पृ० १२५) पटलः १० (मन्त्रन्यासविधिः, अग्निकार्यविधिश्च)
पितामह उवाच-
प्रणम्य शिरसा देवमपृच्छच्च पितामहः ।
मन्त्रन्यासं कथं देव तत्सर्वं ब्रूहि मे प्रभो ॥ १ ॥
ईश्वर उवाच-
यत्सर्वं तु त्वया पृष्टं मर्त्यानां तु हिताय च ।
तव स्नेहादिदं वक्ष्ये श्रूयतां कमलासन ॥ २ ॥
शिवाग्रे मण्टपं कुर्यान्मण्टपाद्दक्षिणे ततः ।
मण्डलं चैव विप्रेन्द्र गोमयेनानुलेपयेत् ॥ ३ ॥
गन्धं पुष्पं च धूमं च दीपं चैव समायुतम् ।
पूर्वं चैव तु निक्षिप्य पूर्वाग्रं विधिपूर्वकम् ॥ ४ ॥
उत्तराभिमुखो भूत्वा तत्रान्ते कूर्चमध्यमे ।
सद्येन प्रोक्षयेत्तत्र कुशकूर्चेन वा ततः ॥ ५ ॥
पृ० १२६) गन्धपुष्पादिना विप्र स्वदेवीं पूजयेद्धृदा ।
शिखाग्रे द्वादशाङ्गुल्ये शिवतत्त्वं विचिन्तयेत् ॥ ६ ॥
स्वात्मानं योजयेत्तत्र तन्मं चैव दहेत्ततः ।
त्रिकोणं मण्डले विद्यां द्वितीयं विचिन्तयेत् ॥ ७ ॥
पादाङ्गुष्ठं समारभ्य देहेद्यावच्छिरोऽन्तकम् ।
भस्मीभुतमिमं ध्यात्वा अमृतप्लावनं कुरु ॥ ८ ॥
शिखाध्वस्तप्रमाणेन ऊर्ध्वं चैव विचिन्तयेत् ।
श्वेतपद्मोपरिष्टं तु चन्द्रबिम्बमधोमुखम् ॥ ९ ॥
तुरीयममृतं ध्यायेत् ओङ्कारेण समन्वितम् ।
चिन्तयेदमृतं तोयं सुषुम्नाभिन्नमस्तकम् ॥ १० ॥
पृ० १२७) तेनाप्लावितमात्मानं पूरयन्तं विचिन्तयेत् ।
मृत्युनाशनमेवं तु इति शास्त्रस्य निश्चयः ॥ ११ ॥
पश्चात्स्वदेहे सञ्चिन्त्य गन्धपुष्पादिनार्चयेत् ।
रेचकं पूरकं चैव कुम्भकं च त्रिधा मतम् ॥ १२ ॥
न मुञ्चति न गृह्णाति वायुरन्तर्बहिस्थितम् ।
आपूर्य कुम्भकं तिष्ठेदचलं स्यात्तु कुम्भकम् ॥ १३ ॥
एवमेव प्रकारेण कारयेद्देशिकोत्तमः ।
हस्ताभ्यां संस्पृशेत्पूर्वं कादिपादान्तमेव च ॥ १४ ॥
अङ्गुष्ठतर्जनीभ्यां तु अस्त्रमन्त्रेण संयुतम् ।
दिक् विदिक्षु च दातव्यं मूर्धा यश्चैव विन्यसेत् ॥ १५ ॥
पृ० १२८) आचार्यानु पृथिवी ज्ञेया स्फुयिन्नाभिदेशितः ।
गलाद्वै तेजस्संशुद्धि ललाटाद्वायु शुध्यति ॥ १६ ॥
तदूर्ध्वे द्वादशाङ्गुल्ये घनशुद्धिरुदाहृतम् ।
प्रथमं सृष्टि विन्यस्य स्थितिन्यासं द्वितीयकम् ॥ १७ ॥
संहारं तु तृतीयं स्यात्त्रिविधं चोच्यते मया ।
गृहस्थं सृष्टिमार्गेण ब्रह्मचारी स्थितो भवेत् ॥ १८ ॥
