पृ० २१०) पटलः १७) (ध्वजारोहणविधिः)
ध्वजारोहणमेवं तु वक्ष्यामि शृणु सत्तमः ।
श्वेतवर्णं ध्वजं चैव राजराष्ट्र विवर्धनम् ॥ १ ॥
वश्यं वै रक्तवर्णं तु स्तम्भनं पीतमुच्यते ।
विजयं कपिलाभं च कृष्णं चैवाभिचारकम् ॥ २ ॥
धूम्रं व्याधिप्रदं चैव एवमेव क्रमेण तु ।
? धान्यान् कामान्यकामाय तों तान्तान्वै साधयेत् ध्वजः ॥ ३ ॥
वर्षार्थं श्यामवर्णं तु क्षीराभं सर्वशान्तिकम् ।
शङ्खस्फटिकमुक्ताभं रक्षार्थं शान्तिपुष्टिकम् ॥ ४ ॥
पूर्वाह्णे ब्रह्मणः प्रीतिर्मध्याह्ने राज्यवृद्धिदम् ।
रात्रौ वैश्यस्य शूद्राणां वर्धते क्रमशस्तथा ॥ ५ ॥
पृ० २११) ध्वजस्थानमहं वक्ष्ये श्रूयतां कमलासन ।
पीठगोपुरयोर्मध्ये वृषस्य च पुरतोऽपि वा ॥ ६ ॥
पीठाग्रे वाथ कुर्यात्तु ध्वजस्थानं विधीयते ।
क्रमुकं वेणुदण्डं च चन्दनं वापि खादिरम् ॥ ७ ॥
चम्पकं देवदारुं च स्तम्बकैर्बिल्वकैरपि ।
अवक्रं निर्व्रणं चैव कृमिकोटरवर्जितम् ॥ ८ ॥
प्रासादस्य समं वापि प्रासादग्रीवमेव च ।
वृषभस्थल समं वापि गोपुरोत्सेधमेव च ॥ ९ ॥
तुलान्तं च तुलान्तं वा दण्डस्योत्सेधमुच्यते ।
हस्तसङ्ख्येन वा कुर्यात् त्रिंशद्धस्तमथापि वा ॥ १० ॥
पृ० २१२) द्वादशं दशहस्तं वा ध्वजस्योत्सेधमुच्यते ।
सप्तत्रिंशाङ्गुलं वापि चतुर्विंशतिरेव वा ॥ ११ ॥
द्वाविंशतिभिर्वाथ नाहं तस्य विधीयते ।
वेणुयष्टिं ततो ग्राह्य अवक्रं निर्व्रणं ततः ॥ १२ ॥
एकपर्वं विनाशार्थं द्विपर्वेण भयङ्करम् ।
त्रिपर्वं व्याधिनं पीड्यं चतुष्पर्व विनाशिनः ॥ १३ ॥
पञ्चपर्वात् भयं लोके षट्पर्वं स्या श्रियं भवेत् ।
सप्तपर्वान् गवां नाशः अष्टपर्वैस्तु वर्धते ॥ १४ ॥
नवपर्वान् कुलं क्षीणं दशमः सर्वकामदः ।
एकादशं पुत्रकामः द्वादशं पुष्टिकामदम् ॥ १५ ॥
पृ० २१३) इदम् ऊर्ध्वं न कर्तव्यं हस्तमानं ततश्शृणु ।
षट्तालं पञ्चतालं वा तस्याग्रे घटिकां न्यसेत् ॥ १६ ॥
आधारफल त्रीणि च याज्ञिकैर्वृक्षसम्भवैः ।
हस्तमात्रान्तरं ज्ञेयं हस्तं वा सुषिरद्वयम् ॥ १७ ॥
एवमेव प्रमाणेन तन्तुना रज्जुरुच्यते ।
अग्रघटिकामूलान्तं रज्जुद्विगुणं कारयेत् ॥ १८ ॥
माणवकश्शुचिर्भूत्वा प्रोक्षयेदम्भसा ततः ।
नववस्त्रपरीधाना सोष्णीयं चोत्तरीयकम् ॥ १९ ॥
अन्यध्वजांश्च कुर्यात्तु एवमेव प्रदक्षिणम् ।
तस्यान्ते चास्त्रराजानमन्नलिङ्गसमायुतम् ॥ २० ॥
पृ० २१४) नानाध्वजसमायुक्तं नानापिञ्छसमायुतम् ।
