पृ० १)॥ श्रीशिवाय नमः ॥
॥ श्रीसाम्बसदाशिवाय नमः ॥
अथ कैवल्यसारः ॥ वृत्तम् ॥
यदेकमव्यक्तमनन्तमीड्यं विभुं स्वयं निष्कलमद्वितीयम् ॥
गुरुस्वरूपेण सुखप्रदं तन्निरञ्जनं लिङ्गमहं नमामि ॥ १ ॥
स्वाधिष्ठितमखिलमिदं जगदेकीकृत्य मां कृतिं चैताम् ॥
ब्रह्मप्रापकगुरुराट् पायाच्चिद्रूपबो?बसवार्यः ॥ २ ॥
श्रीमद्वेदान्तमूलोत्थितविमलशतैकस्थलोत्कृष्टमेतं वीराख्यं
शैवतन्त्रं प्रतिभटहृदयान्तस्तमश्चण्डभानुम् ॥
ध्यात्वा चिन्मात्ररूपं गुरुवरमनिशं सिद्धवीराख्यदेवं नीत्वा
शान्तिं प्रपञ्चं जगदुपकृतये निर्ममोऽहं च कुर्याम् ॥ ३ ॥
एकोत्तरस्थलशतं विमलाङ्गलिङ्गसम्बन्धरूपमधिगम्य गुरोः प्रसादात्
॥
कैवल्यसारमखिलात्मसुखावबोधसिद्ध्यर्थमाह भुवि तोण्टददेशिकेन्द्रः
॥ ४ ॥
गद्यम् ॥
॥ अथ
वीरतन्त्रोदिताचारसम्पन्नसर्वोपनिषत्प्रतिपाद्यज्ञानगोचरकैवल्यसारम
अरभ्यते ॥ ५ ॥
अथ वीरशैवव्रतनिष्ठो मुमुक्षुर्भक्त एवाधिकारी
शिवभक्तिसमासादिताङ्ग-
पृ० २) लिङ्गसायुज्यरूपमुक्तिरेव प्रयोजनम्
एकोत्तरशतस्थलप्रतिपादकसकलोपनिषत्प्रतिपाद्यज्ञानमेव विषयः ॥
अस्य विषयस्य कैवल्यसाराख्यशास्त्रेण सह विषयविषयी भावः
सम्बन्धः ॥ ६ ॥
नन्वत्र वीरशैवव्रतनिष्ठो मुमुक्षुर्भक्त एवाधिकारीत्युक्तम् ॥
वीरशैवस्वरूपज्ञानाभावे तद्व्रतनिष्ठत्वादिस्वरूपं सुतरां
दुर्ज्ञेयमिति चेत्
सकलोपनिषत्प्रतिपाद्यशिवजीवैक्यबोधकशिवज्ञानविद्यारतानामेव
वीरशैवाभिधानत्वमित्युत्तरकामिकादिषु ॥
“विशब्देनोच्यते विद्या शिवजीवैक्यबोधिका ॥
तस्यां रमन्ते ये शैवा वीरशैवास्तु ते मताः॥” इत्युक्तत्वात् ॥ ७ ॥
ननु शिवभक्तिसमासादिताङ्गलिङ्गसायुज्यरूपमुक्तिरेव प्रयोजनमित्युक्तं
तदयुक्तम् ॥
तथाहि मुक्तेः शिवभक्ति समासादितत्वे “ज्ञानादेव तु कैवल्यमिति”
श्रुतिप्रतिपाद्यज्ञानस्य कारणत्वं न स्यात् किञ्च मुक्तेः स्वरूपत्वं वा
अतिरिक्तत्वं वा नाद्यः भक्तेः कारणत्वाभावप्रसङ्गात् न द्वितीयः ॥
अद्वैतभङ्गापुरुषार्थत्वादिदोषप्रसङ्गादिति चेन्न ॥ ८ ॥
ज्ञानकारणकवैदिक-
पृ० ३) कर्मनिवृत्तिरूपमोक्षानन्तरभाविस्वतन्त्रनिजलीलापन्नभक्तेरेव
मुक्त्यव्यवहितकारणत्वस्य वातुलादितन्त्रेषु “ज्ञानादेव तु मोक्षः
स्यान्मोक्षादुपरि शाम्भवी ॥
भक्तिः परतरा भाति स्वतन्त्रनिजलीलया” ॥ इत्युक्तत्वात् ॥ ९ ॥
अन्यथा परम्परासाधनीभूतज्ञानस्यापि मुक्तिकारणत्वे
अक्षराभ्यासादेरपि कारणत्वं स्यात् ॥ १० ॥
ननु मुक्तेः स्वरूपातिरिक्तत्वचोद्ये रे किमुत्तरमिति चेत् ॥
श्रूयतामवधानेन ॥ अङ्गलिङ्गसामरस्यस्य मुक्तेः
