०४

पृ० ४१) चतुर्थं प्रकरणम् ।
श्रीशिवाय नमः ॥
एवं प्रसादिस्थलमनुष्ठाय प्रसन्नप्रसादसमरसीभूतप्रसादी
अनुभवमुखेनानुष्ठाय
सामरस्यप्राप्तिमान्कथमित्याकाङ्क्षायामनन्तरं
प्राणलिङ्गिस्थलमित्युच्यते ॥ १ ॥
ननु प्राणलिङ्गमित्यत्र प्राणे लिङ्गमित्याधारार्थो वा प्राणस्य
लिङ्गमिति सम्बन्धार्थो वा प्राण एव लिङ्गमित्येकाश्रयत्वं वा कस्य
प्राणलिङ्गत्वं किञ्च प्राणशब्दस्यानेकार्थवाचकत्वात् “तथा मृगेन्द्रे

चित्यति वाहिके शक्तौ प्राणशब्दः कलासु च” ॥
रेचकपूरकात्मकप्राणवायुसम्बन्धस्य मन्त्रात्मकस्यापि
प्राणलिङ्गत्वं सूक्ष्मशरीरांशेषु श्रोत्रादीन्द्रियेषु
प्रवर्तमानस्याचारादिषड्विधलिङ्गस्यापि प्राणलिङ्गत्वम् ॥
हृदयकमलकर्णिकामध्यस्थितसूर्यचन्द्राग्निमण्डलत्रयसम्बन्धस्यापि
प्राणलिङ्गत्वं चेतस्यविनाभूतत्वेनाभिन्नतया वर्तमानस्य
परमसूक्ष्मनादस्यापि प्राणलिङ्गत्वम् ॥

पृ० ४२) एतस्मादाधारसम्बन्धाभेदात्मना प्राणलिङ्गस्य स्थितिरिति चेन्न
॥ २ ॥
उक्तप्राणलिङ्गचातुर्विध्यमपि न सम्भवति ॥
तस्य सूक्ष्माङ्गगोचरत्वेनासत्यतापत्तेः ॥ ३ ॥
किञ्च अङ्गत्रयमध्ये एकाङ्गस्य लिङ्गत्वमेव भज्येत तथाभूताङ्गांशे
संसारोऽपि न निवर्तेत इच्छाविषयीभूतेष्टलिङ्गस्यैव ध्यानगोचरत्वेन
प्राणलिङ्गत्वात् तस्मादिष्टलिङ्गप्रतिबिम्बमेव सूक्ष्माङ्गगोचरं
सत्प्राणलिङ्गमिति मन्तव्यम् ॥ ४ ॥ तथा श्ह्वेताश्वतरोपनिषदि" ॥
यत एव बिम्बं हृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधान्तम् ॥ ५ ॥
“मुण्डकोपनिषदि” ॥
अन्तः शरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥ ६
॥ तथा वीरागमे ॥
प्राणिना धृतलिङ्गं तत्प्राणस्थाने विनिक्षिपेत् ॥
यस्तु भेदेन जानाति न च लिङ्गं न चार्चनम् ॥ ७ ॥ तत्रैव ॥
इष्टलिङ्गमविश्वस्य प्राणलिङ्गं न पश्यति ॥
दर्पणप्रतिबिम्बानां यथा रूपं तथा भवेत् ॥ ८ ॥ पुनस्तत्रैव ॥
सर्वतत्वमयः प्राणः सर्वज्ञानमयः शिवः ॥
अनयोर्योगमैवैतत्प्राणलिङ्गमिहोच्यते ॥ ९ ॥