नानाजनसमाकीर्णं नानावाद्यसमायुतम् ॥ २१ ॥
नानाचित्रसमायुक्तं ब्रह्मघोषसमन्वितम् ।
मङ्गलाङ्कुरसमायुक्तं नृत्तगेयसमन्वितम् ॥ २२ ॥
अग्रतः पृष्ठतो गत्वा आचार्यो यजमानकः ।
शनैः प्रदक्षिणं कृत्वा ध्वजस्थानं प्रवेरयेत् ॥ २३ ॥
अं चातमाघतात्तत्र हस्तद्वयप्रमाणतः ।
तस्य मूले प्रकर्तव्यं वेदिलक्षणसंयुतम् ॥ २४ ॥
षट्तालमध्ये विन्यस्य स्वर्णकूर्मं तु मेव च ।
पुण्याहं वाचयेत्तत्र प्रोक्षयेत् शुद्धवारिणा ॥ २५ ॥
पृ० २१५) हृदयेन तु मन्त्रेण क्षालयेत् ध्वजदण्डकम् ।
दर्भमालाभिरावेष्ट्य पुष्पमालासमन्वितम् ॥ २६ ॥
वृषगायत्रिमन्त्रेण प्रोक्षयेत्कलशोदकैः ।
उत्थाय ध्वजदण्डं तु व्योमव्यापि समुच्चरन् ॥ २७ ॥
वालुकेन हृदा चैव पूरयेदाघतां ततः ।
तस्य मूले प्रकर्तव्यं वेदिकालक्षणं ततः ॥ २८ ॥
षट्तालं पञ्चतालं वा चतुस्तालमथापि वा ।
विस्तरः प्रोच्यते विप्र उत्सेधं तु तदर्धकम् ॥ २९ ॥
तदूर्ध्वे पद्म सङ्कल्प्य अष्टपत्र सुशोभनम् ।
एवमेखलमेवं स्यात् मेखलात्रयमेव च ॥ ३० ॥
पृ० २१६) उत्सेधं तु त्रिधा भज्य एकैकमेखलोच्छ्रयम् ।
अधस्तमेखला चैव भूमिदेवीं तु विन्यसेत् ॥ ३१ ॥
श्रीदेवीं मध्यमे पूज्य तृतीये च सरस्वती ।
त्रिमेखलेषु विप्रेन्द्र शक्तीनां त्रय कल्पयेत् ॥ ३२ ॥
एकमेखलया कुर्यात् भूमिदेवीं न्यसेत्ततः ।
पूजयेद्गन्धपुष्पेण धूपदीपैस्समन्वितम् ॥ ३३ ॥
स्थण्डिलं कारयेत्तत्र चतुर्द्रोणेन शालिना ।
पुण्याहं कारयेत्तत्र कलशान् विन्यसेन्नवम् ॥ ३४ ॥
मध्यमे वृषभकुम्भं तु वृषमन्त्रेण विन्यसेत् ।
इन्द्रादीशानपर्यन्तं विन्यसेत् कलशं ततः ॥ ३५ ॥
पृ० २१७) सवस्त्रान् सापिधानांश्च लोकपालाधिदेवताः ।
स्नापयित्वा यथान्यायं वृषयन्त्री च मन्त्रतः ॥ ३६ ॥
निवेदयेत्तु मुद्गान्नं दध्योपदंशसंयुतम् ।
? एतत्काले तु पूजातीनां पिण्डान्यान् भोजयेत्ततः ॥ ३७ ॥
कुक्कुटाण्डप्रमाणेन पिण्डं कुर्यात्तु देशिकः ।
वृषगायत्रिमन्त्रेण पिण्डं दद्यात्तु देशिकः ॥ ३८ ॥
वृषभं भर्तृवत् समृत्वा त्रिः कृत्वा तु प्रदक्षिणम् ।
नमस्कारं तु कर्तव्यं ध्वजमूले समाश्रितः ॥ ३९ ॥
एवं कुर्यात्तु विप्रेन्द्र चातुर्वर्णं तु दापयेत् ।
अन्यजातिस्तु सर्वेषां प्रतिलोमाश्च कारयेत् ॥ ४० ॥
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ।
ताम्बूलं दापयेत्तस्मै जनान्सर्वान्विशेषतः ॥ ४१ ॥
इति वीरतन्त्रे ध्वजारोहणविधिः समाप्तः॥