टलिङ्गं तु बाह्याङ्गे प्राणलिङ्गं तथान्तरे ॥
भावलिङ्गं सदैवात्मसङ्गेऽस्मिन्सुप्रतिष्ठितम् ॥ १४ ॥
एवमुपदेशार्थं दीक्षागुरुस्वरूपप्राप्तलिङ्गस्य शिक्षामुखेन
बोधस्वरूपप्राप्तिभेदः कथ-

पृ० ६०) मित्याकाङ्क्षायामनन्तरं शिक्षागुरुस्थलमित्युच्यते ॥ १५ ॥
“यजुर्वेदोपनिषदि” ॥
वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति सत्यं वद ॥ धर्मं चर ॥
स्वाध्यायान्मा प्रमदः भूत्यै न प्रमदितव्यम् ॥ मातृदेवो भव ॥
पितृदेवो भव ॥ आचार्यदेवो भव ॥ अतिथिदेवो भव॥ यान्यनवद्यानि
कर्माणि ॥ तानि सेवितव्यानि ॥ नो इतराणि ॥ यान्यस्माक?सुचरितानि ॥
तानि त्वयोपास्यानि नो इतराणि ॥ एष आदेश एष उपदेशः ॥ १६ ॥ तथा
वीरागमे ॥
तल्लिङ्गं जङ्गमात्मेति बहुशो जङ्गमैः कृतः ॥
सम्यग्बोधश्चतत्पूजा शिक्षेति कथिताऽनघे ॥ १७ ॥
किञ्च शिवाद्वैते ॥
पूर्वपक्षतया येन विश्वमाभास्य भेदतः ॥
अभेदोत्तरपक्षान्तर्नीयते तं स्तुमः शिवम् ॥ १८ ॥
चन्द्रावलोकने ॥
कुलाचाररताः सन्ति बहवो गुरवो मुने ॥
कुलाचारविहीनस्तु गुरुरेकोऽपि दुर्लभः ॥ १९ ॥

पृ० ६१) तथा योगशतके ॥ वृत्तम् ॥
न स्याज्जन्म यथा तथा गुरुवरः सेव्यः स नोड्डीशवन्नो
नाट्यागमतर्कतत्रंहतधीर्नोबाह्यविज्ञानवित् ॥
शिष्यान्तर्गतसंशयच्छिदमलं स्वं स्वेन विज्ञापयन्नास्ते यस्तु गुरुः
स धन्य उदितो नान्यः स्वमौढ्यप्रदः ॥ २० ॥ किञ्च तन्त्रसारे ॥
सुन्दरः सुमुखः स्वच्छः सुलभः सर्वतन्त्रवित् ॥
असंशयः संशयछिन्निरपेक्षो गुरुर्मतः ॥ २१ ॥
एवं शिक्षागुरुस्वरूपं प्राप्तलिङ्गं सुज्ञानकटाक्षोन्मीलननिमित्तेन
ज्ञानगुरुस्वरूपं प्राप्तभेदः कथमित्याकाङ्क्षायमनन्तरं
ज्ञानगुरुस्थलमित्युच्यते ॥ २२ ॥ “मुण्डकोपनिषदि” ॥
तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय ॥
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्याम् ॥ २३ ॥
तथैवोक्तं वीरागमे ॥
स्वपूर्वजन्मसत्कर्मवासनाभिः शिवार्चना ॥

पृ० ६२) शिवभक्तिः स्वयं चित्ते स्वानुभाव इति स्मृतः ॥ २४ ॥ तथा
वासिष्ठे ॥
दुर्वारसंशयध्वान्तनिरोधित्वे चिदंशुमान् ॥
गुरुश्च ज्ञानमेवोक्तं स्वानुभूत्यात्मतत्ववित् ॥ २५ ॥
किञ्च शिवधर्मोत्तरे ॥
ज्ञानमूलं गुरुः प्रोक्तः सः प्रशस्तः प्रवर्तकः ॥
ज्ञानेन तु महासिद्धो भवेद्योगीश्वरस्थितिः ॥ २६ ॥
एवं त्रिविधगुरुस्वरुपैकीभूतलिङ्गमेव शरणाङ्गे इष्टलिङ्गस्वरूपं
प्राप्तभेदः कथमित्याकाङ्क्षायामनन्तरं क्रियालिङ्गस्थलमित्युच्यते ॥
२७ ॥ “अथर्वशिरुपनिषदि” ॥
रुद्र एकत्वमाह रुद्रं शाश्वतं वै पुराणम् इष्टमूर्जं
तपसानुयच्छते ॥ २८ ॥ तथैवोक्तं वातुले ॥
सकलं दृक्वलाग्राह्यमिष्टलिङ्गस्थलं महत् ॥
इष्टावाप्तिकरं साक्षादनिष्टपरिहारकम् ॥ २९ ॥
इष्टमूर्जं स्वभक्तानामनुयच्छति सर्वदा ॥
इष्टलिङ्गमिति प्राह तस्मादाथर्वणी श्रुतिः ॥ ३० ॥
एवमङ्गाभ्यस्तक्रियालिङ्गे भावे पूर्णे सत्यनन्तरं
भावलिङ्गस्थलमित्युच्यते ॥ ३१ ॥ श्ह्वेताश्वतरोपनिषदि" ॥
भावग्राह्यम निलाख्यं भावाभावकरं शिवम् ॥
कल्पसर्गकरं देवं ये विदुस्ते जहुस्तमः ॥ ३२ ॥
तथैवोक्तं वातुले ॥

