पृ० २१) ॥ अथ द्वितीयप्रकरणम् ॥
श्रीशिवाय नमः ॥ एवं भक्तस्थलमाश्रित्य कर्तृभृत्यभावं
विस्मृत्य स्वस्वरूपनिष्ठमाहात्म्यानन्तरं
निष्ठामुखेनाचारमनुस्मृत्य सामरस्यं प्राप्तभेदः
कथमित्याकाङ्क्षायामनन्तरं माहेश्वरस्थलमित्युच्यते ॥ १ ॥ श्रीरुदे
॥
ये भूतानामधिपतयो विशिखासः कपर्दिनः ॥ २ ॥ तथा उत्तरकामिके ॥
ब्रह्मादिदेवताजालं मोहितं मायया सदा ॥
अशक्तं मुक्तिदाने तु क्षयातिशयसंयुतम् ॥ ३ ॥
अनादिमुक्तो भगवानेक एव महेश्वरः ॥
मुक्तिदश्चेति यो देवः स वै माहेश्वरः स्मृतः ॥ ४ ॥
ब्रह्माद्यैर्मलिनप्रायैर्निर्मले परमेश्वरे ॥
साम्योक्तिं यो न सहते स वै माहेश्वराभिधः ॥ ५ ॥
क्षयातिशयसंयुक्ता ब्रह्मविष्ण्वादिसम्पदः॥
तृणवन्मन्यते बुद्ध्या वीरमाहेश्वरः सदा ॥ ६ ॥
सिद्धान्तशेखरे ॥
सदाकाले शिवे भक्तिर्लिङ्गजङ्गमपूजनम् ॥
एकपत्नीव्रतं वीरमाहेश्वरमहाव्रतम् ॥ ७ ॥
पृ० २२) शैवरत्नाकरे ॥
तदेव लिङ्गं तत्प्रोक्तं लिङ्गाचारस्तु यस्य वै ॥
तेनैवाचारलिङ्गेन लिङ्गी माहेश्वरो जनः ॥ ८ ॥
एवं माहेश्वरस्थले नियमव्रतादिषु कृतनिश्चयस्य
माहेश्वरस्याङ्गस्थितलिङ्गनिष्ठाभेदः
कथमित्यकाङ्क्षायामनन्तरं लिङ्गनिष्ठास्थलमित्युच्यते ॥ ९ ॥
अथर्वशिरुपनिषदि ॥
शिव एको ध्येयः शिवङ्करः सर्वमन्यत्परित्यज्य समाप्ताथर्वणी श्रुतिः
॥ १० ॥
तथैवोक्तं शैवपुराणे ॥
संसारमोचकः साक्षाच्छिव एव न चापरः ॥
अन्याश्च देवताः सर्वाः केवलं भोगदायकाः ॥ ११ ॥
सर्वमन्यत्परित्यज्य शिव एव शिवङ्करः ॥
ध्येय इत्याह परमा श्रुतिराथर्वणी खलु ॥ १२ ॥
स्कान्दे ॥
प्रणामदर्शनस्पर्शपूजाद्यैर्नियमेन यत् ॥
शिवलिङ्गस्य भजनं लिङ्गनिष्ठेति गीयते ॥ १३ ॥
किञ्च॥ कूर्मपुराणे ॥
तदेव परमं धाम सैवेह परमा गतिः ॥
सैवेह परमा काष्ठा लिङ्गनिष्ठा शिवस्य या ॥ १४ ॥
तथैवोक्तं ब्रह्मणा वायवीयसंहितायाम् ॥
तदीयं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् ॥
अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं च योगिभिः ॥ १५ ॥
ततः परं तु यन्नित्यं ज्ञानमानन्दमव्ययम् ॥
पृ० २३) तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद्व्रतमास्तिकैः ॥ १६ ॥
किञ्च ॥ वातुले ॥
लिङ्गभक्तिर्लिङ्गपूजा लिङ्गधारणमेव च ॥
लिङ्गप्रसादस्वीकारो लिङ्गश्रवणमादरात् ॥
लिङ्गध्यानं लिङ्गमनः सर्वं लिङ्गमयं जगत् ॥ १७ ॥
एवं लिङ्गनिष्ठान्वितो माहेश्वरः तस्मिन् लिङ्गे लोलुप्तः सन् स्वस्य
पूर्वजातिजीवभावलौकिकनानाप्रपञ्चपूर्वाश्रमान् मिथ्येति मत्वा
निरसने कृते सत्यनन्तरं पूर्वाश्रयनिरसनस्थलमित्युच्यते॥ १८ ॥
मुण्डकोपनिषदि ॥
स यो हवै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति
तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥ १९ ॥
किञ्च ॥ नारायणोपनिषदि ॥
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ॥ २० ॥