सदसद्विलक्षणरूपत्वं वातुलादिसर्वागमसिद्धम् ॥ तत्कथमिति चेत् ॥
श्हिव एव स्वयं लिङ्गमात्मैवाङ्गं भवेत्खलु ॥ तयोः शिवात्मनोः
सम्यग्योगः संयोग एव हि ॥ सम्यग्योगो हि संयोगो भवेल्लिङ्गाङ्गयोः सदा
॥ संयोग एव सायुज्यरूपा मुक्तिर्न संशयः ॥ इत्युच्यते ॥ ११ ॥
अथ स्थलशब्देनोच्यमानशिवतत्वं
सकलागमसारसङ्ग्रहशिवाद्वैतपरतत्वप्रतिपादकवचनमुखेन
व्याख्यायते ॥ १२ ॥ तत्रादौ स्थलशब्दो ब्रह्मणि कथं निष्पन्न
इत्याशङ्कां निवार्यमाणः सर्वागमेष्वपि तत्र तत्र स्थलत्वेन
प्रतिपादकाधिष्ठानपरवचनानि सङ्गृह्य व्याख्यायन्ते ॥ एकमेव परं
ब्रह्म
पृ० ४) सच्चिदानन्दलक्षणम् ॥
शिवतत्वं शिवाचार्याः स्थलमित्याहुरादरात् ॥ १३ ॥
लोके स्थलशब्दस्य प्रदेशान्तरवाचकत्वात्कथं ब्रह्मणि प्रयोग
इत्याशङ्कायामाह ॥
सर्वेषां स्थानभूतत्वाल्लयभूतत्वतस्तथा ॥
तत्वानां महदादीनां स्थलमित्यभिधीयते ॥ १४ ॥
एवं चाधिष्ठानव्यतिरेकेण वस्त्वन्तराभावाद्व्यवहारः कथमापद्यत
इत्याशङ्कायामाह ॥
स्वशक्तिक्षोभमात्रेण स्थलं तद्द्विविधं भवेत् ॥
एकं लिङ्गस्थलं प्रोक्तमन्यदङ्गस्थलं स्मृतम् ॥ १५ ॥
एकस्य वस्तुनो द्वैरूप्यासम्भवादिति न्यायेनैकस्यैव वस्तुनो भेदेन
प्रतीतिविषयत्वं न कुत्रापि दृष्टमित्येतां शङ्कां दृष्टान्तमुखेन
परिहरति ॥
महद्घटप्रभेदेन यथाकाशं प्रतीयते ॥
प्रतीयते तथा चैकस्थलं लिङ्गाङ्गभेदतः ॥ १६ ॥
सत्यज्ञानानन्दात्मकस्य परमात्मनः स्वेतरकल्पितभेदः स्वस्य
कथमुपपद्यत इत्यताह ॥
पृ० ५) चिन्मात्रं परमं साक्षात्स्थलं सत्यादिलक्षणम् ॥
लिङ्गाङ्गत्वं शिवात्मत्वभेदेनैव स्वयं श्रितम् ॥ १७ ॥
पूर्वं स्वशक्तिक्षोभमात्रेणेत्युक्तमिदानीं तु स्वयमेव लिङ्गाङ्गत्वं
श्रितमित्युक्तमिदमनुपपन्नमित्यत आह ॥
यथा स्थलं द्विधाभूतं तथा शक्तिर्द्विधा भवेत् ॥
शक्तिरप्रतिघा साक्षाच्छिवेन सहधर्मिणी ॥ १८ ॥
तथापि शक्तिपरमात्मनोः भेदकल्पकत्वाभावात्कथं भेदः प्रतीयत
इत्यत आह ॥
लिङ्गस्थलाश्रया काचित्काचिदङ्गस्थलाश्रया ॥
लिङ्गस्थलाश्रया शक्तिः कलारूपा प्रकीर्तिता ॥
अङ्गस्थलाश्रया शक्तिर्भक्तिरूपा भवापहा ॥ १९ ॥
तन्त्रान्तरोक्तलिङ्गशब्दार्थमत्र प्रमाणयति ॥
लीयते गम्यते यत्र येन सर्वं चराचरम् ॥
तदेतल्लिङ्गमित्युक्तं लिङ्गतत्वविशारदैः ॥ २० ॥
लिङ्गस्थलं सम्यग्विचार्य क्रमप्राप्तमङ्गस्थलं निरूपयति ॥
अनाद्यन्तमजं लिङ्गं तत्पदं परमं प्रति ॥
यद्गच्छति महाभक्त्त्या तदङ्गमिति निश्चितम् ॥ २१ ॥
आत्मस्वरूपापरिचये तस्याङ्गत्वमेव ज्ञातुं न शक्यत
इत्याकाङ्क्षायामात्मस्वरूपमाह ॥
आत्मायं