पृ० ६३) निष्कलं भावलिङ्गं स्याद्भावग्राह्यं परात्परम् ॥
सन्मात्रं भावलिङ्गं स्यादिति निष्ठा महात्मनाम् ॥ ३३ ॥
किञ्च महाभारते ॥
न काष्ठे विद्यते देवो न शिलायां न कर्दमे ॥
भावे तु विद्यते देवस्तस्माद्भावेन भाव्यते ॥ ३४ ॥
एवं भावपूर्णसद्भावरूपलिङ्गे महाज्ञानस्वरूपप्राप्तौ
सत्यामनन्तरं ज्ञानलिङ्गस्थलमित्युच्यते ॥ ३५ ॥
मुण्डकोपनिषदि ॥
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवस्तपसा कर्मणा वा ॥
ज्ञानप्रसादेन विशुद्धसत्वस्ततस्तं पश्यते निष्कलं ध्यायमानः ॥ ३६

तथेवोक्तं वातुले ॥
परात्परं तु यत्प्रोक्तं ज्ञानलिङ्गं तदुच्यते ॥
भावनातीतमव्यक्तं परं ब्रह्म शिवाभिधम् ॥ ३७ ॥
किञ्च स्कान्दे ॥
अपि सन्त्यक्तसर्वार्था नियमार्थं हि योगिनः ॥
सम्भाव्य ज्ञानलिङ्गं हि रमन्ते हृदयान्तरे ॥ ३८ ॥
किञ्च सिद्वान्तशेखरे ॥
आनन्दलक्षणा तृप्तिर्निरुपाधितया स्थिता ॥
तदुत्थानन्दसान्द्रत्वं ज्ञानलिङ्गं तु तृप्तिदम् ॥ ३९ ॥
एवं त्रिविधलिङ्गस्वरूपैकीभूतलिङ्गं शरणस्य स्वभावगुणे

पृ० ६४) निश्चलीभूतभेदः कथमित्याकाङ्क्षायामनन्तरं
स्वयस्थलमित्युच्यते ॥ ४० ॥ “अथर्वशिखोपनिषदि” ॥
सम्यक् समस्तानपि पदान् जयति स्वयं ब्रह्म भवत्येष सिद्धिकरः ॥ ४१ ॥
तथैवोक्तं वीरागमे ॥
आत्मलिङ्गपरिज्ञानान्नन्दी [(पाठान्तरं) न्नन्दीशः शिवलाञ्छनः]
स शिवलाञ्छनः
बाह्यकर्मपरित्यागी स स्वयं लिङ्गमुच्यते॥ ४२ ॥
तथा स्कान्दे ॥
ध्यानं शैवं तथा शिक्षा नित्यमेकान्तशीलता ॥
यतश्चत्वारि कर्माणि पञ्चमं नोपपद्यते ॥ ४३ ॥
सूतसंहितायाम् ॥
दातृर्नपि जनान् भक्तान् याचित्वार्थं सुदुर्लभम् ॥
क्षुभितस्तदभावेन क्षोभयेन्न कदाचन ॥ ४४ ॥
किञ्च वासिष्ठे ॥
विधिना शिवभावेन सत्कृत्य भयभक्तितः ॥
आददीत मुनिर्दत्तं तद्भैक्ष्यममृतं भवेत् ॥ ४५ ॥
शिवधर्मोत्तरे ॥
तदेवाश्रद्धया दत्तं नाददीत कदाचन ॥
अनन्यमानसः शान्तः शिवविद्यां जपेत्सदा ॥ ४६ ॥
किञ्च वासिष्ठे ॥
सर्वत्र समताशून्यः सर्वत्र समतायुतः ॥

पृ० ६५) वृथामूलनिकेतश्च मुमुक्षुरिह शस्यते ॥ ४७ ॥
तथा स्कान्दे ॥
सर्वारम्भपरित्यागो भैक्ष्यास्यं वृक्षमूलिता ॥
निष्परिग्रहताद्रोहः समतायोगिवर्तनम् ॥ ४८ ॥
एवं स्वभावे निश्चलीभूतलिङ्गं भक्तिं निमित्तीकृत्य सञ्चारभेदः
कथमित्याकाङ्क्षायामनन्तरं चरस्थलमित्युच्यते ॥ ४९ ॥
परमहंसोपनिषदि ॥
जटां धृत्वा चीरवासाश्च भूत्वा लोकान्वहन्येव चरत्यथ स्वयम् ॥ ५०