वानप्रस्थयतीनां च संहारन्यासमुच्यते ।
अङ्गुष्ठादिकनिष्ठान्तं सृष्टिन्यासमुदाहृतम् ॥ १९ ॥
ईशानादिपञ्चमन्त्राणि अङ्गुष्ठादीनि विन्यसेत् ।
ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् ॥ २० ॥
पृ० १२९) अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् ।
सद्योजातं न्यसेत्पादे पुनरङ्गानि विन्यसेत् ॥ २१ ॥
हृदये हृदयं न्यस्य शिरश्शिरसि विन्यसेत् ।
शिखां शिखायां विन्यस्य कवचं स्तनमध्यतः ॥ २२ ॥
अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रेषु विन्यसेत् ।
विन्यसेत्तु षडङ्गानि देवतान्यासकं शृणु ॥ २३ ॥
ब्रह्माणं मूर्ध्नि विन्यस्य ललाटे विष्णुरुच्यते ।
चन्द्रसूर्यौ तु नयने नासिकां पृथिवी तथा ॥ २४ ॥
सरस्वतीं तु वाग्द्वारे तु हृदये ईश्वरं तथा ।
हस्ते वै इन्द्रदैवत्यं वायुस्स्यात्कुक्षिरेव च ॥ २५ ॥
पृ० १३०) सुब्रह्मण्यस्य लिङ्गे च पार्श्वयोरश्विनौ तथा ।
पादयोर्मरुतश्चैव एवमेव क्रमां न्यसेत् ॥ २६ ॥
अकारं मूर्ध्नि विन्यस्य आकारं तु ललाटके ।
इकारं दक्षिणे नेत्रे ईकारं वामलोचने ॥ २७ ॥
उकारं दक्षिणनासायाम् ऊकारं वामनासिके ।
ऋकारं दक्षिणे श्रोत्रे ऋकारं वामकर्णके ॥ २८ ॥
ऌकारं दक्षिणे गण्डे ऌर्कारं वामगण्डके ।
ए ऐ तालुरन्ध्रे च ओ औ ओष्ठद्वयोरपि ॥ २९ ॥
दन्तपङ्क्तिर्द्वयोर्न्यस्य अम् अः द्वौ परिकीर्तितौ ।
कवर्गं दक्षिणे हस्ते चवर्गं वामहस्तके ॥ ३० ॥
पृ० १३१) टवर्गं दक्षिणे पादे तवर्गं वामपादके ।
पपौ दक्षिणपार्श्वे तु वामपार्श्वे बहौ न्यसेत् ॥ ३१ ॥
मकारं हृदये न्यस्य यकारं त्वचि विन्यसेत् ।
रेफं रक्तं च मेवोक्तं लकारमसमेव च ॥ ३२ ॥
वाकारमासदैवं तु शकारं चास्यदेशिके ।
मज्जादेशे षकारं तु सकारं शुक्लमेव च ॥ ३३ ॥
भकार प्राणमित्याहुः क्षकारं मेढ्रमेव च ।
लकारं वृषणं चैव सर्वानेतान् क्रमान्न्यसेत् ॥ ३४ ॥
सृष्टिन्यासमिति प्रोक्तं स्थितिन्यासमथ शृणु ।
मध्यादितष्षडङ्गं च पञ्चब्रह्म न्यसेत्ततः ॥ ३५ ॥
पृ० १३२) ईशानं मध्यमं चैव अनामिके पुरुषं न्यसेत् ।
कनिष्ठिकायां च घोरं स्याद्वाममङ्गुष्ठके न्यसेत् ॥ ३६ ॥
सद्योजातं तु तर्जन्यां विन्यसेद्ब्रह्ममेव च ।
हृदयं मध्यमे न्यस्य शिरोमन्त्रं त्वनामिके ॥ ३७ ॥