पृ० ६) केवलः शुद्धः शिवस्यांशः सदामलः ॥
नित्यो निरञ्जनस्यान्तस्तस्मादात्मा स्वयं शिवः ॥ २२ ॥
एवम्भूतस्यात्मनः शिवाङ्गत्वं कथमुपपद्यत इत्यत आह ॥
सोयमात्मा शिवाङ्गं स्याच्छिवेनाङ्गीकृतत्वतः ॥
सर्वज्ञतादिभेदैश्च शिवाङ्गमयमिष्यते ॥ २३ ॥
अङ्गमिति पदव्युत्पत्तिविचारेणाप्यात्मनः शिवाङ्गत्वमुपपद्यत इत्याह ॥
अमिति ब्रह्मसन्मात्रं गच्छतीति गमुच्यते ॥
रूप्यतेऽङ्गमिति प्राज्ञैरङ्गतत्वविचिन्तकैः ॥ २४ ॥
यदेकमेवेत्यादिप्रतिपादितमेकमेव स्थलं स्वशक्तिक्षोभमात्रादेव
द्विविधं जातं तदेवशक्तिभक्तिरूपोपाधिवशादेकमेकं प्रत्येकं
प्रत्येकं त्रिविधं त्रिविधं स्यात् ज्ञानक्रियात्मकत्वेन पुनरेकं
द्विविधं द्विविधं भवति ॥
एवं च पूर्वोक्तं तयोरेकस्थलं शक्तिविशिष्टाल्लिङ्गस्थलमिति
व्यवह्रियते ॥
अन्यत्तु भक्तिविशिष्टं सदङ्गषट्स्थलमिति व्यवहारः ॥ २५ ॥
तथा चैकमेव परस्परवैलक्षण्येन द्वादशधा जातम् इदानीं
तदवान्तरभेदानेकोत्तरशतसङ्ख्याकान्
पिण्डादिज्ञानशून्यान्तत्वेनाभिमतान्
वीरशैवाचार्यागस्त्यदूर्वासादिसकलपुरातनव्यवहारविषयान्
सकलविद्यासागरशिरोमणिसर्वोपनिषदर्थसङ्ग्रहमुखेन विविच्य
पृ० ७) प्रत्येकं प्रत्येकं प्रतिपादयितुं
तत्तत्स्थलप्रतिपादकश्रुतिगणोऽनुसन्धीयते ॥ २६ ॥
तत्र यद्यपि लिङ्गस्थलनिरूपणाधीनमेवाङ्गस्थलनिरूपणं तथा
चाङ्गस्थलनिरूपणात्पूर्वमेव लिङ्गस्थलं
निरूपणीयमुपजीव्यनिरूपणानन्तरमेवोपजीवकनिरूपणस्य न्यायत्वात् ॥
तथापि अङ्गस्थलस्वरूपं ज्ञानं विना लिङ्गस्थलस्वरूपस्य
दुर्ज्ञेयत्वादङ्गस्थलमेव प्रथमं निरूपणीयमिति विनिगमकानुरोधेन
साङ्गस्थलमेव प्रथमं निरूप्यते ॥ २७ ॥
ननु उभयोरप्येकस्मादेवोत्पन्नत्वाविशेषादेकस्य
प्राथम्यमन्यस्यानन्तर्यमिति विनिगमकमेव न संवति ॥
येनाङ्गस्थलस्य प्राथम्यमङ्गीक्रियते इति
चेदुभयोरप्येकस्मादेवोत्पन्नत्वाविशेषेऽपि स्वस्वरूपज्ञानाधीनमेव
परस्वरूपज्ञानमित्येव विनिगमकम् ॥ २८ ॥
अन्यथा ॥ अहङ्कारबलं दर्पं कामं कोधं परिग्रहम् ॥
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ २९ ॥
ब्रह्मभूतप्रसन्नात्मा न शोचति न काङ्क्षति ॥
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥
इति पौर्वापर्यक्रमभङ्गोऽपि स्यात् ॥ ३० ॥
तस्मादङ्गस्थलस्यैवादौ निरूपणीयत्वे सिद्धे
तदवान्तरभेदभक्तस्थलादिभूतं
पृ० ८) पिण्डस्थलं निरूप्यते ॥ ३१ ॥
अत्र बहुजन्मकृतसुकृतवशात् क्षीणपापः
सन्निर्मलान्तःकरणचरमदेही यः स एवात्मा
पिण्डसञ्ज्ञस्तदन्तरावस्थितपरब्रह्मैव पिण्डस्थलमित्युच्यते ॥ ३२ ॥
श्ह्वेताश्वतरोपनिषदि" ॥
