पृ० ३२) तृतीयं प्रकरणम् ।
श्री शिवाय नमः ॥
एवं माहेश्वरस्थले आचारमनुष्ठाय भक्तलिङ्गकाययोः
सामरस्यवान्महात्मा
तदनन्तरं सावधानमुखेनानुष्ठानभेदो
यथेत्याकाङ्क्षायामनन्तरं प्रसादिस्थलमित्युच्यते ॥ १ ॥
जाबालोपनिषदि ॥
रुद्रेणात्तमश्नन्ति रुद्रेण पीतं पिबन्ति रुद्रेणाघ्रातं जिघ्रन्ति ॥ २
॥
तथा स्कान्दे ॥
शिष्टाः शान्ताश्च रुद्रेण भुक्तमेव हि भुञ्जते ॥
घ्रातमेव हि जिघ्रन्ति पीतमेव पिबन्ति च ॥ ३ ॥
किञ्च “छान्दोग्योपनिषदि” ॥
आहारशुद्धौ सत्वशुद्धिः सत्वशुद्धौ ध्रुवा स्मृतिः ॥
स्मृतिलाभे सर्वग्रन्थीनां विमोक्षः ॥ ४ ॥
“बृहदारण्यकोपनिषदि” ॥
यदन्नं पुरुषोऽश्नुते तदन्नं तस्य देवता ॥ ५ ॥
तथैवोक्तं वातुले ॥
जगज्जीवेश्वराणां तु त्रयाणां तत्वनिर्णयः ॥
उच्छिष्टान्नप्रसादेषु त्रिषु निर्णयते कमात् ॥ ६ ॥
शरीरादि जगद्रूपमुच्छिष्टं भ्रान्तिलक्षणम् ॥
अन्नं तदभिमानी स्याज्जीवः संसारलक्षणः ॥
प्रसाद ईश्वरः साक्षात्सच्चिदानन्दलक्षणः ॥ ७ ॥
वृत्तम् ॥
प्रसाद आद्यन्तविवर्जितः स्वयं ह्यखण्डरूपः परिशेषलक्षणः ॥
पृ० ३३) विकल्पहीनः सुविशुद्धवत्स्थितः प्रभाव एषोऽस्य निजस्वभावजः
॥ ८ ॥
लीयते द्रव्यमन्नादि यत्र यद्गम्यते यतः ॥
प्रसादत्वेन तल्लिङ्गं प्रसादस्त्वत एव सः ॥ ९ ॥
अर्चनाद्वारतो लिङ्गमर्पणद्वारतः स्वयम् ॥
प्रसाद इति भक्त्यायम् एक एवोपचर्यते ॥ १० ॥
अन्नं पदार्थरूपं तत्करणं कल्पना समाख्याता ॥
अर्पणमत्रविलोपो ह्यादानं ग्रहणमित्यतो विद्धि ॥ ११ ॥
वृत्तम् ॥
यद्भाजनस्थं विनिवेद्यमानमन्नादिकं भाण्डगतं तदंशम् ॥
लिङ्गार्पितं भाजनसुस्थितं चेद्भाण्डस्थितं चैव समर्पितं स्यात् ॥
१२ ॥
घृतात्मकं यन्नवनीतमाद्यं प्रतापितं वह्निमुखे निजं स्यात् ॥
यथा तथा लिङ्गमुखार्पितं यद्भवेत्प्रसादात्मकमन्नमाद्यम् ॥ १३ ॥
रौप्ये यथालोकय शुक्तिकायां लुप्ते स्वयं शिष्यत एव या सा ॥
तद्वत्प्रसादस्य पदार्थभावे लुप्ते स्वयं शिष्यत एव वस्तु ॥ १४ ॥
पृ० ३४) नोच्छिष्टभावो न निषिद्धभावः साक्षात्प्रसादे परमे पवित्रे ॥
भोगे प्रसादस्य ऋतं शृणु त्वं भुक्ते च तस्मिन्न हि सम्भवोऽस्य ॥ १५ ॥
प्रसाद उच्छिष्टनिषिद्धभावो घटेत चेन्नैव भवेत्प्रसादः ॥
अभावतश्चास्य न चास्ति लिङ्गं गुरुर्न चास्ति क्रमतो निपातः ॥ १६ ॥
रोगार्थमौषधं सेव्यं दोषार्थं चात्मनस्तथा ॥
सेव्यः शिवप्रसादोऽयमिति शैवी परा स्थितिः ॥ १७ ॥ वृत्तम् ॥
असंस्कृतात्मेन्द्रियभूतकायैरलिङ्गिभिः स्वार्थपरैः सकामैः ॥
दृष्टं श्रुतं स्पृष्टमथोपभुक्तं घ्राताद्यमुच्छिष्टमिति प्रसिद्धम्
॥ १८ ॥
अतीन्द्रियैरविषयैरकामैः षट्स्थलास्मभिः ॥
यद्भुक्तं तद्धि नोच्छिष्टं न निषिद्धं न दूषितम् ॥ १९ ॥ वृत्तम् ॥
आचाराह्वयलिङ्गमस्य वपुरात्मा गौरवं लिङ्गकं प्राणः
स्याच्छिवलिङ्गमिन्द्रियसमूहस्तद्वदेव स्वयम् ॥
प्रोक्तं यच्चरलिङ्गमेषविषयप्रासादलिङ्गं तथा