शिखा कनिष्ठिके न्यस्य कवचमङ्गुष्ठके न्यसेत् ।
नेत्रं तु तर्जनिं न्यस्य अस्त्रं करतले न्यसेत् ॥ ३८ ॥
एवं षडङ्ग विन्यस्य विद्येशान्विसेत्ततः ।
अनन्तं मूर्ध्नि विन्यस्य ललाटे सूक्ष्ममुच्यते ॥ ३९ ॥
शिवोत्तमं मुखे न्यस्य एकनेत्रं तु कर्णयोः ।
? एकनेत्रं तु बाहौ तु त्रिमूर्तिं हृदये न्यसेत् ॥ ४० ॥
पृ० १३३) लिङ्गे श्रीकण्ठमित्युक्तं शिखण्डी पादयोर्न्यसेत् ।
हृदये हृदये न्यस्य शिरश्शिरसि विन्यसेत् ॥ ४१ ॥
शिखायां तु शिखां न्यस्य कवचं स्तनमध्यतः ।
अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रे तु विन्यसेत् ॥ ४२ ॥
हस्तौ तु मणिबन्धौ तु ईशं ब्रह्माणमेव च ।
स्थितिन्यासमिति प्रोक्तं संहारं च ह्यथ शृणु ॥ ४३ ॥
सद्योजातं कनिष्ठां तु वामदेवमनामिका ।
अघोरं मध्यमे न्यस्य पुरुषं तर्जनीं न्यसेत् ॥ ४४ ॥
ईशमङ्गुष्ठके न्यस्य षडङ्गान्विन्यसेत्ततः ।
हृदयं कनिष्ठिके न्यस्य शिरोमन्त्रमनामिके ॥ ४५ ॥
पृ० १३४) शिखामन्त्रं तु मध्ये स्यात् कवचं तर्जनी न्यसेत् ।
नेत्रमङ्गुष्ठके न्यस्य अस्त्रं करतले न्यसेत् ॥ ४६ ॥
पादयोस्सद्यमन्त्रं तु कुक्षौ वामं न्यसेत्ततः ।
अघोरं हृदये न्यस्य मुखे तत्पुरुषे न्यसेत् ॥ ४७ ॥
ईशानं मूर्ध्नि विन्यस्य पादयोर्हृदये न्यसेत् ।
मेढ्रं तु शिरोमन्त्रं तु कुक्षौ शिखां तु विन्यसेत् ॥ ४८ ॥
कवचं हृदये न्यस्य नेत्रं बाहुद्वयोर्न्यसेत् ।
मुखे चास्त्रमिति प्रोक्तं शिवमन्त्रं तु सर्वशः ॥ ४९ ॥
इन्द्रन्तु पादयोर्न्यस्य मेढ्रं तु पावके न्यसेत् ।
यमं कुक्षौ तु विन्यस्य निरृतिं हृदये न्यसेत् ॥ ५० ॥
पृ० १३५) बाह्वोर्वरुणदैवत्यं कण्ठे वायुरिति स्मृतम् ।
मुखे तु सोमदैवत्यमीशानं शिरसि न्यसेत् ॥ ५१ ॥
एवमेव क्रमं ज्ञात्वा विन्यसेद्देशिकस्सदा ।
आचार्यस्त्वादि शैवस्स्याद्ग्रहस्थो वा द्विजोत्तमः ॥ ५२ ॥
सृष्टिस्थितिकं संहारं न्यासं कुर्याद्विचक्षणः ।
एवं न्यस्त्वा विधानेन देशिकाश्चापि भावयेत् ॥ ५३ ॥
गन्धैः पुष्पैश्च धूपाद्यैस्स्वदेहं पूजयेद्धृदा ।
द्वारपालान्समभ्यर्च्य गन्धपुष्पादिना सह ॥ ५४ ॥
पूर्वे च द्वारपालौ तु नन्दिकालस्तथैव च ।
दक्षिणद्वारपालौ तु दण्डी मुण्डीस्तथैव च ॥ ५५ ॥
