११ नित्योत्सवविधिः

पृ० १५१) पटलः ११ (नित्योत्सवविधिः)

पितामह उवाच-

लोकनाथं प्रणम्याथ ब्रह्मा वचनमब्रवीत् ।
नित्योत्सवं कथं देव तत्सर्वं ब्रूहि मे प्रभो ॥ १ ॥

ईश्वर उवाच-

श्रूयतामभिधास्यामि नित्योत्सवविशेषतः ।
सर्वपापहारं पुण्यं सर्वलोकहितावहम् ॥ २ ॥

सर्वशान्तिकरं चैव सर्वारिष्टविनाशनम् ।
नित्यनित्यार्चनन्ते तु नित्योत्सवमथाचरेत् ॥ ३ ॥

राक्षसाश्चासुराश्चैव पिशाचा ब्रह्मराक्षसाः ।
उच्छिष्टाश्चैव वेताला कूश्माण्डा हत * * * ॥ ४ ॥

तथा कुमार ग्रहांश्चैव मतांश्चान्ये मरुद्गणाः ।
नित्योत्सवश्च शब्दांश्च श्रुत्वा गच्छन्ति तत्र वै ॥ ५ ॥

पृ० १५२) प्रथमं प्रदक्षिणं विप्र तव प्रीतिकराय वै ।
द्वितीय प्रदक्षिणेनैव मम प्रीतिकराय वै ॥ ६ ॥

तृतीय प्रदक्षिणं चैव विष्णु प्रीतिकराय च ।
पूर्वाह्नी च तव प्रीतिः पुष्प लिङ्गसमन्वितम् ॥ ७ ॥

मध्याह्ने चान्नलिङ्गं च मम प्रीतिकरं भवेत् ।
साये तण्डुललिङ्गं स्यात् नारायण प्रियं तथा ॥ ८ ॥

स्थितलिङ्गं तु विप्रेन्द्र श्रीबलिं चैव कारयेत् ।
चललिङ्गेषु सर्वेषु श्रीबलिं च प्रकारयेत् ॥ ९ ॥

? आढकार्द्धीन वैश्यं श्रीश्रीबलिं च न कारयेत् ।
एवमेव क्रमेणैवं नित्योत्सवं तु कारयेत् ॥ १० ॥

पृ० १५३) सौवर्णं राजतं वापि ताम्रकांस्यं च नैव च ।
बलिपात्रं तु कर्तव्यं लक्षणेन समन्वितम् ॥ ११ ॥

मात्राङ्गुलेन कर्तव्यं द्वितालमुत्तमं भवेत् ।
एकतालेन हीनं तु मध्यमं पात्रमुच्यते ॥ १२ ॥

द्वयङ्गुलेन हीनं तु मध्यमं पात्रमुच्यते ।
पात्रं चैव त्रिधा भज्य मध्ये पात्रं तु कारयेत् ॥ १३ ॥

ओष्ठव्यो माङ्गुलेनैव कारयेत्तु विचक्षणः ।
पद्मस्योत्सेधमानं तु एकाङ्गुलमिहोच्यते ॥ १४ ॥

अष्टपत्रसमायुक्तं विद्येशा ह्यत्र देवताः ।
एवमेव क्रमेणैव बलिपात्रं तु कारयेत् ॥ १५ ॥

पृ० १५४) पूर्वोक्तेन विधानेन चरुं चैव तु वा चरेत् ।
द्विप्रस्थमधमं प्रोक्तम् आढकं मध्यमं भवेत् ॥ १६ ॥

उत्तमं शिवमेवाहुः शालीनां चैव पा(वा?) चरेत् ।
अत्युष्णमति शीतं च आज्यं लवणवर्जितम् ॥ १७ ॥

पाषाणं पाधितं चैव शोधकं तुषमेव च ।
कणकम्बु समायुक्तं मारणं तु विनिर्दिशेत् ॥ १८ ॥

एवमेव क्रमं ज्ञात्वा पाचयेद्विधिपूर्वकः ।
शिवाग्रे मण्डलं कृत्वा मण्टपस्योत्तरा दिशि ॥ १९ ॥

गोमयेनोपलिप्याथ बलिं पात्रं न्यसेद्धृदा ।
प्रोक्षयेदस्त्रमन्त्रेण कुशेनैव तु वारिणा ॥ २० ॥

पृ० १५५) चरुं वै हृदयेनैव बलिपात्रं तु विन्यसेत् ।
क्षीरं वा दधिसंयुक्तम् आज्येनैव समायुतम् ॥ २१ ॥

कदलीगुलसम्मिश्रम् अन्नलिङ्गं तु कारयेत् ।
अष्टाङ्गुलं तु चोत्सेधा द्विगुणं तस्य मूलकम् ॥ २२ ॥

