पृ० २१८) पटलः १८ (भेरीताडनम् ?)
इदम् ऊर्ध्वं प्रकर्तव्यं भेरीताडनमुत्तमम् ।
प्रातर्मध्याह्नसायाह्ने ध्वजमारोपयेत्ततः ॥ १ ॥
तद्रात्रौ ताडयेद्भेरीं लक्षणेन समन्वितम् ।
लक्षणं सम्प्रवक्ष्यामि शृणुष्व कमलासन ॥ २ ॥
आसनं चन्दनैर्वापि वकुलैश्च शिरीषकैः ।
व्यधवृक्षेण वा कुर्यात् भेरीं वा पटहं तु वा ॥ ३ ॥
आयामं तु त्रिहस्तं स्यात् उत्तमं तु विधीयते ।
पञ्चतालं तु मध्यं स्यात् षडङ्गुलविहीनकम् ॥ ४ ॥
आयामं चे तदुद्दिष्टं त्रिविधं चोच्यते मया ।
आयामस्य समं नाहं मध्ये पटहमुच्यते ॥ ५ ॥
पृ० २१९) वक्त्रं वै द्वादशाङ्गुल्यं नवभिस्सप्तभिश्च वा ।
एवमेव क्रमेणैव कृत्वा पटहमुत्तमम् ॥ ६ ॥
गोचर्मेण तु बन्धं स्यात् महाध्वनिसमायुतम् ।
मद्दलैः काहलैश्चैव कांस्यध्वनिसमायुतम् ॥ ७ ॥
झल्लरी झर्झरी मोन्तैः खण्डिका च समन्वितम् ।
अन्यैश्च सर्ववाद्यैश्च यथालाभेन ताडयेत् ॥ ८ ॥
प्रासादस्याग्रतश्चैव मण्टपं कारयेत्ततः ।
मण्टपस्य तु मध्ये तु गोमयेनानुलेपयेत् ॥ ९ ॥
स्थण्डिलद्वितयं कृत्वा शालिना च तथैव च ।
अष्टद्रोणेन शाली स्यात् स्थण्डिलौ द्वौ तु कारयेत् ॥ १० ॥
पृ० २२०) तदर्धं तण्डुलैर्युक्तं प्रोक्षयेदम्भसा ततः ।
पद्मपत्रं समालिख्य दर्भैश्चैव परिस्तरेत् ॥ ११ ॥
पटहस्य दलङ्कारं स्थण्डिलं कारयेत्ततः ॥
पटहं विन्यसेत्तत्र नववस्त्रसमन्वितम् ॥ १२ ॥
तदग्रे स्थापयेच्छूलम् अस्त्रमन्त्रेण देशिकः ।
गन्धैः पुष्पैश्च धूपैश्च दीपैश्चरुं निवेदयेत् ॥ १३ ॥
एवं वै पूजयेच्छूलं पश्चाद्भेरीं समर्चयेत् ।
उत्तराभिमुखो भूत्वा अर्चयेद्गन्धपुष्पकैः ॥ १४ ॥
आपोहिष्ठेतिमन्त्रेण प्रोक्षयित्वा कुशाम्भसा ।
पटहं विन्यसेत्तत्र हृदयेन तु पूजयेत् ॥ १५ ॥
पृ० २२१) दक्षिणे रुद्रमभ्यर्च्य वामे विष्णुं तथैव च ।
ब्रह्माणं पूजयेन्मध्ये एवमेव क्रमेण तु ॥ १६ ॥
वासुकीचर्मसूत्रे तु वलयौ रविचन्द्रमौ ।
मातरस्सन्ति कीले तु उदरे तु व्यवस्थितः ॥ १७ ॥
कोदण्डेन समायुक्तं पूजयेत् सत्रमन्त्रतः ।
वाद्यकं च समाहूय स्थानकर्म समाचरेत् ॥ १८ ॥
शुक्लवस्त्र परीधानं गन्धमालानुलेपनम् ।
नन्दिकेश्वरमावाह्य नन्दिमन्त्रसमन्वितम् ॥ १९ ॥