पृ० १३६) पश्चिमद्वारपालौ तु किरीटी विजयस्तथा ।
उत्तरद्वारपालौ तु अनन्तपशुपतिस्तथा ॥ ५६ ॥
नन्दिं तु दक्षिणे स्थाप्य श्यामवर्णसमन्वितम् ।
दण्डहस्तसमायुक्तं हुङ्कारं मन्त्रमुच्यते ॥ ५७ ॥
कालं कुङ्कुमवर्णाभम् उत्तरे तु प्रतिष्ठितम् ।
वटवृक्षायुधैर्युक्तं मन्त्र हिङ्कारमेव च ॥ ५८ ॥
दण्डिं पूर्वे तु विन्यस्य इन्द्रकोपस्य सन्निभः ।
खड्गायत समायुक्तो ह्रौङ्कारं मन्त्रमुच्यते ॥ ५९ ॥
दण्डी तु पश्चिमे न्यस्य शुद्धस्फटिकसन्निभः ।
भिण्डिपालसमायुक्तं ह्रूङ्कारं मन्त्रमुच्यते ॥ ६० ॥
पृ० १३७) भृङ्गीरिटिं दक्षिणे तु दुर्द्धूवग्रीव सन्निभः ।
शक्त्यायु समं युक्तं मन्त्रं ह्रुङ्कारमुच्यते ॥ ६१ ॥
विजयं चैवोत्तरे स्थाप्य रक्तवर्णसमायुतम् ।
शूलायुधसमायुक्तं ह्रङ्कारं मन्त्रमुच्यते ॥ ६२ ॥
अनन्तं पश्चिमे स्थाप्य कनकाभं तथैव च ।
वज्रायुधसमायुक्तं ह्रीङ्कारं मन्त्रमुच्यते ॥ ६३ ॥
पशुपतिः पूर्वतस्स्थाप्य नीलरूपसमन्वितम् ।
पाशायुधसमायुक्तं ह्रीङ्कारं मन्त्रमुच्यते ॥ ६४ ॥
एवमेव क्रमात्स्थाप्य एतैर्मन्त्रैश्च पूजयेत् ।
सर्वांश्च चतुर्भुजांश्चैव त्रिणेत्रेणैव संयुतान् ॥ ६५ ॥
पृ० १३८) सर्वानृज्वागता स्थित्वा क्रूरदृष्टीन् भयावहान् ।
मकुटैः कुण्डलैर्युक्तान् प्रोक्षयेदम्भसा ततः ॥ ६६ ॥
उक्तक्रमं ततः कृत्वा अभ्युक्ष्य कवचेन तु ।
तिस्रः पूर्वमुखा रेखा उदग्रेखां तथैव च ॥ ६७ ॥
ब्रह्मा विष्णुश्च रुद्रश्च दक्षिणोद्यधिदेवताः ।
अर्चयेद्गन्धपुष्पैश्च हृदयेन तु मन्त्रतः ॥ ६८ ॥
अरण्युद्भवते वाथ सुर्यकान्तो भवं तु वा ।
श्रोत्रियस्याग्निहोत्रेण यजन जातवेदसम् ॥ ६९ ॥
अरीं चैव च विप्रेन्द्र षोडशाङ्गुलदैर्घ्यकम् ।
विस्तारं तु षडङ्गुल्यं विष्कम्भं तु त्रियङ्गुलम् ॥ ७० ॥
पृ० १३९) शमीपिप्पलपत्रं च कारयेदरणी ततः ।
मयित्वा पञ्चब्रह्मेण पात्रं विन्यस्य देशिकः ॥ ७१ ॥
तदग्निं सर्वकार्येषु उपनयनादि कार्यके ।
हृदा चाग्निं प्रतिष्ठाप्य अग्न्याधानं तु कारयेत् ॥ ७२ ॥
अग्न्याधानमुपस्थानं परिस्तरणमेव च ।
पात्राणां साधनं चैव प्रोक्षणीं प्रोक्षणीं तथा ॥ ७३ ॥
कूर्चाधानं प्रणीता च घृतसंस्कारमेव च ।
इध्मं प्रवेशनं चापि तत्तन्मन्त्रेण देशिकः ॥ ७४ ॥
