०५

पृ० ४८) पञ्चमं प्रकरणम् ।
श्रीशिवाय नमः ॥ एवं प्राणलिङ्गिस्थलमनुष्ठाय
लिङ्गलीनसर्वावयववान् प्राणलिङ्गी सुज्ञानमुखेनानुष्ठाय
समरसीभूतभेदः कथमित्याकाङ्क्षायामनन्तरं
शरणस्थलमित्युच्यते ॥ १ ॥ श्वेताश्वतरोपनिषदि" ॥
तं महादेवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ २ ॥
“किञ्च “प्रश्नोपनिषदि” ॥
अहं परम्ब्रह्म वेद नातः परमस्तीति ते तमर्चयन्तस्त्वं हि नः पिता
योऽस्माकमविद्यायाः परं पारं तारयसीति नमः परमपुरुषेभ्यो नमः
परमपुरुषेभ्यः ॥ ३ ॥ तथा स्कान्दे ॥
चिन्तयामि शिवं केन जातं शिवमयं मनः ॥
पयोनिमग्नवपुषः पयस्तृष्णा न जायते ॥ ४ ॥
किञ्च वासिष्ठे ॥
कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः ॥
तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ॥ ५ ॥
एवं शरणस्थले महाज्ञानेन स्वस्वरूपविज्ञाता शरणः स्वस्य
ज्ञानस्य गोचरीभूततमोनिरसने कृते सत्यनन्तरं
तामसनिरसनस्थलमित्युच्यते ॥ ६ ॥ “मैत्रेयोपनिषदि” ॥
स वा एषोऽभिभूतः प्राकृतैर्गुणैरित्यतोऽभिभूतत्वात्स

पृ० ४९) मूढत्वं प्रयाति स मूढत्वादात्मस्थं प्रभु भगवन्तं
कारयितारं नापश्यत् ॥ ७ ॥ तथा शिवधर्मोत्तरे ॥
मलमज्ञानमित्युक्तं संसाराङ्कुरकारणम् ॥
तत्तमस्तेन तमसा युक्तो यस्तामसः स्मृतः ॥ ८ ॥
किञ्च ॥ सिद्धान्तशेखरे ॥
ज्ञानहीनगुरुं प्राप्य कुतो मुक्तिमवाप्नुयात् ॥
भिन्ननावाश्रितः सिन्धोर्यथा पारं न गच्छति ॥ ९ ॥
एवं ज्ञानगोचरीभूततमो निरस्य शरणः सुज्ञानं निर्दिश्य स्थैर्यं
गते सत्यनन्तरं निर्देशस्थलमित्युच्यते ॥ १० ॥ श्ह्वेताश्वतरोपनिषदि”
नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ॥
तमात्मस्थं ये अनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती
नेतरेषाम् ॥ ११ ॥
तदेतदिति मन्यन्ते निर्देश्यं परमं सुखम् ॥
कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ १२ ॥
तथा स्कान्दे ॥
शङ्कया भक्षितं सर्वं त्रैलोक्यं सचराचरम् ॥
सा शङ्का भक्षिता येन स वीरो भुवि दुर्लभः ॥ १३ ॥
किञ्च योगषट्सहस्रिकायाम् ॥
गुरुश्च गुणवान् प्राज्ञः परानन्दावभासकः॥

पृ० ५०) तत्ववित्तत्वसम्पन्नो मुक्तिदो न तु चापरः ॥ १४ ॥ किञ्च योगार्णवे
॥ वृत्तम् ॥
मीनः स्नानपरः फणी पवनभुङ्मेषस्तु पर्णाशनो नीराशी स तु
चातकः प्रतिदिनं शेते बिले मूषकः ॥
भस्मोद्धूलनतत्परः खलु खरो ध्यानानुरक्तो बकः सर्वं निष्फलितं
विवेकरहितं ज्ञानप्रधानं तपः ॥ १५ ॥ तत्रैव ॥
स्वस्थानं च परित्यज्य परस्थानं समाश्रिताः ॥
स्त्रीहेमभुक्तिलाभस्य आशाद्गच्छन्ति प्राणिनः ॥ १६ ॥
प्राणिमार्गं परित्यज्य सन्मार्गं लिङ्गसंयुतः ॥
शिवज्ञानवतां पुसां सङ्गमिच्छति गच्छति ॥ १७ ॥
एवं सुज्ञानं निर्दिश्य स्वस्वरूपं ज्ञात्वा
ज्ञानरूपसर्वाङ्गशरणस्य महाज्ञानमेव चारित्रं
तदतिरिक्तदुःशीलचारित्रं नास्तीति दर्शिते सत्यनन्तरं
शीलसम्पादनस्थलमित्युच्यते ॥ १८ ॥ “कठवल्ल्युपनिषदि” ॥
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् ॥
अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ १९ ॥
तथैवोक्तं कूर्मपुराणे ॥
परस्य शिवतत्वस्य जिज्ञासामधिकृत्य यत् ॥
ईषणासु च वैराग्यं तच्छीलं परमं स्मृतम् ॥ २० ॥

पृ० ५१) किञ्च शैवपुराणे ॥
व्रतं शिवैकविषयं नियमश्च सनातनः ॥
शीलमित्युच्यते सद्भिर्येन शीली भवेत्पुमान् ॥ २१ ॥
किञ्च लैङ्ग्ये ॥
शिव एव परं ज्योतिर्नान्यत्किञ्चन विद्यते ॥
इति यश्च स्थिरीभावस्तच्छीलं परमं विदुः ॥ २२ ॥

इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोण्टदार्यविरचिते
परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्य-
कैवल्यसारे शरणस्थलं नाम पञ्चमं प्रकरणं समाप्तम् ॥