तिलेषु तैलं दधिनीव सर्पिरापः स्रोतः स्वरणीषु चाग्निः॥
एवमात्मात्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ॥ ३३ ॥
तथैवोक्तं कूर्मपुराणे ॥
अङ्कुरः सुन्दरे बीजे सूर्यकान्ते च पावकः ॥
सलिल चन्द्रकान्ते च तथात्माङ्गेऽपिसाध्यते ॥ ३४ ॥
एवम्भूतपरब्रह्मणि स्वान्तरावस्थितसकलनिष्कलात्मकतत्वं
प्रदर्शयितुं या इच्छा जायते तदनुरोधेन यत्पिण्डभूतात्मनि ज्ञानं
जायते तदेव पिण्डज्ञानस्थलमित्युच्यते ॥ ३५ ॥
“अमृतनादोपनिषदि” ज्ञाननेत्रं समादायोद्धरेद्वह्निवत्परम् ॥
निश्चलं निष्कलं शान्तं तद्ब्रह्माहमिति स्मृतम् ॥ ३६ ॥
“कठवल्युपनिषदि” ॥
अशरीरं?शरीरेष्वनवस्थेष्ववस्थितम् ॥
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ३७ ॥ तथैवोक्तं
वासिष्ठे ॥
कुतो
पृ० ९) मायेयमिति ते राम मास्तु विचारणा ॥
कथमेनां जहामीति चैषा तेऽस्तु विचारणा ॥ ३८ ॥
एवंविधपिण्डज्ञानवान् महात्मा सकलनिष्कलतत्वं सम्यग्विचार्य तयोः
सकलरूपसंसारस्य हेयत्वबुद्धौ सत्यामनन्तरं
संसारहेयस्थलमित्युच्यते ॥ ३९ ॥ “मैत्रेयोपनिषदि” ॥
भगवन्नस्थिचर्मस्नायुमज्जामांसशुक्लशोणितश्लेष्माश्रुदूषिते
विण्मूत्रवातपित्तकफसङ्घाते दुर्गन्धे निःसारेऽस्मिंश्छरीरे किं
कामोपभोगैः ॥ ४० ॥ तथैवोक्तं पुराणे ॥
मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहते ॥
देहे चेत् प्रीतिमान्मूढो भविता नरकेऽपि सः ॥ ४१ ॥
एवम्भूतसंसारजुगुप्सानन्तरं गुरूपदेशाभावे
स्वस्वरूपसाक्षात्कारासम्भवात्तदर्थं गुरूपसदने कृते सत्यनन्तरं
गुरुकारुण्यस्थलमित्युच्यते ॥ ४२ ॥ मुण्डकोपनिषदि ॥
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं
ब्रह्मनिष्ठम् ॥ ४३ ॥ किञ्च मैत्रेयोपनिषदि ।
अथ किमेतैर्वान्यानां शोषणं महार्णवानां शिखरिणां प्रपतनं
ध्रुवस्य प्रचलनं प्रच्यवनं [स्थाने वा ॥ पाठान्तरम् ।]
पृ० १०) वा तरूणां निमज्जनं पृथिव्याः स्थानादपसरणं सुराणां
सोऽहमित्येतद्विधेऽस्मिन्संसारे किं
कामोपभोगैरेवाश्रितस्यासकृदिच्छावर्तनं दृश्यत
इत्युद्धर्तुमर्हसीत्यन्धोदपानस्थो भेक इवास यस्मिन्संसारे भगवंस्त्वन्नो
गतिरिति ॥ ४४ ॥ तथैवोक्तं वाक्यवृत्ते ॥
अनायासेन येनास्मान्मुच्येत भवबन्धनात् ॥
तन्मे सङ्क्षिप्य भगवन् केवलं कृपया वद ॥ ४५ ॥
एवं गुरुकरुणान्वितस्यैव महात्मनः
पञ्चभूतात्मकस्थूलदेहधर्मान्परिहृत्य
सदाचारसाधनीभूतदेहस्योपरि लिङ्गधारणे कृते सत्यनन्तरं
लिङ्गधारणस्थलमित्युच्यते ॥ ४६ ॥ “ऋग्वेदे सप्तमाध्याये” ॥
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः ॥
