१६ वृषयागः

पृ० २०३) पटलः १६ (वृषयागः)

वृषयागं प्रवक्ष्यामि शृणुष्व कमलासन ।
प्रासादस्याग्रतः कुर्यात् मण्टपं चतुरश्रकम् ॥ १ ॥

मण्टपस्य तु तन्मध्ये कुर्याद्वृषभयागकम् ।
दर्भमालाभिरावेष्ट्य पुष्पमालावलम्बितम् ॥ २ ॥

इन्द्रादीशानपर्यन्तम् अष्टदिक्षु ध्वजाष्टकम् ।
लोकपालाधिदैवत्यं स्वस्वरूपं तु लाञ्चयेत् ॥ ३ ॥

विन्यसेत्तु ध्वजं सूत्रं चतुस्तोरणभूषितम् ।
वितानेनोर्ध्वमाच्छाद्य मुक्तादामैरलङ्कृतम् ॥ ४ ॥

वृषदेवं समभ्यर्च्य गन्धपुष्पादिना ततः ।
मुद्गान्नं चैव दातव्यम् उपदंश समन्वितम् ॥ ५ ॥

पृ० २०४) तदग्रे स्थण्डिलं कृत्वा शालिभिर्विमलैस्ततः ।
अष्टद्रोणेन शालिं तु तदर्धं तण्डुलैरपि ॥ ६ ॥

तदर्धं तु तिला न्यस्य पद्मं कृत्वा विशेषतः ।
तस्योपरि न्यसेत्तत्र कलशान्नवसङ्ख्यया ॥ ७ ॥

मध्यस्थपदमेकैकं ससूत्रान् सापिधानकान् ।
पूरयेत् गन्धतोयेन स्वर्णं तत्र विनिक्षिपेत् ॥ ८ ॥

वृषबीजं समुद्धृत्य गन्धपुष्पादिनार्चयेत् ।
पूर्वादीशानपर्यन्तं विन्यसेदष्टकुम्भकान् ॥ ९ ॥

पाद्यं पूर्वं न्यसेद्यत्र आग्नेय्यां पुष्पमुच्यते ।
आचमनं दक्षिणे तस्य फलोदकं तु नैरृते ॥ १० ॥

पृ० २०५) अर्घ्यं पश्चिमतो न्यस्य बलिदानं तु वायव्ये ।
उत्तरे पञ्चगव्यं तु ईशे रत्नोदकं न्यसेत् ॥ ११ ॥

गन्धादिनार्चयेत्तत्र देवता विन्यसेत्ततः ।
वृषभं मध्यमे न्यस्य उक्षाणं पूर्वतो न्यसेत् ॥ १२ ॥

गोपतिं चाग्निदिग्भागे शृङ्गिणं चैव दक्षिणे ।
नैरृत्यां चैव नन्दी स्यात् पश्चिमे तु वशेत् पतिम् ॥ १३ ॥

वृषाणि वायुदिग्भागे शङ्कुकर्णस्तथोत्तरे ।
महोदरं तु ईशान्यां विन्यसेत् कलशेषु च ॥ १४ ॥

कलशान् पूर्वदिग्भागे शालिना स्थण्डिलं कुरु ।
अष्टपत्रं समालिख्य दर्भैश्चैव परिस्तरेत् ॥ १५ ॥

पृ० २०६) ध्वजपटं विन्यसेत्तत्र * णेन समन्वितम् ।
उत्तमं दशहस्तं तु मध्यमं नवहस्तकम् ॥ १६ ॥

अधमं चाष्टहस्तं स्यात् मध्यमं नवहस्तकम् ।
अर्धाधिके त्रितालं तु पटदैर्घ्य मिहोच्यते ॥ १७ ॥

षट्तालमुत्तमं प्रोक्तं पञ्चतालं तु मध्यमम् ।
अर्धाधिके त्रितालं तु कन्यस्तं त्विह चोच्यते ॥ १८ ॥

पटविस्तारमानं तु चतुर्भागैकमेव तु ।
ब्राह्मणस्य भवेत् श्वेतं क्षत्रियस्य तु रक्तकम् ॥ १९ ॥

पीतं वैश्यस्य इत्युक्तं कृष्णवर्णं तु शूद्रकम् ।
विस्तारेण समं पुच्छं पुच्छार्धं शिखरं भवेत् ॥ २० ॥

पृ० २०७) मध्यमं वृषभं पुच्छात् स्थितं वा शयनं तु वा ।
वृषभं श्वेतवर्णं तु रक्तवर्णं तु शृङ्गकम् ॥ २१ ॥

खुराणां रक्तवर्णं तु पीतं लाङ्गूलमेव च ।
नेत्रे श्वेतमयी चैव मध्यरक्तमयी यथा ॥ २२ ॥

वृषभं मध्यपीठं तु मणिमालाविभूषितम् ।
पशुदीपद्वयो न्यस्य चित्रमूर्ध्वे तु विन्यसेत् ॥ २३ ॥

द्वौ पार्श्वौ चामराभ्यां तु लेखयेत् वृषभं ततः ।
पूर्वेद्युरधिवासं च ध्वजदण्डेन संयुतम् ॥ २४ ॥

प्रोक्षयेदम्भसा चैव हृदयेन तु मन्त्रतः ।
गन्धपुष्पादिना पूज्य वृषगायत्रिमन्त्रतः ॥ २५ ॥

पृ० २०८) पूर्वादीशानपर्यन्तं वृषमूर्तिं न्यसेत्ततः ।
तदन्ते लोकपालांश्च पूजयेत्तु विशेषतः ॥ २६ ॥

तद्बाह्ये पूजयेत्तत्र लोकपालास्त्रमेव च ।
तस्यैव पूर्वदिग्भागे शालिका स्थण्डिलं कुरु ॥ २७ ॥

पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् ।
तदूर्ध्वे विन्यसेन्मूलं पूजयेत्तु विशेषतः ॥ २८ ॥

वामादीनां तु शक्तीनां शूलमूले प्रतिष्ठितम् ।
कुमारं पालिके न्यस्य कुम्भे तु वरुणं न्यसेत् ॥ २९ ॥

तासि चैवाग्निदैवत्यं सरस्वती चैव दण्डकम् ।
पीठे तु पार्वतीं न्यस्य भूमिभागे वसुन्दरीम् ॥ ३० ॥

पृ० २०९) गन्धपुष्पैश्च धूपैश्च षण्णवत्येन पूजयेत् ।
पुण्याहं वाचयेत्तत्र ताम्बूलं दापयेत्ततः ॥ ३१ ॥

ततो होमं प्रकुर्वीत स्थण्डिलं चतुरश्रकम् ।
शिवाग्निमानयेत्तत्र अग्निमुखं च हूयते ॥ ३२ ॥

समिदाज्यचरून् लाजान् सर्षपांश्चैव हूयते ।
पञ्चब्रह्मेण संयुक्तम् ईशानादीनि हूयते ॥ ३३ ॥

प्रत्येकं शतमर्धं वा तदर्धं वापि हूयते ।
वृषाशिवासनं प्रोक्तं ध्वजारोहणकं शृणु ॥ ३४ ॥

इति वृषयागस्समाप्तः ॥