पृ० ४३) किञ्च शैवरत्नाकरे ॥
प्राणलिङ्गी स विज्ञेयः प्राग्रूपस्य ह्यनित्यताम् ॥
विचार्य सर्वज्ञानाख्यलिङ्गे सर्वं सदा मृशन् ॥ १० ॥
एवं प्राणलिङ्गसम्बन्धवतो लिङ्गप्राणिनः प्राणलिङ्गपूजाक्रमः
कथमित्याकाङ्क्षायामनन्तरं प्राणलिङ्गार्चनास्थलमित्युच्यते ॥ ११ ॥
“अथर्वशीर्षोपनिषदि”॥
प्राणेष्वन्तर्मनसो लिङ्गमाहुर्यस्मिन् क्रोधो या च तृष्णा क्षमा च ॥
तृष्णां हित्वा हेतुजालस्य मूलं बुद्ध्या चिन्त्य स्थापयित्वाथ रुदे ॥
१२ ॥ तथैवोक्तं वातुले ॥
प्राणलिङ्गं मनोग्राह्यं भवेत्सकलनिष्कलम् ॥
तत्प्राणेष्वन्तर्मनसो लिङ्गमाहुरिति श्रुतिः ॥ १३ ॥ किञ्च
“बृहदारण्यकोपनिषदि” ॥
लिङ्गं मनो यत्र निषक्तं प्राप्यरात्तं कर्मणस्तस्य यत्किञ्चेह
करोत्ययं तस्माल्लोकान्पुनरेत्यस्मै लोकाय कर्मण इत्यनुकामयमानोऽथ
कामयमानो यो कामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति

पृ० ४४) ब्रह्मैव सन् ब्रह्माप्येति ॥ १४ ॥ किञ्च ॥ मुण्डकोपनिषदि ॥
हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ॥
तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ १५ ॥
एवं प्राणलिङ्गार्चनारतस्य लिङ्गलीनसकलकरणस्य प्राणलिङ्गिनः
लिङ्गसमाधिभेदः कथमित्याकाङ्क्षायामनन्तरं
शिवयोगसमाधिस्थलमित्युच्यते ॥ १६ ॥ मैत्रेयोपनिषदि ॥ वृत्तम् ॥
समाधिनिर्धूतमलस्य चेतसो निवेशितस्यात्मनि यत्सुखं भवेत् ॥
न शक्यते वर्णयितुं गिरा सदा स्वयं तदन्तःकरणेन गृह्यते ॥ १७ ॥
किञ्च ॥ तैत्तरीयोपनिषदि ॥
नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ॥
तस्याः शिखायामध्ये तु परमात्मा व्यवस्थितः ॥ १८ ॥
किञ्च ॥ मुण्डकोपनिषदि ॥
प्राणो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ॥
अप्रमत्तेन वेद्धव्यं शरवतन्मयो भवेत् ॥ १९ ॥
तथा योगसारे ॥
जीवः प्राणपरिस्पन्दः परात्मा लिङ्गमीरितम् ॥
उभयोरेकतावस्था सा समाधिः प्रकीर्तिता ॥ २० ॥
किञ्च ॥ अचिन्त्यविश्वसादाख्ये ॥
सर्वज्ञानं सर्वकार्यं परात्परतरं शिवम् ॥

पृ० ४५) बिसतन्तुनिभज्योतिर्भावयेद्योगवित्तमः ॥ २१ ॥
तथाच वीरागमे ॥
शृणु देवि प्रवक्ष्यामि भवत्प्रश्नस्य निर्णयम् ॥
इदमात्मरहस्यं च मनोधर्मव्यवस्थितम् ॥ २२ ॥
आधारस्थानमाद्यं स्यात्स्वाधिष्ठानं द्वितीयकम् ॥
नाभिस्थानं तृतीयं स्यादुदरं तु चतुर्थकम् ॥ २३ ॥
हृदयं पञ्चमं स्थानं कण्ठः षष्ठ उदीरितः ॥
भ्रूमध्यं सप्तमं स्थानं शून्यमष्टममुच्यते ॥ २४ ॥
ब्रह्मा विष्णुश्च रुद्रश्च शक्तिरेको गुरुः शिवः ॥
सदाशिवः क्रमादेषां स्थानानामधिपा इमे ॥ २५ ॥
आधाराज्जायते वर्णाश्रमधर्मादिकक्रिया ॥
मायाव्यसनमोहादिस्वाधिष्ठानाद्भवत्यथ ॥ २६ ॥
नाभिस्थानाद्भवत्येव तामसत्वमदादिकम् ॥
क्षुत्पिपासादिका धर्मा उदरस्थानसम्भवाः ॥ २७ ॥
हृदयस्थानसम्भूतं भक्तिशान्तिदयादिकम् ॥
शब्दशक्तिविरक्त्त्याद्याः क्रियाः कण्ठसमुद्भवाः ॥ २८ ॥
ज्ञानप्रज्ञाप्रभावादिकर्म भ्रूमध्यसम्भवम् ॥
निश्चिन्तत्वसदानन्दौ शून्यस्थानसमुद्भवौ ॥ २९ ॥
धर्मस्थानं द्वयं त्वेषां मायास्थानं तथा द्वयम् ॥
भक्तिस्थानं द्वयं चैव विरक्तिश्च तथा द्वयम् ॥ ३० ॥
संसारो जायते सम्यगाद्यस्थानचतुष्टयात् ॥