अतप्ततनुर्न तदामो अश्नुते श्रितास इद्वहन्तस्तत्समाशत ॥ ४७ ॥
तथैवोक्तं कामिकागमे ॥
ऋगित्याह पवित्रं ते विततं ब्रह्मणस्पते ॥
तस्मात्पवित्रं तल्लिङ्गं धार्यं शैवमनामयम् ॥ ४८ ॥
अतप्त-
पृ० ११) तनुरज्ञो व सामः संस्कारवर्जितः ॥
दीक्षया रहितः साक्षान्नाप्नुयाल्लिङ्गमुत्तमम् ॥ ४९ ॥
किञ्च “ब्रह्मोपनिषदि” ॥
यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥
सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदम् ॥
धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेत् ॥ ५० ॥
अस्मिन्नर्थे योगजागमे ॥
संसूतत्वात्समस्तेषु वस्तुष्वपि तु सन्ततम् ॥
सूचनात्परमेशस्य सूत्रं लिङ्गमितीरितम् ॥ ५१ ॥
किञ्च बृहत्कालोत्तरे ॥
व्रतानि दुश्चराणीह तपांस्युग्राणि यानि च ॥
न्यूनानि तानि सर्वाणि शिवलिङ्गस्य धारणात् ॥ ५२ ॥
तथा शिवरहस्ये ॥
परिशुद्धेन मनसा नियमेन दृढव्रतः ॥
शिवस्य [शिरःसु ।] लिङ्गं बिभ्राणः शिवमेव प्रपद्यते ॥ ५३ ॥
तथा वातुलेऽपि ॥
यस्य सांसारिको भावो नास्ति लज्जादयस्तथा ॥
स भक्तो निश्चलो धन्यो लिङ्गं सर्वत्र धारयेत् ॥ ५४ ॥
तत्रैव ॥
दास्यैकव्रतनिष्ठस्तु समतिक्रान्तलौकिकः॥
धारयेच्छिवलिङ्गं च पूजयेन्नियतात्मवान् ॥ ५५ ॥
पृ० १२) एवं लिङ्गधारणसम्पन्नस्य
परब्रह्माविनाभूतचित्प्रकाशस्वरूपभस्मधारणं
कर्तव्यमिति नियम एव विभूतिधारणस्थलमित्युच्यते ॥ ५६ ॥
“जाबालोपनिषदि” विभूतिधारणाद्ब्रह्मैकत्वं गच्छति स एष
भस्मज्योतिः स एष भस्मज्योतिः विभूतिधारणात्कैवल्यमश्नुते स एष
भस्मज्योतिः स एष भस्मज्योतिः विभूतिधारणादेव अमृतत्वं च गच्छति
स एष भस्मज्योतिः स एष भस्मज्योतिः ॥ ५७ ॥
एवं महाज्ञानभस्मसत्क्रियामुखेन धृतस्य लिङ्गक्रियासम्पन्नस्य
शिवज्ञानचक्षुःसम्भूतरुद्राक्षधारणे कृते सत्यनन्तरं
रुद्राक्षधारणस्थलमित्युच्यते ॥ ५८ ॥ जाबालोपनिषदि ॥
य इदं रुद्राक्षं धत्ते स सर्वपुण्यतीर्थस्नातो भवति स
सर्ववेदधारी भवति स सर्वक्रतुकृद्भवति स सर्ववेदात्मको भवति स
सत्यं परमः शिवः स परमः शिवः ॥ ५९ ॥ तत्रैव ॥
पापं कुर्वन्नपि मानवः रुद्राक्षं धारयन् सर्वपाप्मानं तरति ॥ ६०
॥ मानव पुराणे ॥
रुद्राक्षं धारयन्पापं कुर्वन्नपि च मानवः ॥
सर्वं तरति पाप्मानं जाबालश्रुतिराह हि ॥ ६१ ॥
एवं लिङ्गाङ्गिनः विभूतिरुद्राक्षधारकस्य
नित्यलिङ्गार्चनारतलिङ्गसम्पन्नस्य प्रणवा
पृ० १३) न्वितपञ्चाक्षरीमन्त्रजपस्यावश्यकत्वेनानन्तरं
पञ्चाक्षरीस्थलमित्युच्यते ॥ ६२ ॥ यजुर्वेदे ॥ शतरुद्रीये ॥ ङमः
शिवाय च" ॥ ६३ ॥
तथैवोक्तं शिवज्ञानविद्यायां वृतम् ॥ अङ्गं नमः पदमिदं शिव