अग्रमष्टाङ्गुलं नाहमुत्तमं शृणु तत्त्वतः ।
द्वादशाङ्गुलमुत्सेध द्विगुणं मूलनाहकम् ॥ २३ ॥

अग्रं दशाङ्गुलं नाहमन्नलिङ्गमिहोच्यते ।
त्र्यक्षं चतुर्भुजं देवमूर्ध्वकेशं सुदंष्ट्रकम् ॥ २४ ॥

दक्षिणे तु करे शूलं वामे पाशं तथैव च ।
अभयं दक्षिणे हस्ते वामहस्तं कुटिस्पृशम् ॥ २५ ॥

पृ० १५६) पद्ममध्ये स्थितं देवं सर्वाभरणभूषितम् ।
एवं वै रूपिणं ध्यात्वा बलि लिङ्गे तु विन्यसेत् ॥ २६ ॥

गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव सुपूजयेत् ।
गन्धं हृदयमन्त्रेण शिखायां पुष्पमुच्यते ॥ २७ ॥

सौवर्णं रजतं ताम्रमायसं वापि कारयेत् ।
हस्तमात्रं भवेद्दण्डमग्रे वज्रद्वयं भवेत् ॥ २८ ॥

एवं लक्षणसंयुक्तं दण्डहस्तं विचक्षणः ।
प्रोक्षयेदम्भसा चैव हृदयेन तु मन्त्रतः ॥ २९ ॥

ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् ।
अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् ॥ ३० ॥

पृ० १५७) सद्योजातं न्यसेत्पादौ पुनरङ्गानि विन्यसेत् ।
हृदये हृदयं न्यस्य शिरश्शिरसि विन्यसेत् ॥ ३१ ॥

शिखां शिखायां विन्यस्य कवचं स्तनमध्यतः ।
अस्त्रं हस्तप्रदेशे तु नेत्रे नेत्रं तु विन्यसेत् ॥ ३२ ॥

सर्वाङ्गेषु च विप्रेन्द्र अस्त्रमन्त्रं न्यसेत्ततः ।
स्थालिकां चैव चोद्धृत्य हृदयेन तु मन्त्रतः ॥ ३३ ॥

शिरोमन्त्रेण संयुक्तं तस्यां शिरसि निक्षिपेत् ।
जपेत्पाशुपतास्त्रं च शर्गैश्चेत्प्रदक्षिणम् ॥ ३४ ॥

निमिषं तन्न शीघ्रं च गच्छेत् पदात्पदं ततः ।
पुरस्तात्प्रतिमं गच्छेत् लिङ्गं तु तदनुव्रजेत् ॥ ३५ ॥

पृ० १५८) आयं तु पृष्ठतो वापि पादुकं च प्रदेत्ततः ।
शिवस्याभिमुखे चैव गोमयेनानुलेपयेत् ॥ ३६ ॥

भेरीं तत्रैव विन्यस्य हृदयेन तु मन्त्रतः ।
गन्धपुष्पादिनाभ्यर्च्य वाद्यकं पूजयेत्ततः ॥ ३७ ॥

वाद्यकान् वादयेत्तत्र पञ्चध्वनिसमायुतम् ।
सुषिरं चानखं चैव चर्मभेदं तथैव च ॥ ३८ ॥

तं त्रितं तं ततो वाद्यं पञ्चध्वनिरिहोच्यते ।
एवं विधि समायुक्तं वाद्यकान् वादयेत्ततः ॥ ३९ ॥

प्रथमं प्रदक्षिणं कुर्यात् अङ्गीर्णं तालवाद्यकम् ।
द्वितीयं प्रदक्षिणं कुर्यात् अष्टतालसमन्वितम् ॥ ४० ॥

पृ० १५९) पूर्वे तु समहस्तं स्यात् आग्नेयां भृङ्गिणी तथा ।
दक्षिणे कद्रवाद्यं स्यान्नैरृत्यां सङ्करी तथा ॥ ४१ ॥

वारुण्यामुत्कटं चैव वायव्यां कुब्जतालकम् ।
तटप्रहारं सौम्यायाम् ऐशान्यां मल्लतालकम् ॥ ४२ ॥

गोपुरे वाद्यनिश्शब्दं शङ्खध्वनिसमायुतम् ।
बाह्यपीठे क्रमावृत्य प्रासादं त्रिप्रदक्षिणम् ॥ ४३ ॥

त्रिविधं बलिपीठं स्यात् पूर्वतश्चैव दक्षिणे ।
पश्चिमे वा त्रिसन्ध्यायां प्रदक्षिणमथाचरेत् ॥ ४४ ॥

