०६

पृ० ५२) षष्ठं प्रकरणम् ।
श्रीशिवाय नमः ॥ एवं शरणस्थले महाज्ञानेन सकलसंशयं
निवर्त्य निजस्वरूपं साक्षात्कृत्य परमानन्दस्वरूपशरणः स्वस्य
ज्ञानं विस्मृत्य तद्विस्मरणमपि विनाश्य महालिङ्गैक्यगतभेदः
कथमित्याकाङ्क्षायामनन्तरमैक्यस्थलमित्युच्यते ॥ १ ॥
“उत्तरतापनीयोपनिषदि” ॥
अथ लिङ्गान् संहृत्य तेजसा शरीरत्रयं संव्याप्य
तदधिष्ठानमात्मानं सञ्ज्वाल्य तत्तेज आत्मा चैतन्यरूपं
बलमवष्टभ्य गुणैरैक्यं सम्पाद्य महास्थूलं महासूक्ष्मं
महाकारणं संहृत्य मात्राभिर्होत्रनुज्ञात्रनुज्ञाविकल्परूपं चिन्तयन्
विमृशेत् ॥ २ ॥ किञ्च कैवल्योपनिषदि ॥
न भूमिरापो मम नास्ति वह्निर्न चानिलो मेऽस्ति न चाम्बरं च ॥
एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् ॥
समस्तसाक्षिन् सदसद्विहीनं प्रयाति शुद्धः परमात्मरूपम् ॥ ३ ॥
तथा देविकालोत्तरे ॥
अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित् ॥
न तं पश्यामि यस्याहं तं न पश्यामि यो मम ॥ ४ ॥
वासिष्ठे ॥
विलीनाशेषबाह्यार्थबुद्धेरभ्यासयोगतः ॥

पृ० ५३) जीवस्य ब्रह्मताप्राप्तिर्मुक्तिरित्यभिधीयते ॥ ५ ॥
किञ्च शिवाद्वैते ॥
अखण्डपरिपूर्णेशस्वात्मसम्भावनोर्जितः ॥
स्वप्नेऽप्यभेदनभ्रान्तो यस्स ऐक्य इहोदितः ॥ ६ ॥
एवं
महालिङ्गसमरसीभूतलिङ्गैक्ये षट्स्थलसम्पन्नसर्वाचारलीनभावः
कथमित्याकाङ्क्षायामनन्तरं सर्वाचारसम्पत्तिस्थलमित्युच्यते ॥ ७ ॥
“छान्दोग्योपनिषदि ॥
एवमेवेहाचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ
सम्पत्स्यै सुहृदः साधु कृत्यं द्विषन्तः पापकृत्यं यथा
पुष्करपलाश आपो न श्लिष्यन्ते एवमेव विदितपाप्मानं कर्म न श्लिष्यते
॥ ८ ॥ तथा वासिष्ठे ॥
गच्छतस्तिष्ठतश्चैव जाग्रतः स्वपतोऽपि वा ॥
सर्वाचारगता पूजा नित्यमाध्यात्मिका त्वियम् ॥ ९ ॥
किञ्च ॥ षट्साहस्रिकायाम् ॥
परामृतरसास्वादनिर्भरानन्दसुन्दरः ॥
निराकारोऽखिलाचारचरणैकान्ततत्परः । ॥ १० ॥
एवं सर्वाङ्गलीनसर्वाचारसम्पदो लिङ्गैक्यस्य महालिङ्गमेव भाजनं
तन्महालिङ्गस्यापि लिङ्गैक्य एव भाजनं भूत्वा नामद्वयं विलीय
एकभाजनीभूतभेदः

पृ० ५४) कथमित्याकाङ्क्षायामनन्तरमेकभाजनस्थलमित्युच्यते ॥ ११ ॥
“मुण्डकोपनिषदि” ॥
कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्वेकीभवन्ति ॥ १२ ॥
तथा सूत्रार्णवे ॥
प्रभुणा भवता यस्य जातं हृदयमेलनम् ॥
प्राभवीणां विभूतीनां परमेकः सभाजनम् ॥ १३ ॥
किञ्च ॥ शिवसूत्रे ॥
विद्भाजनं भाजनेभ्यो बाह्येभ्यो हि विशिष्यते ॥
वस्तु यद्गतमेतत्स्यादितरे नैवमित्यतः ॥ १४ ॥
एवं महालिङ्गे प्राप्तैकभाजनलिङ्गैक्यः तन्महालिङ्गं च
समरसभावेन परमानन्दसुखे सुखीभूतभेदः
कथमित्याकाङ्क्षायामनन्तरं सहभोजनस्थलमित्युच्यते ॥ १५ ॥
तैत्तरीयोपनिषदि ॥
यो वेद निहितं गुहायां परमे व्योमनि सोऽश्नुते सर्वान् कामान्सह ब्रह्मणा
विपश्चितेति ॥ १६ ॥ तथैवोक्तं वातुले ॥
एवं लिङ्गार्पितं सर्वमिति यो वेत्ति तत्वतः ॥
सोऽश्नुते सकलान्कामान् विपश्चिद्ब्रह्मणा सह ॥ १७ ॥
किञ्च ॥ “कठवल्ल्युपनिषदि” ॥
येन रूपं रसं गन्धं शब्दान् स्पर्शांश्च मैथुनात् ॥
एतेनैव विजानाति किमत्र परिशिष्यते ॥ १८ ॥
तथैवोक्तम् ॥
येन गन्धान् रसान् रूपं स्पर्शांश्छब्दान् रतिक्रियाम् ॥

पृ० ५५) एतेनैव विजानाति किमत्र परिशिष्यते ॥ १९ ॥
तत्रैव ॥
लिङ्गदेही शिवात्म्यैको लिङ्गाचारी न लौकिकः ॥
सर्वं लिङ्गमयं प्रोक्तं लिङ्गेन सह सोऽश्नुते ॥ २० ॥

इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोण्टदार्यविरचिते
परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्य-
कैवल्यसारे अङ्गस्थलनिरूपणे ऐक्यस्थलनिरूपणं नाम षष्ठं
प्रकरणं समाप्तम् ॥