एष लिङ्गं सम्बन्धमायपदमेतदुदीरितं स्यात् ॥
लिङ्गाङ्गसङ्गमपदत्रयबोधनार्थं मन्त्रोऽयमाह
निगमागममन्त्रराजः ॥ ६४ ॥
एवं विभूतिरुद्राक्षाणि धृत्वा पञ्चाक्षरीं जपित्वा
नित्यलिङ्गार्चनारतस्य साङ्गक्रियावर्तनं यथेत्याकाङ्क्षायामनन्तरं
भक्तिस्थलमित्युच्यते ॥ ६५ ॥ वृद्धजाबालोपनिषदि ॥
तस्माद्भस्मरुद्राक्षाणि धृत्वा रुद्रानुवाकै रुद्रं सम्पूज्य ॥ ६६ ॥
“एक एव हि रुद्रो न द्वितीयाय तस्थे” इत्यादिभिः परमेश्वरं स्तुत्वा
सततं युक्तिभिर्मन्यमानो ध्यायेत् ततः सकलपाशबन्धच्छेदान्मुक्तो
भवति नित्यसुखी भवति न संसारी भवति शिवस्वरूपो भवति
शिवस्वरूपो भवति शिवस्वरूपो भवति ॥ ६७ ॥ तथा च शिवाद्वैते ॥
शिवयोगी शिवः साक्षादिति कैङ्कर्यभक्तितः ॥
पूजनं सुमनाः कुर्वन् यः स भक्त इतीरितः ॥ ६८ ॥ तथा वातुले ॥
मुक्तस्यैव भवेद्भक्तिर्बद्धस्य न कदाचन ॥
भक्तस्यैव हि मुक्तिः स्यान्नाभक्तस्य कदाचन ॥ ६९ ॥ वातुले ॥
पृ० १४) प्रसादभक्तिमुक्तीनामेकदेशसमन्वयः ॥
अपि मुक्तिर्भवेज्जन्या शेषौ द्वौ जनकौ मतौ ॥ ७० ॥ तत्रैव ॥
प्रसादो जनकः प्रोक्तो जननी भक्तिरीरिता ॥
अनयोरैक्यभावेन जनिता मुक्तिकन्यका ॥ ७१ ॥ स्कान्दे ॥
लिङ्गे प्राणं समाधाय प्राणे लिङ्गं तु शाम्भवम् ॥
सशरीरं मनः कृत्वा न किञ्चिच्चिन्तयेद्यदि ॥ ७२ ॥
साभ्यन्तरा भक्तिरिति प्रोच्यते शिवयोगिभिः ॥
सा यस्मिन्वर्तते तस्य जीवनं भ्रष्टबीजवत् ॥ ७३ ॥
तत्रैव ॥ बहुनात्र कि मुक्तेन गुह्याद्गुह्यतरं परम् ॥
शिवभक्तिर्न सन्देहस्तया युक्तो विमुच्यते ॥ ७४ ॥
किञ्च वातुले ॥
प्रसादाद्देवताभक्तिः प्रसादो भक्तिसम्भवः ॥
यथैवाङ्कुरतो बीजं बीजतो वा तथाङ्कुरम् ॥ ७५ ॥
प्रसादपूर्विका चैका भक्तिर्मुक्तिविधायिनी ॥
नैव सा शक्यते प्राप्तुं नरैरेकेन जन्मना ॥ ७६ ॥
तत्र ॥ अनेकजन्मशुद्धानां श्रौतस्मार्तानुवर्तिनाम् ॥
विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः ॥ ७७ ॥
प्रसन्ने सति मुक्तोऽभून्मुक्तः शिवसमो भवेत् ॥
पृ० १५) अल्पभाव्यपि यो मर्त्यस्तस्य जन्मत्रयात्परम् ॥ ७८ ॥
तथा स्कान्दे ॥
तीर्थयात्रा बहुविधा यज्ञाश्च विविधाः कृताः ॥
एषां जन्मसहस्रेषु तस्माद्भक्तिर्भवेच्छिवे ॥ ७९ ॥
किञ्च ब्रह्मगीतायाम् ॥
नाहं प्रसन्नस्तपसा न दानेन न चेज्यया ॥
तुष्टोऽहं भक्तिलेशेन क्षिप्रं याति परं पदम् ॥ ८० ॥
तत्रैव ॥
न कर्मणा न तपसा न जपैर्न समाधिभिः ॥
न ज्ञानेन न दानेन वश्योऽहं श्रद्धया विना ॥ ८१ ॥
तथा स्कान्दे ॥
शुभानामशुभानां च कर्मणां वापि सञ्चयम् ॥