प्रासादेन तु मन्त्रेण उपस्थानं तु कारयेत् ।
अग्नौ काष्ठं विनिक्षिप्य शिखामन्त्रेण देशिकः ॥ ७५ ॥
पृ० १४०) परिस्तरणं पुनः कुर्यात् प्रगग्रं चोत्तराग्रकः ।
कुशैर्नैव परिस्तीर्य पूर्वे तु चोत्तराग्रकम् ॥ ७६ ॥
तदूर्ध्वदर्भा नास्तीर्य पश्चिमे चोत्तराग्रकम् ।
उत्तरे पूर्वमूर्ध्नी विन्यसेद्देशिकस्सदा ॥ ७७ ॥
परिधीन्विन्यसेत्तत्र दक्षिणे पश्चिमोत्तरे ।
ऊर्ध्व समिध द्वयं चैव आग्नेय्यामीशदेशके ॥ ७८ ॥
मध्यमं चैव संस्थाप्य वागीशं तु विशेषतः ।
ऋतुस्नानं च सङ्कल्प्य योनिमार्गेण जायते ॥ ७९ ॥
हृदयेनाहुतीस्सप्त गर्भाधानं भवन्ति चेत् ।
? तत्पुरुषेण पुंसवनं भवन्ति वै ॥ ८० ॥
पृ० १४१) शिरोमन्त्रेण विप्रेन्द्र समन्तात्सप्तभिर्यते ।
वामदेवेन मन्त्रेण जातकर्मं च हूयते ॥ ८१ ॥
एकहृदयं त्रिपादं च द्विवक्त्रं च द्विनासिकम् ।
चतुश्शृङ्गसमायुक्तं षण्णेत्रेण समन्वितम् ॥ ८२ ॥
सप्तजिह्वा सप्तहस्ता उपवीतसमन्वितम् ।
जटामौञ्जीसमायुक्तं कृष्णाजिन समन्वितम् ॥ ८३ ॥
हिरण्या कनका रक्ता कृष्णा चैव तु सुप्रभा ।
अतिरक्ता बहुरूपा सप्तजिह्वा प्रकीर्तिता ॥ ८४ ॥
हिरण्ये वरुणे जिह्वा कनका मध्यमे स्थिता ।
उत्तरोत्तरमाख्यातं याम्या कृष्णे इति स्मृताः ॥ ८५ ॥
पृ० १४२) सुप्रभा पूर्वदेशे तु अतिरक्ताग्नौ व्यवस्थिता ।
ईशाने बहुरूपा च सप्तजिह्वाः प्रकीर्तिताः ॥ ८६ ॥
कनकाख्यायां जिह्वायां सर्पहोमं तु कारयेत् ।
जातकर्ममिदं प्रोक्तं नामकरणं हृदयेन तु ॥ ८७ ॥
निष्क्रामणं तु शिरसा प्रासादं हृदयेन तु ।
चौलं शिखाय कर्तव्यम् उपनयनं हृदयेन तु ॥ ८८ ॥
व्रतानां चैव सर्वेषां शिरसा चैव हूयते ।
हृदयेन तु मन्त्रेण समावर्तविवाहकः ॥ ८९ ॥
पृथक् पृथक् क्रियाणां च सप्त वै वाहुतिर्भवेत् ।
दक्षिणे ब्रह्मस्थानं च दर्भासनोपरि न्यसेत् ॥ ९० ॥
पृ० १४३) प्रणीतामुत्तरे स्थाप्य सपवित्रसमायुतम् ।
विष्णुस्तत्राधिदैवत्यं गन्धपुष्पादिनार्चयेत् ॥ ९१ ॥
प्रोक्षणीपात्रमादाय उदकं सेचयेद्धृदा ।
कुशेनैव तु विप्रेन्द्र उदको प्लावनं कुरु ॥ ९२ ॥
प्रणीतापात्रमादाय उदकं सेचयेद्धृदा ।
उत्प्लीवनं ततः कुर्यात् प्रणवेनैव निक्षिपेत ॥ ९३ ॥
आज्यपात्रं समादाय आज्यं चैव तु पूरयेत् ।
