१५ उत्सवसूचनम्

पृ० १९०) पटलः १५ (उत्सवसूचनम्)

उत्सवं यत्त्वया पृष्टं तव स्नेहाद्विशेषतः ।
तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ॥ १ ॥

सर्वदुःखहरं पुण्यं सर्वपापनिवारणम् ।
उत्गतं तुत्सवो यस्मात् तस्मादुत्सवमुच्यते ॥ २ ॥

दीक्षां चैव प्रतिष्ठान्ते प्रोक्षणान्ते तथैव च ।
ज्वर * मार्याप्रवर्त्तं तु शत्रुपीडनेषु च ॥ ३ ॥

धनधान्यसमृद्ध्यैव क्षामक्षयकराय च ।
सर्वेषामिष्टकामार्थं सर्वव्याधिविनाशनम् ॥ ४ ॥

एषु कालेषु कुर्यात्तु उत्सवं विधिनाधुना ।
द्विविधम् उत्सवं चैव तयोर्भेदं शृणुष्वथ ॥ ५ ॥

पृ० १९१) मार्गशीर्षं च मासे तु आर्द्रान्तं स्यात् शिवोत्सवः ।
पुष्यमासे तु पुष्यान्तं माघमासे मघान्तकम् ॥ ६ ॥

फाल्गुने चोत्तरां च चैत्र चित्रान्तमुच्यते ।
वैशाखे तु विशाखान्तं मूलान्तं श्रेष्ठमासके ॥ ७ ॥

आषाढं चोत्तराषाढं श्रावणे श्रावणान्तकम् ।
पूर्वाषाढं च मेवोक्तं पूर्वभाद्रेति मासके ॥ ८ ॥

आश्वयुजे व मासे च अश्विन्यान्तं तु कारयेत् ।
कृत्तिके कृत्तिकान्तं तु कारयेत्तु शिवोत्सवम् ॥ ९ ॥

राज्ञा जन्मदिनान्ते वा ग्रामनक्षत्रमेव वा ।
कर्तुश्च जन्मनक्षत्रे कुर्यादुत्सवमुच्यते ॥ १० ॥

पृ० १९२) सर्वमासेषु कर्तव्यमार्द्रान्तं हि शिवोत्सवम् ।
शैवं गौणं विभूतं च भौवनं देविकं तथा ॥ ११ ॥

पञ्चभेदेन कर्तव्यं शिवोत्सवविधिक्रमम् ।
एतेषां भेदकं वक्ष्ये शृणुष्व कमलासन ॥ १२ ॥

शैव भेदं समाख्यातम् एकाहम् उत्सवं ततः ।
त्रियाहेन समायुक्तं गौणमित्यभिधीयते ॥ १३ ॥

पञ्चाहं भौतिकं प्रोक्तं सप्ताहं भौवनं स्मृतम् ।
नवाहेन समायुक्तं दैविकम् उत्सवं स्मृतम् ॥ १४ ॥

सूर्यवारेण कुर्यात्तु वारोत्सवमिति स्मृतम् ।
शनैश्चरस्य वारे तु तथा कामदमुच्यते ॥ १५ ॥

पृ० १९३) वारोत्सवे तु * * * मार्ताण्डीयमिति स्मृतम् ।
एतेषां तु क्रमेणैव वक्ष्यते विधिनाऽधुना ॥ १६ ॥

सायङ्काले समारभ्य तत्पूर्वे रात्रिसंयुतम् ।
होमं कुर्यात्तु तद्रात्रौ बलि भ्रमणमाचरेत् ॥ १७ ॥

बलिरेकं मया प्रोक्तम् एकाहे उत्सवे तथा ।
अपरेद्युश्चैव विप्रेन्द्र तीर्थं कुर्यात्तु देशिकः ॥ १८ ॥

एवमेव क्रमेणैव द्विविधं चोच्यते मया ।
त्रियहेषु च विप्रेन्द्र सायङ्काले समारभेत् ॥ १९ ॥

प्रातःकाले तु तीर्थं स्यात् * * * * * * * * ।
इदमन्यत्प्रकारेण त्रियहं वक्ष्यतेऽधुना ॥ २० ॥

पृ० १९४) सायङ्काले तदारभ्य तद्रात्रौ अधिवासयेत् ।
होमं कुर्यात्तु तद्रात्रौ तद्रात्रौ बलिमारभेत् ॥ २१ ॥

दिने दिने दिने चैव बलिरेकं विधीयते ।
बल्यन्ते चैव विप्रेन्द्र चूर्णोत्सवं तु कारयेत् ॥ २२ ॥