करोति भस्मसाद्भक्तिर्दहत्यग्निरिवेन्धनम् ॥ ८२ ॥
शैवरत्नाकरे ॥
सद्भक्तजनसङ्गश्च दुःसङ्गाभाव एव च ॥
एताभ्यां वर्धते पुंसां शिवभक्तिर्गरीयसी ॥ ८३ ॥
एवं सद्भक्तिस्थलसम्पन्नस्य भक्तस्य
देहप्राणरूपकर्तृभृत्यत्वसम्बन्धः
यथेत्याकाङ्क्षायामनन्तरमुभयस्थलमित्युच्यते ॥ ८४ ॥
श्ह्वेताश्वतरोपनिषदि" ॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ८५ ॥
तथैवोक्तं तत्वसारे ॥
सम्यग्गुरुं शिवं नित्यं ज्ञात्वा तत्पूजनं बुधः ॥
पृ० १६) यः करोत्युभयाकारं शिवस्यैकाश्रयः स हि ॥ ८६ ॥
एवमुभयस्थले लिङ्गाङ्गोभयसम्बन्धज्ञानवतो भक्तस्य
शरीरमनोभावेषु गुरुलिङ्गजङ्गमभूतविचारो
यथेत्याकाङ्क्षायामनन्तरं विविधसम्पत्तिस्थलमित्युच्यते ॥ ८७ ॥
श्ह्वेताश्वतरोपनिषदि" तस्याभिज्ञानात्तृतीयं देहभेदे विश्वैश्वर्यं
केवलमाप्तकामः ॥ ८८ ॥ तथैवोक्तं वातुलतन्त्रे ॥
गुरौ देवे समा बुद्धिर्यथा या शिवयोगिनि ॥
सैवा त्रिविधसम्पत्तिः संवित्साम्राज्यशालिनाम् ॥ ८९ ॥
एवं त्रिविधसम्पत्तिस्थलसम्पन्नस्य भक्तस्य
शरीरमनोज्ञानपरिणामेषु गुरुलिङ्गजङ्गमप्रसादभक्तिसन्निहितभेदः
कथमित्याकाङ्क्षायामनन्तरं चतुर्विधसारायस्थलमित्युच्यते ॥ ९० ॥
“पारातश्रुतौ” प्राञ्चो धावन्ति प्राञ्चो वहि सुवर्गो लोकः
चतसृभिरनुमन्त्रयते चत्वारि छन्दां?सिछन्दोभिरेवैनान् सुवर्गं
लोकं गमयति ॥ ९१ ॥ तथैवोक्तं शिवरहस्ये ॥
शिवाचार्यातिथिष्वेतत्प्रसादेऽप्येकरूपिणी ॥
सा चतुर्विधसारोक्ता भक्तिरव्यभिचारिणी ॥ ९२ ॥
एवं चतुर्विधसारायस्थलसम्पन्नो महात्मा
सकलभक्तजनहितोपदेशार्थं
पृ० १७) गुरुलिङ्गजङ्गमपूजानिरूपणे कृते
सत्यनन्तरमुपाधिदानस्थलमित्युच्यते ॥ ९३ ॥ छान्दोग्योपनिषदि ॥
त्रयो धर्मस्कन्धाः यज्ञोऽध्ययनं दानमिति ॥ ९४ ॥ काठकीयश्रुतौ ॥
यस्त्वतिथिभ्योऽत्रादिहविरदत्वा भुङ्क्ते स किल्बिषं भुङ्क्ते ॥ ९५ ॥
तथैवोक्तं शिवरहस्ये ॥
क्षीयन्ते च वरारोहे तपोयज्ञक्रियादयः ॥
न क्षीयन्ते वरारोहे वीरवक्त्रहुतं हविः ॥ ९६ ॥
किं च शैवपुराणे ॥ वृत्तम् ॥
नाहं तदद्मि यजमानहविर्वितानं चोद्यं घृतप्लुतमिदं हुतभुङ्मुखेन
॥
यज्जङ्गमस्य मुखतश्चरतोऽनुमासं तृप्तिर्न मे ह्यवहितैर्निजकर्मपाकैः
॥ ९७ ॥
पेषणं खण्डनं चुल्ली उदकुम्भः प्रमार्जनम् ॥
पञ्चसूना गृहस्थस्य केन मोक्षं न जायते ॥ ९८ ॥
देवकार्यं गुरोः कार्यं गणकार्यं च योगिने ॥
खननोत्पाटनं खण्डं कुर्वन्पापैर्न लिप्यते ॥ ९९ ॥
तथैव शातातपस्मृतौ ॥
आत्मार्थं न पचेदन्नं देवतार्थं तु पाचयेत् ॥
आत्मार्थं पचते यस्तु ब्रह्महा स च कथ्यते ॥ १०० ॥
किं च शिवरहस्ये ॥
