पृ० १७९) पटलः १४ (अङ्कुरार्पणम् ॥)
प्रणम्य शिरसा देवं प(र्य) ? पृच्छत् पितामहः ।
अङ्कुरार्पणं किं वा तत्सर्वं ब्रूहि मे प्रभो ॥ १ ॥
ईश्वर उवाच-
नागलाङ्कुरकर्मं तु यत्त्वया परिचोदितम् ।
तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ॥ २ ॥
प्रथमं ध्वजाङ्कुरं ज्ञेयं द्वितीयं चाङ्कुरादिकम् ।
उत्सवाङ्कुरमेवोक्तं तृतीयं तु विशेषतः ॥ ३ ॥
तीर्थाङ्कुरं चतुर्थं स्यात् चण्डाङ्कुरं तु पञ्चमम् ।
अथा त्रयङ्कुरं विद्यात् ध्वजाङ्कुरं तु चोच्यते ॥ ४ ॥
तीर्थाङ्कुरं तु समायुक्तम् अङ्कुराङ्कुरमुच्यते ।
स्थापने प्रोक्षणे यागे उत्सवे स्नपने तथा ॥ ५ ॥
पृ० १८०) अन्ये च मङ्गलाकार्ये मङ्गलाङ्कुरमुच्यते ।
श्रीकरं श्रीनिवासं च श्रीपदं च त्रिधा भवेत् ॥ ६ ॥
पूर्वाग्रं तु चतुस्सूत्रमुत्तराग्रं तथैव च ।
कृत्वा नवपदं तत्र देवताश्च शृणुष्वथ ॥ ७ ॥
पदे पूर्वे च ऋग्वेदम् आग्नेयां तेज उच्यते ।
दक्षिणेन यजुर्वेदमाकाशं चैव नैरृते ॥ ८ ॥
पश्चिमे तु पदे पूर्वे साममुत्तरतं तथा ।
वायव्ये पवनं चैव अथर्वं सोमके पदे ॥ ९ ॥
आपश्चैव तु ईशान्यां मध्ये मेरः प्रतिष्ठितः ।
मध्यमे तु पदे चैव सोमकुम्भप्रतिष्ठितम् ॥ १० ॥
पृ० १८१) घटिका दिक्षु विन्यस्य पालिका वा विदिक्षु वै ।
एतत् श्रीकरमित्युक्तं श्रीनिवासमथ शृणु ॥ ११ ॥
पूर्वाग्रं पञ्चसूत्रं स्यादुत्तराग्रं तथैव च ।
षोडशात्पादमेवाहुर्देवतानां शृणुष्वथ ॥ १२ ॥
ईशे जयन्त आदित्यो अग्निश्च विततो मया ।
सुग्रीवो वरुणश्शेषो मुख्यस्सोमोदितस्तथा ॥ १३ ॥
ब्रह्मा चतुष्पदं चैव मध्यमे तु व्यवस्थिता ।
ईशानं चैव सुग्रीवो मुख्यस्य तु पदानि च ॥ १४ ॥
पालिकाद्विन्यसेत्तत्र घटिकास्थानमुच्यते ।
जयन्तो विजयश्चैव वरुणो सोम एव च ॥ १५ ॥
पृ० १८२) घटिकास्थानमेवोक्तं शरावस्थानकं शृणु ।
आदित्यश्च यमश्चैव शोषश्च वादिनि स्थिता ॥ १६ ॥
मध्यमे सोमकुम्भं तु परितो द्वादशा न्यसेत् ।
एतद्वै श्रीनिवासं तु श्रीपदं च शृणुष्वथ ॥ १७ ॥
षट्रसूत्रं चैव पूर्वाग्रमुत्तराग्रं तथैव च ।
पञ्चविंशत्पदं कृत्वा पूजयेत्क्रमशस्तथा ॥ १८ ॥
ईशो जयन्त आदित्यो पूषोग्निन्निर्विता यमः ।
भृङ्गं च मृगसुग्रीवो वरुणश्शोषमारुतौ ॥ १९ ॥
मुख्य सोमो दितिश्चैव बाह्यदेवाः प्रकीर्तिताः ।
आप वत्सार्ध सावित्रि विवस्वाग्निलमित्रकः ॥ २० ॥
पृ० १८३) रुद्रो भूततरश्चान्तं मध्ये ब्रह्माणमुच्यते ।
ब्रह्माणं च पदे चैव स्थापयेत् सोमकुम्भकम् ॥ २१ ॥
ईशानन्तो जयन्तश्च अश्विनी विततस्तथा ।
पितृदौवारिकश्चैव मारुतश्चैव मुख्यकः ॥ २२ ॥
पालिका विन्यसेत्तत्र शरावं च शृणुष्वथ ।
आपवत्सादि देवाष्टौ घटिका स्थानमुच्यते ॥ २३ ॥
लक्षणं सम्प्रवक्ष्यामि शृणुष्व कमलासन ।
सौवर्णं रजतं ताम्रं मृण्मयं वापि कारयेत् ॥ २४ ॥
मात्राङ्गुलेन कर्तव्यं पालिकादीनि चैव हि ।
पालिकामुखविस्तारं विंशत्यङ्गुलमुत्तमम् ॥ २५ ॥
पृ० १८४) द्वादशाङ्गुलमध्ये तद्वलय द्वादशाङ्गुलम् ।
विस्तारेण समोत्सेधं तदर्धं पादविस्तरम् ॥ २६ ॥
परितोऽष्टौ च विप्रेन्द्र षड्भागेकमिति स्मृतम् ।