पृ० ४६) निःसंसारित्वमेव स्यादूर्ध्वस्थानचतुष्टयात् ॥ ३१ ॥
अधमं मध्यमं चादिद्वयमन्योन्यसङ्गतम् ॥
ऊर्ध्वद्वयं तथा युक्तमुत्तमं चोत्तमोत्तमम् ॥ ३२ ॥
आदिस्थानादिषट्कं स्याच्छक्तिबीजसमन्वितम् ॥
ततः शून्यस्थानयुगं शक्तिबीजविवर्जितम् ॥ ३३ ॥ स्कान्दे ॥
उपरिष्ठादथ ज्ञेयं कैलासनिलयाह्वयम् ॥
तत्पदं ब्रह्मरन्ध्राख्यं तन्निरालम्बनं स्मृतम् ॥ ३४ ॥
एवं शिवयोगसमाधिनिष्ठप्राणलिङ्गिनः मनसि मनोमूर्तिरूपेण
स्थितलिङ्गस्य सहजभावः कथमित्याकाङ्क्षायामनन्तरं
लिङ्गनिजस्थलमित्युच्यते ॥ ३५ ॥ श्वेताश्वतरोपनिषदि ॥
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो न भान्ति कुतोऽयमग्निः
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ ३६ ॥
तथैवोक्तं सूतसंहितायाम् ॥
स्वयं ज्योतिरिति प्राह श्रुतिः साध्वी महेश्वरम् ॥
तस्य भासा सर्वमिदं विभातीत्यपि चाह हि ॥ ३७ ॥ वृत्तम् ॥
वेदान्तवाक्योत्थपरात्मविद्यां शिवस्य लिङ्गं कथयन्ति केचित् ॥
विचारजन्यामपि सत्यविद्यां ब्रुवन्ति चान्ये परमस्य लिङ्गम् ॥ ३८ ॥

पृ० ४७) शिवस्य लिङ्गं शिवलिङ्गमन्ये मुनीश्वरा वेदविदो वदन्ति ॥
स्वयं प्रकाशस्य न युज्यते यत्ततश्च शम्भुः स्वयमेव लिङ्गम् ॥ ३९ ॥
एवं लिङ्गं निजज्ञानवतः प्राणलिङ्गिनः सर्वावयवलिङ्गभावक्रमः
कथमित्याकाङ्क्षायामनन्तरमङ्गलिङ्गस्थलमित्युच्यते ॥ ४० ॥
“तैत्तरीयोपनिषदि” असन्नेव स भवति असद्ब्रह्मेति वेद चेत् अस्ति ब्रह्मेति
चेद्वेद सन्तमेनं ततो विदुरिति तस्यैष एव शारीर आत्मा ॥ ४१ ॥ तथा
शम्भुप्रभायाम् ॥
यल्लिङ्गं शुद्धदेहस्थं मल्लिङ्गं लिङ्गसंयुतम् ॥
तल्लिङ्गं विदितं येन स भवेदङ्गलिङ्गवान् ॥ ४२ ॥ तत्रैव ॥
यत्र लिङ्गे वरारोहे त्रैलोक्यं सचराचरम् ॥
तल्लिङ्गं पूजितं येन स भवेदङ्गलिङ्गवान् ॥ ४३ ॥

इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोण्टदार्यविरचिते
परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्य-
कैवल्यसारे प्राणलिङ्गस्थलं नाम चतुर्थं प्रकरणं समाप्तम् ॥