अग्नेरुत्तरभागे तु अङ्गारोपरिन्यसेत् ॥ ९४ ॥
स्वदेशे विन्यसेत्तत्र दर्भेणोत्पवनं कुरु ।
आज्याधिश्रवणं कार्यं दर्भानग्नौ विनिक्षिपेत् ॥ ९५ ॥
पृ० १४४) दर्भानग्नौ च प्रज्वाल्य प्रोक्षयेदम्भसा ततः ।
स्रुवं चैव तु विप्रेन्द्र क्षालयेद्धृदयेन तु ॥ ९६ ॥
कुशेनैव समायुक्तम् अग्रमग्रेण विन्यसेत् ।
मध्यं मध्येन संस्पृश्य मूलं मूलेन संस्पृशेत् ॥ ९७ ॥
प्रोक्षयेदम्भसा चैव परिषेचनं तु कारयेत् ।
अदितेऽनुमन्यस्वेति दक्षिणे परिषिञ्चति ॥ ९८ ॥
अनुमतेऽनुमन्यस्वेति पश्चिमे परिषिञ्चति ।
सरस्वतेऽनुमन्यस्वेति उत्तरे परिषिञ्चति ॥ ९९ ॥
देव सवितः प्रसवे समन्तात् परिषिञ्चति ।
पलाश समिधा चैव इध्माष्षोडशमेव च ॥ १०० ॥
पृ० १४५) कृष्णमिध्मं तु दातव्यं घोरं चैव तु हूयते ।
प्रजापते स्वाहेति दक्षिणार्धपूर्वार्धके ॥ १०१ ॥
अग्निमुखं च होतव्यं पञ्चब्रह्मेण मन्त्रवित् ।
एवमेव क्रमेणैव होतव्यं दीर्घजीविना ॥ १०२ ॥
नित्यहोमं च दातव्यं लक्षणेन समन्वितम् ।
अग्निमर्चयते चैव आज्ये चान्नेन संयुतम् ॥ १०३ ॥
? प्रासादेन तु विस्यान्ति होमयेत् न शताहुतिः ।
? गेरिवजो तद्वर्च पञ्चब्रह्म शिवाङ्गके ॥ १०४ ॥
विद्येश्वरांश्च मन्त्रांश्च लोकपालान् सहस्रकैः ।
होमयेच्चैव विप्रेन्द्र नित्यहोममिहोच्यते ॥ १०५ ॥
पृ० १४६) पुनः परिषेचनं कृत्वा नित्योत्सवमथाचरेत् ।
वर्णानि गन्धशब्दानि लक्षयेच्चैव देशिकः ॥ १०६ ॥
आदित्योदयपूर्णाभं पद्मरागसमप्रभम् ।
रक्तपङ्कजसङ्काशं किंशुकस्य समप्रभम् ॥ १०७ ॥
एते द्वादश वर्णानि जातवेदास्तु सिद्धिदः ।
उशीरं कुष्ठगन्धं च कर्पूरागरुमेव च ॥ १०८ ॥
चन्दनं चाति तक्कोलं कटुकस्तुटिरेव च ।
पत्रं कुसुमबन्धं च शुभान्येतानि निर्दिशेत् ॥ १०९ ॥
शिखायां लक्षयेत्तत्र पूर्व चैवार्थसिद्धिदः ।
वारुणे शान्तिकं प्रोक्तं सौम्यायां मृत्युनाशनम् ॥ ११० ॥
पृ० १४७) ऊर्ध्वे तु सर्वकामार्थं लभते नात्र संशयः ।
आग्नेयमग्निदण्डं च मृत्युं चैव तु याम्यके ॥ १११ ॥
नैरृत्यां युद्धमरणं वायव्यां कलहं भवेत् ।
ईशान्यामाज्ञलाभोय शिखानिष्क्रान्तलक्षणम् ॥ ११२ ॥
काक ध्वनि ते शब्दं मासान्मरणमाप्नुयात् ।
उलूक ध्वनि ते वह्नि आगम्यागमनं भवेत् ॥ ११३ ॥