लिङ्गार्थं जङ्गमार्थं च विशेषं पाकमुत्तमम् ॥
पृ० १८) आत्मार्थं यत्कृतं पाकं श्वानमांससमं भवेत् ॥ १०१ ॥
ब्रह्मगीतायाम् ॥
प्रदत्तं च निवृत्तं च द्विविधं दानमिष्यते ॥
आहुः प्रवृत्तमाचार्या देवैश्वर्यादिसाधकम् ॥ १०२ ॥
शिवधर्मोत्तरे ॥
तस्मात्पात्रतमं ज्ञात्वा शिवभक्तमकल्मषम् ॥
तस्मै सर्वं प्रदातव्यमक्षयं फलमिच्छता ॥ १०३ ॥
शैवरत्नाकरे ॥
शिवभक्तमतिक्रम्य यच्चान्यस्मै प्रदीयते ॥
निष्फलं तद्भवेद्दानं नरकं च प्रपद्यते ॥ १०४ ॥
शिवरहस्ये ॥
सर्वाचारविशेषेण सर्वव्रतविशेषतः ॥
सर्वशीलविशेषेण शिवदासोऽहमुत्तमम् ॥ १०५ ॥
एवं सकलभक्तजनानां भक्तिप्रारम्भमुपदिष्टमहात्मा
स्वयमुपाधिमनादृत्य निरुपाधिकः सन् सेवापरः
कथमित्याकाङ्क्षायामनन्तरं निरुपाधिदानस्थलमित्युच्यते ॥ १०६ ॥
श्वेताश्वतरोपनिषदि ॥
यो देवानामधिपो यस्मिन् लोका अधिश्रिताः य ईशोऽस्य द्विपाच्चतुष्पदः
कस्मै देवाय हविषा विधेम ॥ १०७ ॥ तथा शिवरहस्ये ॥
ममेशस्वामिकं कार्यं सर्वं मत्वेशचोदितम् ॥
पृ० १९) यस्यार्थः क्रियते पात्रे सा क्रिया निरुपाधिका ॥ १०८ ॥
किं च भगवद्गीतायाम् ॥
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ॥
देशे काले च पात्रे च तद्दानं निरुपाधिकम् ॥ १०९ ॥
वातुलतन्त्रे ॥
मदीयं तुभ्यमित्युक्तं न दद्याद्वस्तु किञ्चन ॥
त्वदीयं तुभ्यमित्येतद्दानं विमलमीरितम् ॥ ११० ॥
तत्रैव ॥
स१मयाराधनं नित्यं धनप्राणाभिमानकैः ॥
त्रिसन्ध्यं ध्या२नतो देवि मार्गशुद्धिरिहोच्यते ॥ १११ ॥
एवं निरुपाधिको भूत्वा कर्तृभृत्यभावेन सेवापरो महात्मा
स्वकृतभक्तौ स्वीकृतवस्तुनि चाभेदे प्राप्ते सत्यनन्तरं
सहजदानस्थलमित्युच्यते ॥ ११२ ॥
श्ह्वेताश्वतरोपनिषदि" ॥
भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म चैतत्
॥ ११३ ॥
तथैवोक्तं कूर्मपुराणे ॥
दाता दानं च देयं च पात्रं चैव शिवः स्वयम् ॥
नाहं कारणमित्येतद्दानं विमलमीरितम् ॥ ११४ ॥
तथा स्कान्दे ॥
शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् ॥
पृ० २०) शिवो यजति तत्सर्वं तच्छिवः सोऽहमेव च ॥ ११५ ॥
कपिल उवाच ॥
न्यायार्जितं धनं यस्तु शिवभक्त्यैव केवलम् ॥
दद्यात्सङ्गविनिर्मुक्तस्तद्दानं सहजं स्मृतम् ॥ ११६ ॥
वासिष्ठे ॥
निरुपाधिकचिद्रूपपरानन्दात्मवस्तुनि ॥ समाप्तं सकलं यस्य स दानी
शङ्करः स्वयम् ॥ ११७॥
इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोण्टदार्यविरचिते
परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्य-
कैवल्यसारे भक्तस्थलं नाम प्रथमं प्रकरणं सम्पूर्णम्