चूर्णोत्सवान्ते तीर्थं स्यात् द्विविधं चोच्यते मया ।
पञ्चाहं तु प्रवक्ष्यामि शृणुष्व कमलासन ॥ २३ ॥

अष्टाहे चैव सायाह्ने अधिवासनमारभेत् ।
होमं कुर्यात्तु तद्रात्रौ बलिं चैव ददेत् पुनः ॥ २४ ॥

चतुर्दशबलिं दद्यात् सूर्णोत्कारयेत् ।
तीर्थं कुर्याद्विशेषेण इदमन्य शृणु ॥ २५ ॥

पृ० १९५) सायङ्कालं समारभ्य तत्पूर्वे दिनमारभेत् ।
षष्ठाहे तु च पूर्वाह्णे चूर्णोत्सवं तु कारयेत् ॥ २६ ॥

तीर्थं चैव प्रकर्तव्यम् इदमन्यत् शृणुष्व हि ।
सायङ्काले समारभ्य पञ्चाहं स्यात् दिने तथा ॥ २७ ॥

होमं कुर्यात्तु तद्रात्रौ बलिरेका विधीयते ।
द्वितीये च तृतीये च चतुर्थं तु बलिद्वयम् ॥ २८ ॥

पञ्चमे बलिरेकं स्यात् चूर्णोत्सवं तु कारयेत् ।
कुर्याद्वै तीर्थकर्मं तु द्विविधं चोच्यते मया ॥ २९ ॥

सप्ताहं चैव वक्ष्यामि शृणुष्व कमलासन ।
अष्टाहे चैव सायाह्ने अधिवासनमारभेत् ॥ ३० ॥

पृ० १९६) होमं कुर्यात्तु तद्रात्रौ बलिं चैव ददेत्पुनः ।
चतुर्दशबलिं दद्यात् चूर्णोत्सवं तु कारयेत् ॥ ३१ ॥

तीर्थं कुर्याद्विशेषेण इदमन्यत् शृणुष्वथ ।
सप्ताहे सायमारभ्य अधिवास्य ततो बुधः ॥ ३२ ॥

होमं कुर्यात्तु तद्रात्रौ बलिरेकं ददेत्पुनः ।
द्वितीये दिवसे चैव तृतीयेऽपि चतुर्थके ॥ ३३ ॥

पञ्चमे षष्ठमे चैव बलिद्वयसमाचरेत् ।
सप्ताहं बलिरेका स्यात् बल्यन्ते चूर्णमुच्यते ॥ ३४ ॥

तत्र तीर्थं समारभ्य यावत्कालौकमुत्तमम् ।
सप्ताहं द्विविधं प्रोक्तं नवाहं च शृणुष्वथ ॥ ३५ ॥

पृ० १९७) तत्पूर्वरात्रिमारभ्य तद्रात्रौ चाधिवासयेत् ।
होमं कुर्यात्तु तद्रात्रौ बलिं चैव तु दापयेत् ॥ ३६ ॥

तत् दिनादीत्तु तीर्थान्तं तत्काले व बलिं ददेत् ।
चूर्णोत्सवं ततः कुर्यात् तीर्थं कुर्यात्तते बुधः ॥ ३७ ॥

इदमन्यत्प्रवक्ष्यामि शृणुष्व कमलासन ।
नवाहे चैव सायाह्ने अधिवासनमारभेत् ॥ ३८ ॥

अङ्कुरं कुर्यात् तद्रात्रौ बलिं चैव तु दापयेत् ।
द्वितीय दिवसे चैव तृतीयेऽपि चतुर्थकम् ॥ ३९ ॥

पञ्चमे चैव षष्ठाहे सप्ताहे द्वितयं बलिम् ।
नवाहेऽपि च विप्रेन्द्र दशाहे तु बलिं क्षिपेत् ॥ ४० ॥

पृ० १९८) चूर्णोत्सवं ततः कुर्यात् तीर्थकर्म समारभेत् ।
नवाहे द्विविधं कुर्यात् प्रोच्यते कमलासन ॥ ४१ ॥

एवमेव क्रमेणैव कुर्यात् पञ्चविधानतः ।
वारपूजां प्रवक्ष्यामि शृणुष्व कमलासन ॥ ४२ ॥

प्रातःकालं समारभ्य द्विगुणं पूजयेच्छिवम् ।
पुण्याहं वाचयेत्तत्र हविर्निवेदयेत्ततः ॥ ४३ ॥

इन्द्राद्येशानपर्यन्तं लोकपालबलिं ददेत् ।
नित्योत्सवस्य काले तु कुर्यात् ग्रामप्रदक्षिणम् ॥ ४४ ॥