पिङ्गल ध्वनि ते वह्नि नृपस्य मरणं भवेत् ।
वट ध्वनि युते वह्निः स्वपुत्रमरणं भवेत् ॥ ११४ ॥
वृषभ ध्वनि ते वह्नि आगम्यागमनं भवेत् ।
अशनि ध्वनि ते वह्नि षण्मासान्मरणं भवेत् ॥ ११५ ॥
पृ० १४८) खरवद्ध्वनने वह्नि अपमृत्युवशं गतः ।
कटिभिर्ध्वनि ते वह्निर्मार्याया मरणं भवेत् ॥ ११६ ॥
घोरवत् भवते शब्दं स्वद्रव्यं तस्करप्रभम् ।
समुद्रघोषवत् शब्दं मासान्मरणमाप्नुयात् ॥ ११७ ॥
? गोगवध्वनि ते वह्नि (कारागृहमवाप्नुयात्) सर्वेषां मरणं भवेत् ।
झल्लरीव भवेत् शब्द चण्डालगमनं भवेत् ॥ ११८ ॥
भाण्डवद्ध्वनिते शब्दः विषूच्या मरणं भवेत् ।
अग्निगन्धो भवेदग्नि क्षयरोगमवाप्नुयात् ॥ ११९ ॥
हिङ्गुगन्धं भवेदग्निं प्रमेहं चैव जायते ।
अतिगन्धं भवेदग्निर्महाज्वरमवाप्नुयात् ॥ १२० ॥
पृ० १४९) मेध्यगन्धं भवेदग्निर्भङ्गं मरणं भवेत् ।
मूत्रगन्धं भवेदग्निः कुक्षिं रोगमवाप्नुयात् ॥ १२१ ॥
तस्मात्सर्वप्रयत्नेन लक्षलेद्देशिकस्सदा ।
शुभाशुभं मया प्रोक्तमग्निदेवस्य पद्मजम् ॥ १२२ ॥
ग्रहणाद्युक्तकालेषु प्रतिष्ठादिमुहूर्तके ।
परिषेचन कुर्यात्तु तद्दोष शमनाय च ॥ १२३ ॥
होमं कुर्यात्तु विप्रेन्द्र लक्षणेन समन्वितम् ।
समिदाज्यचरुन् लाजान् सर्षपांश्च यवांस्तिलान् ॥ १२४ ॥
प्रासादेन तु मन्त्रेण पञ्चाशत्समिधं हुनेत् ।
हृदयेनाज्यहोमं तु चलं च शिखया हुनेत् ॥ १२५ ॥
पृ० १५०) जालमानेन मन्त्रेण सर्षपं सद्यमन्त्रतः ।
अघोरेण यवाहुत्वा कवचेन तिलानपि ॥ १२६ ॥
सप्तद्रव्येण होतव्यं पञ्चाशताहुतिं तथा ।
सर्वद्रव्यसमायुक्तं हव्यवाहं समुच्चरन् ॥ १२७ ॥
स्विष्टमग्नेतिमन्त्रेण जुहुयात्तदनन्तरे ।
हुत्वान्ते तु यदस्येति स्विष्टकृच्चैव हूयते ॥ १२८ ॥
पूर्वेश दक्षिणे चैव पश्चिमे चोत्तरे तथा ।
ईशान्यां चैव होतव्यं कुण्डे वा स्थण्डिलेऽपि वा ॥ १२९ ॥
एवं कृते महाशान्ति राजराष्ट्रसुखावहम् ।
इन्द्रधनुश्च दृष्टश्चेत्तद्दोष शमनाय च ॥ १३० ॥
एवमेव क्रमेणैव अन्यैर्दोषैश्च सम्भवेत् ।
आचार्यपूजनं कृत्वा वस्त्राङ्गुलीयकादिभिः ॥ १३१ ॥
अग्निकार्यं मया प्रोक्तं नित्योत्सव ततश्शृणु ॥ १३१।५ ॥
इति वीरतन्त्रे अग्निकार्यपटलः ?
(मन्त्रन्यासविधिः, अग्निकार्यविधिश्च)