तृप्तिः षट्स्थलरूपिणस्तव
पृ० ३५) किमाचक्षे महालिङ्गकम् ॥ २० ॥
मुसलोलूखलचुल्लीघटेक्षुतिलयन्त्रमुखसमुद्भूतम् ॥
न किमपि दूष्यति लोके दूष्यति गुरुलिङ्गजङ्गममुखोत्थम् ॥ २१ ॥ अत्र
तन्त्रान्तरे ॥
स्त्रीभिः सहैव भुञ्जन्ते न दोष इति मानवाः ॥
मद्भक्तानां प्रसादान्नं न गृह्णन्ति दुरात्मनः ॥ २२ ॥ आर्या ॥
ओदनसूतकमादावन्ते चोच्छिष्टसूतकं द्वितयम् ॥
हित्वा शिवप्रसादं भुनक्ति यस्स प्रसादवान्भवति ॥ २३ ॥
सूतकं पातकं प्रोक्तं पातकं किल्बिषं महत् ॥
तस्मात्सूतकमाद्यं तं हित्वा भोगं समाचरेत् ॥ २४ ॥
आचारेण च गुरुणा शिवेन चरमूर्तिना प्रसादेन ॥
महता घ्रातं पीतं दृष्टं स्पृष्टं श्रुतं स्मृतं भज स्वमतम्
॥ २५ ॥ वृत्तम् ॥
भाण्डो देही भाजनं चेन्द्रियाणि जीवात्मायं द्रव्यरूपो यदन्नम् ॥
भक्त्या लिङ्गायार्पयित्वा परस्मै शेषीभूतं तं प्रसादं भजस्व ॥
२६ ॥ योगजागमे ॥
स सुखज्ञः स योगीशः स एवागमतत्ववित् ॥
शिवार्पितधिया स स्वेष्विन्द्रियेषु य आचरेत् ॥ २७ ॥
शिवरहस्ये ॥
लिङ्गार्पितपदार्थैस्तु सम्भोगी लिङ्गसंयुतः ॥
पृ० ३६) अनर्पितपरित्यागी प्रसादीति निगद्यते ॥ २८ ॥
तत्रैव ॥
पूजका बहवः सन्ति भक्ताः शतसहस्रशः ॥
मत्प्रसादस्य योग्यास्तु द्वित्रयो नैव पञ्चषट् ॥ २९ ॥
एवं गुरुलिङ्गजङ्गमानां प्रसन्नप्रसादस्वीकर्तुः
प्रसादिनोऽङ्गालिङ्गितगुरुमाहात्म्यं यथेत्याकाङ्क्षायामनन्तरं
गुरुमाहात्म्यस्थलमित्युच्यते ॥ ३० ॥ अथर्वणवेदे ॥
कदम्बगोलकाकारो विश्वस्यातिहितः वपुर्धत्ते जगद्धितार्थं वेदादि
निगमैः प्रणवादिमन्त्रैः क्रियादिकर्मणे आत्मायं बोधः स रुद्रः स
चरः द्विभुजः द्व्यक्षः द्विपादेकशिरा एको रुद्र आचार्यरूपः ॥ ३१ ॥
तथाच वीरागमे ॥
ललाटलोचनं चान्द्रीं कलामपि च दोर्द्वयम् ॥
अन्तर्निधाय वर्तेऽहं गुरुरूपो महेश्वरि ॥ ३२ ॥
लैङ्ग्ये ॥
स्पर्शादप्यधिकं मन्ये गुरुपादसरोरुहम् ॥
स्पर्शश्च कुरुते स्वर्णं गुरुरात्मसमं हि तत् ॥ ३३ ॥
एवं सर्वाङ्गेषु गुरुमाहात्म्यस्थिरीकृतप्रसादिनो मनसि स्थिरी-
पृ० ३७) कृतलिङ्गमाहात्म्यं यथेत्याकाङ्क्षायामनन्तरं
लिङ्गमाहात्म्यस्थलमित्युच्यते ॥ ३४ ॥
सामवेदे ॥
यस्यान्तःस्थानि भूतानि यस्मात्सर्वं प्रवर्तते ॥
यमाहुस्तत्परं तत्वं स देवः स्यान्महेश्वरः ॥ ३५ ॥
तथैवोक्तं ब्रह्माण्डपुराणे ॥
चराचरात्मकमिदं यत्र विश्वं विलीयते ॥
उत्पद्यते यतो भूयस्तल्लिङ्गं परमिष्यते ॥ ३६ ॥
किञ्च वीरागमे ॥
लिङ्गमध्ये जगत्सर्वं त्रैलोक्यं सचराचरम् ॥
लिङ्गबाह्यं परं नास्ति तस्माल्लिङ्गं प्रपूजयेत् ॥ ३७ ॥
एवं मनसि स्थिरीकृतलिङ्गमाहात्म्यवतः प्रसादिनः
ज्ञानान्तरावस्थितजङ्गममाहात्म्यं यथेत्याकाङ्क्षायामनन्तरं
जङ्गममाहात्म्यस्थलमित्युच्यते ॥ ३८ ॥ “छान्दोग्योपनिषदि” ॥
आत्मैवेदं सर्वमिति स वा एष एतं पश्यन्नैतं मन्वान एतं
विज्ञायमान आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराट्
