पृ० १६४) पटलः १२ (परिवारलक्षणपटलः)
प्रणम्य शिरसा देवं पृच्छती स पितामहः ।
परिवाराः कथं देवं तत्सर्वं ब्रूहि मे प्रभो ॥ १ ॥
ईश्वर उवाच-
यत्सर्वं तु त्वया पृष्टं श्रूयतां कमलासन ।
परिवारं प्रवक्ष्यामि यथाविधिपुरस्सरम् ॥ २ ॥
अन्तर्मण्डलके कुर्यात् देशे चण्डेश्वरालयम् ।
पुरतो वृषभस्थानं स्थापयेद्वृषभं ततः ॥ ३ ॥
आग्नेयां चैव देशे तु दुर्गां स्थाप्य विशेषतः ।
दक्षिणे मातृदेवींश्च विघ्नेशं नैरृते तथा ॥ ४ ॥
वारुण्यां स्थापयेत्तत्र कुमारं वाप्यजं भवेत् ।
ज्येष्ठां वायव्यदेशे तु विष्णुं चोत्तरदेशतः ॥ ५ ॥
पृ० १६५) ऐशान्यां चैव विप्रेन्द्र भास्करं विन्यसेत्ततः ।
एवमन्तरहारे तु विन्यसेदष्टदैवतान् ॥ ६ ॥
इदमन्यत्प्रकारेण वक्ष्येऽहं चतुरानन ।
पश्चिमे द्वारदेहस्य पश्चिमे वृषभं न्यसेत् ॥ ७ ॥
वायव्यां चैव ज्येष्ठा च सर्वयत्नेन देशिकः ।
उत्तरायां दिशयोश्चैव दुर्गादेवीं च विन्यसेत् ॥ ८ ॥
ऐशान्यां चैव विप्रेन्द्र क्षेत्रपालो विधीयते ।
पूर्वे तु भास्करस्थानं कुमारं चाग्निगोचरे ॥ ९ ॥
दक्षिणद्वारगेहस्य दक्षिणं वृषभालयम् ।
मातृस्थानं तु नैरृत्यां सुब्रह्मण्यं तु वारुणे ॥ १० ॥
पृ० १६६) ज्येष्ठां तु वायुदेशे तु उत्तरे विष्णुरुच्यते ।
दुर्गां चण्डेश दिग्भागे भास्करं पूर्वतो न्यसेत् ॥ ११ ॥
आग्नेय्यां गणपतिस्थानं विन्यसेद्दैवतानि ज ।
उत्तरद्वारगेहस्य उत्तरे वृषभालयम् ॥ १२ ॥
ऐशान्यां भास्करस्यैव पूर्वतो विष्णुरुच्यते ।
दुर्गामाग्नेय दिग्भागे याम्ये मातृगणा स्थिताः ॥ १३ ॥
नैरृत्यां विघ्नराजं तु कुमारं वारुणे भवेत् ।
वायव्यां विन्यसेज्ज्येष्ठां विशेषेण विचक्षणः ॥ १४ ॥
एवमेव क्रमेणैव अन्तर्हारे तु विन्यसेत् ।
षोडशद्वारदेवांश्च वक्ष्यामि मुनिसत्तम ॥ १५ ॥
पृ० १६७) मर्यादौ ईशदिग्भागे क्षेत्रपालं सुविन्यसेत् ।
यमनैरृतयोर्मध्ये पितृस्थानं विधीयते ॥ १६ ॥
निरृतिवरुणयोर्मध्ये अप्सरोगणमुच्यते ।
वरुणवायव्ययोर्मध्ये ऋषीणां स्थानमुच्यते ॥ १७ ॥
वायव्यसोमयोर्मध्ये वसूनष्टौ च विन्यसेत् ।
सोमीशानयोर्मध्ये अष्टनागान् प्रकल्पयेत् ॥ १८ ॥
इन्द्रीशानयोर्मध्ये द्वादशादित्यमुच्यते ।
एवमेव प्रकारेण मर्यादौ च विधिं न्यसेत् ॥ १९ ॥
अन्तर्मण्डलके वापि महामर्यादौ विशेषतः ।
इन्द्रादीन् स्थापयेद्विप्र पूर्वादीशान्तं विन्यसेत् ॥ २० ॥
पृ० १६८) अनन्तमीशदिग्भागे संस्थाप्यं निरृतौ तथा ।
एवमेव प्रकारेण परिवाराणि विन्यसेत् ॥ २१ ॥
प्रासादाहितमाश्रित्य मण्टपे वा विशेषतः ।
द्वारदेवां सुसंस्थाप्य पूर्वादिक्रमयोगतः ॥ २२ ॥
पूर्ववद्द्वारपाले तु नन्दीकालस्तथैव च ।
नन्दिं तु दक्षिणे स्थाप्य कालं चोत्तरदेशके ॥ २३ ॥
दक्षिणद्वारपालौ तु दण्डिर्मुण्डिस्तथैव च ।
दण्डिं तु पश्चिमे स्थाप्य मुण्डिं तु पूर्वतो न्यसेत् ॥ २४ ॥
पश्चिमद्वारपालौ तु भृङ्गिणीं विजयं तथा ।
भृङ्गिणी चोत्तरे स्थाप्य दक्षिणे विजयं तथा ॥ २५ ॥
पृ० १६९) उत्तरे द्वारपालौ तु अनन्तः पशुपतिस्तथा ।
अनन्तं पूर्वत स्थाप्य पशुपतिं पश्चिमे न्यसेत् ॥ २६ ॥
एवमेव प्रकारेण स्थापयेद्द्वारदेवताः ।
वृषभस्याग्रतो वापि पृष्ठतोऽथ विशेषतः ॥ २७ ॥
शूलस्थानं प्रकल्प्याथ तदग्रे पुष्पपीठके ।
महामर्यामहापीठे स्थापयेद्देशिकोत्तमः ।
परिवारविधिः प्रोक्तं रक्षादीपं शृणुष्वथा ॥ २९ ॥
इति वीरतन्त्रे परिवारलक्षणः पटलः ॥