तथैवोक्तं स्कान्दे ॥
अज्ञानं पूर्वमित्याहुर्भवोऽनादिस्तदाश्रयः ॥
सर्वं निरसितव्यं तत्प्रयत्नेन विपश्चिता ॥ २१ ॥
पृ० २४) तथा सिद्धान्तशेखरे ॥
यो दीक्षितस्तु श्राद्धादौ स्वपूर्वविधिमाचरेत् ॥
तस्य तन्निष्फलं सर्वं समयेन च लङ्घ्यते ॥ २२ ॥
शिवरहस्ये ॥
सन्ध्या ध्यानं जपो होमः स्वाध्यायः पितृतर्पणम् ॥
वृद्धाचारं तु तत्सर्वं शिवलिङ्गी न कारयेत् ॥ २३ ॥
एवं पूर्वाश्रयनिरस्तमाहेश्वरः लिङ्गं ज्ञात्वा तल्लिङ्गसुखं
पृथग्वाचा व्यवहृते सति भिन्नत्वं प्राप्यतीति वाङ्निवृत्तौ
सत्यामनन्तरं वाग्द्वैतनिरसनस्थलमित्युच्यते ॥ २४ ॥
“मुण्डकोपनिषदि” अविद्यायामन्तरे वर्तमानाः स्वयं धीराः
पण्डितम्मन्यमानाः जघन्यमानाः परियन्तिः मूढा अन्धेनैव
नीयमाना यथान्धाः अविद्यायां बहुधा वर्तमाना वयं कृतार्था
इत्यभिमन्यन्ति बालाः ॥ २५॥ श्वेताश्वतरोपनिषदि ॥
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते तयोरन्यः
पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति ॥ २६ ॥ तथैवोक्तं
सूतसंहितायाम् ॥
द्वौ सुपर्णौ शरीरेऽस्मिन् जीवेशाख्यौ व्यवस्थितौ ॥
तयोर्जीवः फलं भुङ्क्ते कर्मणो न महेश्वरः ॥ २७ ॥
पृ० २५) तथा वासिष्ठे ॥
अज्ञस्याल्पप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् ॥
महानरकजालेषु स तेन विनियोजितः ॥ २८ ॥
किञ्च॥ विश्वसादाख्ये ॥
सर्वेषामेव भावानामात्मा सर्वेश्वरो हरः ॥
सति तस्मिन्नविज्ञाते किमद्वैतं भवेदहो ॥ २९ ॥
तथा पद्मनाभौ ॥
एक एव सदा रुद्रो न द्वितीयोऽस्ति कश्चन ॥
एतदद्वैतविज्ञानमन्यद्व्यर्थमुदाहृतम् ॥ ३० ॥
एवं वाग्द्वैतनिरसनं कृत्वा सर्वाङ्गे लिङ्गमेव पूर्णमिति विज्ञाता
महेश्वरः कदाचिदावाह्य कदाचिद्विसर्जयितुमवकाशमजानानः
आह्वानविसर्जनोभयेऽपि निरस्ते सत्यनन्तरमाह्वाननिरसनस्थलमित्युच्यते ॥
३१ ॥ प्रश्नोपनिषदि ॥
या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि ॥
या च मनसि सन्ततां शिवां तां कुरु मोत्क्रमीः ॥ ३२ ॥
तथैवोक्तं सिद्धान्तशिखामणौ ॥
यदा शिवकलायुक्तं लिङ्गं दद्यान्महागुरुः ॥
तदारभ्य शिवस्तत्र तिष्ठत्याह्वानमत्र किम् ॥ ३३ ॥
तत्रैव ॥
सुसंस्कारेषु लिङ्गेषु सदा सन्निहितः शिवः ॥
पृ० २६) तत्राह्वानं न कर्तव्यं प्रतिपत्तिविरोधकम् ॥ ३४ ॥
पुनस्तत्रैव ॥
नाह्वानं न विसर्गं च स्वेष्ठलिङ्गे तु कारयेत् ॥
लिङ्गनिष्ठापरो नित्यमिति शास्त्रस्य निश्चयः ॥ ३५ ॥
किञ्च ॥ वातुले ॥
वासनाऽऽवाह्यते देवि वासनैव विसर्ज्यते ॥
पारमार्थेन देवस्य नावाहनविसर्जने ॥ ३६ ॥
किञ्च ॥ तन्त्रसारे ॥
कुतो वा नीयते देवि कुतो वा न विसर्ज्यते ॥
स्थूलसूक्ष्मादिभेदेन स हि योगिषु संस्थितः ॥ ३७ ॥
एवं निवृत्ताह्वानविसर्जनोभयवतः
माहेश्वरस्याष्टतनुभिराविर्भूतसमस्तप्रपञ्चो मिथ्येतिज्ञाने