ऋग्वेदे ॥
चरैवेति चरैवेति चरन्वै मधु विन्दति ॥ ५१ ॥
किञ्च “परमहंसोपनिषदि” एकशाटी परिवृतो मुण्डोदरपात्री
भिक्षार्थं ग्रामं प्रविशन्दासायं प्रदक्षिणेनाविचिकित्सत्
सावर्णिकं भैक्ष्यचर्यमभिशस्तपतितवर्ज्यम् ॥ ५२ ॥
यजुर्वेदे ॥
इमान् लोकान् कामाग्निकामरूप्यनुसञ्चरन्नेतत्सामगायन्नास्ते ॥ ५३ ॥
तथैवोक्तं वीरागमे ॥
शिवलिङ्गादभेदात्मा तन्निक्षिप्तेन्द्रियव्रजः ।

पृ० ६६) स्वेच्छाविहारी स्वानन्दः स चरं लिङ्गमुच्यते ॥ ५४ ॥
तथा वातुले वृत्तम् ॥
अतत्वसंसारविनाशनेन वा श्रुतिप्रमाणेन च तर्कवर्त्मना ॥
प्रबोधमानस्य शिवस्य तं पुनः स्वमेव गायन् विचरेत्स्वलीलया ॥ ५५ ॥
किञ्च योगसारे ॥
स्वेच्छया चरते क्षोणीं भुजानो विषयानपि ॥
अकर्तान्तर्बहिःकर्ता स योगी राजयोगिराट् ॥ ५६ ॥
किञ्च शिवयोगदीपिकयाम् ॥
पुण्यक्षेत्रेषु सर्वेषु सञ्चरन्नात्मवृत्तये ॥
याचमानो जनान् साधून् न जातु क्लेशयेत्कृशान् ॥ ५७ ॥
तथा वातुलतन्त्रे ॥
यथा मध्वाददानोऽपि भृङ्गः पुष्पं न बाधते ॥
तथा माधुकरीं भिक्षामाददीत गृहाधिपात् ॥ ५८ ॥
एवं भक्त्यर्थं सञ्चरितचरलिङ्गस्य परापरनिर्गमनं
कथमित्याकाङ्क्षायामनन्तरं परस्थलमित्युच्यते ॥ ५९ ॥ हंसोपनिषदि

आशाम्बरो न नमस्कारो न स्वधाकारो न निन्दास्तुतिर्यादृच्छिको
भिक्षुर्नावाहनं न विसर्जनं न मन्त्रं न ध्यानं नोपासितं च न
लक्ष्यं न पृथगपृथक्

पृ० ६७) सर्वत्रानिकेतस्थितिरेव भिक्षुः ॥ ६० ॥
तथैवोक्तम् ॥ वीरागमे ॥
सदाशिवस्य तत्वस्य यदधिष्टानमुत्तमम् ॥
स्थावरं लिङ्गमेवैतत्परलिङ्गमुदीरितम् ॥ ६१ ॥
तथा भगवद्गीतायाम् ॥
तुल्यनिन्दास्तुतिमौनी सन्तुष्टो येन केनचित् ॥
अनिकेत स्थिरमतिर्भक्तिमान् यः स मे प्रियः ॥ ६२ ॥
वातुलेऽपि ।
लिङ्गं शिवो भवेत्क्षेत्रमङ्गं संयोग आश्रयः ॥
तस्माल्लिङ्गाङ्गसंयुक्तो योऽपि सोऽत्याश्रमी भवेत् ॥ ६३ ॥
किञ्च देविकालोत्तरे ॥
हेतुर्नास्ति फलं नास्ति नास्ति कर्म स्वभावतः ॥
असद्भूतमिदं सर्वं नास्ति लोको न लौकिकः ॥ ६४ ॥
नात्र पूजा नमस्कारो न जपो ध्यानमेव च ॥
केवलं ज्ञेयमित्युक्तं वेदितव्यं न किञ्च न ॥ ६५ ॥
किञ्च योगार्णवे ॥
वर्णाश्रमाभिमानेन श्रुतेर्दासो भवेन्नरः ॥
अभिमानविहीनश्चेद्वर्तते श्रुतिमूर्धनि ॥ ६६ ॥
सूतसंहितायाम् ॥
यस्य वर्णाश्रमाचारो गलितः स्वात्मदर्शनात् ॥
स वर्णानाश्रमान्सर्वान्नतीत्य स्वात्मनि स्थितः ॥ ६७ ॥
तन्त्रान्तरे ॥
त्यक्तसंसारकलवः कलावानपि निष्कलः ॥
यस्सचित्तोऽप्यचित्तस्तु स जीवन्मुक्त उच्यते ॥ ६८ ॥

पृ० ६८) इति
श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोण्टदार्यविरचितं
परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्य-
कैवल्यसारे लिङ्गस्थलनिरूपणे आचारलिङ्गस्थलं नाम प्रथमं
प्रकरणं समाप्तम् ॥