१३ रक्षादीपपटलः

पृ० १७०) पटलः १३ (रक्षादीपपटलः)

पितामह उवाच-

प्रणम्य शिरसा देवी पर्यपृच्छत् पितामहः ।
रक्षादीपं कथं देवं तत्सर्वं ब्रूहि मे प्रभो ॥ १ ॥

ईश्वर उवाच-

यत्त्वया परिपृष्टं हि तत्सर्वं शृणु पद्मजः ।
रक्षादीपं विशेषेण त्रिविधं चोच्यते मया ॥ २ ॥

शान्तिकं पौष्टिकं चैव कामदं च त्रिधा भवेत् ।
सौवर्णं रजतं वापि ताम्रजं मृण्मयं तु वा ॥ ३ ॥

स्थलिकं च प्रकर्तव्यं त्रिंशदङ्गुलविस्तरम् ।
पूर्वं च दक्षिणं चैव पश्चिमं चोत्तरं तथा ॥ ४ ॥

मध्यमे तु समायुक्तं पञ्च कुम्भानि विन्यसेत् ।
अष्टबन्धसमुत्सेधं विस्तरं द्वादशं भवेत् ॥ ५ ॥

पृ० १७१) कुम्भोर्ध्वे दीप विन्यस्य शिल्पिनं कारयेत्ततः ।
पादं चैव दशाङ्गुल्यमुत्सेधं तु विधीयते ॥ ६ ॥

विस्तारं तावदेवाहुर्दीपपात्रं च कारयेत् ।

एतत् शान्तिदमित्युक्तं पौष्टिकं च शृणुष्वथ ।
विस्तारं तु चतुर्विंशत् अङ्गुला स्थलिका भवेत् ॥ ८ ॥

शालिपिष्टं वा विन्यस्य * सपपात्रके * * ।
तेषामूर्ध्वे तु * * * * * * * * * तथा ॥ ९ ॥

एतत् * * * मित्युक्तं त्रिविधं चोच्यते मया ।
नित्यनित्यार्चने कुर्यात् तस्यां तद्दीपमुच्यते ॥ १० ॥

पृ० १७२) सायाह्ने शयने कुर्यात् यक्षेश्वरीं च पूजयेत् ।
नित्याग्निकुण्डं विप्रेन्द्र * * * * * दीपयेत् ॥ ११ ॥

तस्य दक्षिणभागे तु मण्डलं चतुरश्रकम् ।
स्थालिकां विन्यसेत्तत्र शिखामन्त्रेण संयुतम् ॥ १२ ॥

गोघृतेन समायुक्तमवा तैलेन वा पुनः ।
वर्तिं तत्रैव विन्यस्य सन्निधौ दीपयेत्ततः ॥ १३ ॥

प्रासादेन तु मन्त्रेण मध्यमे दीपमुच्यते ।
पूर्णेन पुरुषेणैव अघोरं दक्षिणेन तु ॥ १४ ॥

सद्यः पश्चिमतो न्यस्य वामदेवं तु चोत्तरे ।
व्योमव्यापि सम * * पञ्चब्रह्मेण संयुतम् ॥ १५ ॥

पृ० १७३) पूजयेत्तु विशेषेण शिरसोपरि धारयेत् ।
गणिकां देवदासी वा धारयेद्दीपमुत्तमम् ॥ १६ ॥

मधुकेयसमायुक्तं गणिकां नृत्तसंयुतम् ।
सर्वमङ्गलसंयुक्तं शङ्खध्वनिसमायुतम् ॥ १७ ॥

भेरीमृदङ्गवाद्यैश्च स्तोत्रशब्दसमन्वितम् ।
गच्छेत्प्रदक्षिणं तत्र निनयेत् शिवसन्निधौ ॥ १८ ॥

त्रिपादीं मध्यते न्यस्य प्रोक्षयेत् शुद्धवारिणा ।
ईशानेन तु मन्त्रेण अर्चयेद्दीपमेव च ॥ १९ ॥

पुष्पेण दीपं संयोज्य लिङ्गमूर्ध्नी च वर्त्तयेत् ।
एकं वापि त्रयं वापि प्रदक्षिणमथाचरेत् ॥ २० ॥

पृ० १७४) विसर्जयेत्तु निर्माल्यं बाह्यपीठे तु विन्यसेत् ।
एतत् शान्तिकमित्युक्तं पौष्टिकं च मथ शृणु ॥ २१ ॥