सत्यनन्तरमष्टमूर्तिनिरसनस्थलमित्युच्यते ॥ ३८ ॥
अन्तर्यामिब्राह्मणोपनिषदि ॥
यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरोयं पृथिवी न वेद
पृ० २७) यास्य पृथिवी शरीरं यः पृथिवीमन्तरोयमयत्येषत
आत्मान्तर्याम्यमृतः॥ योऽप्सु तिष्ठन्नद्भ्योऽन्तरोयमापो न विदुर्यस्यापः
शरीरं योषोऽन्तरोयमयत्येषत आत्मान्तर्याम्यमृतः ॥
योऽग्नावतिष्ठन्नग्ने रन्तरोयमग्निर्न वेद यस्याग्निः शरीरं
योऽग्निमन्तरोयमयत्येषत आत्मान्तर्याम्यमृतः यो वायौ तिष्ठन्
वायोरन्तरोयं वायुर्न वेद यस्य वायुः शरीरं यो
वायुमन्तरोयमयत्येषत आत्मान्तर्याम्यमृतः य आकाशे तिष्ठन्
आकाशादन्तरोयमाकाशं न वेद यस्य आकाशं शरीरं यो
आकाशमन्तरोयमयत्येषत आत्मान्तर्याम्यमृतः ॥ यश्चन्द्रमसि तिष्ठन्
चन्द्रमसोन्तरोऽयं चन्द्रमा न वेद यस्य चन्द्रमाः शरीरं
यश्चन्द्रमसमन्तरो यमयत्येषत आत्मान्तर्याम्यमृतः ॥ यः सूर्ये
तिष्ठन् सूर्यस्यान्तरोऽयं सूर्यो न वेद यस्य सूर्यः शरीरं
यस्सूर्यमन्तरोयमयत्येषत आत्मान्तर्याम्यमृतः ॥ य आत्मनि
तिष्ठन्नात्मान्तरोयमात्मा न वेद यस्यात्मा शरीरं य
आत्मानमन्तरोयमयत्येषत आत्मान्तर्याम्यमृतः ॥ ३९ ॥ तथा
आदित्यपुराणे ॥
तथा कर्ता कुलालादिर्न घटादिर्न हि स्वयम् ॥
भूम्यादिकृत्तदीशानो भूम्यादेरन्य एव हि ॥ ४० ॥
तत्रैव ॥
व्यतिरिक्तः शरीरादेः शरीरी यद्वदिष्यते ॥
तथा मूर्त्यष्टकादन्यो मूर्तिमान् पृथगीश्वरः ॥ ४१ ॥
तथाच स्कान्दे ॥
न गन्धादिगुणैर्युक्तः क्ष्मादिवद्भगवांश्च्छिवः ॥
पृ० २८) न स्यन्दनस्वभावश्च यथैवापस्तथा विभुः ॥ ४२ ॥
यथा ज्वलनवन्नोष्णस्तिरश्चीनो न वायुवत् ॥
नाकाशवत्तथा शब्दः शिवः परमचेतनः ॥ ४३ ॥
चन्द्रसूर्याविवाश्रान्तं स्थाणुर्न परिवर्तते ॥
मायागुणादिसम्बन्धो नात्मवत्परमेशितुः ॥ ४४ ॥
एवं परित्यक्तमूर्त्यष्टकेन माहेश्वरेण शरणपूर्णः शिव इति
ज्ञात्वा प्रतिष्ठाप्य जगत्पूर्णः शिव इत्युच्यमानेन
सर्वगतशब्दनिरसने कृते सत्यनन्तरं सर्वगतनिरसनस्थलमित्युच्यते ॥
४५ ॥ “बृहदारण्यकोपनिषदि” ॥
अनन्वागस्तः न भवत्यसङ्गो ह्ययं पुरुषः ॥ ४६ ॥
तथा स्कान्दे ॥
असङ्गो ह्ययमित्येवं ब्रवीति च परा श्रुतिः ॥
तस्मादात्मा तु विज्ञप्तः कर्मभिर्न स बध्यते ॥
चिद्रूपस्यात्मनः साक्षाद्ब्रह्मतामाह हि श्रुतिः ॥ ४७ ॥
किञ्च शिवगीतायाम् ॥
कथं सर्वगतत्वं स्याच्छिवस्य परमात्मनः ॥
असङ्गो ह्ययं पुरुष इत्याह श्रुतिरुन्नता ॥ ४८ ॥
तथा शिवधर्मे ॥
कथं भवेत्सर्वगतः शिवः परमपूरुषः ॥
पृ० २९) जडं नाशि च सर्वं च चिदानन्दघनः शिवः ॥ ४९ ॥
पुनरत एवोक्तं श्रीरुद्रोपनिषदि ॥
या ते रुद्र शिवा तनूरघोरा पापकाशिनी ॥
तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥ ५० ॥
तथैवोक्तं शैवपुराणे ॥
लिङ्गं शिवा तनूः प्रोक्ता मूर्तिघोरतनुः स्मृता ॥