पूर्वाह्ने पूर्वपीठे तु मध्याह्ने दक्षिणे तथा ।
सायाह्ने पश्चिमे चैव बलिमेवं विसर्जयेत् ॥ ४५ ॥

पृ० १६०) अथवा चाग्रपीठे तु दक्षिणे बलिरुच्यते ।
सर्वद्वारे तु कर्तव्यं पूर्वे तु बलिपीठकम् ॥ ४६ ॥

इन्द्रस्य बलितालं तु आग्नेर्मध्यावनं भवेत् ।
यमं च भृङ्गिणीतालं नैरृत्या मल्लतालकम् ॥ ४७ ॥

वारुण्यां नवतालं तु वायव्यां नागतालकम् ।
सोमे काट्टारिका प्रोक्ता ईशान्यां ककरी तथा ॥ ४८ ॥

एवमेव क्रमेणैव प्रासादं त्रिः प्रदक्षिणम् ।
पूर्वे गान्धारमेव स्यात् दक्षिणे कौशिकं तथा ॥ ४९ ॥

पश्चिमे कमरं चैव तर्करागं तथोत्तरे ।
आग्नेयां चैव कोल्ली च नैरृत्यां नटभाषया ॥ ५० ॥

पृ० १६१) तक्केशिं चैव वायव्यां चाला प्राणीश गोचरे ।
द्वारदेशमनुप्राप्य पादुकार्चनमारभेत् ॥ ५१ ॥

पादप्रक्षालनं कृत्वा पादुकां पूजयेत्ततः ।
देवस्य सन्निधौ विद्वान् मण्डलं कारयेत्ततः ॥ ५२ ॥

त्रिपादं तत्र संस्थाप्य वृषभस्याधिदैवतम् ।
पादुकं विन्यसेत्तत्र प्रोक्षयेदम्भसा ततः ॥ ५३ ॥

निर्माल्यं च विसर्जीत जलमेवाभिषेचयेत् ।
हृदयेन तु मन्त्रेण गन्धं दद्याच्च पादुके ॥ ५४ ॥

प्रोक्षयेदम्भसा चैव कृशास्सर्वदेशिका ।
पुष्पं तु शिरसा चैव धूमं वामेन दापयेत् ॥ ५५ ॥

पृ० १६२) अघोरेण तु दीपं स्यात् सद्येनार्घ्यं तु दापयेत् ।
अर्चयेत्पादुकां विद्वान् * * * * * * द्वयोः ॥ ५६ ॥

पात्रं चैव तु पूर्वे तु धरणीं दक्षिणेन तु ।
पृथिवीं पश्चिमे न्यस्य मेदिनीं चोत्तरे न्यसेत् ॥ ५७ ॥

वामे ज्येष्ठा च रौद्री च काली कलिविकरणी तथा ।
बलविकर्णीं बलप्रमथिनीं सर्वभूतमनोन्मनी ॥ ५८ ॥

पूर्वादीशानपर्यन्तं विन्यसेदष्टशक्तिभिः ।
मनोन्मनीं न्यसेत्मत्स्ये(ध्ये) अचर्यद्गन्धपुष्पकैः ॥ ५९ ॥

प्रविशेदालयं तत्र विन्यसेत्पूर्वमण्डले ।
विसर्जयेत्तु शास्त्रेण नमस्कृत्वा तु कारयेत् ॥ ६० ॥

पृ० १६३) तदन्ते कारयेन्नृत्तं भरतोक्तेन मार्गतः ।
गणिकास्स्नापयेत्तत्र गन्धपुष्पादिनार्चयेत् ॥ ६१ ॥

अष्टोत्तरशतं नृत्तं भावयेद्गणिका ततः ।
नृत्तस्यान्ते तु विप्रेन्द्र देवं देवीं विसर्जयेत् ॥ ६२ ॥

अभिमुखीकरणं यत्तु तदा वाहनमुच्यते ।
पूजापरिसमाप्ते तु विमुखं तद्विसर्जयेत् ॥ ६३ ॥

प्रदक्षिणत्रयं कृत्वा नमस्कारस्तथैव च ।
लिङ्गे सव्यापसव्यं तु प्रासादिषु विसर्जयेत् ॥ ६४ ॥

एवं यः कुरुते मर्त्यश्शिवलोकमवाप्नुयात् ।
पर्यष्टिपरिचारश्च ततो न्यासे विताशनः ॥ ६५ ॥

शिवलोकमवाप्नोति शिववन्मादने सदा ।
नित्योत्सवमिदं प्रोक्तं परिवारश्शृणुष्वथ ॥ ६६ ॥

इति वीरतन्त्रे नित्योत्सवविधिः पटलः ॥