शिवाग्रे मण्टपं कुर्यात् त्रिपादं तत्रैव विन्यसेत् ।
विन्यसेत् स्थालिकां तत्र हृदयेन तु मन्त्रतः ॥ २२ ॥

पिष्टं वामेन संस्थाप्य प्रोक्षयेत्तु हृदा तथा ।
गर्भगेहे स्थिते दीपे वर्तिं संयोजयेत्ततः ॥ २३ ॥

पूजयेदस्त्रमन्त्रेण प्रोक्षयेदम्भसा ततः ।
हृदयेन तु मन्त्रेण दीपं दद्यात् शिवस्य तु ॥ २४ ॥

एकं वापि त्रयं वापि लिङ्गं चैव प्रदक्षिणम् ।
विसर्जयेत्ततो मन्त्री भस्मं शिरसि निक्षिपेत् ॥ २५ ॥

पृ० १७५) शिवस्य रक्षो कुर्वीत सर्वप्राणिहिताय च ।
एवं पौष्टिकमेवं तु कामदं शृणु तत्त्वतः ॥ २६ ॥

अग्निकुण्डेऽथवा कुर्यात् गर्भगेहेऽथवा पुनः ।
सप्तपात्रैक विप्रेन्द्र दीपं संयोजयेत्ततः ॥ २७ ॥

पौष्टिकस्य क्रमेणैव कुर्याद्वै देशिकोत्तमः ।
शिवे दीपं सुसंयोज्य विसर्जयेत्पूर्ववत्क्रमात् ॥ २८ ॥

एवं कामदमित्युक्तं समासात्कथयामिते ।
उत्तमं दीपमाख्यातं सप्ताङ्गुलसमुच्छ्रयम् ॥ २९ ॥

पञ्चाङ्गुलं तु मध्यं स्यात्त्रियङ्गुलमथोच्यते ।
उत्तमं गोघृतेनैव मध्यमम् अजसम्भवे ॥ ३० ॥

पृ० १७६) अधमं तैलजं वापि सूत्रपातं तु कारयेत् ।
दूर्वाक्षतैश्च संयुक्तं दर्पणं भस्ममेव च ॥ ३१ ॥

पाद्यमाचमनं चार्घ्यं गन्धपुष्पैश्च धूपकम् ।
दीपस्य दर्शनं मूर्ध्नि शिवे दद्यात् विशेषतः ॥ ३२ ॥

यक्षेश्वरीस्वरूपं तु शृणुष्व कमलासन ।
यान्तेनैव समायुक्तम् इकारस्वरसंयुतम् ॥ ३३ ॥

ओङ्कारादि नमोऽन्तं च मध्ये यक्षेशबीजकम् ।
एतन्मन्त्रं परं गुह्यं स्तवस्त्रोत्रप्रकाशिकम् ॥ ३४ ॥

द्विभुजं चैकवक्त्रं च द्विपादं च द्विनेत्रकम् ।
करण्डमकुटं युक्तं सौम्यरूपं सुलोचनम् ॥ ३५ ॥

पृ० १७७) दीपमध्ये न्यसेद्देवीमञ्जल्या च नमस्कृत्वा ।
एवंविधं स्वरूपं तु ध्यात्वा वै पूजयेत्ततः ॥ ३६॥

वामा ज्येष्ठा च रौद्री च काली कलविकरणी तथा ।
? बलविकरणीं बलप्रमथनीं सर्वभूतदमनीं मनोन्मनीम् ॥ ३७ ॥

पूर्वादीशानपर्यन्तं पूजयेद्गन्धपुष्पकैः ।
मध्ये मनोन्मनीं न्यस्य पूजयेद्देवबाह्यतः ॥ ३८ ॥

सोमेशानसमायुक्तं तद्बाह्ये पूजयेत्ततः ।
एवमेव क्रमेणैव स्वस्वर्नामेन पूजयेत् ॥ ३९ ॥

भस्मं दद्यात् शिवे त्तत्र क्रमाच्छेष समाचरेत् ।
सायाह्ने शयनं कुर्यादेवमेव क्रमेण तु ॥ ४० ॥

पृ० १७८) परिषेचनकाले तु रक्षादीपं करोति हि ।
सर्वपापैर्विनिर्मुक्तश्शिवलोकमवाप्नुयात् ॥ ४१ ॥

रक्षादीपं मया प्रोक्तम् अङ्कुरार्पणकं शृणु ॥ ४१।५ ॥

इति वीरतन्त्रे रक्षादीपपटलः ॥