रथं वा शिबिकां वाथ शिरसा वाहयेत्ततः ।
प्रविशेदालयं तत्र पादुकार्चनमुच्यते ॥ ४५ ॥

पृ० १९९) सूर्यवारमिदं प्रोक्तं शनिवारमथापि वा ।
लिङ्गे वा प्रतिमायां वा तैलाभ्यङ्गमिहोच्यते ॥ ४६ ॥

अभिषेकं तु कर्तव्यं हृदयेन तु मन्त्रतः ।
हविर्निवेदयेत्पश्चात् लोकपालबलिं क्षिपेत् ॥ ४७ ॥

शैवान् सम्भोजये परिचारक्रमं कुरु ।
ग्रामप्रदक्षिणं कुर्यात् सर्वतोद्य समन्वितम् ॥ ४८ ॥

मार्ताण्डीयं प्रवक्ष्यामि शृणुष्व कमलासन ।
सायङ्कालं समारभ्य प्रातःकाले बलिं ददेत् ॥ ४९ ॥

तीर्थान्ते पूर्वरात्रौ तु लोकपालबलिं क्षिपेत् ।
मण्टपात् दक्षिणे पार्श्वे स्थापयेत् कलशं नव ॥ ५० ॥

पृ० २००) ततो होमं प्रकर्तव्यं लक्षणेन समन्वितम् ।
समिदाज्यचरूंश्चैव सुहुत्वा पञ्चविंशतिः ॥ ५१ ॥

अन्नलिङ्गसमायुक्तम् अस्त्रराजेन संयुतम् ।
बलिं दद्यात्तु विप्रेन्द्र सायङ्काले विशेषतः ॥ ५२ ॥

ततः प्रभाते प्रतिमां कुर्यात् ग्रामप्रदक्षिणम् ।
तीर्थं कुर्यात्ततो विद्वान् प्रविशेदालयं प्रति ॥ ५३ ॥

एवमेव क्रमेणैव बुधवारे विशेषतः ।
मार्त्ताण्डीयमिदं प्रोक्तं * मारं च शृणु द्विज ॥ ५४ ॥

अङ्कुरार्पणपूर्वं च ध्वजारोहणसमन्वितम् ।
समिदाज्यचरूंश्वैव * * * * * पूर्वकम् ॥ ५५ ॥

पृ० २०१) भेरीताडनपूर्वं तु त्रिविधं चोच्यते मया ।
अङ्कुरानर्पयेद्विद्वान् ध्वजमारोपयेत्ततः ॥ ५६ ॥

भेरीं तु ताडयित्वा तु अङ्कुरार्पण पूर्वकम् ।
ध्वजमारोपयेत् पश्चात् भेरीं चैव तु ताडयेत् ॥ ५७ ॥

अङ्कुरानर्पयेद्विद्वान् ध्वजारोहण पूर्वकम् ।
भेरीं तु ताडयित्वा तु ध्वजमारोपयेत्ततः ॥ ५८ ॥

अङ्कुरानर्पयेद्विद्वान् भेरीताडन पूर्वकम् ।
एवमेव क्रमेणैव त्रिविधं चोच्यते मया ॥ ५९ ॥

नन्दिनं चैव विप्रेन्द्र त्रिगुणीकृत्य रोपयेत् ।
द्विगुणीकृत्य वा कुर्याद्ध्वजमारोपयेत्ततः ॥ ६० ॥

पृ० २०२) उत्सवस्यादिरात्रौ तु ध्वजारोपणमुच्यते ।
भौवने दैविके कुर्यादन्येषु च विवर्जयेत् ॥ ६१ ॥

समुद्रस्नान उत्पन्ने पर्वयुक्तिर्विधीयते ।
यद्दिनेषु प्रभा कुर्यात् तत्पूर्वे वा परेऽपि वा ॥ ६२ ॥

इतरेषां परे विप्र तत्तद्दिनेषु कारयेत् ।
नदीनद तटाकेषु नक्षत्रे तीर्थमुच्यते ॥ ६३ ॥

यत्पक्षे यद्दिने वारे हस्तर्वादि दिवाकरः ।
तद्दिने सङ्क्रमो भागे दिवा तीर्थं च निश्चयः ॥ ६४ ॥

शिवस्यावभृथं कुर्यात् स्नपनं तदनन्तरे ।
एवमेव क्रमेणैव उत्सवं कारयेत्ततः ॥ ६५ ॥

उत्सवारम्भमेवोक्तं वृषयागमथ शृणु ।

इति उत्सवसूचनं समाप्तः ॥