अर्चयित्वा यथान्यायं गन्धपुष्पादिना ततः ।
पटहस्यैव विप्रेन्द्र हविर्निवेदयेत्ततः ॥ २० ॥
पृ० २२२) आचार्यं पूजयेत्तत्र वाद्यं सम्पूजयेत्ततः ।
वामदेवेन मन्त्रेण अर्चयित्वा विशेषतः ॥ २१ ॥
ताडयेच्छिवमन्त्रेण आचार्यो मन्त्रविग्रहः ।
वाद्यकस्ताडयेत्पश्चात् नन्दिमन्त्रेण संयुतम् ॥ २२ ॥
कुलोद्गतो विदितात्मा ताडयेत्तालमेव च ।
चर्चपुटं तु ब्रह्माणं चाचपुट द्वितीयके ॥ २३ ॥
इन्द्रस्य स * * * * * * * * * * * *
शुभमस्तु
ॐ श्री सच्चिदानन्द उमामहेश्वराभ्यां नमः॥
वीरागमम् ॥
समस्तविद्याकुसुमैरलङ्कृतां
शशिप्रभां बालशशांङ्कशेखराम् ।
अयुग्मनेत्रामरविन्दजप्रभां
नमामि देवीं वरदां सरस्वतीम् ॥ १॥
प्रणम्य भगवन्तं हि परिपृच्छत्पितामहम् ।
तन्त्राणामद्भवं किञ्चित् तत्सर्वं ब्रूहि मे प्रभो ॥ २ ॥
ईश्वर उवाच-
तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ।
तनोति विपुलानर्थान् तत्वमन्त्रसमाश्रितान् ॥ ३ ॥
त्राणञ्च कुरुते पुंसां तेन मन्त्रमिति स्मृतम् ।
कामिकं योगजं चिन्त्यं कारणं त्वजितं तथा ॥ ४ ॥
दीप्तं सूर्यसहस्रञ्च अंशुमान् सुप्रभेदकम् ।
विजयञ्चैव निश्वासं स्वायम्भुवमयानिलम् ॥ ५॥
श्री गुरुभ्यो नमः। श्री अम्बासहायम् ।
मकुटतन्त्र।
अतः परं प्रवक्ष्यामि अष्टबन्धविधिक्रमम् ।
सर्वपापहरं पुण्यं सर्वविघ्नहरं शुभम् ॥ १ ॥
राजराष्ट्राभिवृद्ध्यर्थं सर्वलोकशुभप्रदम् ।
अष्टबन्धं ततो हीने राजराष्ट्रस्य दोषकृत् ॥ २ ॥
निश्वासतन्त्रे -
प्रमादाद्बन्धने हीने पूजा नैवेद्यनिष्फलम् ।
दर्शने बन्धने हीने सन्तानं नाशयेत्क्रमात् ॥ ३॥
प्रमादात्पूजनं कुर्याद्राजारेणमवाप्नुयात् ।
बलिं नित्योत्सवञ्चैव वर्ज्यं प्रादक्षिणं तपम् ॥ ४॥
नृत्तगीतञ्च वाद्यञ्च नित्यनैमित्तिकं तथा ।
उपचाराणि सर्वाणि निष्फलञ्च तथा भवेत् ॥ ५ ॥
मकुटतन्त्रे-
अष्टो बन्धनमित्युक्तो तत्र शास्त्रोक्तमार्गतः।
फाल्गुने चैववैशाखे पुष्यमाते तु चोत्तमः ॥ ६ ॥
वर्जयेचान्यमातेषु विषये च विहीनके ॥ ७ ॥
निश्वासे-
सर्वमासेषु कर्तव्यम् अष्टबन्धमिहोच्यते।
दिनवारमुहूर्तञ्च वर्जयेद्देशिकोत्तमः ॥ ८ ॥