भवति तस्य सर्वेषु लोकेषु कामचरो भवति ॥ ३९ ॥ यजुर्वेदे ॥
देवानां देवो अतिथिः ॥ ४० ॥
किञ्च ऋग्वेदादरणे ईश्वरोऽतिथिरेव चरतो तदीहाहस्म ॥ ४१ ॥
पृ० ३८) तथैवोक्तं वीरागमे ॥
सर्व लोकोपकाराय यो देवः परमेश्वरः ॥
चरत्यतिथिरूपेण नमस्ते जङ्गमात्मने ॥ ४२ ॥
एवं जङ्गममाहात्म्यं ज्ञात्वा तत्प्रसादं स्वीकृत्य
सुखीभूतप्रसादिनः सदाचारवर्तनेन दृश्यमानभक्तमाहात्म्यं
कथमित्याकाङ्क्षायामनन्तरं भक्तमाहात्म्यस्थलमित्युच्यते ॥ ४३ ॥
“बृहदारण्यकोपनिषदि” ॥
शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति ॥
४४ ॥
तथा वीरागमे ॥
मद्भक्तजनमाहात्म्यं को वा जानाति तत्वतः ॥
जानेऽहं त्वं च जानासि नन्दी जानाति वा गुहः ॥ ४५ ॥
किञ्च ॥ शिवधर्मोत्तरे ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्यन्त्यजोऽपि वा ॥
शिवभक्तः सदा पूज्यः सर्वावस्थां गतोऽपि वा ॥ ४६ ॥
वीरागमे ॥
पातके समनुप्राप्ते शिवभक्तगृहं व्रजेत् ॥
याचयेदन्नमसृतं तदलाभे जलं पिबेत् ॥ ४७ ॥
एवं भक्तत्वेन भूतमाहात्म्यं स्वगतत्वेनाभिन्नं सत् प्रसादिनः
बाह्याभ्यन्तरयोः परिणामप्रवेशभूतपरमानन्दमाहात्म्यं
कथमित्याकाङ्क्षायामनन्तर
पृ० ३९) शरणमाहात्म्यस्थलमित्युच्यते ॥ ४८ ॥
श्ह्वेताश्वतरोपनिषदि" ॥
सर्वेन्द्रियगुणाभासं सर्वेद्रियविवर्जितम् ॥
सर्वस्य प्रभुमीशानं सर्वस्य शरणं बृहत् [सुहृत् पाठान्तरम् ।]॥
४९ ॥ तथा शिवयोगप्रदीपिकायाम् ॥ वृत्तम् ॥
धन्यानि तानि नगराणि निरामयानि नित्योत्सवानि विजयोत्तरभूपतीनि ॥
एकोऽपि यत्र शिवयोगसमाहितात्मा पद्भ्यां पवित्रयति पावनपादुकाभ्याम्
॥ ५० ॥
एवं सर्वाङ्गेषु परमानन्दवान्प्रसादी
स्वस्वीकृतपरिणामप्रसादमाहात्म्यं कथमित्याकाङ्क्षायामनन्तरं
प्रसादमाहात्म्यस्थलमित्युच्यते ॥ ५१ ॥ मैत्रेयोपनिषदि ॥
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् ॥
प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुते ॥ ५२ ॥ किञ्च यजुर्वेदे ॥
रुद्रेणात्तममृतं देवाद्यैर्भोक्तुकामा वेदाश्च कामयन्ते ॥ ५३ ॥
किञ्च ॥ मुण्डकोपनिषदि ॥
निर्माल्यमेव सदा भक्षयेत् चण्डालो नैव चण्डालः पुल्कसो नैव
पुल्कसः ॥ ५४ ॥
तथा सूतसंहितायाम् ॥
प्रसादे सति कीटो वा पतङ्गो वा नरोऽथ वा ॥
देवो वा दानवो वापि लभते ज्ञानमुत्तमम् ॥ ५५ ॥
पृ० ४०) तत्रैव ॥ वृत्तम् ॥
शिवप्रसादेन समो न विद्यते शिवप्रसादादधिकं न विद्यते ॥
शिवप्रसादेन शिवस्य सन्निधिः शिवप्रसादेन विशुद्धताऽऽत्मनः ॥ ५६ ॥
सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ॥
प्रसादादेव सर्वेषां सर्वसिद्धिर्महेशितुः ॥ ५७ ॥
इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोण्टदार्यविरचिते
परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्य-
कैवल्यसारे प्रसादिस्थलं नाम तृतीयं प्रकरणं समाप्तम् ॥