मध्यमे बिलसंयुक्तं दर्पणोदरवत्कृतम् ॥ २७ ॥
घटिस्तस्योत्सेधमानं तु पालिकासममेव च ।
घटिकोदर विस्तारं द्वादशाङ्गुलमुच्यते ॥ २८ ॥
वक्त्रं चैव षडङ्गुल्यं पञ्चवक्त्रसमन्वितम् ।
पालिकापादवत्कुर्यात् घटिलक्षणमुच्यते ॥ २९ ॥
अष्टाङ्गुलं तु विस्तारं शारावस्य मुखो भवेत् ।
तदर्धं पादविस्तारं त्रिपादं वा समुच्यते ॥ ३० ॥
पृ० १८५) भेदं चोदं च कालं च सुषिरं चैव वर्जयेत् ।
घटिका ब्रह्मदैवत्यं पालिका विष्णुरुच्यते ॥ ३१ ॥
शारावस्येश्वरः प्रोक्तः इत्येते अधिदेवताः ।
चतुर्विंशतिसङ्ख्यात्तु उत्तमं तु विनिर्दिशेत् ॥ ३२ ॥
पालिका षोडशं चैव मध्यमं तु विनिर्दिशेत् ।
पालिका चाष्ट विन्यस्य मध्यमं तदिहोच्यते ॥ ३३ ॥
उत्सवस्यादिरात्रौ तु बीजानिर्वाहमुच्यते ।
नवमे सप्तमे वापि पञ्चमे तं यजेत्सदा ॥ ३४ ॥
बीजानामधिपस्सोमस्तस्मात्तु निशिवापयेत् ।
ग्रामप्रदक्षिणं कुर्यात् त्रिशूलेन समायुतम् ॥ ३५ ॥
पृ० १८६) प्रतिमेन समायुक्तं चण्डेशेन समायुतम् ।
तदन्ते पालिकादीनि धारयेत् शिवभक्तकान् ॥ ३६ ॥
प्राङ्मुखोदङ्मुखो वाथ दक्षिणे वा विशेषतः ।
सुशुद्धं भूतलं प्राप्य प्रोक्षयेत् शुद्धवारिणा ॥ ३७ ॥
पुण्याहं वाचयित्वा तु अर्चयेत् हृदयेन तु ।
कुन्दालिं चैव सम्पूज्य हृदयेन तु मन्त्रतः ॥ ३८ ॥
हृदयेन तु मन्त्रेण खादयेद्देशिको भुवि ।
मृदं सङ्ग्राह्य वामेन हृदीना मृदमर्चयेत् ॥ ३९ ॥
सर्वतोत्यसमायुक्तं प्रविशेदालयं प्रति ।
प्रासादस्योग्रतो वापि ईशाने दक्षिणे तथा ॥ ४० ॥
पृ० १८७) उत्तरेणापि विप्रेन्द्र गोमयेनानुलेपयेत् ।
अष्टद्रोणेन शालिस्स्यात् स्थण्डिलं कारयेत्ततः ॥ ४१ ॥
पद्ममष्टदलं लिख्य प्रोक्षयेद्धृदयेन तु ।
मध्यमे सोमकुम्भं तु विन्यसेत्सोमबीजकैः ॥ ४२ ॥
सकूर्चं सहिरण्यं च सवस्त्रं वारिपूरितम् ।
गन्धपुष्पादिनाभ्यर्च्य नैवेद्यं दापयेत्ततः ॥ ४३ ॥
तद्बाह्ये पूर्व विन्यस्य पालिकादीनि सर्वशः ।
दर्भेण सुषिरं न्यस्य मृदं तत्रैव पूरयेत् ॥ ४४ ॥
तोयेन च समायुक्तं पूजयेद्धृदयेन तु ।
पुण्याहं तत्र कुर्वीत ताम्बूलं दापयेत्ततः ॥ ४५ ॥
पृ० १८८) मुद्गमाषकुलुत्थं च तिलनीवारमेव च ।
श्यामगोधूमसंयुक्तं यववेणुं तथैव च ।
पयसा क्षालयेत्तत्र हृदयेन तु मन्त्रतः ॥ ४७ ॥
प्राङ्मुखोदङ्मुखो वापि आचार्यो मन्त्रविग्रहः ।
पापयेत् शिवमन्त्रेण * * * * स्तु वापयेत् ॥ ४८ ॥
रुद्रगणिका दासी च वापयेत्तु विशेषतः ।
सोमाधिदेवताकुम्भान् अभिषिच्य ततो जलम् ॥ ४९ ॥
पालिकादीनि सर्वाणि सतताप विवर्जिते ।
सुषुप्तदेशे संस्थाप्य सोमकुम्भेन संयुतम् ॥ ५० ॥
पृ० १८९) तत् दिनीदीनि तीर्थान्तं सोमराजस्य देशिकः ।
हविर्निवेदयेत्तत्र ताम्बूलं दापयेत्ततः ॥ ५१ ॥
कृष्णधूम्रनिभश्चेत्तु प्रासादेन शताहुतिः ।
होमयेच्चैव विप्रेन्द्र अपूपानि तथैव च ॥ ५२ ॥
एवमेव क्रमेणैव अङ्कुरार्पणमुच्यते ।
अङ्कुरार्पणहीने तु राजराष्ट्रस्य दोषकृत् ॥ ५३ ॥
तस्मात्सर्वप्रयत्नेन कुर्यात्तन्मङ्गलाकरम् ।
एवं यः कुरुते मर्त्यश्शिवलोके महीयते ॥ ५४ ॥
अङ्कुरार्पणमेवोक्तम् उत्सवस्य विधिं शृणु ॥ ५४।५ ॥
इति वीरतन्त्रे अङ्कुरार्पणविधिः पटलः ॥