अपापेषु च भक्तेषु तयोर्मध्ये शिवा तनूः ॥
काशते परमेशस्य शिष्टास्ते लिङ्गधारिणः ॥ ५१ ॥
पुनर्वातुले ॥
अघोरा पापकाशीति या ते रुद्र शिवा तनूः ॥
यजुषा गीयते यस्मात्तस्माच्छैवोऽघवर्जितः ॥ ५२ ॥
किञ्च ॥ शिवयोगप्रदीपिकायाम् ॥
नित्यं भाति त्वदीयेषु या ते रुद्र शिवा तनूः ॥
अघोरा पापकाशीति श्रुतिराह सनातनी ॥ ५३ ॥
कारणागमे ॥ वृत्तम् ॥
अपापकाशीति वपुः श्रुतं ते शिष्टाः प्रसिद्धा भगवन्नपापाः ॥
अतस्त्वदीयानपहाय भक्तानन्या नशिष्टानिति निश्चनोमि ॥ ५४ ॥
एवं निरस्तसर्वगतमाहेश्वरः प्रपञ्चे शिवव्यतिरिक्ते शिवेन विना
प्रपञ्चस्य भानमेव न स्यादिति ज्ञात्वा तस्मिन् स्थितोऽप्यस्थितैव
तिष्ठतीति निश्चये ज्ञाप्यमाने सत्यनन्तरं शिवजगन्मयस्थलमित्युच्यते
॥ ५५ ॥
पृ० ३०) “मुण्डकोपनिषदि” ॥
ब्रह्मैवेदममृतं पुरस्तात्पश्चाद्दक्षिणतश्चोत्तरेणाधश्चोर्ध्वं च
प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ ५६ ॥ किञ्च ॥
“उत्तरतापनीयोपनिषदि ॥”
सर्वगो ह्येष ईश्वरः क्रियाज्ञानात्मा सर्वं शर्वमयं हि सर्वे जीवाः
शर्वमयाः ॥ ५७ ॥ “तथा श्वेताश्वतरोपनिषदि वृत्तम्” ॥
परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥
न तस्य कश्चित्पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्ग ॥ ५८ ॥ तथा च
वायुपराणे ॥ शिवेनाधिष्ठितं यत्स्याज्जगत्सर्वं चराचरम् ॥
शुद्धा स्वाभाविकी तस्य शक्तिः सर्वातिशायिनी ॥ ५९ ॥
किञ्च ॥ अमृतबिन्दूपनिषदि ॥
एक एव हि भूतात्मा भूते भूते व्यवस्थितः ॥
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ ६० ॥
तथैवोक्तं योगशास्त्रे ॥
एक एव हि भूतात्मा देहे देहे व्यवस्थितः ॥
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ ६१ ॥
किञ्च सौरपुराणे ॥
सर्वोपाधिविनिर्मुक्तं चैतन्यं सर्वगं शिवम् ॥
तदेवेदं च विश्वं हि तस्मादन्यं न विद्यते ॥ ६२ ॥
एवं शिव एव जगद्रूपजगद्व्यतिरिक्तरूपद्वयसमर्थ इति मत्वा तं शिवं
पृ० ३१) स्वस्मिन्नालिङ्ग्य स्थितमाहेश्वरे तथाविधः शिवः
भक्तदेहिकदेहः सन् स्थितभेदो यथेत्याकाङ्क्षायामनन्तरं
भक्तदेहिकलिङ्गस्थलमित्युच्यते ॥ ६३ ॥ श्वेताश्वतरोपनिषदि ॥ वृत्तम् ॥
अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः ॥
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥ ६४
॥
तथा शिवरहस्ये ॥
शिवाङ्गं शरणः साक्षाच्छरणाङ्गं शिवो भवेत् ॥
शिवास्यं शरणः साक्षाच्छरणास्यं शिवो भवेत् ॥ ६५ ॥
किञ्च शिवसूत्रे ॥
लिङ्ग एवेशिते यद्वच्छिवः सर्वगतोऽपि सन् ॥
तथा भक्तजनेष्वेव शिवताव्यक्तिरिष्यते ॥ ६६ ॥
इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोण्टदार्यविरचिते
परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्य-
कैवल्यसारे माहेश्वरस्थलं नाम द्वितीयं प्रकरणं समाप्तम् ॥